तदेतत् सत्यम्
द्वितीयः खण्डः
कर्मदेवतादिज्ञानं यज्ज्ञानार्थं सदनल्पस्थिरफलवद्भवति तन्मे ब्रूहीति पृष्टवन्तं शौनकं प्रति अङ्गिरा ब्रह्मज्ञानार्थं सत्तादृशफलवद्भवतीति भावेन ब्रह्मस्वरूपं लेशेन निरूप्य इदानीं यज्ज्ञानार्थं सदित्युक्तं तज्ज्ञानार्थत्व- प्रकारमाह- तदेतत्सत्यमित्यादिना ॥
तदेतत् सत्यम् ।
मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १॥
तदेतत्परविद्याविषयतयाऽदृश्यत्वादिगुणकतयोक्तमक्षरं सत्यमपराधीन- स्वरूपं सर्वसत्यताप्रदं चेत्यर्थः । कवयो ज्ञानिनो मन्त्रेषु यानि कर्माणि समाधौ मनसा अपश्यन् तानि त्रेतायां त्रेतायुगे बहुधा सन्ततानि, कृतयुग इव विष्ण्वेकविषयकाणि नाssसन् । किन्तु ' त्रेतादौ तदशक्त्या हि धर्मोऽन्यस्सम्प्रवर्तते’ इति, ‘पृथक् पृथक् च त्रेतायां यजन्ते देवतागणान्' इति च स्मृत्या कृतयुग इव विष्ण्वेकनिष्ठतां विना नानाप्रकारेण तत्तद्देव- तोद्देशेन कृत्वाऽन्ते विष्णावपर्यन्तीति बहधा प्रवर्तितान्यासन्नित्यर्थः । सत्यकामास्सत्याख्यभगवज्ज्ञानकामास्सन्तो यूयं तानि कर्माणि नियतं यथा भवति तथाऽचरथानुतिष्ठत । तथाहि कर्मदेवतादिज्ञानम् 'उत्क्रमिष्यत एवम्भावादित्यौडुलोमि : ' ( ब्र. सू. १-४-२२ ) इत्यादि- सूत्रोक्तदिशा तदनुष्ठानेनान्त: करणशुद्धिद्वारा ब्रह्मज्ञानहेतुश्रवणाद्यङ्गं सद् ब्रह्मज्ञानं जनयित्वाऽनन्तफलवद्भवति । अपरममुख्यवृत्त्या कर्मदेवतादि- स्वरूपप्रतिपादकमपि ऋगादिकं परममुख्यवृत्त्याऽक्षरबोधकत्वे परविद्यैव भवतीति भावेनाऽऽह- एष व इति ॥ एषः भगवज्ज्ञानोद्देश्यक: कर्माचारी, वो युष्माकं, सुकृतस्य लोके लोकस्य पन्थाः मार्ग इत्यर्थः । आचरति बहुवचनोक्त्या प्रष्टा शौनक उपलक्षणमिति सूचितम् ॥ १ ॥ कर्माचारप्रकारमाह- यदेत्यादीना ॥
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाऽज्यभागावन्तरेणाऽहुतीः प्रतिपादयेत् ॥ २ ॥
लेलायते परिवर्तते । अर्चिर्त्वाला | समिद्धे, इन्धी दीप्तौ, सम्यक् दीप्यमान इत्यर्थः । आज्यभागावन्तरेण आज्यभागयोर्मध्ये आहुतीः प्रधानहोमान् प्रतिपादयेत् कुर्यात् । तदा एष कर्माचारस्सुकृतस्य पन्था इति योजना | आज्यभागाख्यहोमौ पार्श्वयोः कृत्वा मध्ये होमा: कार्या इत्यर्थः ॥ २ ॥
अग्नौ क्रियमाणकर्मण इतिकर्तव्यतां विपक्षेऽनर्थकथनेनाऽऽह-यस्येति ॥
यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणमतिथिवर्जितं च ।
अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३ ॥
यस्य पुरुषस्याग्निहोत्रं दर्शपौर्णमासाग्रयणाख्येष्टित्रयानुष्ठानरहितमहुतं काले हुतं न भवति, अवैश्वदेवं वैश्वदेवकर्मरहितम् अविधिना हुतं च तस्य तत्कर्म आसप्तमान् भूलोकमारभ्य सप्तमभूतसत्यलोकपर्यन्तान् लोकान्, भुवर्लोकमारभ्य सप्तमभूतवैकुण्ठलोकपर्यन्तान् लोकान् इति वा, हिनस्ति, हिसि हिंसायां, नाशयति, ऊर्ध्वलोकास्तस्य न भवन्तीत्यर्थः । अतो दर्शपौर्णमासादिकमाहिताग्निना काले काले कार्यमिति भावः ||३||
कुत्र होतव्यमित्यपेक्षायां यदा लेलायत इत्युक्तमधिकारिणं विवृणोति - कालीति ॥
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ।
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ॥ ४ ॥
विश्वरुची च देवीत्येका, भ्राजमानेषु दीप्यमानासु एतेषु एतासु जिह्वासु व्यत्ययात्, यथाकालमाहुतयः आहुती: हूयमानहवींषि आददायन् आददानो यश्चरते कर्म कुरुते यद्वा चरत इत्यस्य विवरणम् - यथाकालं कालमनतिक्रम्य आहुतयः आहुतीः आददायन् आददानः कुर्वन्निति यावत् ॥ ४ ॥
यथाकालं सत्यज्ञानकामनयोक्तस्थानेषु होतुः फलमाह - तमिति ॥
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ।
एह्येति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाचमभिवन्दन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः।।५।।
एता एते प्रसिद्धाः सूर्यस्य रश्मयः रश्मिषु स्थिता देवाः, देवानां पतिरेको मुख्यः अधिवासोऽधिवसन्त्यत्रेत्यधिवासो मुख्याश्रयो यत्र तिष्ठति तत्र तं नयन्तीति । नयनप्रकारमेवाऽऽह एह्येहीति । आहुतयः आहूयमानाः, स्वीकृतहविर्भागा इति यावत्, सुवर्चसः शोभनवर्चस्का: देवा: स्वाधिष्ठानभूतैस्सूर्यस्य रश्मिभिर्यजमानं वहन्ति । कथम् ? एह्येति वः पुण्यः पुण्यसाध्यः, तस्य विवरणम् - सुकृत: ब्रह्मलोकः परब्रह्मलोक इति प्रियां वाचमभिवदन्त्योऽभिवदन्तः अर्चयन्त्यः पूजयन्त वहन्तीति
॥ ५ ॥
सत्यविषयत्वेन कृतकर्मणामक्षयफलमुक्त्वा तदविषयत्वेन कृत- कर्मणामनिष्टफलमाह- प्लवा इति ॥
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥ ६ ॥
एते भगवदविषयत्वेनानुष्ठिता: यज्ञरूपा यज्ञस्य रूपमिव रूपं येषां ते, विध्युक्तयज्ञवदवभासमाना इति यावत्, अदृढा प्लवाः, लुप्तोपमानं, यथाऽदृढप्लवेन महानद्यादिकं तरन्नापदमाप्नोति तथैवंविधयज्ञैरापद- मेवाऽऽप्नोति न श्रेय इति । तदेवाऽऽह - अष्टादशेति ॥ येषु यज्ञेषु अष्टादशानां पुरुषाणामुक्तमष्टादशोक्तं, भगवदविषयत्वहेतुनाऽवरमपकृष्टम् एतत्कर्म श्रेयः श्रेयस्साधनं मत्वा ये मूढा अभिनन्दन्ति मोदन्ते ते जरामृत्युं, द्वन्द्वैकवद्भावः, पुनरेवापियन्ति प्राप्नुवन्ति । पूर्वं जरामृत्युमतामपि पुनः पुनः तत्प्राप्तिरेव भवति, न कदाऽपि तन्निवृत्तिरिति भावः । अष्टादशपुरुषास्तु षोडशर्त्विजः यजमान एकस्तन्निरीक्षकस्सभ्य एक इति ध्येयम् ॥ ६ ॥
तेषां भगवदविषयत्वेनानुष्ठाने किं बीजमित्यत आह- अविद्याया - मिति ॥
अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितं मन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः॥७॥
अन्तरे मध्ये वेष्ट्यमानाः परितो बद्ध्यमानाः, अत्यन्तमविद्या- तिरोहिततत्वज्ञाना इत्यर्थः । स्वयं धीराः स्वात्मोत्प्रेक्षितप्रज्ञावन्तः । अपण्डितास्सन्तोऽपि पण्डितमात्मानं मन्यमानाः । जङ्घन्यमानाः, हन हिंसागत्योः, वक्रगतयः । अन्धेन नीयमाना अन्धा यथा भिन्नमार्गा एवमित्यर्थः ।। ७ ।।
अविद्यावेष्टनं च नैकप्रकारमित्याह- अविद्यायामिति ॥
अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ।
यत् कर्मिणो न प्रवेदयन्ति रागात् तेनाऽऽतुराः क्षीणलोकाश्च्यवन्ते ॥८॥
बालाः प्रज्ञाहीनाः । कुतस्तेषामविद्यावेष्टनेन भगवत्प्रज्ञाहीनतेत्यत आह- यत् कर्मिण इति । यद्यस्मात्स्वर्गादिक्षयिष्णुफले रागान्निमित्तात् कर्मिणः कर्मानुष्ठातारः तेन कारणेन न प्रवेदयन्ति सम्यङ् न जानन्ति भगवन्तम् । स्वार्थे णिच् । सर्वेभ्यो राजादिवत्किञ्चिदुत्तमत्वेन वा, सर्वसमत्वेन, हीनत्वेन वा जानन्तीति प्रशब्दार्थः । तेन हेतुनाऽऽतुराः व्यग्रचित्तास्सन्तः क्षीणलोका भवन्त: च्यवन्ते लोकच्युता भवन्तीति ॥८॥ एतदेव फलमुक्तानुवादपूर्वं व्यनक्ति - इष्टापूर्तमिति ॥
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ ९ ॥
इष्टं च पूर्तं इष्टापूर्त, 'द्वन्द्वैकवद्भावः अन्येभ्योऽपि दृश्यते' इति दीर्घः । इष्टं यजनं पूर्तमन्नदानादि । वरिष्ठं परमश्रेयस्साधनं मन्यमानाः अन्यद्भगवल्लक्षणं श्रेयः प्रशस्तं वस्तु न वेदयन्ते न सम्यग्जानन्तीत्यर्थः । ते भगवतः किञ्चिदुत्तमत्वज्ञानपूर्वकं कर्मानुष्ठातारः सुकृते सुकृतसाध्ये नाकस्य स्वर्गस्य पृष्ठे विस्तीर्णस्थलविशेषेऽनुभूत्वा कामाननुभूय इमं लोकं भूलोकं, मानुषभावमिति यावत् विशन्ति प्राप्नुवन्ति । ते हरेः समत्व- हीनत्वज्ञानपूर्वकं कर्मकृतस्तु हीनतरं लोकम् अन्धन्तमो विशन्ति । वाशब्दो व्यवस्थितविकल्पार्थः । तदुक्तम्-
‘देवेभ्य उत्तमं विष्णुं राजवद्यस्तु मन्यते ।
याजी स मानुषं याति साम्यहीनत्ववित्तमः ।।' इति ।
तथा चोक्तं गीतातात्पर्ये (२-४३)-
‘ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् । जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः । निर्णेतृणामभावेन केवलं ज्ञानवर्जिताः ।
तथा-
ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् ||' इति ॥
'ये तु भागवताचार्यैस्सम्यग्यज्ञादि कुर्वते ।
तु बहिर्मुखा भगवतोऽनिवृत्ताश्च विकर्मणः ।
दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा ।
यान्ति स्वर्गं ततः क्षिप्रं तमोऽन्धं प्राप्नुवन्ति च ॥ ' इति ॥ ९ ॥
एवं सत्यज्ञानकामनया कर्माण्याचरथेत्युक्तौ कुत्र कथमित्याशङ्कायां यदेत्यादि मन्त्रपञ्चकेन कर्मानुष्ठानस्थलमितिकर्तव्यतां फलं चोक्त्वा, प्लवा इत्यादिना मन्त्रचतुष्टयेनोक्तवैपरीत्येन कर्मानुष्ठानेऽनर्थं चोक्त्वाऽधुना ‘तान्याचरथ नियतं सत्यकामा:' इत्यत्र कर्मदेवताज्ञानं तदनुष्ठानेनान्तः- करणशुद्धिद्वारा ज्ञानहेतुश्रवणाद्यङ्गं सद्ब्रह्मज्ञानमुत्पाद्य परमपुमर्थाय भवतीति यदुक्तं तत्र सर्वथाऽवधानेन भाव्यमिति भावेन कर्माचारा - देरुक्तरीत्या ब्रह्मज्ञानार्थत्वं फलोक्त्योपसंहरति- तपःश्रद्धे इति ॥
तपःश्रद्धे येऽभ्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥१०॥
ये भगवज्ज्ञानकामाः अरण्ये पुण्यदेशे स्थित्वा तपः कृच्छ्रचान्द्रा- यणादिरूपं, श्रवणमननालोचनरूपं वा श्रद्धाऽऽस्तिक्यादिबुद्धिपूर्वकं यागादिकम् अभ्युपवसन्ति, आचरन्ति इति शेष:, ते शान्ता भगवन्निष्ठा- वन्तः ते तप आदिना पूर्वोक्तप्रणाड्या विद्वांस: भगवज्ज्ञानिनो भूत्वा यावत्प्रारब्धं देहरक्षणार्थं भैक्षचर्यां भैक्षं कर्म चरन्तः कुर्वन्त: सूर्यद्वारेण सूर्यमण्डलं प्राप्य तद् द्वारेण विरजा: विगतप्रारब्धकर्माणः 'तेजसि सूर्ये सम्पन्नः पाप्मना विनिर्मुक्त:' इति श्रुत्यन्तरोक्तेः, 'आदेहं कर्म चाऽचरेत्' इति स्मृतेश्च, प्रयान्ति प्रकर्षेण यान्ति । कुत्रेत्यत आह-यत्रामृत इति ॥ अमृतः देहतोऽप्यविनाशी पुरुष: पूर्णषड्गुणः स प्रसिद्धोऽव्ययात्मा शश्वदेकप्रकारः स्वामी यत्र वर्तते तत्र प्रयान्तीत्यर्थः ॥ १० ॥
एवं कर्मादिज्ञानं ‘उत्क्रमिष्यत एवंभावादित्यौडुलोमि:' ( ब्र.सू. १- ४-२२) इति सूत्रोक्तदिशा प्रागुक्तप्रणाड्या ब्रह्मज्ञानार्थं सत् परमपुमर्थ- हेतुः । कर्मादिबोधकऋगादिविद्या च अपरविद्या भवतीत्युक्तम् । इदान तु ‘प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्य:' (ब्र.सू.१-४-२१) इति सूत्रोक्तदिशा काम्यकर्मतत्फलादौ वैराग्यजननद्वारा ब्रह्मज्ञानसम्पादनेच्छाजननेन ब्रह्मज्ञानार्थं भवत् परमपुरुषार्थहेतुर्भवतीति तद्बोधकऋगादिविद्याऽ- प्यल्पास्थिरफलादिबोधनेन 'तत्राधिकारिणो वैराग्यजननद्वारा नित्यानल्प- फलकब्रह्मज्ञान कामोत्पादनेन ब्रह्मज्ञानोपयोगिनीति परविद्या च भवतीति भावेनाऽऽह - परीक्ष्येति ॥
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ ११ ॥
लोकान् विष्णुलोकेतरान् कर्मचितान् काम्यकर्मापादितान् परीक्ष्या- सारानित्यतया विचार्य ब्राह्मणो ब्रह्माणनरूपब्रह्मज्ञानयोग्यः निर्वेदं काम्यकर्मणि तत्फले च वैराग्यमायात् प्राप्नुयात् । यत् यस्मात् अकृतो मोक्षः कृतेन कर्मणा नास्ति तत्तस्मात्स च मोक्षादितरत्र निर्विण्णो विज्ञानार्थं मोक्षफलकब्रह्मज्ञानार्थं गुरुमेवाभिगच्छेत् । गुरुमुपगन्तारं च १. तत्राधिकारिणो इत्यारभ्य कामोत्पादनेनेत्यन्तो भागः मुद्रिते क्वचिन्न पठ्यते ।
विशिनष्टि- समित्पाणिरिति ॥ श्रोत्रियं च्छन्दोऽध्येतारं ब्रह्मनिष्ठं भगवद्भक्तं गुरुमित्यन्वयः ॥ ११ ॥
गुरूपसत्तिं कुर्यादित्युक्त्वाऽङ्गिराः किमकरोदित्यत: शौनकाय तत्त्वमुपदिदेशेत्याह वेदपुरुष :- तस्मा इत्यादिना ॥
तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यम् प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १२ ॥
|| इति द्वितीयः खण्डः ।।
उपसन्नायोपसत्तिं प्राप्ताय सम्यक् प्रशान्तचित्ताय विषयेष्वलम्बुद्धिमते, विरक्तायेति यावत्, शमान्विताय भगवन्निष्ठायुक्ताय तस्मै शौनकाय स विद्वानङ्गिराः येन यया विद्यया, व्यत्ययात्, येन ऋगादिशास्त्रेणेति वा, सत्यमनन्याधीनस्वरूपं पुरुषमक्षरं वेद जानाति तामृगादिशास्त्ररूपां ब्रह्मविद्यां तत्त्वतो याथातथ्येन प्रोवाचेति । कर्मदेवतादिबोधकतया शौनकेनावगतामृगादिविद्यां परममुख्यवृत्तिमहातात्पर्याभ्यां ब्रह्मज्ञप्तिहेतुत्वेन परविद्या यथा भवति तथा व्याचख्याविति भावः । अत एव तत्त्वत इत्युक्तिः || १२ ||
।। इति द्वितीयः खण्डः ।।