स वेदैतत् परमं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम्

षष्ठः खण्डः

आत्मज्ञार्चकस्य भूतिः कीदृशीत्यतो वायुज्ञानद्वारा परमपुमर्थहेतु- ब्रह्मज्ञानाप्तिरूपेत्याह- स वेदैतदिति ॥

स वेदैतत् परमं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम् ।

उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥

योजना तु, यत्र यस्मिन् मुख्यवायौ विश्वं पूर्णं शुभ्रं शुद्धं ब्रह्म निहितं स्थितं सत् भाति, वाय्वाविष्टजीवस्य वायुद्वारा ज्ञानदीपनं करोति एतत् परमं मुख्यं ब्रह्मधाम परब्रह्माधिष्ठानगृहं मुख्यवायुं स आत्मज्ञार्चकः वेद जानातीति । यस्त्वात्मज्ञमर्चयति स मुख्यवायुज्ञो भवति । तज्ज्ञाने च सति तत्रस्थो हरिस्तद्द्वारा तस्याऽऽत्मज्ञार्चकस्य विशेषतो भगवज्ज्ञानवृद्धिं करोतीति भावः । कथमेतज्ज्ञानस्य भूतित्वम् ? सुखप्राप्तिदुःखनिरास- योरन्यतरत्वाभावादित्यतो ब्रह्मप्राप्तिहेतुत्वादित्याह उपासत इति ॥ येऽकामाः कामादिदोषहीना: पुरुषं पूर्णषड्गुणं ब्रह्मोपासते, श्रवणमनन- ध्यानैर्जानन्ति ते शुक्रं शोकरहितमेतद्ब्रह्म, गन्तुमिति शेषः । अतिवर्तन्ति संसारक्लेशमतिक्रम्य वर्तन्ते, मुक्ता भवन्तीत्यर्थः । हिशब्दः प्रसिद्धिद्योतकः

।। १ ।।

अकामा इति किमर्थमित्यतस्सकामतयोपासने क्षयिष्णुलोकप्राप्तिरेव न नित्यलोकावाप्तिरित्याह- कामानिति ॥

कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।

पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥

यः कामान् विषयान् भद्रान् मन्यमानः कामयते इच्छति, विषय- कामनया भगवन्तमुपास्त इति यावत् । स पुमान् कामभिः विषयैस्सह `तत्र तत्र लोके भाग्यपुरुषसन्ततौ वा जायते । अकामता तर्हि कथं भवतीत्यत आह- पर्याप्तेति । यथेष्टं विषयान् भुक्तवतोऽत एव कृतात्मनस्तृप्त - मनस्कस्यैहैव जन्मनि सर्वे कामा: कामना: नानावस्तुविषयिण्य इच्छा: प्रविलीयन्ति निवृत्ता भवन्तीति ॥ २ ॥

'न चक्षुषा गृह्यते' इत्यत्र देवतान्तरशक्त्या हरिं न पश्यन्ति, किन्तु ज्ञानप्रसादादित्युक्तं तद्विशदयति नायमिति ।

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥३॥

मेधा प्रज्ञाविशेषः । अयमात्मा भक्तिहीनप्रवचनादिना न लभ्यः न साक्षात्कर्तुं शक्यः, अपि तु यं भक्तमेष आत्मा वृणुते स्वीकरोति, यस्मै प्रसीदतीति यावत्, तेनैव प्रसादविषयेणैव लभ्यः । तद्व्यनक्ति - तस्य स्वप्रसादविषयस्यैष प्रसन्नः आत्मा स्वां तनूं विवृणुते प्रकाशयतीति । तस्यैवापरोक्षविषयो भवतीत्यर्थः ।। ३ ।।

तर्हि प्रवचनादेर्वैयर्थ्यमित्यत आह- नायमिति ॥

नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाऽप्यलिङ्गात् ।

एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम॥४॥

बलहीनेन श्रवणमननभक्त्यादिबलहीनेन । प्रमादाद्भगवद्विस्मरणादि- रूपात् । दृष्टान्तार्थमेतदुक्ति: । अलिङ्गात् लिङ्गोपलक्षितप्रमाणानुक्तात् तपसोऽपीत्यर्थः । तर्हि केन लभ्य इत्यत आह - एतैरिति । भक्त्याद्युपेत- श्रवणादिरूपैरुपायैः विद्वान् ज्ञानी यस्तु यतते साक्षात्काराय' तस्यैष आत्मा ब्रह्मधाम प्रागुक्तदिशा मुख्यवायुं विशते प्रविशति । यस्त्वेतैरुपायैः विद्वान् भूत्वा पुनर्ब्रह्मज्ञानाय यत्नवानास्ते तस्मिन् पुरुषे स्थितमुख्यवायौ विद्यमान एव भगवान् वायुद्वारा तस्य ज्ञानदीपनं करोतीति ज्ञान - दीपनस्याऽगन्तुकत्वेन हेतुना तदपेक्षया तस्य ब्रह्मधाम वायुं विशत इत्यु- च्यते । यथा पिशाचाविष्टपुरुषे तस्मिन् सदा स्थितोऽपि मन्त्रादिभिराविष्टः पिशाच इति व्यवहारस्तथेति भावः || ||

आत्मज्ञानमहिमानमाह- सम्प्राप्यैनमिति ॥

सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।

ते सर्वगं सवर्तः प्राप्य धीरा मुक्तात्मानः सर्वमेवापियन्ति ॥ ५ ॥

ज्ञानतृप्ता ज्ञानेन तृप्ताः ऋषयः एनं भगवन्तं सम्प्रप्य कृतात्मानः कृतकृत्या, वीतरागाः प्रशान्ता: विषयोपरता भवन्ति । न केवलमेतावदेव, किन्तु ते धीरास्सर्वतो देहादिबन्धान्मुक्तात्मानस्सन्तस्सर्वगं भगवन्तं प्राप्य सर्वमेव गुणपूर्णं भगवन्तमेवापियन्ति इतरैरज्ञेयतया प्रविशन्ति । प्रविश्य चेच्छयाऽन्तर्बहिस्सञ्चरन्तो भोगान् भुञ्जाना आसत इत्यर्थः ।। ५ ।। ज्ञानानन्तरमेव मुक्ता भवन्ति किमित्यतो नेत्याह- वेदान्तेति ।

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः ।

ते ब्रह्मलोकेषु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ॥ ६ ॥

वेदानामन्तो निर्णय यस्मात्तस्मान्मीमांसाशास्त्राज्जनितेन विज्ञानेन सुनिश्चितार्था सम्यङ्गिर्णीतार्था भगवति सर्वकर्मणां समर्पणाख्यसंन्यास- रूपयोगादुपायाच्छुद्धसत्त्वाः, यतयः प्रयत्नशीलाः ये ते सर्वे ब्रह्मलोकेषु सत्यलोकेषु, स्थित्वेति शेषः । स्थानबाहुल्याद्बहुवचनं, परान्तकाले, परेति ब्रह्मणः शतायुषो नाम, तस्यान्तकाले परामृतात् प्रकृतिबन्धात् परिमुच्यन्ति परिमुच्यन्ते मुक्ता भवन्तीति । तदुक्तं सूत्रे - 'कार्यं बादरिरस्य गत्युपपत्तेः' (ब्र.सू.४-३-५ ) इति । एतच्च प्रतीकेषु ब्रह्मध्यातृपरम् । अप्रतीकालम्बना ये व्याप्तदर्शिनस्ते तु वैकुण्ठादिलोकेऽमुक्तस्थाने स्थितं भगवन्तमेव प्राप्य तत्र स्थित्वा, परान्तकालसमये पुनः सत्यलोकं प्राप्य तेन सह मुच्यन्ते । तदाह सूत्रे - 'परं जैमिनिर्मुख्यत्वात्' (ब्र.सू. ४-३- १२) इति ।। ६ ।।

मुक्तिप्रकारमाह- गता इति ॥

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।

कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥

प्रतिष्ठा: संसारिणां प्रतिष्ठा नियामकाः कलाः कलाभिमानिनः पञ्चदशदेवाः गता मुक्ताः । यस्य जीवस्य संसारे नियामकतया स्थितास्ताः कलादेवतास्तज्जीवमुक्त्यवसरे मुक्ताः सत्यो मुक्तस्यापि तस्य नियामिका इति तात्पर्यार्थः । पञ्चदशकलास्तु, 'स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च' (षट्प्रश्न. ६ . ६ ) इति षट्पश्नोक्तदिशा ध्येयाः । तदभिमानिदेवताश्चकर्मेति पुष्करः प्रोक्त: ' ( ष. भा. ६ . ६ ) इत्यादि - षट्पचभाष्योक्तदिशा प्राणवाणीविनायकप्राणसुतमरुत्पावकबुधशनीन्द्र- रुद्रचन्द्रवरुणवह्निस्वाहापर्जन्योषाः क्रमाज्ज्ञेयाः । उक्तं हि - 'यत्र मूर्तिधराः कलाः' इत्येकादशस्कन्धतात्पर्ये सप्तदशाध्याये 'कलाः प्राणाद्याः, स प्राणमसृजत प्राणाच्छ्रद्धां' इत्यादि । यद्यपि कर्माभिमानिना पुष्करेण सह षोडशकला:, तथाऽपि तस्य कर्माणीति पृथगुक्तेः पञ्चदशत्वम् । पृथगुक्ति- कृत्यं भाष्ये व्यक्तम् । सर्वे देवाश्च कलादेवेभ्योऽन्ये सर्वे देवाश्च प्रतिदेवतासु देवताप्रतिबिम्बभूतासु प्रजासु स्थितास्तिष्ठन्ति । कर्माणि कर्माभिमानी पुष्करः, विज्ञानमयो विज्ञानरूप आत्मा जीवश्च अव्यये नाशरहिते परे परमात्मनि, सर्वे षोडशकलादेवताः जीवाश्चेत्येते सर्वे मुक्ताः सन्त एकीभवन्ति परमात्मानं प्रविश्य तेन सह एकस्थानस्थिता भवन्तीति वा, तद्बुद्धिविषयीकृतार्थविषयक बुद्धिमन्तो न तु तद्विरुद्धार्थविषयकमति युक्ता इति वार्थः ॥ ७ ॥

एकीभावप्रकारमेव दृष्टान्तेनाऽह - यथा नद्य इति ॥

यथा नद्यः स्यन्दमानाः समुद्रायणाः

समुद्रं प्राप्यास्तं गच्छन्ति नामरूपेऽविहाय ।

तथा विद्वान्नामरूपाद् विमुक्तः

परात् परं पुरुषमुपैति दिव्यम् ॥ ८ ॥

स्यन्दमानाः प्रस्रवमाणाः, समुद्र अयनं यासां ताः समुद्रायणाः नद्यः समुद्रं प्राप्य नामरूपे स्वकीयं गङ्गागोदावर्यादि नाम गङ्गादिरूपं चाविहाय अत्यक्त्वा, 'मणीवेत्यादाविवाप्रगृह्यत्वम्, यद्वा, साधारणचेतनैरज्ञेयनाम- रूपत्वान्नामरूपे विहायेति वा, अस्तमदर्शनं गच्छन्ति यथा तथा विद्वान् ब्रह्मज्ञानी नामरूपाद्विमुक्तोऽमुक्त: नामरूपयुक्त एव, विप्रियमित्यत्रेव विशब्दोऽत्र निषेधार्थः । यद्वा, संसारिभिरज्ञेयनामरूपत्वाद्विमुक्तो विमुक्त इव स्थितः परात्परं सर्वोत्तमं दिव्यमद्भुतं पुरुषं भगवन्तमुपैति प्राप्नोति ॥ ८ ॥

एतदुपनिषदर्थज्ञानिनः फलमाह - स य इति ॥

सयो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति ।

नास्याब्रह्मवित् कुले भवति ॥ ९ ॥

योऽधिकारी एतत् परमं ब्रह्म वेद स ब्रह्मैव ज्ञानानन्दादिस्वोचित- गुणैर्बृहित एव भवति, न परब्रह्मतामाप्नोति । अस्य कुले वंशेऽब्रह्मवित् ब्रह्मानभिज्ञो न भवति ॥ ९ ॥

तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ १० ॥

तरति शोकं तरति पाप्मानम् । गुहाग्रन्थिभ्यः हृदयस्थाविद्याकाम- कर्मादिबन्धाद्विमुक्तोऽमृतो भवति ॥ १० ॥

अस्या उपनिषदः कोऽधिकारीत्यतस्तं श्लोकोदाहरणेनाऽह - तदेष श्लोक इति ॥

तदेष श्लोकः ।

क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः

स्वयं जुह्वत एकर्षीञ्छ्रद्धयन्तः ।

तेषामेवैतां ब्रह्मविद्यां वदेत

शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ ११ ॥

तत्रैतद्विद्याधिकारविषये वक्ष्यमाणश्लोको भवतीत्यर्थः । श्रोत्रियाः छन्दोऽध्येतारः । ब्रह्मनिष्ठा: ब्रह्मणि भक्तिमन्तः । स्वयं जुह्वतः अग्निहोत्रादिकमनुतिष्ठन्तः । एकऋषीन् प्रधानऋषीन् श्रद्धयन्तः श्रद्धापूर्वकमर्चयन्तः । यैस्तु शिरोव्रतं विधिवचीर्णं, शिरोव्रतं नाम व्रतविशेषः, तेषामेवैतां ब्रह्मविद्यां ब्रह्मज्ञप्तिहेतुभूतामुपनिषदं वदेत आविष्कारेण वदेत स्पष्टम् उपदिशेदित्यर्थः । भाषनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वद इति भासनार्थे आत्मनेपदम् ॥ ११ ॥

स्वोक्तं प्रमेयमृषिणाप्युक्तमित्याह - तदेतदिति ॥

तदेतत् सत्यमृषिरङ्गिराः पुरोवाच । नैतदचीर्णव्रतोऽधीते ॥

नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ १२ ॥

॥ इति श्रीमदाथर्वणोपनिषत् समाप्ता ॥ १२ ॥

अङ्गिरा ऋषिः एतन्मयोपदिष्टं प्रमेयमचीर्णव्रतः पुमान् नाधीते नाव - धारयेत् इति पुरोवाच । तदेतदृषिणोक्तं सत्यं यथार्थमित्यर्थः । वेदपुरुषः उपनिषदं प्रागुक्तानेकऋषिप्रणामेन समापयति- नम इति ॥ आदराद् द्विरुक्तिः || १२ |

समस्तगुणपूर्णाय दोषदूराय विष्णवे ।

नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ।।

आथर्वणोपनिषदो भाष्यायुक्तार्थसङ्ग्रहः ।

राघवेन्द्रेण यतिना कृतो माधवतुष्टये ॥

॥ इति श्रीराघवेन्द्रतीर्थपूज्यपादविरचितः आथर्वणोपनिषत्खण्डार्थ: सम्पूर्ण: ॥

श्रीराघवेन्द्रतीर्थपूज्यपादविरचितः मुण्डकोपनिषत्खण्डार्थ: