दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः
उपनिषत्
(विष्णुकृतायाः सृष्टेः निरूपणम्)
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रोऽक्षरात् परतः परः ॥२॥
भाष्यम्
'अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
अक्षरं परमं श्रीस्तु परतः परमक्षरम् ।
वासुदेवः परानन्द इति त्रिविधमक्षरम् ॥' इति च ॥
श्रीवादिराजीयाप्रकाशिका
‘अपरं त्वक्षरं या सा’ इति वदता उपनिषदि अपरतोऽक्षराज्जडप्रकृतेः, परतोऽक्षराच्चितः प्रकृतेश्च पर: अक्षरः परमात्मेति योजना सूचिता । ननु 'अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ' इति श्रुतौ शब्दो नास्ति । अतो ‘विष्ण्वङ्गानां हि नामानि द्युभ्वादीनि तु सर्वशः' इति वाक्यस्य कथं प्रकृतोपयोग इति चेत्सत्यम् । 'मूर्धा दिवो नाभिरग्निः पृथिव्या:' इति, 'मूधैव सुतेजाश्चक्षुर्विश्वरूप:' इत्यादिश्रुतौ मूर्धा द्यौरिति सामानाधिकरण्यं प्रतीयते नाभिरग्निरितिवत् । दिवः द्युलोकाः सर्वे मूर्धा इतिह प्राचीनश्रुतेरर्थः । द्वितीयश्रुतेरपि सुष्ठु तेजो यस्य सः सुतेजाः धुलोको मूर्धेत्यर्थः ।
'अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः ।
द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवः कुक्षिर्मरुत्प्राणबलं प्रकल्पितम् ॥' ( भाग. १०.३८.१४)
इति भागवते स्पष्टं द्यौः कं शिर इति प्रतीयते । अतो बहुधा मूर्धत्वस्यैव श्रुतिस्मृत्यादौ प्रसिद्धत्वाद्बहूनामुपकारो न्याय्य इति भावेन तत्रत्यविरोध- परिहाराय स्मृतयः सर्वत्र द्युभ्वादीनीत्याहुः । तेनैव न्यायेनात्रापि समाधानं भविष्यतीतीमां स्मृतिमुद्धरतो भाष्यकारस्य भावः । ‘हृदयं विश्वमस्य’ इत्यस्य स मुनिर्भूत्वा समचिन्तयत् । तत एते व्यजायत । विश्वो हिरण्यगर्भः' इति भाष्योदाहृतश्रुतौ विश्वपदेन वायोः गृहीतत्वात् हृदयं
विश्वमस्येत्यत्रापि वायोर्ग्रहणे वायुः प्राण इत्यनेन पुनरुक्तिप्रसङ्गाद्विश्वमिति काचिद्देवतेत्यर्थः । ‘यश्च सूर्यः सोमात् पर्जन्यौषधयः' इत्यत्र चक्षुषी चन्द्रसूर्यावित्युभयोः सहोत्पत्त्युक्तेर्यश्च सूर्यस्तस्मात्सोमः सोमात्पर्जन्यौषधय इति व्याख्या न युक्ता । किन्तु यश्च सूर्यस्तस्मात्सूर्यात् सोमाच्च पर्जन्यौषधयः पृथिव्यां जाता इत्यर्थः । पूर्वं पुरुषनामकभगवदङ्गादेवोत्प- त्तिरुक्ता । अधुना पुरुषास्त्रियश्चेति मिथुनादुत्पत्तिमाह- पुमानिति ॥ पुमान् पुरुषनामकः परमात्मा योषितायां योषित्पदवाच्यलक्ष्म्यां रेतः सिञ्चतीत्यर्थः । ‘टापञ्चापि हलन्तानाम्' इति वचनात् दिशि दिशेतिवत् वाचि वाचेतिवच्च योषिति योषितेत्यपि शब्दोऽस्तीति ज्ञेयम् । यज्ञाश्च सर्व इत्यत्र यज्ञपदेन पशुबन्धरहितं पञ्चमहायज्ञादिकं गृह्यते । क्रतुपदेन च पशुबन्धसहिताग्निष्टोमादिकं गृह्यते । कृती प्रयत्न इति धातोः बहुयत्नसाध्ययज्ञस्य क्रतुपदवाच्यत्वाद्युक्तोऽयमर्थः । अतो न पौनरुक्त्य- मिति भावः || २ ||
पदार्थदीपिका
ननु यदुक्तमक्षरात् सम्भवतीह विश्वमित्यत्राक्षरं परब्रह्मैवेति । तदयुक्तम् । ‘अक्षरात् परतः परः' इति वाक्ये प्रकृताक्षरादपि परतः परस्यान्यस्याभिधानात् । अक्षरस्य परब्रह्मत्वे च तदसम्भवात् । नहि विष्णोरप्यन्यः परोऽस्तीत्याशङ्कय भवेदेतद्यद्यक्षरात् परतः पर इत्यत्र प्रकृतादृश्यत्वादिगुणकाक्षरमेवाधिकृत्य ततः कस्यचित्परत्वमुच्यते । नैतदस्ति । किन्तु प्रकृताक्षरस्यैवाक्षरात्परतः परत्वविशेषणमुच्यते । नचाक्षरस्याक्षरात् परतः परत्वं विरुद्धमिति वाच्यम् । प्रमाणे त्रिविधाक्षराभिधानादक्षरान्तरादस्याक्षरस्य परत्वोपपत्तेरित्यभि- प्रेत्याक्षरत्रैविध्यं प्रमाणेन दर्शयति- अपरं त्विति ॥ या जरूपिका प्रकृतिः सा अपरमक्षरमिति सम्बन्धः | श्रीस्तु परममक्षरमित्यन्वयः ।
परतः परमाक्षराच्छ्रीतत्त्वात् । यथोक्तं सूत्रकृता- 'विशेषणभेदव्यपदेशाभ्यां च नेतरौ' इति । उक्तं च भाष्ये-
'अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ||
तामक्षरं परं प्राहुः परतः परमक्षरम् ।
हरिमेवाखिलगुणमक्षरत्रयमीरितम् ।।'
इति स्कान्दे त्र्यक्षराभिधानादक्षरात्परतः पर इत्यपि विशेषणमेव, इति ॥२॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
अक्षरनामकस्य भगवतो गुणान् वदन्नेव जगत इव न तस्यापि जन्मादिकं मन्तव्यमित्याह - दिव्य इत्यादिना || दिव्यः अलौकिकः । अमूर्तोऽपरिच्छिन्नपरिमाणः प्राकृतमूर्तिशून्यो वा । पुरुष: पूर्णषड्गुणः । बाह्याभ्यन्तरः बहिरन्तश्च नियामकतया स्थितः । अजः उत्पत्तिरहितः । 'अप्राणो ह्यमना' इति षोडशकलाराहित्यमुच्यते । शुक्लः शुद्धः । अक्षराज्जडप्रकृतेः परतः परमाच्छ्रीतत्त्वात् पर उत्तमः । इदं च ‘अपरं त्वक्षरं या सा' इत्यादिप्रमाणप्रसिद्धमिति हिशब्दार्थः ॥ २ ॥