काळी कराळी च मनोजवा च सुलोहिता या च सुधूम्रवर्णा

उपनिषत्

(होमाधिकरणनिरूपणम् )

काळी कराळी च मनोजवा च

सुलोहिता या च सुधूम्रवर्णा ।

स्फुलिङ्गिनी विश्वरुची व देवी

लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

कुत्र होमः कर्तव्य इत्याकाङ्क्षायां यदा लेलायते ह्यर्चि- रित्युक्तमधिकरणं विवृण्वन्नाह - कालीत्यादिना । 'दिवु क्रीडा' इत्यादि- धातोर्देवी द्योतमानेत्यर्थः । इदं कालीत्याद्युक्तसप्तजिह्वानामपि विशेष- णम् । अत एवोत्तरत्रैतेषु यश्चरते भ्राजमानेष्वित्युक्तम् । इति एवं नामकाः लेलायमानाः परिवर्तमानाः हव्यवाहस्य सप्तजिह्वा इत्यर्थः ।। ४ ।।