open/close
पञ्चमः खण्डः
षष्ठः खण्डः
टीका_टिप्पणि
अपर_ परविद्यास्वरूपम्
कृते समग्रमपि वैदिकवाङ्मयं विष्णुपरम्
ता एव परमा विद्या:
ब्रह्मस्वरूपम्
ब्रह्म जगतः नोपादानं न वा विवर्तकारणम्
ज्ञानपूर्विका विश्वसृष्टिः
द्वितीयः खण्डः
यज्ञानुष्ठानप्रकारनिरूपणम्
विहितयज्ञकर्माद्यननुष्ठाने प्रत्यवायः
होमाधिकरणनिरूपणम्
सम्यग्यज्ञादिकुर्वतां फलम्
भगवदविषयककर्मणां बन्धकत्वनिरूपणम्
विष्णुप्रीतयेऽनुष्ठितानि कर्माणि ज्ञानद्वारा मुक्तिफलकानि
विरक्तः गुरुमेव समाश्रयेत्
तृतीयः खण्डः
विष्णुकृतायाः सृष्टेः निरूपणम्
चतुर्थः खण्डः
विष्णुरेव विजिज्ञास्यः
प्रणवेन ब्रह्मविद्धि
विष्णुरेव मुक्तिप्रदः
विष्णुर्गुणपूर्ण इति ध्यायते
हृदयाकाशे विष्णुर्विराजते
अपरोक्षज्ञानमहिमा
सूर्यमण्डले विष्णुरुपास्यः
पञ्चमः खण्डः
अश्नन्नपि जीवः दुःखी ईशस्त्वनश्नन् नित्यसुखी
निर्दुःखत्वपूर्णानन्दत्वादिना साम्यम्
जीवन्मुक्तस्थितिः
हरिभक्तस्यैव तत्प्राप्तिः
प्राणप्रसादान्मुक्तिः
आत्मवेदिन: महिमा
षष्ठः खण्डः
यं भक्तत्वेन भगवान् वृणुते तस्यैव स लभ्यः
श्रवणाद्युपाया अनुष्ठेयाः
अपरोक्षानन्तरमेव न मुक्ति:
एकीभावो न स्वरूपैक्यम्
मुक्तौ नामरूपादिनाऽविमुक्त एव ब्रह्मणा सह तिष्ठति
ब्रह्मविदः फलम्
उपनिषदध्ययने अधिकारिणः के?
भाष्येऽन्तिममङ्गलाचरणम्
श्रीराघवेन्द्रतीर्थपूज्यपादविरचितः मुण्डकोपनिषत्खण्डार्थ:
द्वितीयः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
पञ्चमः खण्डः
षष्ठः खण्डः
तुलनात्मक विश्लेषणम्
प्रश्न-उत्तर
open/close
प्राणो ह्येष सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी
उपनिषत् (जीवन्मुक्तस्थितिः)
प्राणो ह्येष सर्वभूतैर्विभाति
विजानन् विद्वान् भवते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावा-
नेष ब्रह्मविदां वरिष्ठः ॥४॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
जीवन्मुक्तापरपर्यायस्यापरोक्षज्ञानिनः स्थितिमाह - प्राणो ही - त्यादिना ॥ विद्वानपरोक्षज्ञानी अतिवादी अहमेव ज्ञास्येऽहमेव करोमीत्येवं स्वात्मानमतिशयितत्वेन वदन्न भवते न भवति । कुतः यतोऽस्य ज्ञानिनः सर्वभूतैः सर्वभूतोपचितैस्तैजसाहङ्कारकार्यैः सर्वेन्द्रियैस्तज्जन्यज्ञानादि- कारणतयेति यावत् । प्राण एव प्रकृष्टचेष्टको भगवानेव विभाति । यतश्चायं विजानन्नहमस्वतन्त्र इति ज्ञानवान् तस्मादित्यर्थः । सर्वेन्द्रियजन्यज्ञान- कर्मादौ भगवत एव स्वातन्त्र्येण कारणत्वमात्मनश्चास्वातन्त्र्यं च जानन् कथमतिवादी भवेदिति भावः । एष विद्वान् अपरोक्षज्ञानी आत्मक्रीडः भगवद्विषयकक्रीडावान् । आत्मरतिर्भगवद्दर्शनजनितसन्तोषवान् । क्रिया- वानात्मविषयक समस्तक्रियावान् यतोऽतो ब्रह्मविदां ब्रह्मापरोक्षेण जानतां सकाशादयं वरिष्ठ इत्यर्थः ।। ४ ।।