तपःश्रद्धे (येऽभ्यु) ये ह्युपवसन्त्यरण्ये
उपनिषत्
(विष्णुप्रीतयेऽनुष्ठितानि कर्माणि ज्ञानद्वारा मुक्तिफलकानि) ) तपःश्रद्धे (येऽभ्यु) ये ह्युपवसन्त्यरण्ये
शान्ता विद्वांसो भैक्षचर्यां चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति
यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
एवं काम्यं कर्म विनिन्द्यातः परं निवृत्तकर्मानुष्ठानजनिता- परोक्षज्ञानसाध्यं फलं दर्शयति - तप इति । ये अरण्ये भैक्षचर्यां चरन्तो विरक्ता इति यावत् । तपःश्रद्धे तपः श्रद्धापूर्वकं सत्कर्म अति अतिशयेन उपवसन्ति कुर्वन्तीति यावत् । ते अन्तःकरणशुद्धिद्वारा शान्ता भगवन्निष्ठ- बुद्धिमन्तः सन्तो विद्वांसोऽपरोक्षज्ञानिनो भवन्ति । तेऽर्चिरादिमार्गेण सूर्यं प्राप्य विरजाः प्रारब्धपापशून्याः भवन्ति । अधिकारिविशेषाणां तत्र प्रारब्धकर्मनिर्मोकस्य वैश्वानरम् इन्द्रं ध्रुवं सरस्वर्ती ब्रह्माणं च प्राप्य तदनन्तरं यत्रामृतो नित्यमुक्तः अव्ययात्मा नाशशून्यदेहः पुरुषः पूर्णषड्गुणो हरियंत्र लोके तिष्ठति तं वैकुण्ठाख्यं लोकं प्रयान्ति । प्रतीकालम्बनाश्चेत् सूर्यद्वारेण सरस्वतीं प्राप्य तदनन्तरं यत्र लोकेऽमृतः अतिरोहितविज्ञानत्वाद् अमृतशब्दवाच्यः। ‘अतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृतः' इति वचनात् तस्यैव च ब्रह्मत्वात् । अमृतो जीवन्मुक्त इति वा । अव्ययात्मा नाशशून्ये भगवत्येव मनोवान् पुरुषो ब्रह्मा यत्र लोके तिष्ठति तं सत्याख्यं लोकं प्रयान्तीत्यर्थः । हिशब्देनैतदुभयं प्रमाणप्रसिद्धमिति दर्शयति ॥ ११ ॥