समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः
उपनिषत्
(अश्नन्नपि जीवः दुःखी ईशस्त्वनश्नन् नित्यसुखी)
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २ ॥
भाष्यम्
'नास्तीशोऽस्या यतोऽन्यो हि ततोऽनीशा हरेर्मतिः ।
तया मुह्यति जीवस्तमन्यं ज्ञात्वा विमुच्यते ।
जीवादन्यः स्वतन्त्रोऽयं यतोऽतः पुरुषोत्तमः ॥ ' इति ब्रह्मसारे ॥
श्रीवादिराजीयाप्रकाशिका
अनीशया न विद्यतेऽन्य ईशा यस्याः साऽनीशा स्वतन्त्रभगव- दिच्छा । तया मुह्यमानः शोचति । पराधीनजडाविद्याकामकर्मादिभ्योऽपि स्वतन्त्र भगवदिच्छेव मोहेऽसाधारणहेतुरिति सूचनाय श्रुतिरनीशये- त्येवाऽऽह ॥
अत एव ह्येष जीवशोकोत्तारोपायोऽपि सकलजीवभिन्नतया महा- महिमतया भगवत्सेवासहित तदपरोक्षज्ञानमेवेत्याह- जुष्टं यदेति ॥ जुष्टं, ‘जुषीप्रीतिसेवनयोः' इति धातोर्ब्रह्मादिदेवैरपि सेवितमनन्तस्वस्वरूपसुखेनैव प्रीतम् । अत एव सकलजीवेभ्योऽन्यमीशं सर्वोत्तममिति पूर्वोक्तप्रकारेण यदा जीवः पश्यति तदा तदनुग्रहाद्वीतशोको भवति । एवं च फलकथनाच्च प्राक् स्वोक्तजीवेश्वरभेदे स्वस्य महातात्पर्यमस्तीति सूचयति ।। २ ।।
पदार्थदीपिका
‘अनीशया शोचति मुह्यमानः' इत्येतद्वाक्यं परेणेत्थं व्याख्या- तम् । ‘अनीशया अहमीशो न भवामीत्येवं स्वस्येशाद्भेदभावनया शोचति यतो मुह्यमानभेदस्य मिथ्यात्वेन तज्ज्ञानस्य मिथ्याज्ञानत्वात्' इति । तदिदमसत् । ‘सत्यं भिदा’, 'पञ्चभेदांश्च विज्ञाय भवेन्मुक्तिर्न चान्यथा' इत्यादिप्रमाणैर्भेदस्य सत्यतायास्तज्ज्ञानस्य मोक्षसाधनतायाश्चावगमेन तद्भावनायाः शोकहेतुत्वायोगादित्याशयेनानीशाशब्दार्थं प्रमाणेनैवाह- नास्तीशोऽस्या इति ॥ अस्याः भगवन्मतेरन्य ईशः प्रेरको यतो नास्ति स्वतन्त्रेति यावत् । ततो हरेर्मतिरनीशेत्युच्यत इत्यर्थः । हीत्यनेन 'न तस्येशे कश्चन तस्य नाम महद्यश:' इत्यादिश्रुत्या हरेः स्वातन्त्र्यावगमात् तदभिन्ना तन्मतिरपि स्वतन्त्रेति सूचयति । उक्तं च स्पष्टमन्यत्र-
‘ज्ञानानन्दादयो भावा हरेर्नैव विभेदिनः ।
भेदेन व्यवहार्याः स्युर्विशेषादेव केवलम् ।।
परस्परमभिन्नाश्च न परप्रेरिताः क्वचित् ।
जगज्जन्मादिकर्तारस्ततो लोकविलक्षणाः ।।' इति ।
मुह्यति अहं कर्तेत्यादिरूपेण स्वस्मिन् स्वातन्त्र्येण कर्तृत्वाभिमानवान् भवतीत्यर्थः । तया मुह्यतीत्यनेनानीशया मुह्यमानः सन् शोचतीत्यन्वय उक्तो भवति । जुष्टं यदा पश्यतीत्यादेस्तात्पर्यं तं हरिं जीवादन्यं ज्ञात्वा विमुच्यत इति । स्यादिदं यदि हरेर्जीवान्यत्वमेव स्यात् । तदेव नास्ति प्रमाणाभावादतस्तज्ज्ञानं मिथ्याज्ञानमेवेत्यत आह-जीवादन्य इति ॥ अयं हरिर्जीवादन्यः प्रतिपत्तव्यः । तत्र हेतुर्यतः स्वतन्त्र इति । अतः स्वतन्त्रत्वात् पुरुषोत्तम इत्यर्थः । तथा च विरुद्धधर्माधिकरणत्वेन जीवेश-योर्भेदः प्रमित इति न तज्ज्ञानं मिथ्याज्ञानमिति भावः । ‘तदा विद्वान् पुण्यपापे विधूय' इति प्रारब्धपुण्यस्येष्टकाम्यपुण्यस्य च ज्ञानेन विधूननं प्रतीयते तदयुक्तम् । प्रारब्धस्यापि ज्ञानेन नाशाङ्गीकारे साक्षात्कृतब्रह्मणां सद्यः शरीरपातेनावस्थानाभावापत्त्या ब्रह्मोपदेशानां वातपुत्रीयत्व - प्रसङ्गात् । अतो भोगैकनाश्यत्वमेवाङ्गीकार्यम् । यथोक्तम्- 'भोगेन त्वितरे क्षपयित्वा' (ब्र.सू. ४. १. १९) इति ॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
जीवस्य देहाख्यवृक्षसम्बन्धरूपे संसारेऽविद्याकामकर्मादिकं कारणमुक्तमेव प्रधानं कारणान्तरं चाह - समान इति ॥ पुरुषो जीवः समाने वृक्षे शतवर्षादिमर्यादोपेते देहाख्ये वृक्षे निमग्नो दृढं ममताभिमानवान् अनीशया न विद्यतेऽन्य ईशोऽस्या इत्यनीशा स्वतन्त्रा हरेर्मतिस्तया मुह्यमानोऽहं कर्ता भोक्तेत्यादिरूपेण स्वातन्त्र्येण स्वस्मिन् कर्तृत्वाभि- मानवान् सन् शोचति शोकमनुभवति संसारी भवतीत्यर्थः । किं तस्य शोकनिवर्तकमित्यतो भगवन्महिमाज्ञानमेवेत्याह- जुष्टमिति ॥ यदा जुष्टं सर्वसेव्यं ईशम् अन्यं जीवाद्भिन्नं पश्यति तथा अस्य ईशस्य इति तदेतत्सत्यमित्यादिना प्रागुक्तप्रकारेण महिमानं च पश्यति तदा वीतशोको मुक्तो भवतीत्यर्थः ।। २ ।