प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म

उपनिषत्

(भगवदविषयककर्मणां बन्धकत्वनिरूपणम्)

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।

एतच्छ्रेयो येsभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥७॥

श्रीवादिराजीयाप्रकाशिका

तदा साऽपि परविद्येत्यत्र साऽपि कर्मविद्याऽपि परविद्या, परा विद्या ययेति व्युत्पत्त्या परविद्याङ्गत्वात् परविद्येत्युच्यते । अन्यथा सत्याख्यविष्णुविषयतयाऽकरणे एते विष्ण्वनर्पितकर्मविधयः अदृढा वृथा इत्यर्थः । इदं चोत्तरवल्क्लयर्थप्रदर्शनं भाष्यकृता स्वोक्तस्थिरीकरणाय कृतमिति ज्ञेयम्।एष वः पन्थाःइत्यत्र सुकृत: शोभनतया कृतः सुकृतिभिरङ्गीकृतः पुण्यः निवृत्तरूपपुण्यसाध्यः । अधुना श्रुतिः स्वोक्तभगवत्पूजात्मककर्मणि श्रद्धाजननाय शुष्ककर्ममार्गं निन्दति - प्लवा इति । 'निष्कामं ज्ञानपूर्वं तु' इत्यत्र निष्कामम् ऐहिक स्वर्गादिफलकामनारहितं ज्ञानपूर्व विष्णुपूजात्मकत्वज्ञानपूर्वं यत्कर्म तन्निवृत्तमित्युच्यते । सहयज्ञाः प्रजाः सृष्ट्वेत्यत्र -

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ।।'

इत्यारभ्ययज्ञशिष्टाशिनः सन्तो मुच्यन्ते तेऽपि कर्मभि:' इति मध्ये यज्ञादिकर्मकर्तॄणां कर्मभिः मुच्यन्त इति कर्मक्षयाख्यमोक्षरूपफलमुक्त्वाएवं प्रवर्तितं चक्रम्' इत्यकरणे प्रत्यवायकथनाच्च निष्कामकर्मणां भगवत्प्राप्तिरूपमोक्षहेतुत्वं सिद्धमिति भावः । ' यान्ति मद्याजिनोऽपि माम्' इत्यनेन -

'यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः ।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥

' इति वाक्यं सङ्गृह्णाति । अत्र मद्याजिनो मामुद्दिश्य यज्ञकर्तारो मां यान्तीति साक्षात्परब्रह्मरूपिणा कृष्णेनैव स्वविषयकयज्ञकर्तॄणां स्वप्राप्तिरूपफल- कथनान्निष्कामकर्मणां ब्रह्मप्राप्तिहेतुत्वसिद्धिः । इदं च 'कर्मणा ज्ञानमातनोति ज्ञानेनामृती भवति' इति 'अपाम सोमममृता अभूभागन्म ज्योतिरविदाम देवान्’, ‘विविदिषन्ति यज्ञेन दानेन तपासाऽनाशकेन' इत्याद्यन्यत्राऽचार्यैरेवोदाहृतश्रुतीनां च सङ्ग्राहकम्। एवं तर्हि 'ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्यनित्यफल- कथनमनुपपन्नमित्यत उक्तम् अहं हि सर्वयज्ञानामिति ॥ सर्वयज्ञानां भोक्तृत्वेन सर्वयज्ञप्रभुत्वेन च भगवन्तमज्ञात्वा शुष्ककर्मकरणाच्यवनमिति भावः । तर्हि यत्याश्रमिणां कर्माभावात्कथं मोक्ष इत्यत आह- लोक इति ॥ साङ्ख्यानां, 'ख्या प्रकथने' इति धातो: भगवत्तत्त्वप्रकथनं सङ्ख्या, तत्सम्बन्धिनः साङ्ख्या ज्ञाननिष्ठा इति यावत्, तेषामित्यर्थः । तांश्च कारित्वादित्यत्र तान् देवान् कारित्वादुपकारित्वाद्यजन्त इत्यर्थः । 'तानि 'च त्रेतायां बहुधा सन्ततानि' इत्युपनिषद्वाक्यस्येयं योजना । त्रेतायां केचित्कुशलाः कृतयुगवदिन्द्रादीन् देवान् विष्णोरधिष्ठानतयैव जानन्त इन्द्रादिनामभिरपि विष्णुमेव यजन्ति । अनेनोत्तमानां स्वरूपमुक्तं भवति । केचित्त्वकुशलाः स्वर्गादिफलकामनयेन्द्रादीनेव यजन्ति, हरिं तु सीमाधीश्वरराजवत् सामान्यत एव जानन्ति । न तु तत्तन्नामभिर्यज्ञे दीय- मानाहुतीनां भोक्तृतयाऽपि । अनेन मध्यमजीवस्य स्वभाव उक्तो भवति । केचित्तु ततोऽप्यत्यन्ताकुशलाः विष्णोरितरदेवतासाम्यमितरदेवेभ्यो हीनत्वं वा जानन्त अन्यदेवानेव यजन्ति । अनेनाधमप्रकृतिरुक्ता भवति । एवं कर्माणि बहुधा त्रेतायां सन्ततानि । हे सत्यकामा यूयं तत्र कुशलकृत- कर्माण्येवाऽचरथ, न तु मध्यमजीववदधमजीववच्च कर्माण्याचरथेति ||||

श्रीनिवासतीर्थविरचिताखण्डार्थः

एवं भगवत्प्रीत्यर्थत्वेन तत्पूजात्मकतया कृतस्य यज्ञादिकर्मणो ब्रह्मलोकप्राप्तिसाधनत्वमुक्त्वा तदितरयज्ञादिकर्मस्वरूपं निरूपयति- प्लवा ह्येत इत्यादिना ॥ येषु यज्ञादिषु अष्टादशोक्तहोत्रादयः प्रधानाश्चत्वारो ऋत्विज एकैकस्यर्त्विजश्च त्रयस्त्रयः शिष्याः, एवं सति षोडशर्त्विजः । एको यजमानः एतन्निरीक्षकः सभ्यश्चापर इत्येवमष्टादशानां पुरुषाणाम् उक्तं विहितम् अपरं देहायासकरत्वेनाप्रधानं कर्म प्रसिद्धं त एते भगवत्पूजात्मकतया तत्प्रीत्यर्थमकृताः यज्ञादिरूपाः प्लवा नावोऽदृढाः पुनरावर्तिशून्यलोकप्राप्तिसाधनभूता न भवन्तीति हि प्रसिद्धमित्यर्थः ।एतदेव स्पष्टमाह - एतदिति || ये मूढाः भगवत्पूजात्मकत्वानुसन्धानरहिता एतद्यज्ञादिकमेव श्रेयःसाधनमिति मत्वा अभिनन्दन्ति सन्तुष्टा भवन्ति ते पुनः पुनर्जरया प्राप्तं मृत्युं मरणमेवापियन्ति प्राप्नुवन्तीत्यर्थः ॥ ७ ॥

Load More