यदा पश्यः पश्यते रुग्मवर्णं कर्त्तारमीशं पुरुषं ब्रह्मयोनिम्
उपनिषत्
(निर्दुःखत्वपूर्णानन्दत्वादिना साम्यम्)
यदा पश्यः पश्यते रुग्मवर्णं कर्त्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।।३।।
भाष्यम्
पुण्यं चानिष्टं विधूय ॥
श्रीवादिराजीयाप्रकाशिका
अधुना इतिपदपरामृष्टं महिमानमेव प्रपञ्चयति, तार्किकमोक्षबदुःख- निवृत्तिमात्रं न फलम्, किन्तु स्वयोग्यनित्यानन्दज्ञानादिना च किञ्चित् किञ्चिद् भगवत्साम्यमस्तीत्याह - यदेति । रुग्मोपलक्षितसकलशोभन- गुणवत्तया, तत्सम्भावकसमस्तजगत्कर्तृतया, पुरुषपदसूचितसहस्र- शीर्षाद्याकारवत्तया, अत एव सकलजगदीशतया तदुपपादकसकल- जीवोत्तमब्रह्मस्रष्टृतया, अत एव चेतनाऽचेतनात्मकसर्वजगद्भिन्नतया च यदा भगवन्तं पश्यति, ईदृशमेवापरोक्षज्ञानं मोक्षहेतु; न तु कुसमयिभिः स्वकपोलकल्पित निर्गुणत्वनिराकारत्वजीवात्मत्वादिनेति श्रुतेर्हृदयम्, तदा विद्वानीशज्ञानी अनिष्टं काम्यफलदायकं पुण्यं पापञ्चेत्युभयं विधूय, अप्रारब्धं ज्ञानप्लवेनैव विधूय, प्रारब्धं भोगेन क्षपयित्वा तदपि ज्ञानबलेनैव किञ्चित्किञ्चिदुपमर्द्य, निरञ्जनः अञ्जनवत् नयनावरकप्रतिबन्धकप्रकृति- बन्धरहितः परमं साम्यं जननमरणादिदुः खरहिततया भगवता साम्य- मुपैति । चेतनत्वादिनेषत्साम्यस्य संसारेऽपि सत्त्वात्परममित्युक्तम् । प्रकृतिबन्धपापनिमित्तकसकलदुःखानामाऽत्यन्तिकनिवृत्त्यैव भगवता साम्यं ममाभिमतम्, न तु सर्वात्मनेति स्वाभिसन्धिं स्फोरयितुं श्रुति: 'निरञ्चनः ' इति 'पुण्यपापे विधूय' इति च दुःखहेतुभूतप्रकृतिबन्धनिवृत्तिं तन्निमित्तकपापानां च निवृत्तिं विषसम्पृक्तान्नवत् दुःखमिश्रस्वर्गादिसुख- दायककाम्यपुण्यनिवृत्तिं च हेतुगर्भविशेषणद्वयेन च स्पष्टीचकार । साम्यकथनावसरे ‘कामान्नी कामरूप्यनुसञ्चरन्' इत्यादिश्रुत्यन्तरोक्त- कामान्नीत्यादिमुक्तविशेषणानामत्रापि सङ्ग्रहे सुखादिसाम्यशङ्का मन्दमतीनां स्यादिति भातमपेक्षितमपि विशेषणमुपैक्षत । तार्किकमोक्षव्यावृत्तये नित्यानन्दादीनामपि साम्यं स्वस्योपपन्नमेवाऽऽयाति, न तु सर्वात्मनेति वस्तुस्थितिमुपेत्युपसर्गेणासूचयच्च । मुक्तावपि साम्यमेव निरूपयन्ती श्रुतिरैक्यप्राप्तिरेव मोक्ष इति दुर्मतं दूरीचकार । साम्यस्य द्विनिष्ठतायाः सर्वजनसम्प्रतिपन्नत्वात् । ‘अमृतत्वस्येशानः’, ‘अमृतस्यैष सेतुः', ‘सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्', 'मुक्तानां परमा गतिः', 'कृष्णो मुक्तैरिज्यते वीतमोहैः ' इत्यादिश्रुतिस्मृतिभ्यो मुक्तावपि भगवतः सकलमुक्तेश्वरत्वसर्वमुक्ताधारत्वसमस्तमुक्तपूज्यत्वादेश्च श्रवणात्कथं सर्वात्मना साम्यं स्यात् । अत एव
‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
(भ.गी. १.२ )
इति गीतावाक्ये भगवान् स्वयमेव प्रागुक्तस्वसाधर्म्यं जननमरणादि- दुःखाभावेनैवेत्युत्तरार्धे स्पष्टीचकार । आनन्दादिना साम्यं त्वल्पमेवेति न तत्र स्पष्टमाचष्टे । तार्किकमोक्षवत्सर्वथाऽऽनन्दराहित्यं नेति भावेन तेषामपि स्वयोग्यं किञ्चिदानन्दं चशब्देनैव समुच्चिनोति च । कथमन्यथा तैत्तिरीयोपनिषत् मानुषादिचतुर्मुखपर्यन्तमुक्तानामानन्दस्य परिच्छिन्नत्व- मुक्त्वा 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्' इत्यन्ते परमपुरुषानन्दं मनोवाचामगोचरमाह । न चात्रापि ब्रह्म चतुर्मुख इति शङ्कनीयम् । 'ते ये शतं प्रजापतेरानन्दः । स एको ब्रह्मण आनन्द:' इति च रुद्राच्छतगुणिताऽऽनन्दवत्त्वेन प्राचीन श्रुत्युक्त - शतानन्दपदवाच्यस्य चतुर्मुखस्य मनोवाचामगोचरानन्तानन्दप्रति- पादकोत्तरवाक्ये च सङ्ग्रहस्य प्रेक्षावता शङ्कितुमशक्यत्वात् । न हि परिच्छिन्नानन्दत्वमपरिच्छिन्नानन्दत्वं चैकस्यैव भवति, विरोधादिति युक्तमुत्पश्यामः ।
पदार्थदीपिका
इष्टकाम्यपुण्यनाशाङ्गीकारे च ज्ञानस्येष्टविघातित्वेनापुरुषार्थत्व- प्रसङ्गात् । अतो व्याचष्टे- पुण्यं चेति ॥ अप्रारब्धं चेत्यपि द्रष्टव्यम् । यथोक्तम्- ‘अतोऽन्यदपीत्येकेषामुभयो:' ( ब्र.सू. ४.१.१९) इति ।।
श्रीनिवासतीर्थविरचिताखण्डार्थः
उक्तं जीवाद्भेदमेव भेदकधर्मोक्तन्त्योपपादयन् वीतशोक इत्युक्तमेव विशदयति- यदेति ॥ पश्यतीति पश्यो जीवो रुग्मवर्णं सुवर्णवर्णं सर्वजगत्कर्तारं पूर्णषड्गुणं चतुर्मुखकारणमीशं यदा पश्यते तदा स विद्वानपरोक्षज्ञानी ज्ञानमहिम्ना पुण्यमनिष्टमप्रारब्धं तथा पापं चाप्रारब्धं विधूय भस्मीकृत्य निरञ्जनः निर्दुष्टः भोगेन क्षीणप्रारब्धकर्मेति यावत् । लिङ्गभङ्गानन्तरं परमं साम्यं दुःखाभावपरानन्दादिना भगवत्साम्य- मुपैतीत्यर्थः ।। ३ ।।