प्रमाणपद्धतिः

(३५) प्रमाणपद्धतिः

।। ११ ।। न्यूनम् । अवश्योपादेयानामन्यतमानुपादनं न्यूनम् । यथा पर्वतोऽग्निमान्महानसवदित्यादि । एतन्न्यूनमेव ।

जयतीर्थविजय

अत्रात्मसिद्धान्त सिद्धानामित्यवश्योपादेयानामित्यस्य विशेषणमुपस्कर्तव्यम् । अन्यथा नैयायिकं प्रत्यवयवद्वयं प्रयुञ्जानस्य सौगतस्य न्यूनतापत्तेः । अवश्योपादेयानां कथारम्भादीनां मध्य इत्यर्थः । तदुक्तं वरदाराजेन ।

आत्मसिद्धान्तसिद्धेषु वादांशावयवादिषु ।

एकस्यावचने प्राहुरन्यूनं न्यूननिग्रह ।।

 इति न्यूनस्य सिद्धान्तविरुद्धाचरण रूपत्वात्सिद्धान्तविरुद्धाभ्युपगमरूपादपसिद्धान्ताद्भेदो द्रष्टव्यः ।

श्रीविजयीन्द्रतीर्थ

।। अवश्येति । स्वस्वसिद्धान्तावश्योपादेयेत्यर्थः । तेन त्र्यवयवादिप्रयोगे मीमांसकादेर्न न्यूनताप्रसङ्गः ।। यथेति । नैयायिकमतेनैतत् ।। एतदिति । परबोधनार्थस्य स्वेनावश्यवक्तव्यस्यानुक्तेरिति भावः ।

अभिनवामृतम्

।। एतन्न्यूनमेवेति । यत्त्वया न्यूनत्वेनोक्तं तत्तथैवेत्यर्थः। एवमुत्तरत्रापि खण्डनं द्रष्टव्यम् ।

श्रीविट्टलभट्ट

।। अवश्योपादेयानामिति । अवश्योपादेयानां प्रतिज्ञाद्यवयवानामन्यतमवचनमित्यर्थः ।। इत्यादीति । धूमवत्त्वान्महानसवदित्यादिरादिशब्दार्थः ।। एतदिति । उक्तानुपादानमस्मदुक्तन्यूनाख्यनिग्रहस्थानमेव न ततोऽतिरिक्तमित्यर्थः ।