पञ्चरात्रमृगाद्याश्च सर्वमेकं पुराऽभवत्

भाष्यम्

( कृते समग्रमपि वैदिकवाङ्मयं विष्णुपरम् )

पञ्चरात्रमृगाद्याश्च सर्वमेकं पुराऽभवत् ।

मूलवेद इति ह्याख्या काले कृतयुगे तदा ॥

नैवर्क्सामादिनामानि तदा वेदस्य चाभवन् ।

नैव चेन्द्रादिनामानि विष्णोरन्यत्र कुत्रचित् ॥

ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः ।

देवतात्वेन चेज्यः स ब्रह्माया मनुनामकाः ॥

वक्तृत्वेन पितृत्वेन कारित्वेनैव चाऽदरात् ।

इज्यन्ते देवताः सर्वा नतु देवतया कचित् ॥

अनन्ययाजिनस्त्वेते तस्मात्कार्त्तयुगा जनाः ।

प्राप्नुवन्ति हरिं तं च तस्माद्वेदे न किञ्चन ॥

पारावर्यं हरेर्यस्मादुत्थितास्तुरगाननात् ।

ऋगाद्या अनुव्याख्यान्तास्तस्मात्सर्वैर्हरिं यजेत् ॥

पदार्थदीपिका

मूलश्रुतिस्वरूपे विप्रतिपन्नं प्रति प्रमाणान्तरमाह- पञ्चरात्र- मित्यादिना ॥ ऋगाद्याश्चेति सर्वम् । एकं भगवद्रूपैकार्थप्रतिपादकम् । पुरा कृतयुगे ऋगादीनां तत्कालीनं नाम दर्शयति- मूलवेद इतीति ॥ इति इत्येवास्य नाम । तद्व्यावर्त्यमाह - नैवेति ॥ नन्विन्द्रादिनाम्ना- मिन्द्रादिवाचकत्वात् कथं सर्वमेकम् अभवदित्युच्यत इत्यत आह- नैव चेति ॥ इन्द्रपूर्वैः । इन्द्र इति पूर्वैः । भगवत एव सर्ववेदप्रतिपाद्यत्वे समस्तवेदैर्भगवानेवेज्य इति प्राप्तमिति चेत् सत्यमित्याह- देवतात्वे- नेति ॥ चशब्द एवार्थे । या तेनोच्यते सा देवतेति वचनान्मुख्यतः समस्तवेदप्रतिपाद्यत्वेन निमित्तेन स विष्णुरेवेज्य इत्यर्थः । तर्हि ब्रह्मादि- यजनाभाव एव प्राप्त इत्यतस्तद्यजने तदा विशेषमाह - ब्रह्माद्या इति ॥ ब्रह्माद्या देवताः सर्वा इत्यन्वयः।वक्तृत्वेनभगवत्स्वरूपव्याख्यातृत्वेनकारित्वेनभगवत्पूजाकारित्वेन, हरिभक्तत्वेनेति यावत् । एवकारव्यावर्त्यं दर्शयति - न त्विति ॥ ' देवतया', 'हिरण्यगर्भः समवर्तताग्रे' (म.ना.), 'एको रुद्र:' (वे. ३.२) इत्यादिवेदप्रतिपाद्यतया 'न तु' नैवेज्यन्त इत्यर्थः । यथाहीतरयुगेषु व्याख्यातारो गुरवः स्वपित्रादयो वा वेदादि - प्रतिपाद्यतया नेज्यन्ते किन्तु वक्तृत्वादिनैव तद्वत् कृतयुगेऽपि ब्रह्माद्या इति भावः । कचिद्वक्तृत्वादिना कृतयुगे मनवः पूज्यन्त इत्युक्तिरस्ति तद्गतिप्रर्दानाय 'मनुनामका:' इत्युक्तम् । यथोक्तं छान्दोग्यभाष्ये- ' मनवो बोधवैशेष्यात्' इत्यादि । ' तस्मात्तु' तस्मादेव । एवं सर्ववेदानां भगवत्स्वरूपमात्रप्रतिपादकत्वादेव कार्तयुगाः कृतयुगस्थजना भगवद्व्यतिरिक्तदेवतायाजिनो न भवन्तीत्यनन्ययाजिनः प्रसिद्धाः । अन्यथा तन्न स्यात् । अनन्ययाजित्वादेव तं हरि च हरिमेव प्राप्नुवन्ति नान्यदेवता इति प्रसिद्धम् । अन्यथेदमपि न स्यात् । किन्तु त्रेतादाविवदेवान् देवयजो यान्ति' इति न्यायेनान्यदेवताप्राप्तिरपि स्यादिति भावः ।

उपसंहरति- तस्मादिति ॥ तस्मादृगादिसर्ववेदानां भगवन्मात्रप्रति- पादकत्वेन प्रतिपाद्यभेदस्य कृतयुगेऽभावादेव किञ्चन पारावर्यं परावरभावः पारावर्यं परविद्यात्वापरविद्यात्वभेदो नास्तीत्यर्थः । किन्नाम भगवत्स्वरूप- मात्रप्रतिपादकत्वेन परविद्यात्वमेव न कर्मादिप्रतिपादकत्वेनापरविद्यात्वमिति भावः । इतोऽपि न वेदेषु पारावर्यमित्याह - हरेर्यस्मादिति ॥ यथाह लोके केनचिदुत्तमपुरुषेणोक्ता विद्याः परा इत्युच्यन्ते नीचपुरुषेणोक्ता विद्या अपरा इत्युच्यते नैवं वेदेष्वस्ति । यतो ऋगाद्या अनुव्याख्यान्ता- स्तुरगाननात् श्रीहयवदनाद्धरेरेवोत्थिता उद्गतास्तस्मादतिपरमपुरुषेण श्रीहयवदनेनोदितत्वेन वक्तृभेदाभावात् परविद्यात्वमेव नापरविद्यात्वमिति भावः । ऋगाद्या अनुष्याख्यान्ताः तथा 'अस्य महतो भूतस्य निश्वसित- मेतदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषच्छ्लोकाः सूत्राण्यनुव्याख्यानानि' इति बृहदारण्यकोपनिषदुक्ता द्रष्टव्याः । तदर्थस्तु तद्भाष्यादेवावगन्तव्यः ।

Load More