प्रमाणपद्धतिः
(३४) प्रमाणपद्धतिः
।। १० ।। अप्राप्तकालम् । क्रमविपर्यासोऽप्राप्तकालम् । यथा कृतकत्वादनित्यः शब्द इत्यादि । इदं किञ्चिन्न निग्रहस्थानम् । प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमित्यादि संव्यवहारात् । निग्रहस्थानं त्वसङ्गतिरेव ।
जयतीर्थविजय
अप्राप्तकालं लक्षयति ।। क्रमेति । विवक्षितेति वादांशवाक्यवादिनामिति च शेषः । यदाह वरदराजः ।
विवक्षितं क्रमं वादवादांशावयवादिकम् ।
विपर्यस्तं तदिति चेत्प्राप्तैवाप्राप्तकालता ।। इति ।
प्रमाणलक्षणटीकायामपि विवक्षितक्रमविपर्यासोऽप्राप्तकालमित्युक्तम् । कौ पुनर्वादादिक्रमतद्विपर्यासाविति चेदत्रोक्तं प्रमाणलक्षणटीकायां वरदराजीये च । अयं हि वादजल्पयोः क्रमः । सभ्यादिसङ्ग्रहपुरःसरं कथानियमबन्धे कृते वादिना प्रमाणमभिधायाभासोद्धारः कर्तव्यः । प्रतिवादिनाऽपि वादिसाधनमनूद्य दूषयित्वा स्वपक्षे प्रमाणमभिधायाभासोद्धारः कर्तव्यः । तत्र यदि वादी साधनमुक्त्वा कथानियमबन्धमिच्छति तदाऽऽरम्भविपर्यासः । यदाऽऽभासोद्धारानन्तरं साधनं प्रयुङ्क्ते तदा वादांशविपर्यासः । प्रतिवादी च यदा स्वपक्षे साधनमभिधाय परपक्षं दूषयति तदा वादविपर्यासः। धूमवत्त्वात्पर्वतोऽग्निमानित्यादिरवयवविपर्यासः । अग्निमान्पर्वत इत्यवयवांशविपर्यासः । एवं वादजल्पयोः पञ्चविधो विपर्यासः । वितण्डायां तु प्रतिवादिनः साधनाभावाद्बाधविपर्यासाभावेन चत्वार एव विपर्यासा इति । अयं क्रमविपर्यासोऽप्राप्तकालमित्येवोक्ते लिङ्गविभक्तिवर्णविपर्यासात्मके निरर्थकेऽतिव्याप्तिः । अतो वादवादांशेत्यादि । अत्रोपलक्षणतयैकमवयवविपर्यासमुदाहृत्य दर्शयति ।। यथेति । इत्यादीत्यादि शब्देनाग्निमान्पर्वत इत्याद्यवयवांशविपर्यासस्य ग्रहणम् । विपर्ययेण प्रयोगेऽप्यर्थप्रतीतेः सम्भवात् । अपशब्दतन्नियमकथायामेवैतन्निग्रहस्थानं न सर्वकथास्विति नैयायिकैकदेश भूषणकारमतमाश्रित्यापाततोऽस्य निग्रहस्थानत्वमेव नेत्याह ।। इदमिति । किञ्चित्कथारम्भ विपर्यासा दीनां पञ्चानां मध्ये न किञ्चिदपि निग्रहस्थानमित्यर्थः । कुत इत्यत आह ।। प्रवृत्तीति । अनुपक्षिप्ते वादिसाधने निराश्रयदोषोद्भावनासम्भवात् । कथारम्भवादांशविपर्ययोर्निग्रहस्थानत्वमेवोपक्षिप्तम् । दूष्यमदूषयित्वा प्रतिवादिनः स्वपक्षसाधनानर्हत्वेन वादविपर्यासोऽपि निग्रहस्थानमेव । अवयवतदंशयोः क्रमावश्यम्भावस्य प्रथमाध्याय एव चर्चितत्वादवयवतदंश विपर्यासावपि निग्रहस्थाने । अर्थ प्रतीतिसम्भावनामात्रेण प्रयोगाङ्गीरे तत्प्रमादिवादभूतदिवेदिवेत्यादीनामपि प्रसङ्ग इत्युदयनाद्युक्तबाधकेनास्य निग्रहस्थानत्वमङ्गीकृत्यन्तर्भावमाह ।। निग्रहस्थानं त्विति । निग्रहस्थानं चेदपीत्यर्थः । असङ्गतिरेवेति । अनाकाङ्क्षिताभिधानत्वस्य स्पष्टत्वादिति भावः ।
भावदीपः
।। न निग्रहस्थानमिति । पराजयाहेतुरित्यर्थः । तत्र हेतुःप्रवृत्तीत्यादि । प्रवृत्तिसामर्थ्यात्समर्थप्रवृत्तिजनकत्वादर्थवत्सदर्थविषयकं प्रमाणमित्यर्थः । न्यायसूत्रे प्रतिज्ञाहेत्वोर्व्यत्यासेन तथाम्नायस्य क्रियार्थत्वादानर्थक्यमिति जैमिनिसूत्रे । ईक्षतेर्नाशब्दमिति व्याससूत्रादौ च व्यत्यासेन निर्देशेन सतामेव व्यवहारादित्यर्थः । क्वचित्संव्यवहारादिति पाठः । नन्वेवमादेरनिग्रहस्थानत्वे प्रमाण लक्षणग्रन्थोक्तदिशाऽऽभासोद्धारानन्तरं साधनमुपन्यस्यति । संवादविपर्यास इत्यादेरपि निग्रहस्थानत्वमस्तीत्यत आह ।। निग्रहस्थानं त्विति ।
श्रीविजयीन्द्रतीर्थ
।। क्रमेति । कथासम्प्रदायागतक्रमेत्यर्थः । अस्य निग्रहस्थानत्वं दूषयति ।। इदमिति ।। प्रवृत्तीति । प्रमाणप्रमेयादिसूत्रेण प्रमाणादिपदार्थानां प्रतिपाद्यते उक्ते प्रमाणस्य प्रतिपाद्यतां प्रयोजकयोजनवत्त्वोपपादनार्थं प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमिति भाष्ये न्यायभाष्यकृतोपलक्षितेन हेतोः प्रथमप्रयोगेण सम्प्रदायनियम एवासिद्ध इति तद्विपर्यासो न दोष इति भावः । किं तर्ह्यत्र निग्रहस्थानमित्यत आह ।। निग्रहेति । साध्यानुक्तौ हेत्वाकाङ्क्षाविरहादिति भावः।
श्रीवेदेशभिक्षु
।। क्रमेति ।कथायां विवक्षितक्रमेत्यर्थः । अयमिह वादजल्पयोर्विवक्षितक्रमः । सभ्यादिसङ्ग्रहपुरःसरं कथानियमबन्धे कृते वादिना प्रमाणत्वात्स्वपक्षे प्रमाणमभिधायाभासोद्धारः कर्तव्य इति प्रतिवादिनाऽपि वादिसाधनमनूद्य दूषयित्वा स्वपक्षे प्रमाणमभिधायाभासोद्धारः कर्तव्य इति । तत्र यदि वादी साधनमुक्त्वा कथानिबन्धमिच्छति तदाऽऽरम्भविपर्यासः । यदाभासोद्धारानन्तरं साधनं प्रयुङ्क्ते तदा वादांशविपर्यासः । प्रतिवादी च यदा स्वपक्षसाधनमभिधाय परपक्षं दूषयति तदा वादविपर्यासः । धूमवत्त्वात्पर्वतोऽग्निमानित्याद्यवयवविपर्यासः । अग्निमान्पर्वत इत्याद्यवयवांशविपर्यासः । वितण्डायां तु प्रतिवादिनः स्वपक्षसाधनाभावाद्वादविपर्यासाभाव इति । तत्रोपलक्षणत्वेनावयवविपर्यासमेवोदाहरति ।। यथेति । उक्तविपर्यासेष्ववयवांशविपर्यासरूपं किञ्चिन्निग्रहस्थानमेव न भवत्यतोऽन्तर्भावमेव नार्हति । अवशिष्टं तु भवति निग्रहस्थानम् । तच्चासङ्गत्यन्तर्भूतमित्याह ।। इदमित्यादिना ।। अर्थवदिति । अर्थाव्यभिचारीत्यर्थः । आदिपदेनानित्यः शब्दइत्याद्यभियुक्तप्रयोगसङ्ग्रहः । उक्तरीत्याऽवयवप्रयोगे नियमाभावादिति भावः ।। असङ्गतिरेवेति । समयबन्धानुसारेणैवाकाङ्क्षोदयेन तद्विपर्यासेनाकाङ्क्षिताभिधानत्वेनासङ्गतित्वमिति भावः ।
अभिनवामृतम्
।। क्रमेति । विवक्षितक्रमविपर्यास इत्यर्थः । अयं हि वादजल्पयोः क्रमः । सभ्यादिसङ्ग्रहपुरःसरं कथानियमम्बन्धे कृते वादिना प्रमाणमभिधाय आभासोद्धारः करणीय इति वादिनाऽपि वादिसाधनमनूद्य दूषयित्वा स्वपक्षे प्रमाणमभिधायोद्धारः करणीय इति । तत्र यदि वादी साधनमुक्त्वा कथानियमबन्धमिच्छति तदाऽऽरम्भविपर्यासः । यदि मया वक्ष्यमाणस्य हेतोरसिद्ध्यादिकं नास्तीत्याभासोद्धारानन्तरं साधनं प्रयुङ्क्ते तदा वादांशविपर्यासः । प्रतिवादी च यदा स्वपक्षे साधनं विधाय परपक्षं दूषयति तदा वादविपर्यासः । धूमवत्त्वात्पर्वतोऽग्निमानित्याद्यवयवविपर्यासः । अग्निमान्पर्वत इत्याद्यवयवांशविपर्यासः । वितण्डायां तु प्रतिवादिनः साधनाभावान्न वादविपर्यास इति ।। इदं किञ्चिदिति । अवयवविपर्यासत्वेनावयवांश विपर्यासत्वेन चोदाहृतम् । किञ्चिदिदं न निग्रहस्थानमित्यर्थः ।। निग्रहस्थानं त्विति । यदारम्भविपर्यासादिकं निग्रहस्थानं तदसङ्गतावन्तर्भूतमित्यर्थः ।
आदर्शः
।। क्रमविपर्यासोऽप्राप्तकालमिति । अयमिह क्रमः सभ्यादिसङ्ग्रहपुरःसरं कथानियमबन्धे कृते वादिना प्रमाणमभिधायाभासोद्धारः कर्तव्य इति प्रतिवादिना साधनमनूद्य दूषयित्वा स्वपक्षे प्रमाणमभिधायाभासोद्धारः करणीय इति । तत्र यदि वादी साधनमुक्त्वा नियमबन्धमिच्छति तदाऽऽरम्भविपर्यासः । यद्याभासोद्धारानन्तरं साधनं प्रयुङ्क्ते तदा वादांशविपर्यासः । स्वपक्षे साधनमनभिधाय परपक्षं दूषयति तदा वादविपर्यासः । धूमत्वात्पर्वतोऽग्निमानित्यवयवविपर्यासः । अग्निमान्पर्वत इत्यवयवांशविपर्यासः । वितण्डायां तु प्रतिवादिनः साधनाभावाद्वादविपर्यासाभाव इति ।। इदं किञ्चिदिति । अवयवविपर्यासस्तदंशविपर्यासो वादविपर्यासश्चेति त्रयं न निग्रहस्थानमित्यर्थः । अवयवनियमस्य खण्डितत्वात् । विपर्यासस्य स्वपक्षसाधनपरपक्ष निराकरणविषयेऽज्ञानासाधकत्वाच्च । नन्वारम्भविपर्यासस्तावन्निग्रहस्थानं भवत्येव । कथानियमात्पूर्वं साधनस्यानाकाङ्क्षितत्वात् । अवयवस्थाननिरासाय कथानियमस्यैवाकाङ्क्षितत्वात् । एवं वादांशविपर्यासोऽपि । वादिना स्वपक्षोक्त्यनन्तरं तत्र प्रथमतः प्रमाणाकाङ्क्षाया जायमानत्वात् । अन्यथाऽप्रमितार्थसिद्ध्यर्थं पुरःस्फूर्तिकानां प्रमितत्वेन प्रतीयमानानामाभासानामुद्धारस्याशक्यत्वात् । कथानियमे कृते चोक्तविपर्यासत्रयस्यापि दूषणत्वं सम्भवति । कथाविशेषे उक्तक्रमनियमस्यापि कृतत्वसम्भवात् । एवं च यादृशकथायां क्रमनियमोऽपि बन्धितस्तत्र नियमबन्धानुसारेणैवाकाङ्क्षाया उदयात् । तादृशाकाङ्क्षानिवर्तनानुकूलत्वात् प्रत्युतानाकाङ्क्षिताभिधानरूपत्वाच्च तदुक्तेरित्यत आह ।। निग्रहस्थानत्वं त्वसङ्गतिरेवेति । न हि क्रमविपर्यासत्वेन हेतुता किन्त्वनाकाङ्क्षिताभिधानत्वेन रूपेणैवेत्यसङ्गतिरेवेत्यर्थः । नन्वसङ्गतिस्थलेऽपि वादिप्रतिवादिनोरन्यतरस्य स्वपक्षसाधनाद्यज्ञानानुमानसम्भवेन कथं निग्रहस्थानत्वं स्वपक्षसाधनोत्तरं यत्किञ्चिदुक्तेः सत्त्वेऽपि स्वपक्षसाधनस्यैव हेतूक्त्यादिना सिद्धेरिति चेत् । इत्थम् । वाक्यसामान्यस्य परार्थत्वेन वाक्यस्य तदाकाङ्क्षिताभिधायकत्वमावश्यकम् । अन्यथा वैय्यर्थ्यादनुपादेयत्वापत्तेः । प्रवृत्ति सामान्यं प्रतीष्टसाधनज्ञानस्यानिष्टनिवर्तकत्वज्ञानस्य वा कारणत्वस्य क्लृप्तत्वात् । परज्ञानसाधनवाक्यविशेषे इष्टसाधनताज्ञानोत्तरं तदर्थं प्रवृत्तिः स्यात् । तच्च तज्ज्ञाने इष्टसाधनताज्ञान एव सम्भवति नान्यथेति । स्ववाक्यसाध्यज्ञाने परेष्टत्वज्ञानस्यापेक्षितत्वेनानाकाङ्क्षिते आकाङ्क्षितत्वरूपभ्रमानुमापकत्वं सम्भवति । तदभावेऽपि प्रवृत्तौ वाक्योच्चारणे क्लृप्तकारणाभावेनाक्लृप्तस्य मौर्ख्यादेरेव दोषस्य तत् प्रवृत्तिकारणस्य सिद्धिर्भवति । अकारणकार्यस्यानुपपत्तेरित्यसङ्गतेर्दोषता युज्यते । न चासङ्गतिस्थले आकाङ्क्षितानुक्तिरेव दोषोऽस्तु । तथा चास्य पृथङ् निग्रहस्थानत्वं न युज्यत इति चेन्न । उक्तेः सत्त्वेनानुक्तेः प्रथममनुपस्थितेः । आकाङ्क्षितोक्त्यनन्तरमनाकाङ्क्षितस्थले त्वसङ्गतिरेवोद्भाव्याऽनुक्तेरसम्भवादिति द्रष्टव्यम् ।
वाक्यार्थमञ्जरी
।। प्रवृत्तिसामर्थ्यादिति । फलवत्प्रवृत्तिजनकत्वादित्यर्थः । अत्र हेतोरेव प्रथमतो ग्रहणादिति भावः ।
श्रीविट्टलभट्ट
।। क्रमविपर्यास इति । अयं हि वादजल्पयोः क्रमः सभ्यादिसङ्ग्रहपुरःसरं कथानियमबन्धे कृते वादिना प्रमाणमभिधायाभासोद्धारः कर्तव्यः । प्रतिवादिना वादिसाधनमनूद्य दूषयित्वा स्वपक्षे साधनमभिधायाभासोद्धारः कर्तव्यः । तत्र यदि वादी स्वपक्षसाधनमभिधाय कथानियमबन्धमिच्छति तदाऽऽरम्भविपर्यासः । यदाऽस्योद्धारानन्तरं साधनं प्रयुङ्क्ते तदा वादांशविपर्यासः । प्रतिवादी यदि स्वपक्षे साधनमभिधाय परपक्षं दूषयति तदा वादविपर्यासः । यदा प्रतिज्ञा हेतूदाहरणानां वैपरीत्येन प्रयोगमिच्छति तदाऽवयवविपर्यासः । वितण्डायां तु प्रतिवादिनः स्वपक्षसाधनाभावाद्वादविपर्यासाभाव इत्यवगन्तव्यम् । तथा चारम्भादिक्रमवैपरीत्य प्राप्तमप्राप्तकालमित्यर्थः । यथेति । कृतकत्वादिति हेतोः प्रथमं प्रयोगादवयवविपर्यासः ।। अनित्य इति । साध्यवचनस्य प्रथमं प्रयोगादवयवांशविपर्यासश्च प्रदर्शितो भवति । आरम्भविपर्यासादिरादिशब्दार्थः ।। इदं किञ्चिदिति । इदमप्राप्तकालं किञ्चिदवयवविपर्यासादिरूपं न निग्रहस्थानमित्यर्थः । तत्र हेतुमाह ।। प्रवृत्तिसामर्थ्यादिति । आदिपदेनात एव प्रमाणम् इत्यादेर्ग्रहणं कृतम् । शास्त्रेष्वेवमविगीतव्यवहारान्न तन्निग्रहहस्थानम् ।। असङ्गतिरेवेति । आरम्भविपर्यासादिरूपं निग्रहस्थानं त्वनाकाङ्क्षिताभिधान रूपत्वादसङ्गतिरेवेत्यर्थः ।