ओमित्येव ध्यायत आत्मानं स्वस्ति वः पराय तमसः परस्तात्

उपनिषत्

(विष्णुर्गुणपूर्ण इति ध्यायते)

ओमित्येव ध्यायत आत्मानं

स्वस्ति वः पराय तमसः परस्तात् ॥ ८ ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

ओमित्येव ध्यायत गुणपूर्णत्वेन ध्यानं कुरुत । तथा सति वो भवतां स्वस्ति मोक्षादिरूपं मङ्गलं भविष्यतीत्यर्थः॥८ ॥