यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणमतिथिविर्जितं च

उपनिषत्

(विहितयज्ञकर्माद्यननुष्ठाने प्रत्यवायः )

यस्याग्निहोत्रमदर्शमपौर्णमास-

मनाग्रयणमतिथिविर्जितं च ।

अहुतमवैश्वदेवमविधिना हुत-

मासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३ ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

तदेवाग्निहोत्रं सेतिकर्तव्यमन्यथानर्थकथनपूर्वकं निरूपयति- यस्येति ॥ करणे षष्ठी । येन पुरुषेणाग्निहोत्रं अदर्शपौर्णमासम् अमावास्यापौर्णमास्ययोः पिण्डपितृयज्ञादिविशेषहोमरहितम् । अनाग्रायणं नूतनधान्यसंस्काराय क्रियमाणाग्रायणेष्टिरहितम् । अतिथिवर्जितं तत्पूजारहितम् । अहुतं कालहोमरहितम् । अवैश्वदेवं वैश्वदेवरहितम् । अविधिना हुतं विधिमतिक्रम्य हुतं सत् तस्य पुंसः सप्तमान् ऊर्ध्वान् सप्तलोकान् पुण्यवशेन प्रसक्तान् आ सम्यक् हिनस्ति विनाश्यति । ऊर्ध्वसप्तलोकप्राप्तिस्तस्य न भवतीत्यर्थः । तथा चाग्निहोत्रं कुर्वता दर्शपौर्णमास्यादीनि कार्याणि तेषां तदङ्गत्वादित्युक्तं भवति ।। ३ ।।