प्रमाणपद्धतिः

(७६) प्रमाणपद्धतिः

पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः । यथा शब्दो नित्यः प्रमेयत्वादिति । अयमपि साध्यतदभावसम्बन्धित्वादव्याप्त एव । साध्यसाधकः पक्ष एवं वर्तमानो हेतुरनध्यवसितः । स त्रिविधः । तत्र सपक्षविपक्षरहितो यथा । सर्वमनित्यं सत्त्वादिति । उभयवान्यथा । भूर्नित्या गन्धवत्त्वादिति । सपक्षवान्विपक्षरहितो यथा । शब्दोऽभिधेयः शब्दत्वादिति । अयं व्याप्यत्वासिद्धत्वान्न पृथग्घेत्वाभास इत्येके । अन्ये तु सपक्षविपक्षरहितो व्याप्यत्वासिद्धः । सति सपक्षे पक्षमात्रवृत्तिः सपक्षवान्विपक्षरहितश्च द्वावनैकान्तिकेऽन्तर्भवत इत्याहुः । तथा हि । सव्यभिचारोऽनैकान्तिकः । व्यभिचारोऽन्वयतो व्यतिरेकतश्च । तत्रान्वयस्य भूमिः पक्षः सपक्षश्च । तदतिरेकेण विपक्षेऽपि वर्तमानः साधारणानैकान्तिकः । व्यतिरेकस्य भूमिर्विपक्षः सपक्षैकदेशोऽपि । तत्र सर्वस्मिन्नपि सपक्षेऽवर्तमानोऽसाधारणानैकान्तिक इति । सर्वथाऽव्याप्तावन्तर्भवति । उभयसम्बन्धाभावात् । व्यतिरेकव्याप्तिसम्भवादयं न हेत्वाभास इत्येके । अपरे तु सत्यपि सपक्षे तत्रावर्तमानस्य किं व्याप्तिरेव नास्त्युत केवलव्यतिरेकिवदस्तीति सन्देहावस्कन्दनाद्धेत्वाभासत्वमित्याहुः ।

जयतीर्थविजय

।। अयमिति । त्रिविधोऽप्यनध्यवसित इत्यर्थः ।। एक इति । नैयायिकैकदेशिन इत्यर्थः । अन्वयतो वर्तमानात् । व्यतिरेकतोऽवर्तमानादित्यर्थः । वर्तमानावर्तमानस्थले दर्शयन्नाभ्यामनैकान्तिकभेदं च दर्शयन्नैयायिकैकदेशी त्रयाणामध्यनप्यवसितानामनैकान्तिकेऽन्तर्भावमाह ।। तत्रेत्यादिनाऽसाधारणानैकान्तिक इत्यन्तेन ।। सपक्षैकदेशोऽपीति । यथा धूमानुमानेऽयःपिण्ड इत्यर्थः । तत्र सर्वस्मिन्निति । सर्वस्मिन्सपक्ष इत्यर्थः । सद्धेतुधूमवत्त्वादिव्यावृत्त्यर्थं सर्वस्मिन्नित्युक्तम् । धूमवत्त्वादेश्चायःपिण्डादाववृत्तित्वेऽपि महानसादाववृत्तित्वाभावान्नासाधारणानैकान्तिकत्वमिति भावः । स्वयमन्तर्भावमाह ।। सर्वथेति । पूर्वोक्तप्रकारद्वयेन स्वयं वक्ष्यमाणोभयसम्बन्धाभावेन चैवं सर्वथेत्यर्थः । नन्वव्याप्तिस्त्रिविधेत्यादिना प्रागुक्तत्रिविधाव्याप्तिमध्ये क्वान्तर्भावोऽस्येत्यत आह ।। उभयसम्बन्धाभावादिति । पक्षातिरिक्ते साध्यतदभावोभयसम्बन्धाभावादित्यर्थः । पक्षातिरिक्ते उभयसम्बन्धामावश्चतुर्धा । पक्षातिरिक्तस्यैवाभावाद्वा पक्षातिरिक्ते साध्यसत्त्वेऽपि तत्र हेतोरभावाद्वा साध्याभावस्याप्रसिद्धत्वाद्वा साध्यस्यैवाप्रसिद्धत्वाद्वा । आद्यो यथा सर्वमनित्यं सत्त्वादिति । द्वितीयो यथा भूर्नित्या गन्धवत्त्वादिति । तृतीयो यथा शब्दोऽभिधेयः शब्दत्वादिति । तुरीयो यथा सर्वं क्षणिकं सत्त्वादिति । अत एवोक्तमधस्तादाचार्यैः । तत्र व्याप्यत्वासिद्धो द्विविधः । साध्यसम्बन्धरहितः सोपाधिकश्चेति । आद्यो यथा सर्वं क्षणिकं सत्त्वादिति । अयमुभयसम्बन्धाभावादव्याप्त्यावन्तर्भूत इतीति । व्यतिरेकं व्याप्तिसम्भवादिति । एक इत्यस्वरसोद्भावनम् । तद्बीजं तु व्यतिरेकव्याप्तेः प्रागुक्तानध्यवसितेऽप्यभावात् । तृतीयानध्यवसिते साध्यव्यतिरेकस्यैवाप्रसिद्धेश्चेति ।। उत केवलव्यतिरेकिवदिति । व्याप्तिसद्भावमात्रेऽयं दृष्टान्तः । न तु सत्यपि सपक्षे तत्रावर्तमानस्येत्यत्र । विपक्षाभावस्योभयथाऽपि सम्भवादिति भावः । सन्देहावस्कन्दनात् सन्देहविषयीभवनादित्यर्थः । एवं चैतादृशसंशयस्य व्याप्तिग्रहप्रतिबन्धकतयाऽनुमितितत्करणान्यतरसाक्षात्प्रतिबन्धकज्ञानविषयत्वरूपहेत्वाभासलक्षणमिति भावः ।

भावदीपः

नित्यः शब्दः पटत्वादिति स्वरूपासिद्धावनतिव्याप्तये पक्षेत्युक्तिः । अनध्यवसितव्युदासाय विपक्ष इति । साधारणानैकान्तिकव्यवच्छेदायैवकारः । प्रागुक्ताव्याप्तिप्रभेदेऽन्तर्भावमाह ।। अयमिति । विरुद्धव्युदासाय सपक्षवृत्तिरिति । असिद्धव्युदासाय पक्षवृत्तिरिति । सद्धेतावनतिव्याप्तये विपक्षवृत्तिरिति ।। साध्यासाधक इति । एतच्च केवलव्यतिरेकिव्यवच्छेदायोक्तम् । असिद्धानैकान्तिकयोर्व्यावृत्तये पक्षे इति । एवेति चोक्तम् । त्रिविध इत्युक्तत्रिविधस्वरूपं क्रमेण वदन्नुदाहरणोक्त्या व्यनक्ति ।। सपक्षेत्यादिना ।। अयमिति । त्रिविधोऽप्यनध्यवसित इत्यर्थः । नन्वनैकान्तिकं हि स्वोचितस्थलादन्यत्रापि वर्तमानं पक्षमात्रवृत्तिहेतुः कथमनैकान्तिकेऽन्तर्भवतीत्यतोऽन्वये तदभावेऽपि व्यतिरेके कथितरूपमनैकान्तिकत्वमस्तीति प्रतिज्ञापूर्वमुपपादयति ।। तथा हीत्यादिना । स्वस्थानमनतिक्रम्यान्यत्र वृत्तिर्व्यभिचारः स व्यभिचारोऽनैकान्तिक उच्यत इत्यर्थः ।। तत्रेति । स्थलद्वयमध्ये । सर्वस्मिन्नपि सपक्षेऽवर्तमानः सर्वसपक्षे वर्तमानव्यतिरेकवानित्यर्थः । पक्षैकदेशं स्वस्थानमतिलङ्घ्य सर्वत्र सपक्षे व्यतिरेकवत्त्वादयमसाधारणानैकान्तिक इत्येवाहुरित्यर्थः ।। सर्वथेति । अनध्यवसितत्वेन पृथग्घेत्वाभासत्वे वा व्याप्यत्वासिद्धत्वे वाऽसाधारणानैकान्तिकत्वे वा सर्वप्रकारेणाव्याप्तावेवान्तर्भवतीत्यर्थः ।। तत्र हेतुरुभयेति । साध्यतदभावरूपोभयसम्बन्धाभावादित्यर्थः ।। अयमिति । पक्षमात्रवृत्तिहेतुरित्यर्थः ।

श्रीविजयीन्द्रतीर्थ

।। व्यतिरेकव्याप्तिसम्भवादिति । भूर्नित्येत्यादावित्यर्थः ।। अपरे त्विति । तथा च व्याप्तिनिश्चयदशायामाभासत्वमिति भावः ।

श्रीवेदेशभिक्षु

।। व्याप्यत्वासिद्धत्वादिति । आद्ये सपक्षस्यैवाभावेन द्वितीयतृतीययोः सपक्षत्वेऽपि तत्र हेतुवृत्त्यभावेन च व्याप्तेस्तत्र दर्शयितुं मख्यत्वादिति भावः ।। व्यभिचार इति । स्वभूमिमतिक्रम्यान्यत्र सत्त्वमित्यर्थः ।। अन्वयत इति । अन्वयमुखेन व्यतिरेकमुखेन चेत्यर्थः । अन्वयस्य हेत्वन्वयस्य व्यतिरेकस्य हेतुव्यतिरेकस्य । यस्य हेतोरन्वयः स्वभूमिमतिक्रम्यान्यत्रास्ति स साधारणानैकान्तिकः । यस्य हेतोर्व्यतिरेकः स्वभूमिमतीत्यान्यत्र वर्तते सोऽसाधारणानैकान्तिक इति प्रघट्टिकार्थः ।। सर्वथेति । आद्यस्य व्याप्यत्वासिद्ध्यन्तर्भावेऽन्त्ययोश्च साधारणानैकान्तिकयोरन्तर्भावेऽपीत्यर्थः । अव्याप्तेऽस्मदभिमतहेतुविरोधप्रभेदरूपे ।। अयमिति । असाधारणानैकान्तिक इत्यर्थः । गन्धवत्त्वस्य नित्यत्वानित्यत्वरूपधर्मद्वयाभावव्यापकाभावप्रतियोगित्वेन सत्प्रतिपक्षतया नैकमात्रानुमित्यनुकूलव्याप्तिनिश्चयस्तत्र सम्भवतीत्यस्वरसमुद्गिरन्नेक इत्याह ।। सन्देहेति । तथाऽप्यव्याप्तेऽन्तर्भाव इति भावः । तेजोन्तरे व्यभिचारपरिहाराय सर्वमित्युक्तम् ।

अभिनवामृतम्

ननु साध्याभाववद्गामित्वाभावात्पक्षमात्रवर्तिनोरध्यवसितयोः कथमनैकान्तिकेऽन्तर्भाव इत्यत आह ।। सव्यभिचार इति । न साध्याभाववद्गामित्वं व्यभिचार इति भावः ।

आदर्शः

।। साध्यासाधक इति । हेतोर्दुष्टत्वज्ञानेन प्रकृतसाध्यासाधकत्वमनुमेयम् । तस्यैव दोषशरीरघटकत्वाङ्गीकारे दोषोद्भावनस्य वैय्यर्थ्यापत्तेः । अतो न तस्य दोषत्वशङ्कास्पदमिति भावेन शिष्टानां तदुक्तिज्ञानाय तन्निराकरणमतानामेवोपन्यासः कृत इत्यवधेयम् ।

श्रीविट्टलभट्ट

।। सद्धेतुव्यावृत्त्यर्थमयमपीति । अनैकान्तिको हेतुरव्याप्तिविशेषात्साध्यान्तराभावसम्बन्धित्वादव्याप्त एव न ततोऽतिरिक्त इत्यर्थः । विशेषस्य सामान्यनियतत्वादिति भावः ।। साध्यासाधक इति । केवलव्यतिरेकिव्यावृत्त्यर्थमिदं विशेषणम् । असिद्धत्वव्यावृत्त्यर्थं पक्षपदम् । अनैकान्तिकव्युदासायैवेत्युक्तम् ।। सव्यभिचारोऽनैकान्तिक इति । स्वस्थानमिति लक्ष्यादन्यत्र वृत्तिर्व्यभिचारस्तेन सहितः सव्यभिचार इत्यर्थः । नन्वसाधारणानैकान्तिकस्यान्यत्र वृत्तेरभावात्कथं सव्यभिचारत्वमित्यत आह ।। व्यतिरेकतश्चेति । स्वस्थानमतिक्रम्यात्र वृत्तेरभावात्कथं सव्यभिचारत्वमित्यत आह ।। व्यतिरेकतश्चेति । स्वस्थानमतिक्रम्यान्यत्र वृत्तिरूपो व्यभिचारस्त्वन्वयतोऽन्वयेन व्यतिरेकतो व्यतिरेकेण च भवतीत्यर्थः । हेतोरन्यस्य व्यतिरेकस्य वा स्वस्थानमिति लक्ष्यादन्यत्र वृत्तिरेव व्यभिचारोऽत्राभिप्रेत इति नोक्तचोद्यावकाश इति ज्ञेयम् । हेत्वन्वयव्यतिरेकयोः स्थानं किमिति जिज्ञासायामाह ।। तत्रेति । तयोर्मध्य इत्यर्थः । तत्रान्वयेन व्यभिचारी साधारणानैकान्तिक इत्याह ।। तदिति ।। क्रमेति । पक्षसपक्षातिक्रमेण विपक्षे वर्तमानो विपक्षेऽन्वयवानित्यर्थः ।। तत्र सर्वस्मिन्नपीति । तत्र सपक्षविपक्षयोर्मध्ये सर्वस्मिन्नपि सपक्षे वर्तमानो व्यतिरेकवानित्यर्थः । साधन व्यतिरेकस्य स्वस्थानं स्वपक्षैकदेशमुल्लङ्घ्यान्यत्र सत्त्वादयमपि सव्यभिचार इति भावः । इति शब्दस्याहुरिति पूर्वेणान्वयः ।। सर्वथेति । सर्वेण प्रकारेणानध्यवसितत्वेऽप्यनैकान्तिकत्वेऽपीति यावत् । उभयसम्बन्धाभावात् साध्यतदभावसम्बन्धाभावादित्यर्थः ।। सत्यपि सपक्ष इति । गन्धवत्त्वेनानित्यत्वसाधकत्वस्यापि व्यतिरेकव्याप्तेर्वक्तुं शक्यत्वेनासति सपक्षे पक्षमात्रवृत्तिहेतोर्व्यतिरेकव्याप्तिसन्देह एवेति ज्ञेयम् ।