प्रमाणपद्धतिः
योग्येतरान्विताभिधानवादः
(५) प्रमाणपद्धतिः
ननु समयो नाम पदानां पदार्थानां च वाच्यवाचकभावसम्बन्धः । स च सम्बन्धिष्वज्ञातेषु ज्ञातुमशक्य इति पदार्थज्ञानस्य प्रागेव सिद्धत्वात्किमागमस्य प्रयोजनम् । उच्यते । यथा ज्ञातयोरपि धर्मधर्मिणोः संसर्गोऽनुमानेन बोध्यते । तथा ज्ञातानामेव पदार्थानामन्वयविशेषस्यागमो बोधकः । पदानां पदार्थमात्रविषयत्वेनान्वयबोधकं न किञ्चिदस्तीति चेत् । अत्र वर्णपदाभिव्यक्तोऽखण्डः स्फोटाख्यः शब्दोऽन्वयबोधक इति वैयाकरणा ब्रुवते । वर्णमालेत्यपरे । वाक्यान्त्यो वर्ण इत्यन्ये । पदानां सान्निध्यमिति केचित् । पदैरभिहिताः पदार्था एवाकाङ्क्षादिशालिन इति भाट्टाः । सर्वेषां पक्षाणामप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च पदान्येवान्वितस्वार्थाभिधायिनीति प्रेक्षावन्तः । तत्र प्रत्येकमपि पदान्वयविशेषाभिधानसमर्थानीति प्राभाकराः । प्रत्येकं सामान्यतो योग्येतरान्वितस्वार्थाभिधानशक्तीनि पदानि पदान्तरसन्निधानाहितशक्त्यन्तराणि विशेषतोऽप्यन्वितान्स्वार्थानभिदधति । तथाऽनुभवादित्याचार्याः ।
जयतीर्थविजय
।। नन्विति ।। प्रागेवेति । समयप्रतिपत्तेरिति शेषः ।। यथेति ।। ज्ञातयोरिति । व्याप्तिग्रहकाल इति शेषः ।। धर्मधर्मिणोरिति । साध्यपक्षयोरित्यर्थः ।। पदानामिति ।। पदार्थमात्रविषयत्वेनेति । तत्तन्मात्रप्रतिपादकत्वेनेत्यर्थः ।। न किञ्चिदिति । समुदायभूतपदापेक्षयाऽतिरिक्त समुदायाभावादिति भावः ।। अत्रेति । अस्मिन् प्रचोद्य इत्यर्थः । अखण्डो नित्य इत्यर्थः । स्फोटे प्रमाणं नास्तीति विष्णुतत्त्वनिर्णयटीकायां प्रतिपादितत्वादेतदनुपपन्नमिति ज्ञेयम् ।। वर्णमालेति । एतन्मते गौरश्वः पुरुषो हस्तीत्यादेरप्यन्वयबोधापत्तिरिति दूषणं द्रष्टव्यम् ।। वाक्यान्त्य इति । एतन्मतेऽश्रुतपूर्ववर्णस्याप्यन्त्यवर्णश्रवणमात्रेणान्वयबोधापत्तिः । पूर्ववर्णानुभवजनितसंस्कारसहकृत इत्यादि विशेषणदाने चास्मत्सिद्धान्तानतिरेक इति दूषणं द्रष्टव्यम् ।। पदानामिति । अत्रापि गौरश्वः पुरुष इत्यादिपदजातादन्वयबोधापत्तिरिति दूषणं द्रष्टव्यम् ।। पदैरिति । अत्रापि पदार्थानामतीतानागतादिरूपत्वेनान्वयबोधकत्वं न सम्भवति । शब्देनायमर्थो ज्ञात इत्यनुभवबाधश्च । गौरश्वः पुरुषो हस्तीत्यन्वयबोधापत्तिरिति दूषणानि द्रष्टव्यानि ।। सर्वेषामिति । अत्राप्रामाणिकत्वमुक्तप्रकारेण पञ्चस्वपि पक्षेषु द्रष्टव्यम् । प्रमाणविरुद्धत्वात्पदैरेवामुमर्थं प्रत्येमीत्यनुभवरूपप्रमाणविरुद्धत्वादित्यर्थः । पदैरेवामुमर्थं प्रत्येमीति साधारणानुभवादिति भावः ।। अन्वितेति । स्वसमभिव्याहृतेतरपदार्थान्वितेत्यर्थः ।। प्रेक्षावन्त इति । प्राभाकरा वयं चेत्यर्थः । ननु पदानामन्विताभिधानविषये प्राभाकराणामस्माकं च किं सर्वात्मना साम्यं नेत्याह ।। तत्रेति । पदानामेवान्वितस्वार्थाभिधायित्वे सिद्धे सतीत्यर्थः ।। प्रत्येकमपीति । पदान्तरसमभिव्याहारेऽपीत्यर्थः ।। इति प्राभाकरा इति । वस्तुतस्तु नैवम् । आकाङ्क्षादिमत्पदान्तरसमभिव्याहारेणैव विशेषान्वयलाभे सति तत्र पदानां सामर्थ्यकल्पने मानाभावादिति भावः । प्राभाकरग्रहणसूचितं तन्मतविलक्षणं स्वमतमाह ।। प्रत्येकमिति । पदान्तरसमभिव्याहारेऽपीत्यर्थः ।। सामान्यत इति । न विशेषत इत्यर्थः । अनेन प्राभाकरमतं प्रतिक्षिपति । तथा च सामान्यान्विते पदानां शक्तिरिति स्वमतमिति सूचयति । आवापोद्वापाभ्यां प्राथमिकव्युत्पत्तिकाले प्राथमिकव्युत्पत्तिहेतुनाऽन्वितविषयकेण व्यवहारेण सामान्यतो योग्येतरान्वित एव पदानां शक्तिग्रहादिति भावः । तदुक्तमनुव्याख्याने ।
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ।
अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथेति ।
अत्र बहु वक्तव्यमस्ति । विस्तरभयादुपरम्यते । ननु पदानां विशेषान्विते शक्त्यभावे कथं तद्विशेषान्वयबोध इत्यत आह ।। पदान्तरेति । पदान्तरसन्निधानमेवाहितशक्त्यन्तरमेषां तानीत्यर्थः । न तु पदान्तरसन्निधानेनाहितशक्त्यन्तरमाधेयशक्तिर्येषामित्यर्थः । शक्तिद्वयाङ्गीकारे गौरवात् । पदान्तरसमभिव्याहारो हि सामान्यस्य विशेषे पर्यवसान एव हेतुर्न पुनरविद्यमानशक्त्याधान इति सुधाविरोधाच्च । पदानां सामान्यान्विताभिधायित्वे किं मानमित्यत आह ।। तथेति । प्राथमिकव्युत्पत्तिकाले क्रियाश्रवणे कारकविशेषजिज्ञासायां कारकमात्रश्रवणे च क्रियाविशेषजिज्ञासा च जायते । पदात् सामान्यान्वयज्ञानाभावे विशेषजिज्ञासा च न स्यात् । तस्याः सामान्यान्वयज्ञानसाध्यत्वादिति भावः ।
भावदीपः
पदानामर्था एवागमार्थ इति मत्वा शङ्कते ।। नन्विति । पदार्थेभ्योऽन्योऽस्त्यागमार्थ इति सदृष्टान्तं प्रतिज्ञापूर्वमाह ।। उच्यत इत्यादिना । अन्वयविशेषस्य क्रियाकारकादिरूपान्वयविशेषस्येत्यर्थः । अन्वयसामान्यस्यापि पदार्थस्येव पदेनैव पदान्येवेत्यादिना वक्ष्यमाणदिशा बोध्यत्वादन्वयविशेषस्येत्युक्तम् । घटकर्मकमानयनमित्यादिरूपविशेषस्य पदकदम्बकरूपागमो बोधक इत्यर्थः । आगमस्यान्वयविशेषबोधकत्वेनोक्तं सार्थक्यमयुक्तमिति शङ्कते ।। पदानामिति । इति चेच्छङ्कसे । अत्र त्वच्छङ्कितार्थविषय इत्यर्थः । वर्णमालेत्यादावन्वयविशेषबोधिकेत्यादिरूपेण यथा योगमनुषज्यते । स्मर्यमाणा वर्णमालेत्यर्थः । अप्रामाणिकत्वात्प्रमाणविरुद्धत्वादिति । पदानामेव सामान्यतो योग्येतरान्वितस्वार्थबोधकत्वस्य सर्वानुभवसिद्धत्वात्स्फोटादिनाऽन्वयबोधस्यानानुभाविकत्वादिति भावः । स्फुटीकृतमेतद्धेतुद्वयं
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ।
अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा ।।
इति जिज्ञासाधिकरणानुव्याख्यानस्थचतुर्थपादव्याख्यानावसरे सुधायाम् । प्रपञ्चितं च तर्कताण्डवेऽन्विताभिधानवादे ।। तत्रेति । पदान्येवान्वितस्वार्थाभिधायिनीत्युक्तार्थविषये प्राभाकरा इत्याहुरित्यर्थः । पदान्तरसन्निधानाहितशक्त्यन्तराणीति बहुव्रीहिः । व्याख्यातमेतद्वाक्यं तर्कताण्डवे । पदान्तरसन्निधानमेवाहितशक्त्यन्तरं लब्धसहकार्यन्तरमेषामित्यर्थः । न तु पदान्तरसन्निधानेनाहितं शक्त्यन्तरमाधेयशक्तिर्येषामित्यर्थः । शक्तिद्वयाङ्गीकारे गौरवात् । पदान्तरसमभिव्याहारो हि सामान्यस्य विशेषपर्यवसानहेतुः । न पुनरविद्यमानशक्त्याधाने हेतुरिति सुधाविरोधश्चेति ।। इत्याचार्या इति ।
अतः सामान्यतो ज्ञातः पदान्तरबलात्पुनः ।
भवेद्विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिता ।।
इत्यादि भक्तिपादीयानुव्याख्यानोक्तेर्युक्तिरपि तत्रैव ज्ञेयेति भावः ।
श्रीविजयीन्द्रतीर्थ
शब्दस्याज्ञातज्ञापकतां समर्थयितुं शङ्कते ।। नन्विति । समाधत्ते ।। उच्यत इति । शक्यं हि बोधनीयम् । न च पदार्थातिरिक्तोऽन्वयः शक्यस्तज्ज्ञापकतया प्रामाण्यमसम्भवतीति स्वाभिप्रायं शङ्कित्वाऽऽह ।। पदानामिति । परिहर्ताऽन्वयबोधकत्वं समर्थयन्मतान्तराणि निगदेनैव परिहृतान्याह ।। अत्रेति । प्रत्येकवर्णस्याबोधकत्वात् । शब्दानां नित्यविभुतया क्रमासम्भवेन तत्कृतविशेषानुपपत्तेरेकं पदमिदमिति व्यवहाराच्चाखण्डः स्फोटाख्यः शब्दपदैरभिव्यक्तौ बोधक इत्यर्थः । अत्राभिव्यञ्जकत्वं यादृशस्य तादृशस्यैव बोधकत्वं सम्भवतीति स्फुटोऽप्रामाण्याख्य इत्यभिव्यक्तिपदेन परिहारः सूचितः । द्वितीयादिपक्षद्वयं पदमालाभ्यामन्त्यवर्णं च शक्त्यन्तराभावादयुक्तम् ।। पदानामिति । सान्निध्यमुपलक्षणम् । आकाङ्क्षायोग्यतयोरपि । तथा च सान्निध्यादिसाहित्येन पदानां पदार्थशक्तानामन्वयबोधकत्वमिति फलितोऽर्थः । एतदप्ययुक्तम् । पदार्थशक्ततया ज्ञानेनान्वयबोधासम्भवात् । यच्छक्ततया पदं ज्ञायते तस्यैव बोधकत्वात् पदानामन्यथाऽतिप्रसङ्गादिति ।। पदैरिति । पदार्थोपस्थित्यैवान्वयबोधात्पदार्थोपस्थितौ च पदवृत्त्युपयोग इति न शक्येदेवेति भावः । एवं सत्यन्वयबोधस्य शब्दत्वं न स्यादिति पदार्था एवेति वदता परिहृतम् । पदार्थोपस्थितिद्वारा पदानामुपयोगशक्तिं विनाऽन्वयबोधोपयोगः शब्दस्यैव वृत्त्यैव बोधकत्वादिति भावः । गुरुः स्वमतसाधारणमंशमाह ।। सर्वेषामिति । गुरुमते विशेषमाह ।। प्रत्येकमिति । सामान्य एव शक्तिर्विशेषान्वयबोधानुकूलानुशक्तिः । पदान्तरसन्निधानाहितेत्यर्थः । तत्र प्रमाणमनुभव इति तथेत्यनेनोक्तम् । पदविशेषसन्निधानेऽन्वयविशेषानुभव इति तावदनुभवसिद्धम् । शब्दस्यानुभवः शक्तिसाध्योऽन्यथाऽतिप्रसङ्गात् । तत्र पदान्तरासन्निधाने सामान्यशक्तावपि विशेषबोधानुकूलं शक्त्यन्तरमेव वाच्यमिति भावः ।
श्रीवेदेशभिक्षु
ननु त्वन्मतेऽपि शक्तिग्रहकाले सर्वगोव्यक्त्युपस्थित्यसम्भवात्कथं गोशब्दस्य सर्वगोव्यक्त्युपसंहारेण शक्तिग्रहः । अनुगतसामान्यस्यानङ्गीकारात् । आनन्त्यव्यभिचारपरिहारोपायानुपन्यासाच्चानुपपत्तिरवशिष्टेत्यत आह ।। समर्थेति । व्युत्पत्तिरपि हि सादृश्येनैव गम्यत इति तदुक्तेरिति भावः । उपधानं लिङ्गं न शब्दशक्तिविषयतया प्रवृत्तिनिमित्तम् । यथा गन्धवत्त्वं पृथिवीपदप्रवृत्तिनिमित्तमपि तद्वाच्यत्वे लिङ्गमित्यर्थः । एवं च न युगपदेन सर्वत्र शक्तिग्रहः । येन सर्वव्यक्त्युपस्थितिरपेक्षिता स्यात् । किञ्चित्सन्निकृष्टव्यक्तिषूपदेशादिनैव शक्तिग्रहेऽनन्तरमसन्निकृष्टव्यक्तिष्वनुमानेनैव शक्तिग्रह इति भावः । अस्ति तावत्सादृश्यं नाम पदार्थान्तरमखण्डं प्रत्यक्षादिसिद्धम् । सङ्गतिग्रहणोपायाश्चानेके । तत्र यदा परोपदेशेन व्युत्पत्तिस्तदाऽयं गौरित्युपदेशवाक्यं व्याप्तिग्राहकतयोपयुज्यते । वक्तृश्रोत्रोः सर्वत्र व्युत्पत्तिकामत्वेनोक्तवाक्यस्यायमेतत्सदृशाः सर्वेऽपि गोशब्दवाच्या इत्यर्थकत्वात् । यदा तु व्यवहारतो व्युत्पद्यते तदाऽपि भूयोव्यवहारादिदर्शनेन सादृश्यव्याप्यतावगमो भवति । ततश्चैतद्वाक्यादिना त्ववगतव्याप्तिः पिण्डान्तरदर्शनेऽनुमिनोति । अयं गोशब्दवाच्यो भवितुमर्हति तत्सदृशत्वादिति । आगमगम्यव्याप्तौ दृष्टान्तनियमाभावान्न दृष्टान्ताभावदोषः । न च गवये व्यभिचारः । सास्नादिमत्त्वप्रयुक्तान्तरङ्गसादृश्यस्यैव लिङ्गत्वात् । अन्यथा परमते उपमितौ गोसदृशपश्वेतरस्यापि गवयशब्दवाच्यताधीः स्यादिति सुधानुसारेण व्याख्येयम् । ननु तथाऽपि सर्वव्यक्त्युपस्थित्युपायानिरूपणेन सर्वोपसंहारेण व्याप्तिग्रहानुपपत्त्याऽनुमानेनापि शक्तिग्रहोऽनुपपन्न एवेति चेत् । सामान्याकारेण सर्वव्यक्त्युपस्थितेः साक्षिरूपत्वेन प्राणभृन्मात्रसिद्धत्वात् । तदुक्तमनुव्याख्याने । अतः सर्वे पदार्थाश्च सामान्यात्साक्षिगोचरा इति । यद्वा सादृश्यमुपधानं प्रत्यासत्तिरित्यर्थः । एवं च यथा परमते सामान्यप्रत्यासत्त्याऽशेषगोव्यक्त्युपस्थितौ तासु गोपदशक्तिग्रहस्तथाऽस्मन्मतेऽप्युपदेशव्यवहारादिना शक्तिग्रहकाले उपस्थितगोव्यक्तिविशेषधर्मिकातीतानागतसकलगोव्यक्तिप्रतियोगिकसादृश्यप्रत्यासत्तिकेन्द्रियेणैव सकलगोव्यक्त्युपस्थितिसम्भवेन तत्र शक्तिग्रहोपपत्तिः । इयांस्तु भेदः । त्वन्मते जातिरतीताद्याश्रिता । मन्मते तु सादृश्यं ध्वंसादिवत्सप्रतियोगित्वेन तत्सम्बद्धमिति । युक्तं च तदनाश्रितत्वेऽपि संस्कारवत्प्रत्यासत्तित्वेन तदुपस्थापकत्वम् । न च सादृश्यप्रतियोगित्वं व्यक्तिषु नानेति वाच्यम् । तवापि गोत्वसमवायस्याश्वादावपि सत्त्वेनाधारत्वमात्रस्य कालेऽपि सत्त्वेन स्वरूपसम्बन्धिविशेषाणामेव तत्तद्य्वक्तिरूपाणां गौरित्यादिधीनियामकत्वात् । पुरोवृत्तिगोव्यक्तौ चोक्तसादृश्यप्रतियोगित्वरूपसन्निकर्षाभावेऽपि प्रत्यभिज्ञायामिदमंशस्येन्द्रियसंयोगादिनैव तदुपस्थित्युपपत्तिः । अनुगतजातेश्चैतदपेक्षया लघुत्वेऽप्यप्रामाणिकत्वादस्यैव प्रत्यासत्तित्वम् । अनुगताकारबुद्धेर्गुणादावपि सत्त्वेनानुगत्यसाधकत्वात् । अनेकानुगतित्वे च जातेर्द्वित्वादिवद्यावत्स्वाश्रयं विनाऽप्रतीतिप्रसङ्गादिति तर्कताण्डवानुसारेण व्याख्येयम् ।। पदार्थज्ञानस्येति । उक्तरीत्या साक्षिरूपस्य वा सादृश्यविशेषप्रत्यासत्तिकेन्द्रियजन्यस्यैवेत्यर्थः । पदार्थमात्रस्येत्यर्थः । व्यक्तेरेव शक्यत्वेनोक्तत्वादिति भावः ।। न किञ्चिदिति । तथा चान्वयविशेषबोधकत्वेनागमस्य सार्थक्योपपादनं युक्तमिति भावः । अत्र स्वयं समाधातुमन्येषां समाधानानि तावदनूद्य दूषयति ।। अत्रेत्यादिना ।। वर्णपदाभिव्यक्त इति । अनेन पदवाक्यस्फोटसद्भावे प्रमाणं सूचितम् । तथा हि । वर्णाः पदानि च न प्रत्येकमर्थमुपस्थापयन्ति । समुदायोऽपि नाशुतरविनाशिनां सम्भवति । नित्यत्वेऽपि प्रतीयमानानामबोधकत्वेनाशुतरविनाशप्रतीतिसमुदायस्याप्यसम्भवेन तावद्वर्णपदविषयकैकसमूहालम्बनाङ्गीकारे चावश्यकक्रमानुपपत्त्याऽर्थप्रतीत्यनुपपत्त्युपपत्तेः । एतावत्पदाभिव्यक्तमेकं स्फोटाख्यं वाक्यं चाङ्गीकर्तव्यमित्यर्थप्रत्यायकत्वान्यथाऽनुपपत्तिरेव तत्र च मानम् । तस्य चाखण्डत्वेन तत्रापि प्रत्येकसमुदायपक्षोक्तदूषणानवकाश इत्याह ।। अखण्ड इति । एकवचनेन चानेकेष्वपि वर्णेषु पदेषु चैकं पदमेकं वाक्यमित्येकत्वोल्लेखिप्रत्यक्षप्रतीतिरपि तत्र मानमिति सूचयति ।। सान्निध्यमिति । आकाङ्क्षादिमत्पदसमभिव्याहारविशेष इत्यर्थः ।। सर्वेषामिति । तथा हि । तावताद्यपक्षस्फोटेऽर्थापत्तिरूपप्रमाणमुपन्यस्तम् । तदनुपपन्नम् । अप्रतीतस्यार्थप्रत्यायकत्वेऽतिप्रसङ्गेन प्रमाणान्तरस्य च तत्प्रापकस्याभावेन तयैवार्थापत्त्या तत्प्रतीतावितरेतराश्रयत्वप्रसङ्गात् । प्रतीते हि स्फोटेऽर्थप्रतीतिस्तस्यां च सत्यां तदन्यथाऽनुपपत्त्या स्फोटप्रतीतिरिति । न चैकं पदमेकं वाक्यमित्येकार्थावलम्बिनी प्रत्यक्षप्रतीतिस्तत्र प्रमाणान्तरमस्तीत्युक्तमिति वाच्यम् ।
अनेकेषु वृक्षेष्वेकं वनमिति प्रतीतिवदुपपत्तेः । अन्यथा तत्राप्यनेकवृक्षातिरिक्तैकवनस्वीकारापत्तिः। न च तत्रानेकेषामेकस्थानस्थितत्वोपाधिनैक्यप्रतीतिः । अत्राप्येकार्थप्रत्यायकत्वोपाधिनैक्यप्रतीतिसम्भवात् । एकार्थप्रत्यायनं च नानुपपन्नम् । एकस्मृतिसमारूढानां तदुपपत्तेः । अनुभवक्रमोपहितानामेव तेषां स्मृत्यावगाहनान्न क्रमानुपपत्तिरिति हि व्यवस्थापितमधस्तात् । अन्वयप्रतीतेश्चान्यथोपपादयिष्यमाणत्वात् । एवमप्रामाणिके स्फोटेऽर्थप्रत्ययेन शक्त्यङ्गीकारे च कल्पनागौरवपराहतेश्च । नापि द्वितीयः पक्ष उपपद्यते । प्रमाणाभावात् । अन्वयप्रत्ययस्य च वक्ष्यमाणरीत्याऽन्यथोपपन्नस्य त्वत्पक्षानपेक्षत्वात् । प्रमाणान्तरस्य चादर्शनात् । क्रमोपेतानां द्वित्राणां पञ्चषाणां वर्णानां स्मरणसम्भवेऽपि महावाक्यस्थानां शतसहस्रसङ्ख्याकानां स्मरणं दुःशकमेवेत्यनुभवविरोधाच्च । वक्ष्यमाणरीत्या लघूपाये सम्भवति प्रयासगौरवकल्पनापराहतेश्चेति । तृतीयेऽप्युक्तरीत्या प्रमाणाभावः स्पष्ट एव । युक्तिविरोधश्च । केवलस्यान्त्यवर्णस्यान्वयप्रत्यायकत्वे पूर्ववर्णोच्चारणवैय्यर्थ्यप्रसङ्गेन पूर्ववर्णक्रमविस्मृतावन्वयाप्रत्यायकत्वेन च पूर्ववर्णैः सहैकस्मृत्युपारूढस्य तस्य वाक्यार्थप्रत्यायकत्वे वाच्ये स्मृतिस्था वर्णाः पदत्वेनानुसङ्गृहीता वाक्यार्थमवगमयन्तीत्यस्मदभिमतस्यैव प्राप्तत्वेन बकबन्धरीतिप्रसङ्गादिति । चतुर्थपञ्चमपक्षयोरप्यन्वयबोधे उपायान्तरस्य वक्ष्यमाणत्वेन प्रमाणान्तरस्यानिरूपणे न प्रमाणाभावो व्यक्त एव । समभिव्याहारस्य पदार्थानां वा प्रमाणान्तरतापत्तिरुभयत्रान्वयस्याशब्दत्वापत्तेश्चेति । अन्विताभिधानवादिनां समाधानमाह ।। पदान्येवेति । प्रेक्षावन्त इत्यनेनेदमेव स्वसमाधानमपीति सूचयति । ननु पदानां स्वार्थे तदन्वये च शक्तिद्वयकल्पने गौरवमित्यत उक्तमन्वितस्वार्थाभिधायिनीति । एकयैव शक्त्याऽन्वितस्वार्थाभिधानाङ्गीकारान्न गौरवमिति भावः । न चैवं व्यक्तय एवेत्युक्तावधारणविरोधः । तस्य प्रवृत्तिनिमित्तव्यवच्छेदकमात्रार्थत्वेनान्वयाव्यावर्तकत्वात् । न चायमपि पक्षोऽप्रामाणिकः । प्राथमिकव्युत्पत्तिहेतुनाऽन्वितविषयकेण व्यवहारेणेतरान्वित एव शक्तिग्रहस्य प्रेक्षावदनुभवसिद्धत्वात् । वाक्यार्थस्य शाब्दत्वान्यथाऽनुपपत्तिश्चात्र मानम् । न चान्वयस्य पदशक्यार्थप्रतियोगित्वरूपपरम्परासम्बन्धेन शाब्दत्वोपपत्तिरिति वाच्यम् । पदप्रवृत्तिविषयत्वे लक्षणसाक्षात्सम्बन्धस्यैव शाब्दत्वमर्यादाहेतुत्वात् । अन्यथा शक्यघटसम्बन्धिगुरुत्वादेरपि घटपदात्प्रतीतिप्रसङ्गः । अन्विताभिधानेऽपि विशेषं वक्तुं प्राभाकरमतं तावदनुपोदयत्वज्ञापनायानुवदति ।। तत्रेति । अन्विताभिधानेऽपीत्यर्थः । अत्रेदमनभिमतिबीजम् । क्रियापदेनानयनरूपे क्रियाविशेषेऽभिहिते घटपदेन तदन्वितघटाभिधानम् । एवं घटपदेन घटरूपे कारकविशेषेऽभिहिते क्रियापदेन तदन्वितक्रियाभिधानमित्यन्योन्याश्रयत्वम् । पदार्थवैय्यर्थ्यं च । अत एवैतद्दोषद्वयसूचनाय प्रत्येकमपि पदानीत्युक्तम् । न च वाच्यं पदानां प्रथमं पदार्थाननन्वितानभिधाय पश्चादन्योन्यान्वितांस्तानेवाभिदधतीति क्वान्योन्याश्रयत्वमिति । द्विरभिधानकल्पनाया अप्रामाणिकत्वात् । अचेतनेषु विरम्यव्यापारानुपपत्तेश्च । अथाऽपि स्यात् । प्रथमं पदानि साहचर्यवशादनन्वितस्वार्थान्स्मारयन्ति । पश्चादितरेतरस्मारितेनार्थेनान्वितस्वार्थानभिदधतीति न पदान्तरवैय्यर्थ्यम् । नापीतरेतराश्रयत्वमिति । मैवम् । सर्वदैव हि पदान्वितेनैव स्वार्थेन गृहीतसाहचर्याणि न केवलेन । तानि कथं केवलं पदार्थमात्रं स्मारयितुमीशते । यथानुभवं हि स्मरणेनोत्पत्तव्यं न तु प्रयोजनमनुसृत्य । तथा चोक्तम् । दोषद्वयमपरिहार्यमिति । इदानीमेतद्दोषद्वयसमाधानाय श्रीमदार्यसूर्यभिमतान्विताभिधानमाह ।। प्रत्येकमिति । अतः सामान्यतो ज्ञातः पदान्तरबलात्पुनः । भवेद्विशेषतो ज्ञातस्तेन स्यादन्वितोक्तितेति तदुक्तेरिति भावः । प्रत्येकं हि पदानि सामान्यत आकाङ्क्षितसन्निहितयोग्येतरान्वितस्वार्थाभिधानसामर्थ्यानि न पदान्तरमपेक्षन्त इति नान्योन्याश्रयत्वम् । पदानां सामान्यतो योग्येतरान्वितस्वार्थाभिधायकत्वेऽन्वयविशेषजिज्ञासा न स्यात् । सामान्यतो ज्ञाते हि विशेषजिज्ञासा दृष्टा । न च पदं विनाऽन्यत्सामान्यतोऽन्वयज्ञानजनकं क्लृप्तम् । अनुमानेन कल्पनस्य चानानुभाविकत्वादिति भावः । नन्वथाऽप्यत्र विशेषान्वयप्रतिपत्तिर्निर्निबन्धना पदान्तरं च न प्रयोजनवदित्यत उक्तं पदान्तरेति । अयं भावः । पदान्तरस्य विशेषान्वयप्रतीतार्थत्वेनैव सार्थक्यम् । न चैवं पदानां प्रत्येकं सामान्यतो योग्येतरान्वये शक्तिः । पदान्तरसमभिव्याहारेण विशेषान्वये च शक्तिरिति कल्पनागौरवमिति वाच्यम् । या शक्तिः पदान्तरसमभिव्याहारनिरपेक्षा सामान्यान्वयबोधिका तस्या एव पदान्तरसमभिव्याहारसापेक्षाया विशेषान्वयबोधे पर्यवसानाङ्गीकारात् । न चैवं पदान्तरसन्निधानाहितशक्त्यन्तराणीत्यनुपपन्नमिति वाच्यम् । पदान्तरसन्निहितमेवाहितशक्त्यन्तरं लब्धं सहकार्यन्तरं येषामित्यर्थत्वात् । न तु पदार्थसन्निधानेनाहितं शक्त्यन्तरमाधेया शक्तिर्येषामिति शक्तिद्वयाङ्गीकारगौरवात् । पदान्तरसमभिव्याहारो हि सामान्यस्य विशेषपर्यवसान एव हेतुर्न पुनरविद्यमानशक्त्याधानमिति सुधाविरोधाच्चेति । यद्वा प्रत्येकं पदानि सामान्यतो योग्यतरान्वितस्वार्थेषु शक्तानि । तेषु पदान्तरसमभिव्याहाररूपसहकारिसामर्थ्येन विशेषतोऽप्यन्वितस्वार्थबोधानुकूलशक्त्यन्तराभिधानमिति । यथान्यासमेव साधु । गौरवस्य प्रामाणिकत्वेन ग्राह्यत्वादत एवाह । तथाऽनुभवादिति । न चैवं सुधाविरोधः । न पुनरविद्यमानशक्त्याधान इति सुधावाक्यस्य पदान्तर समभिव्याहारात्पूर्वमन्वयसामान्येऽपि शक्तिर्नेत्येतन्निषेधपरत्वेन सावकाशतया तदानुकूल्येनैव तद्ग्रन्थ व्याख्यानोपपत्तेः । अत एवाहिकुण्डलाधिकरणे सुधायामसकृदाधेयशक्त्यन्तरमेवोक्तमिति ज्ञातव्यम् ।
अभिनवामृतम्
।। समयेति । सङ्केतग्रहे सादृश्यं कारणमित्याचार्या वदन्तीत्यर्थः । यद्यपि सादृश्यं नानुगतम् । तथाऽपि सर्वव्यक्तिगतसादृश्येषु परचित्तगोव्यक्तिः प्रतियोगिनीति प्रतियोग्यैक्यादनुगमः । तथा परमते दण्डनामननुगमेऽपि दण्डत्वस्यैक्यादनुगतव्यवहारहेतुत्वमिति भावः । ननु वाच्यताया जातिव्यक्तिसाधारणत्वान्न्यूनवृत्तिघटत्वं न वाच्यतावच्छेदकं स्यादिति चेन्न । अनतिप्रसक्तत्वेनावच्छेदकत्वसम्भवात् । न च घटस्य घटत्वमिव घटस्याप्यन्यदेव वाच्यतावच्छेदकत्वं वाच्यमिति वाच्यम् । घटत्वस्य स्वनिर्वाहत्वेन वाच्यतावच्छेदकान्तरानपेक्षणात् ।
आदर्शः
।। सर्वेषां पक्षाणामप्रामाणिकत्वादिति । तथा हि । न तथा स्फोटस्यान्वयबोधकत्वपक्षो युक्तः । तस्यैवाप्रामाणिकत्वात् । न तावदन्वयबोधानुपपत्त्या तत्कल्पनम् । पदानामेवान्वयबोधकत्वोपपत्तेः । एकबुद्ध्युपारूढानां वर्णानामेव पदत्ववाक्यत्वप्रकारकबुद्धिविषयत्वस्य पूर्वमुपपादितत्वात्तदतिरिक्तस्फोटस्याननुभवात् । किञ्च स्फोटः प्रतीतोऽन्वयबोधं जनयत्य प्रतीतो वा । अन्त्येऽतिप्रसङ्गः । आद्ये तत्प्रतीतिरेकैकेन वर्णेन सर्वैर्वा । आद्ये वर्णान्तरोच्चारणवैय्यर्थ्यम् । द्वितीये वर्णानां नित्यत्वादप्रतीतैरेव वर्णैस्तत्प्रतीतिरिति वाच्यम् । न च वर्णानां प्रतीतिर्युगपत्सम्भवति । तद्य्वञ्जकध्वनीनामभावात् । अत एकबुद्ध्युपारूढानामेव पूर्वोक्तरीत्या स्फोटप्रत्यायकत्वं वाच्यम् । तथा च तेनैवान्वयबोधोपपत्तिरिति । भारतादौ स्फोटस्य ब्रह्मसभायां पृथक् स्थितिः क्वचित् पुस्तकेषु श्रूयते । तत्प्रक्षिप्तं पदवाक्याभिमानिदेवतापरं वा बोध्यम् । पदवाक्यातिरिक्तस्फोटस्योक्तत्वे तु स्पष्टताऽभिमानिदेवतापरं बोध्यम् । नापि सान्निध्यम् । तच्च ज्ञातमेवान्वयबोधकं वाच्यम् । अन्यथा पदयोः सान्निध्यस्य सर्वदा सत्त्वेन सर्वदाऽन्वयबोधप्रसङ्गात् । तथा च तत्पदनिष्ठं यत्पदसमभिव्याहृतत्वज्ञानमन्वयबोधकमित्युक्तं स्यात् । तथा सति गौरश्वः पुरुषो हस्तीत्यादावपि पदानां सन्निधिसत्त्वादन्वयबोधापत्तेः । न चाकाङ्क्षावैधुर्यान्नान्वयबोध इति चेत् । केयमाकाङ्क्षा ।। पदानां परस्परं समभिव्याहारश्चेत् । अस्त्येव तादृश्याकाङ्क्षा । न च यादृशसमभिव्याहाराद्यादृशबोधो भवति तादृशबोधे तादृशसमभिव्याहारस्याकाङ्क्षत्वं स्वीक्रियते । उक्तवाक्ये गवादौ पुरुषसम्बन्धित्वप्रकारबोधस्य कदाऽप्यजायमानत्वात्तत्राकाङ्क्षा न स्वीक्रियत इति चेत् । तर्ह्यपूर्वार्थविषयकबोधो वाक्यान्न स्यात् । तादृशबोधस्याबुद्धिस्थत्वेन तज्जनकत्वरूपाकाङ्क्षाज्ञानस्य तद्वाक्ये ज्ञातुमशक्यत्वात् । एवं कुलालादौ व्यवहितान्वयस्थले च योजनया बोधो न स्यात् । तत्र तयोः पदार्थयोरन्वयबोधो भवति । तयोः सान्निध्यभावात् ।
न च योजनानुसारेणानुसन्धानविषयीभूतवाक्यान्तरस्यैवान्वयबोधकत्वम् । श्लोकस्तु तादृशवाक्यान्तरानुसन्धानप्रयोजक एवेति वाच्यम् । तर्ह्यबोधकत्वरूपाप्रामाण्यप्रसङ्गात् । न चेष्टापत्तिः । बोधकवाक्यान्तरस्फोरकत्वादेव प्रामाण्याभिमान इति वाच्यम् । अपौरुषेयस्य वेदवाक्यस्याप्रामाण्यप्रसङ्गात् । अस्मादेव वाक्यादर्थं प्रत्येमि नान्यस्मादित्यनुभवविरोधाच्च । अस्य पदस्यात्रान्वय इति ज्ञानस्य भ्रमत्वोपपत्तिश्च । एतत्क्रमघटकैतत्पदस्यैतत्क्रमघटकव्यवहितपदान्वितत्वाभावात् । तदन्वितत्वं च तदर्थान्वितस्वार्थबोधकत्वमेव तस्यानङ्गीकारात् । एकस्य विशेषपदवाचकस्यानेकविशेषणवाचकपदानां सन्निधेरानेतुमशक्यत्वात्तत्र प्रत्येकं बोधापत्त्या वाक्यभेदापत्तिश्च । अस्मदुक्तरीत्या प्रत्येकं परस्परान्वितज्ञानसहकारेण पदज्ञानेनैवान्वयबोधोपपत्तौ उक्तसमभिव्याहारस्य पृथक् पृथग्रूपेण कारणत्वाङ्गीकारे बीजाभावाच्च । किञ्च गौरश्व इति वाक्यादपि प्रथमायाः सम्बन्धित्वार्थकत्वं गवादिपदार्थान्वितस्वार्थबोधकं चेति विपरीतव्युत्पत्तिमतः पुरुषसम्बन्धित्वविशिष्टगवादिविषयकबोधजनकस्य दृष्टत्वेन तादृशबोधे आकाङ्क्षा नास्तीति वक्तुं शक्यत्वमेव । न च तादृशानुपूर्व्या आकाङ्क्षारूपत्वसत्त्वेऽपि तादृशविपरीतव्युत्पत्तिघटितसामग्रयाः फलव्याप्यत्वं स्वीक्रियते । अतो न तादृशव्युत्पत्त्यभावकाले तादृशान्वयबोधापत्तिरिति वाच्यम् । तथाऽपि तादृशव्युत्पत्तिमतोऽपि पदविभागज्ञानाभावेऽपि तादृशबोधापत्तेः । पदज्ञानस्यापि सामग्रीकोटौ निवेशे तत्तत्पदज्ञानविपरीतव्युत्पत्तिघटितसामग्रयैव तादृशफलोत्पत्तिसम्भवेन सामग्रीकोटौ समभिव्याहारनिवेशे प्रयोजनाभाव एव । गौरश्वः पुरुषो हस्तीति वाक्यादिवत्तादृशविपरीतव्युत्पत्तिमतः पुरुषस्य पुरुषोऽश्वो गौर्हस्तीति वाक्याद्बोधो न जायत इति न युज्यते वक्तुम् । तस्मान्न हि तत्त्वादिरूपाकाङ्क्षाऽन्वयबोधिका । नापि परस्परान्वितस्वार्थबोधकानीमानि पदानीत्याकारकाकाङ्क्षाज्ञानसाहित्येन पदानामन्वयांशे शक्त्यभावे तदर्थान्वितस्वार्थबोधकत्वज्ञानस्य भ्रमत्वापत्तेः । नन्वन्वयबोधकत्वावगाहित्वे भ्रमत्वं स्यात् । न चैतदस्ति । किन्त्वन्वयविषयतानिरूपितस्वार्थबोधजनकत्वावगाहित्वमेव । अतो न दोष इति चेत् । तर्ह्यन्वयबोधकस्याकस्मिकत्वापत्तेः । तत्सामीप्यज्ञानमेवान्वयबोधजनकमिति तु निरस्तमेव । सामीप्यज्ञानाभावेऽपि तदन्वितस्वार्थबोधकमिति ज्ञानसत्त्वे तयोरन्वयबोधस्तदभावे तदभाव इत्यन्वयात् । अत एव पदैरभिहिताः पदार्था एवान्वयबोधोपयोगिन इति पक्षोऽपि परास्तः । पदैरर्थोपस्थितावप्युक्ताकाङ्क्षाज्ञानाभावेऽन्वयबोधाभावस्यानुभवसिद्धत्वात् । अन्यथा षष्ठ्यन्तत्वादिज्ञानाभावेऽपि नामभ्यामुपस्थितयोरर्थयोस्तात्पर्यज्ञानवशाद्भेदान्वयबोधप्रसङ्गः । पश्यतः श्वेतिमारूपं ह्रेषाशब्दं च ृण्वतः । खुरनिप्पेषशब्दं च श्वेतोऽश्वो धावतीति धीरित्याद्युक्तवतस्तव पदविशेषजन्यपदार्थोपस्थितेरेव शाब्दबोधे हेतुत्वं नान्यस्येति पक्षाभावात् । सत्त्वे वाऽस्मदुक्तज्ञानाभावकाले बोधाभावस्य तत्सत्त्वे आकाङ्क्षारहितादपि वाक्याद्बोधोदयस्यानुभवसिद्धत्वान्न पदार्थोपस्थितिप्रयोज्याऽन्वयविषयता । न च श्वेतोऽश्वो धावतीति धीः कथमुत्पद्यते । पदानामेवाभावेन भवदुक्ताकाङ्क्षाज्ञानस्य तत्रासम्भवादिति वाच्यम् । तज्ज्ञानस्य शाब्दबोधरूपत्वाभावात् । अन्यथा श्वेतोऽश्वो धावतीति मया श्रुतमित्यनुव्यवसायापत्तेः । किन्त्वनुमानरूपत्वमेव कल्पयामीत्यनुभवात् । अधिकमाकरे ज्ञेयम् । तस्मात्पदान्येवाभिधायकशक्तिमन्त्यन्वयविषयतायाः पदप्रयोज्यत्वादिति ।।
तत्र प्रत्येकमिति । सामान्यतोऽन्वयाभिधानशक्त्यङ्गीकारेऽपि विशेषतोऽप्यन्वयाभिधानशक्तिरङ्गीकर्तव्या । अन्यथाऽन्वयविशेषबोधस्याकस्मिकत्वापत्तेः । आकाङ्क्षाज्ञानस्य भ्रमत्वापत्तेश्च । तत् पदार्थान्वितस्वार्थबोधकमित्याकारकत्वेनान्वयविशेषबोधानुकूलशक्त्यभावेऽप्रामाण्यस्य दुर्वारत्वात् । एवं तात्पर्यज्ञानस्यापि भ्रमत्वापत्तिश्च । उपपत्त्याद्यानुकूल्यादिदं पदमेतत्पदार्थप्रतियोगिकैतादृशान्वय बोधानुकूलशक्तिमदिदं पदमित्याकारत्वेन तादृशशक्त्यभावेऽप्रामाण्यस्य दुर्वारत्वात् । तथा च विशेषतोऽप्यन्वयाभिधानशक्तिसिद्धौ गौरवात्प्रयोजनाभावाच्च सामान्याभिधायकत्वं नास्त्येव प्रमाणाभावाच्चेति भावः । स्वमतमाह ।। प्रत्येकं सामान्यतो योग्यतरान्वितस्वार्थाभिधानशक्तिमन्तीति । अयमाशयः । पदानां सामान्यतोऽन्वयाभिधानशक्त्यभावे शक्तिग्रह एव न सम्भवति । अन्वयबोधस्य सम्बन्धिभूतप्रकारोपस्थितिं विनाऽसम्भवात् । गोपदस्य शक्तिग्रहः कर्मत्ववाचकद्वितीयया कर्मत्वोपस्थितावेव भवति । द्वितीयया कर्मत्वोपस्थितिस्तच्छक्त्यैवेति वक्तव्यम् । गोपदत्वेनैव स्थितेरप्यङ्गीकारे द्वितीयाया वैय्यर्थ्यापत्तेः । तात्पर्यग्राहकत्वाङ्गीकारे गोपदस्यैव नानार्थत्वापत्तेः । विनिगमकाभावेन द्वितीयाया एव गवान्वितकर्मत्ववाचकत्वं गोपदमेव तात्पर्यग्राहकमित्यापत्तिश्च । निरर्थकत्वे पदव्याघातः । शक्त्योपस्थितश्च गोरूपस्थितिं विना संसर्गभानायोगेन गोपदजन्यगव्युपस्थितिं विना न सम्भवतीति तमपेक्षत इत्यन्योन्याश्रयात् । न चैकैकपदप्रत्यक्षानन्तरं शक्तिग्रहो नास्त्येव किन्तु पदद्वयश्रवणानन्तरमेकदा पदद्वयशक्तिग्रहः सम्भवति । प्राथमिकव्युत्पत्तिवेलायां गामिति पदद्वयरूपसमुदायस्य परस्परान्वितस्वार्थबोधकशक्तेरवधृतत्वादिति चेत् । तर्हि तादृशशक्तेः समुदायनिष्ठत्वेनैकैकपदस्य शक्तिकल्पनायां बीजाभावः । शक्तिग्रहवेलायामेव शाब्दसमानकारकबोधसत्त्वेन वाक्यवैय्यर्थ्यापत्तेश्च । गोपदश्रवणेन कर्मत्वादीनामुपस्थितिप्रसङ्गश्च । यादृशशक्तिस्मरणेन गौः स्मर्यते तादृशशक्तिज्ञाने कर्मत्वादीनामपि भातत्वाच्छक्तेरस्मृतौ गोरपि स्मृतिर्न स्यात् । यादृशपदद्वयात्मिकानुपूर्वी कदाऽप्यस्मृता तादृशानुपूर्व्याः सकाशाद्व्युत्पन्नस्य बोधानुपपत्तिश्च । अस्मत्पक्षे चैकैकपदस्य शक्तिग्रहसत्त्वेन शाब्दोपपत्तेः । तस्माच्छक्तिग्रहवेलायां गवादिपदात्तत्तदन्वयबोधेऽप्यावापोद्वापाभ्यामन्वयसामान्यबोधकत्वमेव पदानामनुमिमीते तद्घटत्वावच्छिन्नं प्रति तत्तद्दण्डस्य कारणत्वेऽनुभूते सामान्यतो घटत्वावच्छिन्नं प्रति घटत्वावच्छिन्नस्य कारणत्ववत्तत्तद्वाक्यस्थतत्तत्पदानां तत्तत्प्रत्ययाद्यर्थप्रतियोगिकसंसर्गबोधजनकत्वेऽनुभूते सत्यन्वयव्यतिरेकाभ्यां सामान्यतो गोपदस्य योग्येतरपदार्थप्रतियोगिकान्वयबोधकारणस्यैवानुमातुं युक्तत्वात् । न चान्वयस्य प्रकारतया विशेष्यतया वा न बोधकत्वम् । सम्बद्धा गौरित्यादिवाक्यतो गौरित्यस्याविलक्षणबोधजनकत्वप्रसङ्गात् । विशेष्यतया बोधकत्वे सम्बन्धवाचकत्वमेव स्यात् । अतः सामान्यतोऽपि संसर्गतयैव संसर्गभानमुपेयम् । न च प्रतिसम्बन्धिनं विना संसर्गतया भानं युज्यते । अतः पदान्तरेण प्रतिसम्बन्ध्युपस्थितिरपेक्षिता । तेनाप्यर्थोपस्थितावेतत्पदजन्योपस्थितिरपेक्षितेत्यन्योन्याश्रयता समानैवेति चेत् । गवाद्येकैकपदस्यैव योग्येतरान्वितस्वार्थबोधकत्वोपगमात् । तथा च योग्येतरत्वोपलक्षितकिञ्चित्पदार्थान्विता गौरिति बोधः । अथवा योग्यत्वेतरत्वयोः शक्तिग्रहे उपलक्षणतया भानेन पदजन्यबोधे न तयोर्भानम् । किन्तु सामान्यरूपेण । किञ्चिद्वती गौरिति वा गोसम्बन्धिनीति वा बोधः । न च सम्बन्धवत एव वाच्यत्वप्रसङ्गः । सम्बन्धनिष्ठविषयतायाः संसर्गतारूपत्वेन तन्निरूपितविषयताया अनवच्छिन्नत्वेन वाच्यत्वाभावात् । शक्तिग्रहे शक्यतावच्छेदकतया भासमानधर्मावच्छिन्नविषयताया एव वाच्यत्वरूपत्वात् । न च शक्तिग्रहे भासमानयोग्यत्वेतरत्वयोः कथं तज्जन्यबोधे भानाभाव इति वाच्यम् । अहमादिपदानामुच्चारयितृत्वापेक्षितपुरुषत्वाद्यवच्छिन्ने शक्तिग्रहसत्त्वेऽपि सर्वनामतदादिपदानां बुद्धिविषयतावच्छेदत्वोपलक्षितधर्मावच्छिन्ने शक्तिग्रहसत्त्वेऽपि तत्तत्पदजन्यबोधे उच्चारणकर्तृत्वबुद्धिविषयत्वादीनां न भानं किन्तु स्वरूपत एव यथा योग्येतरत्वादीनां भानाभावसम्भवात् । योग्यत्वं नाम प्रत्ययाद्यन्यतमत्वम् । इतरत्वं च पदान्तरोपस्थाप्यत्वम् । वर्णानामेकत्वेऽपि क्रमविशिष्टानां भिन्नभिन्नत्वं पदानां न विरुद्धम् । नन्वेकपदात्कथं शाब्दबोध इति चेत् । का तत्र कथन्ताऽनुभवेनैव सिद्धत्वात् । अत एव गौरित्युक्ते सामान्यत इतरप्रतियोगिकत्वेनान्वयप्रतीत्या सम्बन्ध्याकाङ्क्षाऽन्वयविशेषाकाङ्क्षा च जायते । अन्यथा सामान्यरूपेणोपस्थितिरूपेच्छासामग्रयभावाद्विशेषरूपावच्छिन्नजिज्ञासा न स्यात् । न च गोपदात्सामान्यत इतरान्वयविशिष्टबोधे पदान्तरसन्निधानेऽपि कथं विशेषान्वय इति चेत् । आकाङ्क्षाज्ञानतात्पर्यरूपसहकारिसामर्थ्येन गवादिपदानां शक्तिज्ञानसाहित्येन विशेषतोऽन्वयबोधकत्वाङ्गीकारात् । सहकारिणां विपरीतशक्त्याधायकत्वस्याधिकशक्त्याधायकत्वस्य च बहुलमुपलम्भात् ।
न चाकाङ्क्षाज्ञानादेर्भ्रमत्वापत्तिरिति वाच्यम् । समभिव्याहृतपदार्थस्यापि योग्येतरत्वरूपसामान्यधर्माक्रान्तत्वात्तत्प्रतियोगिकान्वयत्वरूपसामान्यधर्माक्रान्तत्वेन समभिव्याहृतपदविशेषार्थान्वयबोधकत्वस्यापि योग्येतरान्वयत्वेन तद्बोधकत्वज्ञानस्य भ्रमत्वासम्भवात् । परन्तु पदान्तरज्ञानाकाङ्क्षादि ज्ञानरूपसहकारिसत्त्वे योग्येतरान्वयविशेषस्य बोधक इत्येतावन्मात्रस्याभिप्रेतत्वेन दोषाभावात् । न च सामान्यसामग्रया विशेषसामग्रीं विना फलोपधायकत्वस्य कुत्राप्यदृष्टत्वेनाकाङ्क्षाज्ञानादिरूपविशेषसामग्रयभावकाले कथं पदज्ञानशक्तिज्ञानरूपसामान्यसामग्रीमात्रेण फलोपधानमिति वाच्यम् । अनुभवबलेनाकाङ्क्षाज्ञानाद्यनुपपत्त्या च सामान्यतोऽन्वयाभिधानोपधायकत्वाङ्गीकारात् । अन्यथा पदादर्थानुपस्थितावर्थयोरन्वयस्यायोग्यत्वादिशङ्काया उक्ताकाङ्क्षाज्ञानस्यैवासम्भवात् । न चाकाङ्क्षाज्ञानस्यैव शाब्दबोधसामान्याकारत्वे वाक्यवैय्यर्थ्यापत्तिरिति वाच्यम् । आकाङ्क्षाज्ञानेऽन्वयस्य संसर्गतया भानाभावेन दोषाभावात् । तत्पदार्थप्रतियोगिकैतदन्वयनिष्ठसंसर्गताकैतत्पदार्थनिष्ठविशेष्यताकबोधजनकमिदं पदमित्याकारकत्वेन संसर्गतांशेऽन्वयस्य प्रकारतया भानात् । न च शक्तिद्वयं कल्पनीयं स्यात् । सत्कार्यभावकाले योग्येतरवती गौरित्याकारकबोधानुकूला शक्तिः सहकारिसमवधानोत्तरं योग्येतरत्वानवगाहिकर्मत्ववती । गौर्गोनिष्ठं कर्मत्वमित्यादिविशिष्टबोधजनकत्वरूपमिति गौरवमिति वाच्यम् । सहकार्यभावकालेऽपि योग्येतरत्वानवगाहिनः सामान्यरूपेण वा गोरूपधर्मेण वा शाब्दबोधे प्रतिसम्बन्धिनो भानस्योक्तत्वात्संसर्गतांशेऽप्यवच्छेदकतया विशेषधर्मस्य भानाभावेऽपि सामान्यरूपेण वा स्वरूपतो वा संसर्गस्य संसर्गतया भानमित्युक्तमेव । परन्तु सहकारिसत्त्वे सामान्यरूपस्येव विशेषरूपस्य सम्बन्धिनि संसर्गे च भानमधिकमस्तीत्यङ्गीक्रियत इति शक्तिद्वयकल्पनाया अभावेन दोषाभावात् । सहकारिणो जायमाने बोधेऽधिकपदार्थभासकत्वमात्राङ्गीकाराद्गौरवाभावात् । योग्यत्वादेर्भानस्यानुभवसिद्धत्वे तु तत एव दोषाभावाद्भवताऽपि पदार्थोपस्थितिजनकत्वशक्तेः शाब्दबोधानुकूलशक्तेरिति द्वयस्याङ्गीकृतत्वेन साम्यात् । मया स्मारकी शक्तिरङ्गीक्रियते । भवता शाब्दबोधानुकुलेत्यधिका स्मारक्याः शक्तेर्भवताऽप्यावश्यकत्वात् । अन्यथा पदात्पदार्थस्मृतेरिति सुधाविरोधादिति चेन्न । मयाऽपि योग्येतरान्वितस्वार्थजनकत्वरूपोभयसाधारणी शक्तिरङ्गीक्रियत इति दोषाभावात् । वस्तुतस्तु परैः स्मारकत्वस्याङ्गीकृतत्वेन तद्रीत्यैव सुधायां व्यभिचारस्य कथितत्वात् । अत एव हरिहरादिस्मृतिर्गृहीता ।
नन्वेकपदस्य शाब्दबोधजनकत्वे मानाभावः । पदादर्थस्मृतौ सत्यामाकाङ्क्षादिज्ञानसाहित्येन विशिष्टशाब्दबोधोदयसम्भवात् । न चानुभवजनकत्वस्यापि सम्भवात्स्मारकत्वमेव कुत इति वाच्यम् । एकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकत्वस्य क्लृप्तत्वेन पदार्थयोः शक्तिरूपसम्बन्धस्य ज्ञानत्वेनान्यत्र क्लृप्तरीत्यैवार्थस्मृतिसम्भवादिति चेन्न । शक्तिज्ञानस्य शाब्दबोधज्ञानं प्रति कारणतायाः क्लृप्तत्वेन शक्तिज्ञानस्यैतत्पदमेतदर्थवाचकमित्याकारत्वेन तस्यैव पदार्थस्मृतिरूपत्वेन तदतिरिक्तपदार्थोपस्थित्यङ्गीकारस्य प्रयोजनाभावाच्छाब्दसामग्रयाः स्मृतिं प्रति प्रतिबन्धकत्वेनार्थस्मृतेः शाब्दकारणात्वाङ्गीकारपक्षेऽपि तद्घटितसामग्रयाः शक्तिग्रहवेलायामेव सत्त्वादुपस्थित्यन्तरासम्भवाच्च । न च पदजन्यार्थोपस्थितेरेव कारणत्वेन शक्तिग्रहकाले सा नास्तीति वाच्यम् । पदज्ञानेनैव संस्कारोद्बोधद्वारा पदसम्बन्धिशक्तेः स्मारणात् । सम्बन्धश्चैकप्रतियोगिकत्वेनापरानुयोगिकत्वेनैव पूर्वमनुभूतत्वेन तथैव स्मृतिं जनयति । सा स्मृतिश्च सम्बन्ध्यवगाहिनी च भवति । न तु द्वितीयक्षणे जायमानस्मृतेरपि तेनैव सम्भवेन सम्बन्धिस्मृतेरन्यथासिद्धत्वात् । अत एव शक्तिग्रहोत्तरा स्मृतिः पदजन्यैव न भवति । पदस्य तज्ज्ञानस्य वा स्वज्ञानजन्यप्रथमभूतशक्तिस्मृत्याऽन्यथासिद्धत्वात् । सुधायां पदात्पदार्थस्मृत्युक्तिरपि शक्तिग्रहविवक्षयेति मन्तव्यम् । पदस्य तज्ज्ञानस्य वाऽर्थविषयकशाब्दबोधजनकत्वाभावे पदार्थयोः सम्बन्धान्तरानिरूपणेन सम्बन्धावगाहिज्ञानस्य भ्रमत्वापत्तिश्च । न चेश्वरसङ्केतविषयत्वरूपसम्बन्धोऽस्तीति न भ्रमत्वापत्तिरिति वाच्यम् । ईश्वरानङ्गीकर्तॄणामुक्तसम्बन्धज्ञानाभावेन पदार्थस्मृतेरसम्भवेन तेषां शाब्दबोधाभावप्रसङ्गात् । सम्बन्धान्तरज्ञानेन शाब्दबोधाङ्गीकारे सर्वत्र तज्ज्ञानेनैव शाब्दबोधत्वोपपत्तौ सङ्केतज्ञानस्य कारणत्वे मानाभावः । न लोके सङ्केताच्छब्दोदयस्यानुभवसिद्धत्वेन प्रकृतेऽपीश्वरसङ्केतः स्वीक्रियत इति वाच्यम् । अन्यत्रापि पदेषु सङ्केतेन शाब्दबोधजननानुकूला शक्तिरुत्पद्यते । तज्ज्ञानेनैव शाब्दबोधो जायत इत्यङ्गीकारेण कुत्रापि सङ्केतज्ञानस्य शाब्दबोधकारणत्वानङ्गीकारात् । तत्पदेष्वपभ्रष्टभाषायां सङ्केतयितृपुरुषज्ञानाभावेऽपि सङ्केतज्ञानाभावेऽपि बालस्यावापोद्वापाभ्यां व्युत्पत्तेर्जायमानत्वेन व्यभिचारात् । शक्तिज्ञानस्यैव व्युत्पत्तिपदार्थत्वात् । न च स्वाभाविकसम्बन्ध एव शक्तिर्न शाब्दबोधकजनकत्वमिति वाच्यम् । तदतिरिक्तसम्बन्धान्तराङ्गीकारे मानाभावात् । अस्मदुक्तशक्तिज्ञानेनैव शाब्दबोधोत्पत्तेर (तयैव शाब्दबोधस्य जायमानत्वेना) नुभवसिद्धत्वाच्च । एकपदप्रत्यक्षेऽपि पदं श्रुतमितिवत्पदादर्थो बुद्ध इत्यनुभवात् ।
सम्बन्धविशेषज्ञानेच्छानुपपत्त्या चैकस्यापि पदस्य शाब्दबोधजनकत्वमङ्गीकर्तव्यमेव बाधकाभावाच्चेति । किञ्च गवादिपदाद्ग्रोः स्मृतिसम्भवेऽपि सामान्यतः किञ्चित्पदार्थनिष्ठविषयतानिरूपितसांसर्गिकविषयितानिरूपितगोनिष्ठविषयताका किञ्चिद्वती गौरित्याकारा स्मृतिर्न सम्भवति । सामान्यत इतरान्वितगोपदसम्बन्धित्वेनाज्ञातत्वात् । तत्तत्पदसमाहाररूपवाक्यस्य तत्तत्पदान्वयबोधकत्वमनुमायावापोद्वापाभ्यां सामान्यतोऽन्वयाभिधायकत्वस्य कल्पनीयत्वात् । एकदा पदानामन्वयविषयकत्वेऽनुभूते सति सामान्यतोऽन्वयविशिष्टस्य तत्तत्पदसम्बन्धित्वेनाननुभूतत्वेन विशिष्टस्मृतिः सम्भवेत् । प्रथमतस्तस्यैवानुपपत्तेरेकैकपदस्यान्वयानुभावकत्वस्यानङ्गीकारात् । समुदायस्य तु विशेषतोऽन्वयाभिधायकत्वात् । न च तादृशान्वयविशिष्टबोधकमिति ज्ञानमेव स्मृतिजनकमिति युज्यते । शक्तिज्ञानस्यान्वयप्रकारकत्वात् । पदार्थोपस्थितेरन्वयसंसर्गकत्वात् । अनुभवस्य समानाकारकस्मृतिजनकत्वनियमात् । अन्यथाऽतिप्रसङ्गात् । तादृशस्मृत्यभावे विशेषजिज्ञासाऽनुपपत्तेः । स्मृतावननुभूतस्य सामान्यतोऽन्वयस्य प्रतिसम्बन्धिनश्च भानायोगेन कर्मत्वस्य तदन्वयस्य पूर्वं ज्ञातस्य संस्कारबलेन भानस्यैवोचितत्वात् । मन्मते तु वाक्यस्य परार्थत्वेनाज्ञातज्ञापकत्वाय शाब्दबोधेऽपूर्वस्य वस्तुनो भाननियमेन कर्मत्वातिरिक्तस्यैवोत्सर्गतः प्रतीतिसिद्धौ तज्ज्ञानस्यासिद्धवत्तत्रेच्छोत्पत्तिः सम्भवति । तस्मात्पदानां सामान्यतो विशेषतश्चान्वयाभिधानशक्तेरपि प्रामाणिकत्वेन न गौरवावकाशः ।। छ ।।
शक्तिप्रसङ्गाच्छब्दवृत्तिर्निरूप्यते । शाब्दबोधौपयिका शक्तिर्नवविधा । रूढिर्योगो योगरूढिर्लक्षणा रूढलक्षणोपचारो रूढोपचारो महायोगो महायोगरूढिश्चेति । तत्र लोके सप्तविभागवति वृत्तिद्वयम् । तत्र प्रयोगमात्रप्राचुर्येण किञ्चित्प्रवृत्तिनिमित्तज्ञाप्या शक्ती रूढिः । यथा मण्टपादिपदानां ग्रहविशेषे मण्टपत्वादिरूपप्रवृत्तिनिमित्तवत्येव बहुप्रयोगसत्त्वात् । सा च ज्ञातैव शाब्दबोधोपयोगिनी न स्वरूपसती वर्णपदसमुदायनिष्ठा । अवयवार्थसहकारेणार्थविशेषबोधोपयोगिनी समुदायनिष्ठा शक्तिर्योगः । सा च कृत्तद्धितादिसमासनिष्ठाऽज्ञात एव बोधोपयोगिनी । यथा पङ्कजादिपदं भेकादौ । तत्र तदवयवीभूतपङ्कपदजनिधातुडप्रत्ययानां शक्तिज्ञानेन पङ्कजनिकर्तृत्वावच्छिन्नस्य बोधः समुदायनिष्ठः । वाक्यस्यापि स्वावयवीभूतपदशक्तिज्ञानसहकारेण विशिष्टार्थबोधजनकत्वसत्त्वाद्यौगिकत्वापत्तिरिति न शङ्क्यम् । वाक्यरूपे समुदाये तादृशशक्तेरभावात् । आकाङ्क्षाज्ञानपदज्ञानशक्तिज्ञानादिघटितसामग्रयैव बोधोदयस्योपपादितत्वात् । प्रवृत्तिनिमित्तमपेक्ष्य बहुप्रयोगज्ञाप्याऽवयवार्थसहकारेणापि धर्मान्तरावच्छिन्नप्रवृत्तिनिमित्ताश्रयमात्रबोधिका समुदायनिष्ठा शक्तिर्योगरूढिः । यथा पङ्कजपदस्य पद्मे । तत्र पद्मस्वरूपप्रवृत्तिनिमित्तमपेक्ष्यैव प्रेक्षावद्भिः प्रचुरप्रयोगस्य क्रियमाणत्वाद्भेकादौ प्रचुरप्रयोगाभावादवयवार्थसहकारेण बोध्यमानस्य पङ्कजनिकर्तृत्वावच्छिन्नस्य बोधात् । न च योगरूढेर्वृत्त्यन्तरम् । कुतः । योगरूढिभ्यां द्वाभ्यामेवोपपत्तेः । यस्य योगज्ञानं तस्य पङ्कजनिकर्तृत्वावच्छिन्नस्य बोधः । यस्य रूढिज्ञानं तत्र पद्मत्वावच्छिन्नस्य बोधः । यस्योभयज्ञानं तस्योभयबोध इत्यस्यैव युक्तत्वात् । न ह्येकत्र हेतौ व्यभिचारबाधरूपदोषद्वयसमाहारे तत्र बाधविशिष्टव्यभिचारस्य पृथक् दोषतोद्भावनीयता वाऽस्ति । अत एवोक्तं सुधायाम् । समाहारवृत्तयो ह्येता इति । किञ्च योगोऽज्ञात एवावयवशक्तिसहकारेण शाब्दोपयोगी रूढिस्त्वन्यनैरपेक्ष्येण ज्ञाता सती कथं योगत्वरूढित्वयोर्विरुद्धयोः समाहारः सञ्जाघटीतीति वाच्यम् । पङ्कजादिवृत्तिद्वयाङ्गीकारे गौरवात् । लाघवेन योगरूपशक्तिरेव प्रयोगप्राचुर्यरूपसहकारिवशाज्ज्ञाता सती पद्मत्वबोधिकेत्यङ्गीकारात् । केवलयोगस्य केवलरूढेश्चार्थबोधकत्वे ज्ञातत्वाज्ञातत्वसापेक्षत्वनिरपेक्षत्वरूपविरुद्धधर्मवत्त्वेऽप्यस्य तद्विलक्षणत्वेन बाधकाभावात् । या बहुप्रयोगज्ञाप्या समुदायशक्तिस्तस्या एवावयवार्थ सहकारेण पङ्कजनिकर्तृत्वादिधर्मवैशिष्ट्यबोधकत्वाङ्गीकारे बाधकाभावात् । समाहारवृत्तय इत्यस्य धर्मद्वयसमाहारवृत्यर्थकत्वेन विरोधाभावात् । अत एव चतुर्थपादीयसुधायां वृत्त्यन्तरमेव रूढलक्षणादृष्टान्तेनोपपादितम् ।
यत्तु पङ्कजपदस्य रूढ्यतिरिक्तयोगोऽवश्यमङ्गीकार्योऽन्यथा सति तात्पर्ये भेकादिबोधाभावप्रसङ्गात् । न च पद्मत्वविशिष्टबोधानुकूला वृत्तिरेव ज्ञाता भेकादिसाधारणरूपेण बोधयति । ज्ञाता सती पद्मत्वविशिष्टमित्युक्तम् । पङ्कजपदं भेके न रूढमिति प्रत्ययात् । योगरूढ्या भेकत्वावच्छिन्नबोधकमिति प्रत्ययापत्तेश्च । भेके रूढिर्नास्तीति चेत् । माऽस्तु भेकबोधकवृत्तौ रूढित्वं वर्तत एवेति । तस्माद्रूढिभिन्ना योगरूपा वृत्तिरावश्यिक्येव । तस्यैव पद्मबोधस्यापि सम्भवे रूढौ योगत्वाङ्गीकारे गौरवमिति । तदसत् । योगाद्रूढेः प्रबलत्वेन रूढार्थस्यैव प्रथममुपस्थित्या पङ्कजपदेन पङ्कजन्यत्वेन पद्मबोधस्यैवानुपपत्तेः । रूढेर्योगापहारकत्वस्य सर्वसम्मतत्वात् । रूढिज्ञानोत्तरमवयवशक्तिज्ञानादिपर्यन्तं विलम्बे कारणाभावाद्रूढिज्ञानवतां प्रथमं पद्मत्वावच्छिन्नस्य द्वितीयं पङ्कजन्यत्वावच्छिन्नस्य प्रेक्षावतां बोधापत्तेः । मन्मते तु प्रेक्षावद्भिः पङ्कजन्यत्वेनापि पद्मत्वविशिष्टव्यक्तिबोधाय पद्मत्वरूपप्रवृत्तिनिमित्तमपेक्ष्यैव पद्म एव प्रचुरप्रयोगस्य क्रियमाणत्वेनैकया वृत्त्या पद्मरूपव्यक्तिविशेषस्यैवोपस्थितिः । पद्मत्वं तु शक्यतावच्छेदकत्वेन प्रतीयते । प्रवृत्तिनिमित्तस्य न शक्यत्वमित्यधस्तादुक्तमेव । तथा च पङ्कजन्यत्वेनापि रूपेण भेकाद्यनवगाहि बोधप्रयोजकत्वाज्खटित्युपस्थापकत्वाच्चैकस्यैव योगत्वं रूढित्वं चोपपद्यते । अत एवास्य केवलरूढ्यपेक्षया केवलयोगापेक्षया वैलक्षण्यम् । केवलयोगस्य रूढिसमकालमनुपस्थापकत्वात् । सामान्यतो धर्मविशेषप्रकारकबोधं जनयित्वा ततस्तद्धर्मवत्त्वज्ञानसाहित्येन स्वबोध्यधर्माश्रययत्किञ्चिद्य्वक्त्यवगाहिबोधजनकत्वाच्च । अनेनैवाभिप्रायेण सुधायां यथा लक्षणमात्रया रूढलक्षणाया अतिरिक्तत्वमित्युक्तम् । प्रयोगप्राचुर्येण रूढ्यर्थबाधग्रहादिकमनपेक्ष्यार्थोपस्थापकत्वाद्रूढलक्षणया अर्थोपस्थापकत्वाद्रूढितुल्यत्वात्केवललक्षणाया खटित्यर्थानुपस्थापकत्वात्तयोर्वैलक्षण्यमित्याशयात् । न च स्वविषये रूढिसमानाधिकरणस्य योगस्य रूढिसमकालमर्थोपस्थापकत्वमस्त्विति वाच्यम् । पङ्कजन्यत्वेन रूपेण भेकादीनामप्युपस्थित्यापत्तेः । शक्यसम्बन्धग्रहाधीना शक्यसम्बन्धिपदार्थान्तरबोधानुकूला शक्तिर्लक्षणा । तज्ज्ञानमपि सामान्यत एव तात्पर्याद्यनुपपत्तिज्ञानसाहित्येन शक्यसम्बन्धिपदार्थान्तरबोधानुकूलशक्तिमद्भविष्यति । लक्षणा ज्ञानाधीना । अर्थबोधकत्वशक्तिरहिता न स्वाभाविकी । कस्मिंश्चिदेव काले केषाञ्चिदेव पुरुषाणामर्थविशेषाणामनियमेन बोधकत्वेन कादाचित्कत्वात् । यथा गङ्गायां घोष इत्यादौ गङ्गापदस्य तीरे । तत्र गङ्गापदप्रवृत्तिनिमित्तवत्प्रवाहसामीप्यरूपशक्यसम्बन्धवत्तीरे बोधेच्छयोच्चरितमिति ज्ञानेन तीरबोधकत्वमाविर्भवति । तत्र भविष्यत्वेनैव लक्षणारूपशक्तिज्ञानान्न भ्रमत्वम् । तत्र प्रवाहसम्बन्धितीरवृत्तिर्घोष इत्यन्वयबोधः । तेनातिसामीप्यादिबोध एव लाक्षणिकपदप्रयोगस्य फलम् । तत्रैव प्रयोगप्राचुर्ये रूढलक्षणा । न चानादितात्पर्यविषयत्वादियं शक्तिः स्वाभाविक्येवेति वाच्यम् । क्वचिदेव वाक्ये मञ्चादिपदानां मञ्चस्थपुरुषबोधकत्वतात्पर्यानुपपत्तिज्ञानरूपसहकारिबलादेव न सर्वत्र । नापि पदज्ञानमात्रात् । नापि शक्योपस्थितिं विनेति न स्वाभाविकत्वम् । आहितत्वेऽपि तादृशशक्तेः पूर्वपूर्वकालीनतादृशशक्तिसादृश्याज्खटित्यर्थोपस्थापकत्वं प्रयोजनाद्यनुसन्धानापेक्षया पूर्वपूर्वप्रयोगानुसारेण प्रयोज्यमानत्वादभिधातुल्यत्वेन विलक्षणत्वमिति भावः । केचित्तु रूढलक्षणा स्वाभाविकशक्तिरूपैव । न च केषुचिद्वाक्येषु तथोपस्थापकत्वेऽप्यसार्वत्रिकत्वान्न स्वाभाविकत्वमिति वाच्यम् । नानार्थगवादिपदेषु गृष्ट्यादीनामिव बहुधा वार्याद्यनुपस्थापकत्वात्तत्र स्वाभाविकी शक्तिर्न स्यात् । न च तर्हि लक्षणात्वानुपपत्तिः । प्रवृत्तिनिमित्तमनपेक्ष्य तत्सम्बन्धमात्रमपेक्ष्य प्रयुज्यमानत्वेन लक्षणात्वसम्भवात् । प्रवृत्तिनिमित्तवत्सम्बन्धापेक्षप्रयोगाविषयत्वस्यैव लक्षणात्वपदार्थत्वात् । शक्यसदृशबोधानुकूला शक्तिरुपचारः । स च यद्धर्मव्यङ्ग्यं सादृश्यं बोधयति तद्धर्माणां पश्चाद्बोधको भवतीति गौणीत्युच्यते । मुख्यार्थगुणयुक्तार्थान्तरे वृत्तिर्गौणीति प्रमाणलक्षणटीकायामुक्तेः । तद्वाक्यस्य तादृशगुणबोधौपयिकत्वस्यैवार्थत्वात् । सादृश्यबोधेऽपि पश्चात्सादृश्यव्यञ्जके बाधात्तदौपयिकत्वं घटते । अत एव गौणीत्युच्यते । गुणानामननुगतत्वेन सिंहवृत्तिक्रौर्यादेर्देवदत्तादावसम्भवेन तत्सदृशक्रौर्यादिमत्त्वस्यैव बोधकत्वाङ्गीकारे सादृश्यबोधकत्वस्यावश्यकत्वप्राप्तेः । सादृश्यबोधे त्वर्थान्तराभिव्यञ्जकगुणानां बोधो भवत्येवेति तद्वाक्यस्यैवात्र तात्पर्यमिति ज्ञानात् । यथा सिंहो देवदत्त इत्यादि । तत्र सिंहपदार्थः सिंह एव तत्र देवदत्ते सिंहाभेदस्य बाधग्रहे सति सादृश्यरूपं बोधयति । संसर्गतावच्छेदकतया सादृश्यत्वमपि बोधयति । तत्र पदार्थयोर्मुख्यार्थकत्वेऽपि समानविभक्तिकपदान्तरार्थान्वितस्वार्थबोधकत्वमित्याकाङ्क्षाज्ञानकार्याभेदरूपान्वयस्याभानेन पदान्तरसमवधानरूपसामानाधिकरण्यस्यामुख्यत्वम् । अत एव लक्षणापेक्षया मुख्यवृत्तिरियम् । तदुक्तमनुव्याख्याने ‘सम्बन्धयुक्तसादृश्यं सम्बन्धो वाऽप्यमुख्यतः । वृत्तिहेतुरिति ज्ञेयः पूर्वायोगेऽपरग्रह’ इति । लक्षणायां पदानामेवामुख्यार्थबोधकत्वात् । अत्र तु सामानाधिकरण्यमात्रस्यामुख्यत्वात् । अत एवोक्तं सुधायाम् । तत्त्वमसीत्यादौ सामानाधिकरण्यमात्रस्यामुख्यत्वमिति ।
न च तत्र तत्पदार्थस्य ब्रह्मण आधेयतासम्बन्धेनासिपदार्थसत्तायामन्वयः । तस्याश्रयतासम्बन्धेन त्वंपदार्थेऽभेदबोधस्त्वार्थिक इति वाच्यम् । तथा सति सत्ताया उभयानुगतत्वमात्रेणोपपत्तावर्थतोऽप्यभेदभेदानुपपत्तेः । असाधरणसत्तैवास्धातोरर्थ इति तु न वाच्यम् । धातुना सत्तामात्रोपस्थितेः । तर्हि कथमभेदलाभ इति चेत् । आख्यातार्थ आश्रय एव । तस्याभेदेन त्वंपदार्थेऽन्वये सति शब्दत एवाभेदबोधसम्भवात् । न चाश्रयत्वमेवाख्यातार्थः । आश्रयत्वस्याखण्डोपाधित्वेन शक्यतावच्छेदकलाघवादिति वाच्यम् । आश्रयत्वस्याखण्डोपाधित्वे बाधकाभावात् । एवं च शब्दत एवाभेदबोधोपपत्तावार्थिकत्वाङ्गीकारस्यानुचितत्वात् । एवं चाभेदबोधकाकाङ्क्षायाः सादृश्यबोधकत्वेन सामानाधिकरण्यस्यैवामुख्यत्वम् । तत्त्वप्रकाशिकायामङ्गीकारवादेनासिपदार्थस्यामुख्यत्वमुक्तम् । तत्रासिपदस्यासाधारणधर्मार्थकत्वेऽप्यसाधारणधर्मसदृशधर्म एवार्थः । सादृश्यघटितार्थबोधकत्वाद्गौणी वृत्तिरिति भावः । न च लक्षणयैव सादृश्यबोधोपपत्तौ वृत्त्यन्तराङ्गीकारो व्यर्थः । न च संसर्गतया बोधानुपपत्तिः प्रकारतयैव तद्बोधसम्भवादिति वाच्यम् । तथा सत्यमात्य इव राजेत्यादावभेदस्य बाधितत्वग्रहोत्तरं नियमेन सादृश्यस्यैव नियमाभावप्रसङ्गात् । राजपदस्य भृत्येऽपि लक्षणायाः सम्भवात् । गौणार्थस्य सादृश्यस्यापि तात्पर्याद्यनुपपत्त्या बाधग्रहोत्तरमेव भृत्यत्वादिबोधस्यानुभवसिद्धत्वात् । मन्मते तु गौण्याऽभेदप्रयोजकाकाङ्क्षास्थल एव प्रवृत्तेः । लक्षणाया यथेच्छं सार्वत्रिकत्वेन गौण्याः प्रबलत्वमिति तदर्थस्यैव प्रथममुपस्थितिर्युज्यते । एवं लक्षणाया यत्र शक्यसम्बन्धज्ञानं तद्रूपावच्छिन्नस्य शक्यसम्बन्धत्वेनैव बोधजनकत्वम् । उपचारस्य तु सादृश्यत्वेनेति फलभेदाद्भेदः । न च प्रतियोगित्वादिरूपसम्बन्धवत्सादृश्यत्वेनैव सादृश्यबोधोऽस्त्विति वाच्यम् । लक्षणास्थले सम्बन्धत्वेनैव सम्बन्धबोधात् । अत्र तु प्रतियोगित्वादिना रूपेण स्वरूपतो वा संसर्गतया प्रतियोगित्वादीनां भानाल्लक्षणास्थले शक्यसम्बन्धस्य प्रकारतया भानात् । तस्माद्गौणी विजातीया वृत्तिः । तज्ज्ञानं त्वभेदबोधकाकाङ्क्षाशालिविशेषणबोधपदसामान्यं तद्बोधे सादृश्यबोधकशक्तिमद्भविष्यतीति सामान्यत एव भविष्यति । एतज्ज्ञानवतोऽभेदग्रहसाहित्येन सादृश्यप्रकारको वा संसर्गको वा बोधो भवति । तत्रैव प्रयोगप्राचुर्ये रूढोपचारः । रूढलक्षणावदस्यापि पृथग्वृत्तित्वं ज्ञातव्यम् । निरतिशयधर्मवत्त्वे महायोग इन्द्रादिशब्दानां भवति । तत्र योगेन बोध्यमानस्यैश्वर्यादेर्निरतिशयस्य भगवत्येव सत्त्वात् । न चेन्द्रादिशब्दानां रूढिरप्यङ्गीकर्तव्या । अन्यथा तत्र तत्र विद्वद्रूढेरङ्गीकृतत्वेन तद्विरोधापत्तेरिति वाच्यम् । तत्र विद्वद्रूढेरित्यस्य विद्वत्कर्तृकप्रयोगप्राचुर्यादित्यर्थकत्वेन विरोधाभावात् ।
न च योगलभ्यस्यैश्वर्यादेरितरसाधारण्यात्कथं भगवन्मात्रबोधकत्वं भगवन्मात्रबोधतात्पर्येण विद्वत् प्रयोगश्चेति वाच्यम् । केवलयोगलभ्यार्थस्येतरसाधारण्येऽपि महायोगलभ्यार्थस्येतरसाधारण्याभावात् । न च तथाऽपि रूढ्यभावे विद्वत्प्रयोगसत्त्वेऽपि रूढार्थानिन्द्रादीन्विहाय भगवत एव प्रथममुपस्थितिर्न सम्भवति । रूढेः प्राबल्येन तदर्थोपस्थितेरेवौचित्यादिति वाच्यम् । शास्त्रीयव्यवहारसामान्यस्य विद्वत्कर्तृकत्वेन तात्पर्यानुसारेणैवार्थोपस्थापकत्वात् । विदुषां तु योगेनार्थबोधतात्पर्यस्यैव सत्त्वात् । तात्पर्यनिश्चयस्य परस्परं विदुषां परीक्षकाणां च सत्त्वेन दृढतरसंस्कारसचिवपदैर्योगार्थस्यैवोपस्थितेस्तत्तद्य्ववहारे तात्पर्यानुसारेणार्थबोधकत्वस्य सुप्रसिद्धत्वात् । न हि म्लेच्छादिवाक्यस्थयवादिपदैः प्रसिद्धयवाद्युपस्थितिर्भवति । किन्तु तत्सङ्केतानुसारेणैवार्थविशेषोपस्थितिः । न च वाच्यं संस्कारसचिवयोगेनैवेन्द्रादिपदैरपि भगवद्बोधसम्भवेन महायोगाख्यवृत्त्यन्तराङ्गीकारो निरर्थक इति श्रीमदादियौगिकपदेषु प्रवृत्तिनिमित्तस्य श्रीमत्त्वादेर्यत्राधिक्यज्ञानं तस्यैव प्रथममुपस्थापकत्वस्यानुभवसिद्धत्वात् । प्रवृत्तिनिमित्ताधिक्यानुसारेण मुख्यत्वस्याङ्गीकर्तव्यत्वात् । तत्र भगवत्यनन्याधीननिरतिशयप्रवृत्तिनिमित्तसद्भावान्महायोगस्यावश्यकत्वात् । न हि महायोगो नाम योगभिन्नवृत्त्यन्तरं किन्तु तत्प्रभेद एव । न च तर्ह्येकापेक्षयैकस्य मुख्यत्वेन तज्ज्ञानसाहित्येन तत्तदर्थस्य प्रथममुपस्थापकत्वशक्तेर्विलक्षणत्वेन योगस्यैव नानाविधत्वापत्त्या योगापेक्षया पृथक् परिगणनानुपपत्तिः । तज्ज्ञानस्य मोक्षसाधनत्वेन पृथग्गणनसम्भवात् । न च नवविधत्वानुपपत्तिः । तदितरयोगस्यैव योगशब्देन धर्तव्यत्वात्सर्वपदासम्बन्धियोग्यत्वेनानुगमस्यापि सम्भवात् । महायोगस्य सर्वसम्बन्धित्वाद्रूढेर्योग इति विभागवाक्येन रूढियोगयोरेकस्मिन्नर्थे सामानाधिकरण्याभावस्य प्रतीतेस्तादृशयोगसमानाधिकरणरूढेरेव योगरूढिपदेन धर्तव्यत्वाद्योगो द्विविध इत्येव विभागः कुतो न क्रियत इति चेत् । लोके विद्यमानसप्तवृत्त्यपेक्षया मुख्यत्वज्ञापनाय तथैव विभागस्य कर्तव्यत्वात् । योगप्रभेदत्वेऽपि पृथग्ग्रहणेन तज्ज्ञानात् । अन्यथेतरयोगापेक्षया मुख्यत्वज्ञानमात्रं भवेत् । विद्वत्प्रयोगो योगतात्पर्यक एवेति निश्चयसत्त्वेऽपीन्द्रादीनामपि योगे बाध्यैश्वर्यवत्त्वादिरूपप्रवृत्तिनिमित्तत्वेन तान्विहाय भगवत एव प्रथममुपस्थितेरनुपपत्तेश्च । केवलयोगापेक्षया महायोगस्य वैलक्षण्यम् । ननु रूढानामपि शब्दानां स्वार्थेषु मध्ये मुख्यस्यैवोपस्थापकत्वात् महारूढिरपि प्रत्येकं वृत्तिः प्रत्येकं परिगणनीया स्यात् । बोधकस्यैव शक्तिरूपत्वात् । स्वार्थेषु मध्ये यन्मुख्यं तद्बोधकत्वशक्तेर्विजातीयत्वात् । तदुक्तं भाष्ये । मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषत इतीति चेत् । सत्यम् । सर्वेषामपि शब्दानां स्वार्थेषु मुख्यबोधकत्वमस्त्येव । परन्तु मुख्यज्ञानसहकृतस्यैव सूत्रादिपदान्मुख्यत्वज्ञानसहिताद्ब्रह्मसूत्रस्य बोधेऽपि केवलं प्रवृत्तिनिमित्तसूत्रत्वज्ञानमात्रेण न प्रथममुपस्थापकत्वेन वृत्त्यन्तरम् । रूढेर्ज्ञाताया एवार्थबोधकत्वेन विश्वतोमुखत्वादिधर्मावच्छिन्नवाचकं सूत्रपदमिति ज्ञानमात्रे सूत्रपदस्य बोधकत्वात् । न हि मुख्यसूत्रवाचकं सूत्रपदमिति ज्ञानमप्यपेक्षितं किन्तु प्रवृत्तिनिमित्तवत्सु मध्ये मुख्यत्वं यत्र ज्ञातं तस्यैव प्रथममुपस्थितिः । एतावन्मात्रेणातिरिक्तत्वे आकाङ्क्षाज्ञानसाहित्येन पदानां विशेषान्वयबोधकत्वेन विशेषान्वयेऽपि वृत्त्यन्तरत्वप्रसङ्गः ।
ननु शाब्दबोधजननानुकूलज्ञानविषयीभूतशब्दनिष्ठशाब्दबोधानुकूलशक्तेरेव शब्दवृत्तिपदार्थत्वेन विशेषान्वयशक्तेस्तादृशत्वाभानेन वृत्तिलक्षणानाक्रान्तत्वान्न वृत्त्यन्तरत्वप्रसङ्ग इति चेत् । समं प्रकृतेऽपि । स्वार्थेषु मध्ये मुख्यबोधकत्वरूपशक्तिज्ञानस्य शाब्दबोधानुकूलत्वान्न तस्य वृत्त्यन्तरत्वमिति समम् । ननु तत्पदात्प्रथममुपस्थितौ तत्पदवाच्येषु मुख्यत्वज्ञानं न प्रयोजकं किन्तु प्रवृत्तिनिमित्तस्याधिक्यज्ञानं मुख्यत्वज्ञानं वा । तथा च भगवतीवान्यत्रापि महायोगः कुतो नाङ्गीक्रियत इति चेत् । आधिक्यस्य मुख्यत्वस्य वा तदितरत्र व्यवस्थितत्वाभावेन तज्ज्ञानेन नियमनेन भगवदितरेषु कस्यचिदर्थस्योपस्थितेरसम्भवेन तत्र महायोगाङ्गीकारस्यासम्भवात् । राघवयादवादिपदैर्यदुकुलोत्पन्नत्वादिप्रवृत्तिनिमित्तेषु तारतम्याभावेनाधिक्यमुख्यत्वज्ञानाभावेऽपि धर्मान्तरप्रयोज्यमुख्यत्वज्ञानमात्रेण रामकृष्णाद्युपस्थितेरनुभवसिद्धत्वेन मुख्यत्वज्ञानस्य प्रथमोपस्थितिकारणत्वस्य क्लृप्तत्वाच्च । निरतिशयितमुख्यत्वादेर्भगवद्धर्मेषु व्यवस्थितत्वेन नियमेन नाङ्गीकर्तव्या । गुणलाभस्य योगेनैव सम्भवात् । विष्णुत्वादेः प्रवृत्तिनिमित्तत्वाङ्गीकारे मानाभावात् । इन्द्रादिमात्रवृत्तीन्द्रत्वादेर्भगवति कथमप्यसम्भवात् । तस्मादिन्द्रादिशब्दानां महायोग एवेति । नन्वेवं चेद्योगस्य शब्दवृत्तित्वाभावप्रसङ्गः । योगज्ञानस्य शाब्दबोधेऽनुपयोगादिति चेन्मैवम् । अभिप्रायविशेषसद्भावात् । तथा हि । योगपदादर्थविशेषबोधस्तु समुदायशक्तिज्ञानानपेक्षोऽवयवशक्तिज्ञानमात्रेण भवति । तदनन्तरमैश्वर्यादिरूपधर्मस्य प्रवृत्तिनिमित्तत्वज्ञानानन्तरं यस्मिन्व्यक्तौ तादृशो धर्मो ज्ञायते तद्य्वक्तिवाचकत्वज्ञानं भवति । तद्य्वक्तिविषयकः शाब्दबोध इत्यनुभवः । तथा च याऽवयवशक्तिज्ञानसाहित्येन तद्धर्मविशिष्टबोधानुकूला शक्तिः सैव तद्धर्मविशिष्टबोधानुकूलत्वेन ज्ञानाप्रवृत्तिनिमित्तज्ञानसापेक्षा व्यक्तिविशेषविषयकशब्दोपयोगिनीति रूढिवदेवास्य शब्दवृत्तित्वम् । प्रमाणलक्षणे शब्दप्रवृत्तिनिमित्तविवक्षया वृत्तियोगोऽवयववृत्तिर्योग इति द्विविधयोगस्योक्तत्वात् । तत्रावयववृत्तिरित्यस्यावयववृत्तिज्ञानाधीनवृत्तिरित्यर्थस्य सुधाद्यनुसारेण वक्तव्यत्वात् । तथा चाज्ञताया योगरूपशक्तेर्धर्मविशेषविशिष्टबोधानुकूलत्वेऽपि ज्ञाताया एव व्यक्तिविशेषबोधकत्वम् । प्रवृत्तिनिमित्तस्य योगस्थल इव संस्कारादेव भानसम्भवादित्याशयवता व्यक्तय एव वाच्या इत्युक्तम् । अन्यथा रूढिस्थल एवेत्यवक्ष्यत् ।
एवं लक्षणाऽपि शक्यसम्बन्धज्ञानाधीनशब्दनिष्ठाऽर्थान्तरबोधानुकूला शक्तिः । साऽपि पदानां मुख्यार्थानुपपत्तौ तत्सम्बन्ध्यर्थान्तरबोधकत्वमिति सामान्यतो ज्ञातैव बोधोपयोगिनी । एवमुपचारोऽपि सादृश्यबोधानुकूला शक्तिः । सोऽप्यैक्यानुपपत्तौ समानविभक्तिकविशेषणपदं सादृश्यगमकमिति सामान्यतो ज्ञात एव सादृश्यबोधौपयिकः शब्दवृत्तित्वं सम्भवति । यद्यप्याकाङ्क्षाज्ञानस्य तत्पदार्थान्वितस्वार्थबोधकत्वमित्याकारत्वे तस्य शाब्दोपयोगित्वेन तद्विषषयीभूतविशेषान्वयबोधकशक्तेरपि शब्दवृत्तित्वापत्तिरस्ति । तथाऽपि विशेषान्वये बोधानुकूलत्वेन रूपेण तज्ज्ञानस्यानपेक्षितत्वात्तेन रूपेण न वृत्तित्वम् । शाब्दानुकूलशक्तित्वेन रूपेण वृत्तित्वं त्वङ्गीक्रियत एव । तात्पर्यरूपशक्तिरपि न शाब्दसामान्योपयोगिनी । विनाऽपि तात्पर्यं शाब्दबोधोदयात् । किन्तु सत्त्वावगाहिबोध एवेति न तस्या अपि वृत्तिरूपत्वमिति मन्तव्यम् । निरतिशयानन्याधीनप्रवृत्तिनिमित्तकयोगस्येतरासाधारण्येन व्यवस्थितत्वेनेतरासाधारण्याद्भगवतः सर्ववेदमुख्यार्थत्वस्योपपादकत्वात्तस्यैव पृथग्गणना युक्ता । रूढ्या प्रवृत्तिनिमित्तवत्त्वाबोधनात् । प्रवृत्तिनिमित्तज्ञानानन्तरमेव रूढेरर्थबोधकत्वान्न गुणसम्पादकत्वं किन्तु योगस्यैव । महायोगस्यापि प्रवृत्तिनिमित्तेषु प्रमाणान्तरेण निरतिशयत्वादिज्ञानानन्तरमेव प्रवृत्तिरिति न गुणसम्पादकत्वमिति तस्य पृथग्ग्रहणं न युक्तमिति प्रतिभाति । तथाऽपि तज्ज्ञानस्य मोक्षसाधनत्वात्पृथगुत्कीर्तनमित्युक्तमेव । न केवलमिन्द्रादिशब्दानां महायोगः किन्तु पदवर्णस्वरादीनामखिलध्वनीनां महायोगः । सर्वे वेदाः सर्वे घोषा इति श्रुतेः । न च ध्वनीनामवाचकत्वात्कथं भगवत्परत्वमिति वाच्यम् । तासामपि नादादिरूपवर्णव्यञ्जकत्वात् । ध्वन्युत्पादकस्य चतुर्मुखस्य भगवद्गुणबोधे तात्पर्यसद्भावाच्च । एवं म्लेच्छादिभगवज्ज्ञानशून्यपुरुषोच्चारितसर्वशब्दानां भगवद्बोधे तत्तत्पुरुषाणां तात्पर्याभावेऽपि मुख्यवक्तुः प्राणराजस्य तात्पर्यसत्त्वात्तात्पर्यतः सर्वशब्दप्रतिपाद्यत्वं द्रष्टव्यम् । यद्यपीच्छारूपपुरुषतात्पर्यस्य न शाब्दबोधोत्पत्तावुपयोगस्तथाऽपि तात्पर्यरूपशक्तिसम्पादकतयोपयोग इति मन्तव्यम् ।
यत्त्वनेकवर्णात्मकानां पदानां भगवति योगसम्भवेऽप्येकैकवर्णानामपि प्रत्येकं वाचकत्वस्यावश्यकत्वेन तत्र योगासम्भवः । वर्णानां कूटस्थतया व्याप्तत्वेनाखण्डत्वेन तदवयवाभावादिति केवलरूढिरेवेश्वरेऽङ्गीकर्तव्येति । तदसत् । न ह्यवयवत्वं नाम तदारम्भकत्वं तद्घटकत्वं वा विवक्षितम् । तथा सति सर्वस्यापि पदस्य नित्यत्वे कस्यापि सावयवत्वानुपपत्तेः । क्रमविशिष्टस्यानित्यत्वेऽपि पङ्कपदजनिधातुडप्रत्ययादीनां पङ्कजपदावयवत्वानुपपत्तेः । किन्तु यद्यत्पदधातुप्रत्ययादीनां शक्तिज्ञानसहकारेण यत्पदस्य बोधकत्वं तद्घातुप्रत्ययादीनां तत्पदावयवत्वम् । यदा पङ्कजपदस्य पङ्कपदजनिधातुडप्रत्ययाः । यथा वा राजपुरुषपदस्य षष्ठीविभक्तिः । एवं चैकवर्णात्मकस्यापि पदस्य तादृशावयवाः सम्भवन्त्येव । यथा रेफस्यैकवर्णस्य रमधात्वादि । न च तर्हि व्याकरणाप्रामाण्यापत्तिस्तत्र धात्वादिनिष्पन्नत्वोक्तेरिति वाच्यम् । वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः । व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यत इति । तन्न्यायस्यात्राप्यनुसर्तव्यत्वात् । सर्वज्ञस्य ब्रह्मणो बुद्धौ सर्वेषां शब्दानां व्याकरणशास्त्रोक्तसंज्ञादीनां च क्रमादेव भगवदिच्छया व्याकरणप्रामाण्याय भानसम्भवात् । ब्रह्मणाऽपि पूर्वजन्मनि व्याकरणस्याधीतत्वेन तत्संस्कारस्य भानप्रयोजकस्य सत्त्वाच्च न कोऽपि दोषः । यत्तु व्याकरणोक्तार्थस्य मिथ्यात्वेऽपि महातात्पर्यविषयीभूतशब्दसाधुत्वासाधुत्वयोः सत्यत्वात्प्रामाण्योपपत्तेः । अद्वितीयब्रह्म महातात्पर्यं वेदान्तिनामिति तत्तुच्छम् । शब्दसाधुत्वे महातात्पर्यसत्त्वेऽपि मुख्यतः प्रतिपाद्यावान्तरतात्पर्यस्यापि सत्त्वेन तस्य मिथ्यात्वे भ्रमतात्पर्यकत्वरूपाप्रामाण्यस्यावर्जनीयत्वादवान्तरतात्पर्यविषयीभूतार्थस्य हेतुतयैव शब्दसाधुत्वबोधकत्वेन तस्य मिथ्यात्वे साधकत्वानुपपत्तेः । अन्यथा मिथ्याभूतेन धूमेन जलह्रदेऽपि वह्निसिद्ध्यापत्तेः । एकत्राप्रामाण्येऽन्यत्रापि प्रामाण्ये विश्वासानुपपत्तेश्च । उभयत्रापि तात्पर्यसाम्यात् । दृष्टान्तस्त्वतीवासङ्गतः । अद्वितीये ब्रह्मणि तात्पर्यस्य खण्डितत्वात् । अवान्तरतात्पर्यविषयीभूतार्थस्य मिथ्यात्वानङ्गीकारत्वाच्च । यद्वा वर्णानां व्याप्तत्वेनाव्याकृताकाशादेरिव हस्तवितस्त्यादिरूपांशत्वेन तेषामपि पृथगर्थवाचकत्वसत्त्वेन तेषां शक्तिज्ञानसहकारेणार्थविशेषप्रतिपादकत्वसम्भवेन प्रत्येकं वर्णानां यौगिकत्वं तदवयवानां च तैर्वर्णैः सहात्यन्ताभिन्नत्वेन वर्णानां यौगिकत्वे तदवयवानां च यौगिकत्वमुपपद्यते । तज्ज्ञानं तु चतुर्मुखस्य सम्यक् । अन्येषां तात्त्विकानां देवानां यथाधिकारं सम्भवति । अत एव श्रुतिः । ‘‘कश्छन्दसां योगमावेद धीर’’ इति । क इत्यस्योभयार्थत्वेनान्येषां सम्यग्ज्ञानाभावः । ब्रह्मणस्तु सम्यग्ज्ञानमित्यर्थद्वयलाभात् । आवेदेत्यस्य सम्यग्वेदेत्यर्थत्वात् । तथा च वृत्तिस्तु द्विविधा मुख्यामुख्यभेदात् । मुख्या त्रिविधा । रूढिर्योगरूढिर्योगश्चेति । तत्र योगोऽपि द्विविधः । मुख्यः परममुख्यश्चेति । परममुख्योऽपि द्विविधः । महायोगो महायोगरूढिश्चेति । तौ च भगवत्येव । अमुख्या द्विविधा । उपचारो लक्षणा चेति । उपचारोऽपि द्विविधः । रूढोपचार उपचारश्चेति । लक्षणाऽपि द्विविधा । रूढलक्षणा लक्षणा चेति । एतेषां लक्षणानामुदाहरणानि तूक्तान्येवेत्यलम् ।। अपौरुषेयो वेद इति । तत्प्रकारश्च पूर्वमेव विवेचितः ।
श्रीविट्टलभट्ट
नन्वागमरूपप्रमाणस्य प्रयोजनं वाच्यं परार्थत्वात् । प्रयोजनं च तस्य प्रतीतिरेव । प्रयोजनभूतं च ज्ञानं किमिति प्रष्टुः पदार्थज्ञानं तावन्न प्रयोजनमित्याशयेनाह ।। नन्विति । पदार्थज्ञानस्य प्रागेव सिद्धत्वात् । पदार्थरूपसम्बन्धिज्ञानस्य प्रागेव शक्तिज्ञानात्प्रागेव । सिद्धत्वात्सद्भावादित्यर्थः । तथा च तस्य परानपेक्षितत्वान्न परार्थागमप्रयोजनमिति भावः । तथा च प्रश्नबीज सद्भावात्पृच्छति ।। किमागमस्येति । अनुमानस्येवागमस्याप्यज्ञातविषयसद्भावात्तदज्ञानं प्रयोजनमित्याशयेनोत्तरमाह ।। उच्यत इति । धर्मधर्मिणोर्व्यापकरूपधर्मितद्धर्मिरूपपक्षयोरित्यर्थः ।। अन्वयविषयस्येति । पदेनान्वयसामान्यज्ञानसम्भवाद्विशेषपदोपादानम् । आगमः पदार्थसंसर्गविशेषस्य बोधक इत्युक्तम् । तन्न युक्तमिति शङ्कते ।। पदानामिति । पदार्थमात्रविशेषत्वेन पदस्य यथार्थे शक्तिरूपः सम्बन्धः स्वपदार्थः स एव विषयो ज्ञेयो यस्य तत्पदार्थमात्रविषयं तस्य भावस्तत्त्वं तेन पदार्थमात्रज्ञापकत्वेनेति यावत् । मात्रपदेनान्वयसामान्यमन्वयविशेषश्च व्यावर्त्यते । अन्वयस्यान्वयसामान्यस्यान्वयविशेषस्य च ज्ञापकं न किञ्चिदित्यर्थः । पदसमूहातिरिक्तवाक्याभावात्पदानां च शक्तिरूपस्वरूपसम्बन्धवदर्थमात्रज्ञापकत्वेनान्वयेऽवयविशेषे च सम्बन्धाभावात्तद्बोधकं न किञ्चिदस्तीति भावः । अत्र वाद्यन्तरोक्तपरिहारांस्तावदाह ।। अत्रेति । एवं शङ्कायां कृतायामित्यर्थः । वर्णपदाभिव्यक्तिर्वर्णात्मकपदैरभिव्यङ्ग्यः स्फोटाख्यो वाक्यस्फोटनामकोऽखण्डो वर्णरूपावयवरहितः शब्दो वाक्यात्मकशब्दोऽन्वयस्य पदार्थानां सामान्यान्वयस्य विशेषान्वयस्य च ज्ञापक इत्युत्तरं वैय्याकरणा आचक्षत इत्यर्थः ।। वर्णमालेति । पदातिरिक्तवर्णमालेत्यर्थः । अभावस्येत्यस्य लिङ्गव्यत्ययेन बोधक इत्यस्य ब्रुवत इत्यस्य चावृत्तिरनुसन्धेया ।। वाक्यान्त्यो वर्ण इति । पदान्तवर्णव्यावृत्त्यर्थं वाक्यपदोपादानम् । अत्राप्यन्वयस्येत्यादेरनुवृत्तिरनुसन्धेया ।। पदानामिति । आकाङ्क्षायोग्यतावतां पदानां सान्निध्यं सन्निधिमत्त्वं सन्निधिरित्यर्थः । अत्राप्यन्वये सत्यस्य लिङ्गव्यत्ययेन बोधक इत्यस्य चानुवृत्तिर्द्रष्टव्या ।। पदैरभिहिताः पदार्था एवेति । एवकारेण पदानि व्यावर्त्यन्ते । गौरश्वः पुरुषो हस्तीति पदैः प्रतिपादिताः पदार्था अन्वयबोधं जनयन्तीत्याकाङ्क्षाशालिन इत्युक्तम् ।। अत्राप्यन्वयस्येति । पदस्य विभक्तिव्यत्ययेन बोधक इत्यस्य ब्रुवत इत्यस्य चावृत्तिः कार्या । एवं परोक्तपरिहाराननूद्य तद्दूषणपूर्वकं स्वसिद्धान्तमाह ।। सर्वेषामिति । एवमनूदितानां सर्वेषां पक्षाणामुक्तशङ्कापरिहारप्रकाराणां प्रमाणशून्यत्वात्प्रमाणबाधितत्वाच्च पदान्येवान्वितस्वार्थाभिधायीनि प्रत्येकं पदान्येव सामान्यतो योग्येतरान्वितस्वार्थवाचीनीति ते प्रेक्षावन्तो ब्रुवत इत्यर्थः । पदान्येवेत्यत्रैवकारेण न वाक्यं व्यावर्तयति । प्रेक्षावन्त इत्यनेनान्विताभिधानस्य प्रामाणिकतां प्रमाणविरुद्धतां च सूचयति । अयमभिसन्धिः । न तावदाद्यः पक्षः सम्भवति । श्रूयमाणवर्णवदघटितखण्डवाक्यातिरिक्ताखण्डस्फोटाख्यवाक्यस्यैवा प्रामाणिकत्वेनाखण्डशब्दोऽन्वयबोधक इति पक्षस्य सुतरामप्रामाणिकत्वात् । नन्वन्वयभानार्थं तत्कल्पनमिति वाच्यम् । वर्णघटितखण्डस्यैव सामान्यतोऽन्वितस्वार्थे गृहीतसङ्गतिकत्वेनान्वयस्य भानार्थमखण्डशब्दकल्पनायोगात् । न च तत्र विवादः । प्राथमिकव्युत्पत्तिहेतुनाऽन्वितविषयकेण वृद्धव्यवहारेण योग्येतरान्वितस्वार्थ एव पदानां शक्तिग्रहात् । अन्यथा गामानयेत्यनेन क्रियासामान्यान्वितस्वार्थानुपस्थितेः । सामान्यज्ञानसाध्यक्रियाविशेषे जिज्ञासाभावप्रसङ्गात् । न च कर्मत्वस्य क्रियान्वितव्याप्तिकत्वात्कर्मत्वे नानुमिते क्रियासामान्ये तद्विशेषा जिज्ञासा भवतीति वाच्यम् । तदानीं सहचारज्ञानादिवेद्याया व्याप्तेरुपस्थितिनियमाभावेन कर्मत्वेन क्रियासामान्येनान्वयानुमानायोगात् । अन्यथा जातेर्व्यक्तिवृत्तित्वनियमाच्छक्यजातिसम्बन्धेनैव व्यक्तेः प्रतीत्या जात्याऽन्वितव्यक्तौ शक्त्यसिद्धिप्रसङ्गात् । तस्मादनेकवर्णघटितपदानामन्वित एव स्वार्थे शक्तिग्रहात्तेनैवान्वयप्रतीत्युपपत्तेः । न तदर्थः खण्डः शब्दः कल्पनीयः । किञ्चान्वित एव स्वार्थे पदानां शक्तिग्राहकप्रमाणविरोधादखण्डस्फोटाख्यं वाक्यं न सामान्यान्वयबोधकम् । नापि द्वितीयः पक्षः सम्भवति । पदातिरिक्तवर्णमालाया अप्रामाणिकत्वात्पदरूपवर्णमालायाः पदार्थमात्रशक्तत्वेनान्वयबोधकत्वस्य पूर्वपक्षिणैवोक्तत्वाच्च शक्तिग्राहकप्रमाणेनान्वित एव स्वार्थे पदानां शक्तिग्रहादनेकपदरूपवर्णमालाया अन्वयबोधकत्वस्य शक्तिग्राहकप्रमाणविरुद्धत्वाच्च । नापि तृतीयः पक्षो युक्तः । अन्त्यवर्णस्यैकस्य वाऽन्वयबोधकतायां मानाभावात् । अन्त्यवर्ण इत्यत्र वर्णपदं पदपरमिति चेन्न । अन्त्यपदस्याप्येकस्यैवान्वयबोधकत्वे पदान्तरवैय्यर्थ्यात् । पदान्तरसन्निहितमन्त्यपदमन्वयबोधकमिति चेन्न । अन्त्यपदवैय्यर्थ्यात् । पदान्तरसहितं पदमन्वयबोधकमित्यङ्गीकारे तु चतुर्थपक्षानतिरेकात् । पदस्यान्विते शक्तिग्रहाच्छक्तिग्राहकप्रमाणविरोधाच्च । नापि चतुर्थः पक्षः सम्भवति । पदस्यैवान्वयबोधकत्वेन पदसान्निध्यस्यान्वयबोधकत्वकल्पनस्याप्रामाणिकत्वात् । पदवृत्तिविषयस्यैव शब्दबोध्यतया तदविषयस्यान्वयस्य शब्दत्वायोगाच्च । पदसान्निध्यस्यार्थबोधकत्वे पदस्यान्विते शक्तिग्राहकप्रमाणविरोधाच्च । नापि पञ्चमः पक्षो युक्तः । परैरभिहितानां शक्तिग्रहाद्बाधकाभावाच्चान्विताभिधानपक्षो युक्त इति ।
नन्वस्तु पदानां सामान्यतो योग्येतरान्वितस्वार्थाभिधायित्वं तथाऽपि विशेषान्वयबोधकं न किञ्चिदस्तीति चोद्यस्य किमुत्तरमिति जिज्ञासायां वाद्यन्तरोक्तमुत्तरमाह ।। तत्रेति । विशेषान्वयबोधकं न किञ्चिदस्तीति चोद्यस्य किमुत्तरमिति जिज्ञासायामित्यर्थः । अन्वयविशेषाभिधानसमर्थान्यन्वयविशेषस्य कारकविशेषेण वा कारकविशेषस्य क्रियाविशेषेण वा संसर्ग इति यावत् । तस्याभिधानेऽभिधया वृत्त्या बोधने. समर्थानि शक्तानीत्युत्तरं प्राभाकरा वर्णयन्तीत्यर्थः । प्राभाकरपदोपादानेन विशेषान्विताभिधानसाधुतां सूचयति । तदुक्तं सुधायाम् । ये तु विशेषान्वय एव पदानां शक्तिरित्यास्थिषत तन्मतनिरासायान्वित इति सामान्येनोक्तमिति । विशेषान्विताभिधानस्यासाधुत्वं कथमिति चेदित्थम् । किं पदान्तरसापेक्षाण्येव पदानि विशेषान्वितस्वार्थाभिधायीन्युत तन्निरपेक्षाणि । नाद्यः । क्रियापदेनानयनरूपक्रियाविशेषेऽभिहिते घटपदेन तदन्वितस्वार्थाभिधानं घटपदेन घटरूपकारकविशेषेऽभिहिते क्रियापदेन तदन्वितस्वार्थाभिधानमित्यन्योन्याश्रयात् । न चायं दोषः सामान्यान्विताभिधानवादेऽस्ति । अन्योन्यनिरपेक्षाणामेव पदानां सामान्यान्वितस्वार्थाभिधायित्वस्यानुभवसिद्धत्वात् । तदुक्तं सुधायाम् । स्यादिदं विशेषाभिधानवादिनां दूषणं सामान्यान्विताभिधानवादे तु नायं दोषः । प्रत्येकं पदान्याकाङ्क्षित सन्निहितयोग्यान्वितस्वार्थाभिधानसमर्थानि पदान्तरमपेक्षन्त इति नेतरेतराश्रयत्वमिति । न द्वितीयः । पदान्तरनिरपेक्षस्यैकस्य पदस्य विशेषान्वितस्वार्थबोधकत्वस्यानुभवविरुद्धत्वात् ।। पदान्तरवैय्यर्थ्याच्चेति । स्वमतमाह ।। प्रत्येकमिति । प्रत्येकं पदान्तरनिरपेक्षाण्येव सामान्यतः क्रियात्वादिरूपसामान्यधर्मपुरस्कारेण योग्येतरान्वय आहो ।। स्वित् पदार्थस्यान्वितस्वार्थस्य विशेषाकारेण स्वाभिधेयत्वेन स्वाधर्मस्याभिधानेऽभिधावृत्त्या बोधने शक्तानि पदानि पदान्तरस्य सन्निधानेन योगेनाहितं प्रापितं शक्त्यन्तरं सामान्यावयवज्ञापनशक्तिमन्ति सन्तीति यावत् । विशेषतोऽप्यानयनरूपक्रियात्वादिधर्मविशेषपुरस्कारेणाप्यन्वितानि योग्येतरार्थेन विशिष्टार्थान्स्वार्थान्विशेषाकारेण स्वाभिधेयत्वेन स्वार्थानभिधानशक्त्या बोधयन्तीत्यर्थः । एतत्कुत इत्यत आह ।। तथेति । तेन प्रकारेण पदानां प्रत्येकं सामान्यान्वयबोधकत्वेन पदान्तरसापेक्षाणां च तेषां विशेषान्वयबोधकत्वेन चानुभवात्प्रमितत्वादित्यर्थः । आचार्याः प्राहुरिति शेषः । एतदुक्तं भवति । कारकपदनिरपेक्षाणामेव क्रियापदानां कारकसामान्यान्वितस्वार्थेऽभिधारूपा शक्तिः क्रियापदनिरपेक्षाणां कारकपदानां तु क्रियासामान्यान्वितस्वार्थेऽभिधारूपा शक्तिः । अत एव पदानि प्रत्येकं सामान्यतो योग्येतरान्वितस्वार्थज्ञापनशक्तिमन्ति भवन्ति । तथैवानुभवात् । विशेषान्वये तु पदानां नाभिधानरूपा शक्तिः । इयमेव विशेषान्वयप्रतीतिः । पदान्तरसन्निधानरहितशक्तिभिः पदैर्भवति न तु पदान्तरनिरपेक्षैः । तथैवानुभवात् । तदुक्तं सुधायाम् । प्रत्येकं पदानि सामान्यतोऽन्वयाभिधायीनि । विशेषान्वितार्थप्रतीतिस्तु पदान्तरसन्निधानाहितशक्तिभिः पदैर्भवतीत्येतदनुभवसिद्धमित्यर्थ इति । तथाऽप्यवाच्यस्य विशेषान्वयस्य कथं शब्दात्प्रतीतिरिति चेत् । पदान्तरसमभिव्याहारादिति ब्रूमः । तदुक्तं सुधायाम् । अत एव सामान्यान्विताभिधानवादे वाक्यार्थविशेषाप्रतिलम्भ इति निरस्तम् । पदान्तरसमभिव्याहाराद्विशेषप्रतिपत्त्युपपत्तेरिति । ननु तर्हि किमनया सामान्यान्वयेऽभिधानशक्त्या पदार्थमात्रशक्तेरेव पदैः पदान्तरसमभिव्याहाराद्विशेषान्वयस्यैव प्रतीतिसम्भवादिति चेन्न । शक्तिग्रहणसमये पदानां सामान्यान्वितस्वार्थे शक्तेर्गृहीतत्वेन तत्परित्यागायोगात् । क्रियाविशेषजिज्ञासार्थं गामिति कारकपदस्य क्रियासामान्यान्विते शक्तेरावश्यकत्वात् । अन्यथा पदानां जातावेव शक्तिर्व्यक्तेराकाङ्क्षादिवशाद्धीरित्यापातात् ।
ननु तथाऽपि पदसम्बन्ध एवार्थः पदसमूहरूपवाक्येन बोधनीयः । अन्यथा गामानयेति रासभादेरपि वाक्यबोध्यतापातात् । तथा च पदवृत्तिविषयत्वमेव पदसमूहरूपवाक्यजन्यप्रतीतिविषयतायां तन्त्रमिति पदवृत्त्यभ्युपगमात् । संसर्गो हि विशेषप्रतियोगिविशेष एव । तथा च संसर्गः प्रतियोगिविशेषौ च गामानयेति पदवृत्तिविषय इति नोक्तशङ्कावकाशः । तथाऽपि नोक्तपदवृत्तिविषयः संसर्गविशेष इति चेत् । किं तावता यद्वाक्यप्रविष्टपदवृत्तिविषयो यावांस्तावानेव तत्पदघटितवाक्यबोध्य इत्यङ्गीकारेणातिप्रसङ्गलेशाभावात् । एतेन संसर्गविशेषज्ञापनासमर्थं कारकपदं क्रियापदसमभिव्याहारात्संसर्गविशेषज्ञापनासमर्थं कारकपदं क्रियापदसमभिव्याहारात्संसर्गविशेषज्ञापनशक्तमिति चोद्यं निरस्तम् । पदान्तरसमभिव्याहारेण संसर्गविशेषज्ञानशक्तेस्तत्राहितत्वेन व्याहत्यभावात् । तदिदमुक्तं पदान्तरसन्निधानाहितशक्तिभिः पदैर्भवतीत्यनुभवसिद्धम् ।। इत्यर्थ इति । न चैवं सति पदान्तरसमभिव्याहारो हि सामान्यस्य विशेषपर्यवसानसम्भवहेतुर्न पुनरविद्यमानशक्त्याधान इति सुधाविरोधः स्यादिति वाच्यम् । पदान्तरसन्निधानरूपसमभिव्याहारो हि सामान्यस्य वाच्यवाचकयोरभेदव्यपदेशस्यायं वै लोको महानाम्नीत्यादौ दर्शनात् । अन्वयवाचिनः पदस्य विशेषपर्यवसानमन्वयविशेषबोधकत्वं तत्र हेतुर्न पुनरविद्यमानशक्त्याधाने पदान्तरसमभिव्याहारात्प्राक् पदानामन्वयविशेषेऽविद्यमानशक्तिरभिधारूपा शक्तिस्तदाधानेन हेतुरित्येवं परत्वेनास्य वाक्यस्य पदान्तरसन्निधानाहितान्वयविशेषज्ञापनशक्तिनिषेधपरत्वाभावात् । तस्मात्प्रत्येकं सर्वाण्यपि पदान्यभिधारूपशक्त्यायोग्येतरसामान्यान्वितस्वार्थज्ञापनशक्तिमन्ति च पदान्तरसन्निधानाहितयोग्येतरविशेषान्वितज्ञापनशक्तिमन्ति सन्त्यन्वयविशेषं ज्ञापयन्तीत्याचार्याणां पक्षः साधुरिति ।