open/close
पञ्चमः खण्डः
षष्ठः खण्डः
टीका_टिप्पणि
अपर_ परविद्यास्वरूपम्
कृते समग्रमपि वैदिकवाङ्मयं विष्णुपरम्
ता एव परमा विद्या:
ब्रह्मस्वरूपम्
ब्रह्म जगतः नोपादानं न वा विवर्तकारणम्
ज्ञानपूर्विका विश्वसृष्टिः
द्वितीयः खण्डः
यज्ञानुष्ठानप्रकारनिरूपणम्
विहितयज्ञकर्माद्यननुष्ठाने प्रत्यवायः
होमाधिकरणनिरूपणम्
सम्यग्यज्ञादिकुर्वतां फलम्
भगवदविषयककर्मणां बन्धकत्वनिरूपणम्
विष्णुप्रीतयेऽनुष्ठितानि कर्माणि ज्ञानद्वारा मुक्तिफलकानि
विरक्तः गुरुमेव समाश्रयेत्
तृतीयः खण्डः
विष्णुकृतायाः सृष्टेः निरूपणम्
चतुर्थः खण्डः
विष्णुरेव विजिज्ञास्यः
प्रणवेन ब्रह्मविद्धि
विष्णुरेव मुक्तिप्रदः
विष्णुर्गुणपूर्ण इति ध्यायते
हृदयाकाशे विष्णुर्विराजते
अपरोक्षज्ञानमहिमा
सूर्यमण्डले विष्णुरुपास्यः
पञ्चमः खण्डः
अश्नन्नपि जीवः दुःखी ईशस्त्वनश्नन् नित्यसुखी
निर्दुःखत्वपूर्णानन्दत्वादिना साम्यम्
जीवन्मुक्तस्थितिः
हरिभक्तस्यैव तत्प्राप्तिः
प्राणप्रसादान्मुक्तिः
आत्मवेदिन: महिमा
षष्ठः खण्डः
यं भक्तत्वेन भगवान् वृणुते तस्यैव स लभ्यः
श्रवणाद्युपाया अनुष्ठेयाः
अपरोक्षानन्तरमेव न मुक्ति:
एकीभावो न स्वरूपैक्यम्
मुक्तौ नामरूपादिनाऽविमुक्त एव ब्रह्मणा सह तिष्ठति
ब्रह्मविदः फलम्
उपनिषदध्ययने अधिकारिणः के?
भाष्येऽन्तिममङ्गलाचरणम्
श्रीराघवेन्द्रतीर्थपूज्यपादविरचितः मुण्डकोपनिषत्खण्डार्थ:
द्वितीयः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
पञ्चमः खण्डः
षष्ठः खण्डः
तुलनात्मक विश्लेषणम्
प्रश्न-उत्तर
open/close
यथोर्णनाभिः सृजते गृह्णते ..
उपनिषत्
(ब्रह्म जगतः नोपादानं न वा विवर्तकारणम्)
यथोर्णनाभिः सृजते गृह्णते च
यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात् केशलोमानि
तथाऽक्षरात् सम्भवतीह विश्वम् ॥७॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
श्री.- ‘यद्भूतयोनिम्’ इत्यक्षरस्य भूतस्रष्टृत्वमुक्तम्, तथा च संहर्तृत्वं तदन्यस्यैवेति प्राप्नोति । लोके पितुरन्यस्यैव मारकत्वदर्शनादित्याशङ्कच विष्णौ लोकपितृवैलक्षण्याद्युक्तं तस्य संहर्तृत्वमिति भावेन स्रष्टृत्वं संहर्तृत्वं च सदृष्टान्तमुपपादयति- यथेति ॥ स दृष्टान्तो, यथा ऊर्णनाभिः स्वभुक्त- मन्नादिकं तन्त्वाद्याकारेण सृजते पुनर्गृह्णते । संहरति चेति द्रष्टव्यम् । स्रष्टृत्वं पुनः सदृष्टान्तमुपपादयति- यथा पृथिव्यामिति ॥ कुलालवन्नाक्षरस्य क्लेशेन स्रष्टृत्वमिति सदृष्टान्तमाह - यथा सत इति ॥ पुरुषाद्देहात् केशलोमानि अनायासेन भवन्तीत्यर्थः । मृतदेहाल्लोमाद्यनुत्पत्तेः सत इत्युक्तम् | चेतनाधिष्ठितादित्यर्थः ॥ ७ ॥