एतेषु यश्वरते भ्राजमानेषु यथाकालं चाऽहुतयो ह्याददायन्

उपनिषत्

(सम्यग्यज्ञादिकुर्वतां फलम् )

एतेषु यश्वरते भ्राजमानेषु

यथाकालं चाऽहुतयो ह्याददायन् ।

तं नयन्त्येताः सूर्यस्य रश्मयो

यत्र देवानां पतिरेकोऽधिवासः ॥५॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

यो यजमानः भ्राजमानेषु 'भ्राजू दीप्तौ' लिङ्गव्यत्ययेन दीप्यमानासु एतेषु एतासु सप्तजिह्वासु चरते । चरणमेव विवृणोति । यथाकालं तत्तत्कालानुसारेण आहुतयः आहुतीः देवतोद्देशेन आददायन् आददन् वर्तते । ता एता गृहीताहुतयः सूर्यस्य रश्मयः सूर्यरश्मिषु स्थिता देवाः यत्र लोके देवानां पतिरेकः प्रधानः अधिवासोऽधिकाश्रयो मुख्याश्रय इति यावत् । वर्तते तत्र लोके तं लोकमिति यावत् । नयन्ति ॥ ५ ॥

Load More