परीक्ष्य लोकान् कर्मचितान्

उपनिषत्

(विरक्तः गुरुमेव समाश्रयेत्)

परीक्ष्य लोकान् कर्मचितान्

ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्

समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

भैक्षचर्यां चरन्तः' इत्यपरोक्षज्ञानसाधनतयोक्तं वैराग्यं नित्यानित्यवस्तुविवेकसाध्यमिति वदन् वैराग्यानन्तरभाविसाधनमाह- परीक्ष्येत्यादिना ।। ब्राह्मणो ब्रह्मप्राप्तियोग्योऽधिकारी लोकान् विष्णुलोकेतरान् कर्मचितान् कर्मापादितान् असारानित्यतया परीक्ष्य निर्वेदं वैराग्यमायात् प्राप्नुयात् । स च मोक्षादितरत्र निर्विण्णो यस्मादकृतो नित्यपुमर्थो मोक्षः कृतेन कर्मणा न सिद्ध्यति तस्मात्तद्विज्ञानार्थं मोक्ष- साधनीभूतात्मयोग्यभगबत्साक्षात्कारार्थं श्रवणादिकं कर्तुं समित्पाणिः सन् श्रोत्रियं वेदाध्ययनसम्पन्नं ब्रह्मनिष्ठं तत्प्रतिपाद्यपरब्रह्मज्ञाने निष्ठावन्तं गुरुमेवाभिगच्छेत् ॥ १२ ॥

Load More