प्रमाणपद्धतिः
लक्षणस्वरूपविवरणम्
(३) प्रमाणपद्धतिः
यो धर्मो लक्ष्ये व्याप्त्या वर्तते न वर्तते चान्यत्र स धर्मो लक्षणमित्युच्यते ।
(३) जयतीर्थविजय
ननु भगवत्पादैरेव प्रमाणलक्षणादिकमभिहितमित्युक्तम् । तत्र किं लक्षणलक्षणमित्याकाङ्क्षायां लक्षणलक्षणमाह ।। यो धर्म इति । व्याप्त्या सार्वत्रिकसम्बन्धेन । लक्षणपदस्य यो धर्म इत्यादिपदजातेन समानार्थकतया पौनरुक्त्यमित्याशङ्कायामाह ।। इत्युच्यत इति । तथा च यो धर्मो लक्ष्ये व्याप्त्या वर्तते न वर्तते चान्यत्र स धर्मो लक्षणशब्दवाच्य इत्यर्थः । अतो न पौनरुक्त्यमिति भावः । व्याप्त्येतल्लक्ष्ये इत्यनेनान्यत्रेत्यनेन च सम्बध्यते । यो धर्मो लक्ष्ये व्याप्त्या वर्ततेऽन्यत्र च व्याप्त्या न वर्तते स धर्मो लक्षणमित्युच्यत इति । तथा च यावल्लक्ष्यवृत्तित्वे सति यावदलक्ष्यावृत्तित्वं लक्षणस्य लक्षणमिति निष्कृष्टोऽर्थः । व्याप्त्येत्यस्यान्यत्रेत्यनेनाप्यन्वयानङ्गीकारे यो धर्मो लक्ष्ये वर्तत इत्यंशस्य शबलत्वादौ यत्किञ्चिल्लक्ष्यवृत्तित्वमादाय पर्यवसानवदन्यत्र न वर्तत इत्यंशस्यापि यत्किञ्चिदलक्ष्यावृत्तित्वमादाय पर्यवसानापत्त्या यत्किञ्चिदलक्ष्यशशाद्यवृत्तिविषाणित्वादेर्गोलक्षणत्वस्य वज्रलेपायितत्वापत्तेः । ननु सामान्यनिषेधस्य सामान्याभावप्रत्यायकत्वस्वाभाव्यादन्यत्र न वर्तत इत्यंशस्यान्यत्र कुत्रापि न वर्तत इत्येवार्थ इति चेन्न । एवं सति यल्लक्ष्ये सर्वथा न वर्तत इत्यसम्भविलक्षणेऽपि यल्लक्ष्ये न वर्तत इति सामान्यनिषेधेन सर्वलक्ष्यवृत्तित्वाभावसम्भवेन सर्वथेति पदवैप्यर्थ्यापत्तेः । यदि च तत्र सर्वथेति पदसमभिव्याहारेण लक्ष्ये न वर्तत इत्यस्य यत्किञ्चिल्लक्ष्यवृत्तित्त्वाभावमादाय पर्यवसानापत्त्याऽव्यापकेऽतिव्याप्तिवारणाय सर्वथेति पदं सार्थकं तदा प्रकृतेऽपि व्याप्त्येति पदसन्निधानादन्यत्र न वर्तत इत्यंशस्यापि यत्किञ्चिदलक्ष्यावृत्तित्वामादाय पर्यवसानापत्त्या यत्किञ्चिदलक्ष्यशशाद्यवृत्तिविषाणित्वादेर्गोलक्षणत्ववारणाय व्याप्त्येति पदमन्यत्रेत्यत्राप्यन्वेतव्यमिति सङ्क्षेपः । ननु यत्रैकमेव लक्ष्यं तत्राव्याप्तिः । अनेकत्वघटितव्याप्तिपदार्थस्य तत्राप्रसिद्धेरिति चेन्न । तस्य सम्भाविताशेषपरत्वात् । अत एव लक्ष्य इत्येकवचनम् । नन्वेवमपि भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपीत्यनुव्याख्यानोदाहृतप्रमाणानुसारेणैकस्य धर्मस्य सर्वलक्ष्यवृत्तित्वाभावात्कथं लक्षणत्वमिति चेदत्रोक्तं सुधायामेकस्य धर्मस्य सर्वलक्ष्यवृत्तित्वाभावेऽपि तत्सदृशधर्मस्य लक्ष्येषु सर्वत्र सत्त्वाल्लक्षणस्यानुगतिरिति । ततश्चैवं यो धर्म इति वाक्यार्थः । यो यत्सदृशो धर्मो यत्र लक्ष्ये व्याप्त्या वर्तते न वर्तते चान्यत्र व्याप्त्या स धर्मस्तस्य लक्षणमिति । एवं चैकस्य सास्नादिमत्त्वस्य सर्वगोवृत्तित्वाभावेऽप्येकसास्नादिमत्त्वसदृशानां तत्तत्सास्नादिमत्त्वानां सर्वत्र गोषु सत्त्वान्नाननुगमः । नन्वेवं विषाणित्वादेरपि पशुधर्मत्वदिरूपेण सास्नादिमत्त्वसदृशत्वात्तत्र चान्यत्र न वर्तत इति विशेषणाभावाद्गोलक्षणे सास्नादिमत्त्वेऽव्याप्तिरिति चेन्न । स्वावच्छेदकरूपेण यत्सदृशो धर्म इति विवक्षितत्वात् । स्वावच्छेदकं लक्षणतावच्छेदकमित्यर्थः । येन रूपेण लक्षणत्वमुच्यते तद्रूपमिति यावत् । स्वत्वाकारेणैव लक्षणस्य प्रवेशान्नात्माश्रयः । विषाणित्वादेश्च पशुधर्मत्वादिरूपेण सास्नादिमत्त्वसादृश्येऽपि लक्षणतावच्छेदकसास्नदिमत्त्वरूपेण सदृशत्वभावान्न गोलक्षणे सास्नादिमत्त्वेऽव्याप्तिः । न च सादृश्यस्याप्यननुगतत्वात्तेन लक्षणस्य कथनमननुगम इति वाच्यम् । तस्यानेकवृत्तित्वाभावेऽप्यनेकसम्बन्धित्वेन लक्षणानुगमसम्भवात् । तथा हि । एकगोनिष्ठसास्नादिमत्त्वस्य सर्वाण्यपि सास्नादिमत्त्वानि सदृशानि । एवं च सादृश्यमन्यसास्नादिमत्त्वेष्वनुयोगित्वसम्बन्धेनैकसास्नादिमत्त्वे प्रतियोगित्वसम्बन्धेन सम्बन्धमित्यनुगतमेवेति । गन्धवत्त्वं पृथिव्यालक्षणमिति वदद्भिर्नैयायिकादिभिरप्यनुगतगन्धत्वादिजातिसद्भावे मानाभावेन सादृश्येनैवानुगमोऽभ्युपेय इति मानाभावश्च सुधादौ स्पष्टं प्रतिपादित इति नेहास्माभिर्विस्तरभयात्तन्यते । प्रकारान्तरमप्याकलयामः । तथा हि । यो यच्छब्दवाच्यो धर्मो यत्र लक्ष्ये सर्वत्र वर्तते न वर्तते चान्यत्र स धर्मस्तस्य लक्षणम् । सास्नादिमत्त्वस्य सास्नादिमत्त्वशब्दवाच्यत्वं नाम सास्नादिमत्त्वबोधानुकूलस्तेन साकं स्वाभाविकः सम्बन्धः । तादृशसम्बन्धानुयोगित्वं सादृश्यवदनुगतम् । इयानेव विशेषः । सादृश्यमेकस्मिन्सास्नादिमत्त्वे प्रतियोगित्वसम्बन्धेनान्यत्र चानुयोगित्वेनानुगतम् । सास्नामत्त्वशब्दवाच्यत्वं तु सर्वसास्नादिमत्त्वेष्वनुयोगित्वेनैव रूपेण सम्बद्धमिति । एवं चैकगोवृत्तिसास्नादिमत्त्वस्य सर्वगोवृत्तित्वाभावेऽपि सास्नादिमत्त्वशब्दवाच्यस्य यस्य कस्यचित्सास्नादिमत्त्वस्य तत्तद्गोव्यक्तिषु सर्वत्र सत्त्वान्नाननुगमः । नन्वेवं लक्षणज्ञानदशायामेव लक्षणज्ञानफलस्य वाच्यताज्ञानस्य वृत्तत्वात्किं लक्षणज्ञानेनेति चेन्न । निरुक्तलक्षणज्ञानदशायां सास्नादिमत्त्वशब्दवाच्यत्वज्ञानसत्त्वेऽपि लक्षणज्ञानफलीभूतगवादिशब्दवाच्यताज्ञानस्यानुदयेन वैय्यर्थ्यशङ्कानुदयात् । नन्वेवमपि यावद्विशेषातिरिक्तसामान्याभावेन तत्तत्सास्नादिमत्त्वातिरिक्तसास्नादिमत्त्वसामान्याभावात्कथं लक्षणानुगम इति चेत् । किं लक्षणीभूतधर्मस्यानुगमं पृच्छसि तल्लक्षणवाक्यस्य वा । नाद्यः । दत्तोत्तरत्वेन प्रश्नानवकाशात् । सादृश्यानुयोगित्वप्रतियोगित्वाभ्यामनुगमस्योक्तत्वात् । द्वितीये तु प्रतिब्रूमः । लक्षणवाक्यानुगमोऽपि न सकललक्ष्यवृत्त्येकधर्मप्रतिपादकत्वम् । गन्धवती पृथिवीत्यादावभावात् । किन्तु लिलक्षयिषितसर्वव्यक्तिमात्रसङ्ग्राहकत्वम् । अस्ति चेदं सास्नादिमान्गौरिति वाक्ये । न त्वेकशफो गौरित्यत्र । न वा शबलो गौरित्यत्र नापि विषाणवान्गौरित्यत्र । एकस्य धर्मस्य सकललक्ष्यवृत्तित्वमेवानुगम इत्यङ्गीकारेऽनुगतजातिवादिमते भावाभावयोर्लक्षणमुच्छिद्येत । न हि भावमात्रेऽभावमात्रे वा कश्चिदनुगतधर्मोऽस्ति । अन्यथा तस्य जातित्वापत्त्या सत्ताया एव परजातित्वमिति सिद्धान्तभङ्गप्रसङ्गात् । ननु भावाभावमात्रानुगतधर्मयोः सत्त्वेऽपि तयोस्तत्र समवायाभावान्न जातित्वमिति चेन्न । इह घटे घटत्वमिति प्रतीतिवदिहाभावेऽभावत्वमित्यादिप्रतीतेः समवायसाधिकायाः (साम्यात्) सत्त्वात् । ननु समवेतमिति प्रत्यय एव समवाये मानम् । अस्ति च घटे घटत्वं समवेतमिति प्रत्ययो नाभाव इति चेदेवं तर्हि धर्मक्षेत्रे समवेता कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैवेति वचनाभिलाप्यसमवेतप्रत्ययेन कुरुपाण्डवयोरपि समवायापत्तिरिति यत्किञ्चिदेतत् । अत्र यो धर्मः स एव लक्षणमित्युक्तेऽसम्भविन्येकशफत्वादावतिव्याप्तिः । तद्वारणाय लक्ष्ये वर्तत इति । तावत्येवोक्तेऽव्यापके शबलत्वादावतिव्याप्तिः । तद्वारणाय व्याप्त्येति । तावत्येवोक्तेऽतिव्यापके विषाणित्वादावतिव्याप्तिः । तद्वारणाय न वर्तते चान्यत्रेति । एवमपि यत्किञ्चिदन्यत्र शशादावविद्यमाने विषाणित्वादावतिव्याप्तिः तद्वारणाय व्याप्त्येतिपदम् । अन्यत्र च व्याप्त्या न वर्तत इत्यनुकर्षणीयम् ।
भावदीपः
नाम्ना निर्देशमात्रस्योद्देशशब्दार्थत्वात्तस्य चाद्यपद्य एव प्रमाणेत्युक्त्या कृतत्वं मत्वाऽग्रे लक्षणं विवक्षुरादौ लक्षणस्वरूपमाह ।। यो धर्म इति । लक्ष्ये लक्ष्यतावच्छेदकावच्छिन्ने । व्याप्त्या कार्त्स्न्येन । यो धर्मो यत्सदृशो धर्म इत्यर्थः । अन्यत्र लक्ष्यतावच्छेदकानाक्रान्ते । स धर्मो लक्ष्यतावच्छेदकावच्छिन्नेषु सर्वत्रान्योन्यसदृशतया वर्तमाना धर्मास्तेषां लक्ष्याणां लक्षणानीत्यर्थः । लक्ष्ये लक्षणे च सर्वानुगमकसादृश्यसत्वात्तदभिप्रायेणैकवचनम् । विवृतमेतत्तर्कताण्डवे द्वितीयपरिच्छेदे सादृश्योत्पत्तिवादे । पौनरुक्त्यनिरासायोक्तमित्युच्यत इति ।
श्रीविजयीन्द्रतीर्थ
।। यो धर्म इति । लक्ष्येतरावृत्तित्वे सति सकललक्ष्यवृत्तिधर्मो लक्षणम् । लक्ष्यतावच्छेदकाभिव्यङ्ग्यसादृश्यप्रतियोगीतरवृत्तिवृत्तिसादृश्यानिरूपकत्वेसति लक्ष्यतावच्छेदकाभिव्यङ्ग्यसादृश्यप्रतियोगियावद्वृत्तिवृत्तिसादृश्यप्रतियोगी धर्मो लक्षणमित्यर्थः । एतेनानुगतधर्मानभ्युपगमे सकललक्ष्यवृत्तेर्धर्मस्यैकस्याभावादसम्भवसम्भवोऽलक्ष्ये लक्ष्ये च वर्तमानस्यानभ्युपगमादतिव्याप्त्यसम्भवात्तद्वारकविशेषणवैयर्थ्यम् । किञ्च गोत्वस्येव गोत्वसमनियतस्य द्रव्यत्वादेरपि गोलक्षणं प्रसज्येत । अपि च द्रव्यत्वस्येव गोत्वस्यापि लक्षणत्वं किं न स्यादित्यादिदूषणं निरस्तम् । यद्यप्यत्रतावत्प्राधान्यात्प्रमाणलक्षणमेव वक्तुमुचितम् । तथाऽपि लक्षणसामान्याज्ञाने प्रमाणलक्षणमिदमिति लक्षणविशेषस्य ज्ञातुमशक्यत्वाद्विशेषलक्षणज्ञानोपयोगितया लक्षणसामान्यलक्षणोक्तिरादाविति बोध्यम् ।
श्रीवेदेशभिक्षु
प्रमाणादेः स्वोक्तमेव लक्षणं परोक्तं त्वलक्षणमिति ज्ञानस्य लक्षणालक्षणज्ञानाधीनत्वात्तल्लक्षणालक्षणयोर्लक्षणे क्रमेण दर्शयति ।। यो धर्म इत्यादिना । अत्र यो धर्म इत्यादिना तत्तल्लक्ष्यगतः प्रातिस्विकधर्म एव सामान्याकारेणोच्यते । तस्य लक्ष्ये व्याप्तिस्तत्र तत्र लक्ष्ये च वर्तमानत्वमेव विवक्षितं न त्वेकस्य सर्वलक्ष्यगतत्वमतोऽनुगतधर्मलक्षणाभावात्कथमेतदिति शङ्काऽनवकाशः । यथा गन्धः पृथिव्या लक्षणमित्युक्ते नैकस्य गन्धस्य सर्वपृथिवीगतत्वं प्रतीयते किन्तु तत्तत्पृथिवीगत एव गन्धः सामान्याकारेण तथाऽत्रापीति ध्येयम् । न च तत्र गन्धत्वेन गन्धानामनुगमात्सामान्योक्तिः सम्भवतीति वाच्यम् । गन्धत्वानुगमेन गन्धानामनुगमासम्भवात् । न हि पितुः पाण्डित्येन पुत्रः पण्डितो भवति । अस्माभिरपि लक्षणीभूतधर्मानुगतैकसादृश्यस्य लक्ष्यमाणत्वाच्च । अत्र लक्ष्ये वर्तत इत्यनेनासम्भवस्याव्याप्त्येत्यनेनाव्याप्तेरन्यत्र न वर्तत इत्यनेनातिव्याप्तेर्निरासः ।
अभिनवामृतम्
।। यो धर्म इति । यो धर्मः स्ववृत्तिस्वसदृशवृत्तिभ्यां लक्ष्यव्यापीत्युपचर्यते स्वसदृशवृत्त्याऽन्यत्र वर्तत इति नोच्यते तल्लक्षणमित्यर्थः । यद्यपीदं लक्षणं लक्षणे क्रियावत्त्वे पृथिवीलक्षणे चित्ररूपे चाव्याप्तम् । तस्य यावल्लक्ष्यवृत्तित्वाभावात् । तथाऽपीदानीं लक्षणमात्रस्य लिलक्षयिषितत्वाभावान्न तत्राव्याप्तिर्दोषायेति बोध्यम् । तदुक्तं सुधायाम् । अव्यापकत्वस्य लक्षणदोषतावादस्तु लिलक्षयिषितत्वे द्रष्टव्य इति । अयमत्र विवेकः । लक्षणं द्विविधम् । अलक्ष्याव्यापकं तद्देशवृत्ति चेति । अतिव्याप्त्यसम्भवाविनाव्याप्तिः सर्वथा दोषः किन्त्वसिद्ध्यादेरिव पुरुषद्वारा । तद्यथा वह्निसाधनाय धूमरहितप्रदेशे धूमादिहेतुं प्रयुञ्जानः पुरुष एव दूष्यति । न तु लिङ्गम् । पुरुषसम्बन्धात्तु लिङ्गं दुष्टमित्युपचर्यते । तथा क्रियावत्त्वाद्यव्याप्तं लक्षणं सर्वलक्ष्यवृत्तितया प्रतिपादयन्पुरुषो दूष्यति । तत्सम्बन्धाल्लक्षणं दुष्टमित्युपचर्यते । तस्यैव लक्षणस्यैकदेशवृत्तित्वाभिप्रायेण प्रयोगे पुरुषोऽपि न दूष्यति । लक्षणलक्षणं न यावल्लक्ष्यवृत्तित्वाभिप्रायेण प्रयुक्तमपि तु लक्ष्यविशेषयावत्स्वलक्ष्यगतलक्षणवृत्तित्वाभिप्रायेणेति । एकैकस्य सास्नादिमत्त्वस्य लक्ष्यव्याप्तित्वाभावादसम्भवः । तथाऽलक्षणस्यापि ृङ्गित्वस्य गोगतस्यालक्ष्यवृत्तित्वान्न वर्तते चान्यत्रेत्यस्य न तद्यावर्तकमित्याशङ्कापरिहाराय स्ववृत्तिस्वसदृशवृत्तिभ्यां यावल्लक्ष्यवृत्तीत्युपचारविषयत्वमेव यावल्लक्ष्यवृत्तित्वं विवक्षितम् । तथाऽन्यगामित्वोपचारविषयाभावत्वमेवान्यत्रावर्तमानत्वं विवक्षितम् । इति स्वाभिप्रायाविष्करणाय इत्युच्यत इत्युक्तम् । अथवाऽव्याप्तस्यास्य लक्षणलक्षणत्वं साधयितुमाह ।। इत्युच्यत इति । इदमुक्तं भवति । कुतस्त्वयेदं लक्षणं नेत्युच्यते । यावल्लक्ष्यभाविनैव लक्षणेन भवितव्यमिति स्वसमयानुरोधात् । उत लक्षणप्रयोजनस्यानेनाजननात् । नाद्यः । स्वसमयस्याप्रामाणिकत्वात् । न द्वितीयः अस्मदुक्तलक्षणं दृष्ट्वा सास्नादिमत्त्वादिधर्मेषु लक्षणमिति व्यवहारस्य बहुलमुपलम्भादिति ।
आदर्शः
।। यो धर्म इति ।। व्याप्त्या वर्तत इति । सर्वलक्ष्येषु वर्तत इत्यर्थः । नन्वव्याप्तेर्दोषता नास्तीति सुधादावुक्तत्वेन कथमत्र दोषत्वमङ्गीकृत्याव्याप्तधर्मवारणायेदं विशेषणं दत्तम् । न च सर्वस्यापि लिलक्षयिषितत्वेऽव्याप्तेर्दोषताऽस्तीति तत्रैवोक्तमिति चेत् । सत्यम् । तदेवायुक्तम् । अतिप्रसक्तधर्मस्य कुत्रापि लक्ष्यतावच्छेदकत्वादृष्टेः । तथा सति पृथिवीलक्षणे प्रमेयत्वादेरपि लक्ष्यतावच्छेदकत्वापत्तेः । इष्टापत्तौ सर्वस्यापि लक्ष्यतावच्छेकाक्रान्तत्वेन विनिगमकाभावेन लक्ष्यत्वापत्त्याऽलक्ष्यस्यैवाभावापत्तेः । तथा च सर्वस्यापि धर्मस्य सर्वलक्षणत्वापत्तिरिति चेत् । मैवम् । भावानवबोधात् । अयमत्राशयः । लक्षणं न व्यसनितयोच्यते किन्तु श्रोतुः पदविशेषस्य व्यक्तिविशेषेषु व्यवहारप्रयोजकज्ञानसिद्ध्यर्थं किञ्चिद्विशिष्टाभेदज्ञानद्वारा तदतिरिक्तविशिष्ट प्रतियोगिकव्यावृत्तिज्ञानाय च । यथा गोशब्दस्य व्यक्तिविशेषवाचकत्वज्ञानाभाववतस्तज्ज्ञानाय सास्नादिमान्गौरिति लक्षणमुच्यते । तत्र गोत्वविशिष्टाभिन्नासु सर्वासु व्यक्तिषु तत्पदवाच्यत्वस्य ज्ञानजननाय प्रवृत्तत्वेन तत्र सर्वगोव्यक्तीनामपि पक्षत्वेन तत्र हेतोरावश्यकत्वात् । तत्रैकां गामङ्गुल्या प्रदर्श्येयं गौरित्युपदिश्य लक्षणोक्तौ तद्गोदृष्टान्तेन यत्र यत्र लक्षणं पश्यति तत्र तत्र गोशब्दवाच्यतां जानाति । तत्र लक्ष्यतावच्छेदकाव्यापकत्वे व्यक्तिविशेषे तत्पदवाच्यत्वज्ञानाभावप्रसङ्गेनोद्देश्यासिद्धि प्रसङ्गात्तत्रेतरभेदानुमित्यभावप्रसङ्गाच्च तत्राव्याप्तेर्दोषत्वम् । यत्र तु गोष्ठे ‘केवलं शबला एव गोव्यक्तयो नान्यवर्णोपेताः किन्तु महिष्यादयश्च तत्र गोशब्दवाच्यः कश्चिदस्तीति सामान्यतो जानता गौरस्तीत्युक्ते का गौरिति प्रश्ने कृते शबलगौरित्युक्तेऽपि तदीयसंशयनिवृत्तेर्जायमानत्वेनेतरभेदानुमितेस्तासु व्यक्तिषु सम्भवेनोद्देश्यासिद्धेरभावान्न तत्र दोषता । न च तद्देशस्थितगोत्वावच्छिन्नमेव लक्ष्यम् न गोत्वसामान्यं लक्ष्यतावच्छेदकमिति चेत् । लक्ष्यतावच्छेदकमित्यस्य प्रष्टृसंशयीयविषयतावच्छेदकमित्यर्थकत्वेन गोसामान्यमपश्यतो नारिकेलद्वीपवासिनः पुरुषस्यात्र गाः सन्तीति श्रुतवतो गोत्वेनैव सामान्यरूपेण ज्ञानेच्छाया एव युक्तत्वात्तद्देशविशेषस्थितत्वस्य तद्वाक्येनैव ज्ञातत्वेन तत्रेच्छाया असम्भवात् । एवं सभायामपि धूमवान्वन्हेरिति प्रयुक्ते प्रतिवादिना हेतुर्दुष्ट इत्युक्ते कुतो दुष्ट इति प्रश्ने व्यभिचरितत्वादित्युक्तावपि न निग्रहः । तद्धेतोरेव दुष्टत्वस्याकाङ्क्षितत्वेन व्यभिचरितत्वादेस्तादृशाकाङ्क्षापूरकत्वात् । दुष्टसामान्यस्य लक्ष्यत्वे तु प्रत्येकमेकं द्वयं त्रयं वा वक्तव्यं न तु यत्र स्थले यावन्तो दोषास्तावदन्यतममिति । तथा सति येन रूपेण लक्षणत्वं तेनैव रूपेण हेतुत्वापत्त्येतरव्यावृत्त्यनुमितौ व्यवहारविषयत्वसाधने वाऽन्यतमत्वादित्येव हेतुः स्यात् । अन्यतमत्वस्य व्यभिचारित्वादिघटितत्वेन स्वसमानाधिकरणव्याप्यतावच्छेदक धर्मान्तरघटितत्वेन व्याप्यत्वासिद्ध्यापत्त्या तथा प्रयोक्तुर्निग्रहापत्तेः । किन्तु पञ्चैव हेतवो वक्तव्यास्ते च स्वस्वाश्रयेष्वितरभेदानुमितिं जनयन्ति । एवं च सर्वेषु लक्ष्यव्यक्तिषु व्यावृत्तिधीरिच्छाविषयीभूता सिद्ध्यतीति नोद्देश्यासिद्धिः । पञ्चसु हेतुषु ज्ञातेषु वस्तुतो दुष्टां यां यां व्यक्तिं पश्यति तत्रान्यतमं हेतुं पश्यति । ततो व्याप्तिस्मृत्या तत्र व्यक्तौ तच्छब्दवाच्यत्वं वेतरभेदं वाऽनुमिनोतीति । यत्तु लक्ष्यतावच्छेदकावच्छेदेनेतरभेदानुमितिर्लक्षणोक्तेः प्रयोजनं न तु लक्ष्यतावच्छेदकाश्रयीभूतव्यक्तिष्वितरभेदानुमितिः सा च लक्षणस्याव्याप्तत्वे भागासिद्ध्या तादृशानुमितिर्न जायत इति नाव्याप्तधर्मस्य लक्षणत्वं सम्भवतीति । तन्न । सर्वस्यापि पदार्थस्य तत्कालेषूपस्थितसर्वपदार्थव्यावृत्तत्वेनैव प्रतीतत्वेन लक्ष्यतावच्छेदकविशिष्टे तदानीमुपस्थिततत्तद्य्वावृत्तेः सिद्धत्वेन तादृशानुमितेः फलत्वासम्भवात् । न च न प्रतीयत एव व्यावृत्तिरिति युक्तम् । तथा सति लक्षणस्यातिव्याप्त्यादिदोषशून्यत्वज्ञानासम्भवेन लक्षणत्वज्ञानासम्भवात् । तदभावे व्याप्तिज्ञानाद्यसम्भवेनानुमिति जननासम्भवात् । लक्ष्यलक्षणयोरपि भेदज्ञानाभावापातात् । तद्भेदज्ञानमात्राङ्गीकारे किमपराद्धं भेदान्तरज्ञानेन । प्रथमप्रतीतौ भेदज्ञानाभावे प्रतियोगिज्ञानादिघटितसामग्रया एव दुर्मिलत्वापत्त्या भेदप्रतीतेरेवाभावप्रसङ्गात् । प्रपञ्चितं चैतत्तत्त्वनिर्णयादौ भगवत्पादैरेव । न च घटादीनां प्रथमप्रतीतौ भेदभानाङ्गीकारे तत्प्रतीतेर्नास्तीत्याकारत्वापत्तिः । तथा च भावाभावव्यवस्थैव न सम्भवतीति वाच्यम् । प्रथमप्रतीतेर्नास्तीत्याकारकत्वाभावेऽपि घट एवेत्यवधारणात्मकत्वेन दोषाभावात् । अत एव भावगतस्य भेदस्य भावात्मकत्वमेव । एवं गोत्वाभाववतो गोपदवाच्यत्वमस्ति न वेति कस्यापि न संशयः किन्तु गोत्वमेव यादृशव्यक्तिष्विति । तथा च गोत्वविशिष्टं गोपदवाच्यमिति सर्वेषां ज्ञानसत्त्वान्न लक्ष्यतावच्छेदकविशिष्टे तत्पदवाच्यत्वज्ञानमपि फलं किन्तु लक्ष्यतावच्छेदकीभूत धर्माश्रयव्यक्तिषु तत्पदवाच्यत्वज्ञानमेव फलम् । लक्षणज्ञानेन लक्ष्यव्यक्तिषु लक्ष्यतावच्छेदकज्ञानम् । ततस्तत्पदवाच्यत्वज्ञानं लक्षणाभाववत्त्वेन तदानीमुपस्थिता या या तदितरत्वप्रकारकानुमितिर्जायते तत्तदेव फलमिति मन्तव्यम् । यत्त्ववच्छेदकावच्छेदेनानुमितौ भागासिद्धिज्ञानस्य प्रतिबन्धकता तत्कारणीभूतपरामर्शे वेति तत्रानुमितिरेव न जायत इति । तदपि न । पक्षतावच्छेदकाश्रयीभूतसर्वव्यक्तीनां विशेष्यतया भाने हि सानुमितिरवच्छेदकावच्छेदेनानुमितिरित्युच्यते । यथा सर्वपर्वतो वह्निमानित्याकारा सा चैकेन परामर्शेनासम्भवेऽपि तादृशपरामर्शद्वयेन सम्भवत्येव । हेतुद्वयस्योक्तौ तत्रैकहेतोः केषुचित्पर्वतादिरूपपक्षेषु तदन्यहेतोस्तदन्यपर्वतेषु भानसम्भवेन सर्वपर्वतेषु वह्निभानसम्भवात् । यत्तु साध्ये तत्सम्बन्धे वा पक्षतावच्छेदकव्यापकत्वं भासतेऽवच्छेदकावच्छेदेनानुमितौ सर्वव्यक्तीनां भाने सामग्रीविरहात्सर्वव्यक्तयो न भासन्ते । सैव सर्वपर्वतत्वसामानाधिकरण्येन वह्न्यभावबुद्धिं प्रति विरोधिनी । सर्वव्यक्तिनिष्ठविषयताशालिनिश्चयत्वेन प्रतिबन्धकताकल्पने गौरवात् । पक्षतावच्छेदकव्यापकत्वनिष्ठविषयता निरूपितसाध्यविषयताशालिनिश्चयत्वेन प्रतिबन्धकताकल्पने लाघवात् । तादृशानुमितौ हेतौ पक्षतावच्छेदकव्यापकत्वावगाहिपरामर्श एव कारणम् । तदभावे तादृशानुमितिर्न सम्भवतीति हेतुद्वयोपन्यासेऽप्युक्तानुमित्यनुत्पत्त्या तादृशपरामर्शप्रतिबन्धकत्वेन भागासिद्धेर्दोषत्वमेव तादृशहेतुद्वयोपन्यासकर्तुर्निग्रहश्चेति । तदपि न । उक्तपरामर्शस्य साध्ये पक्षतावच्छेदकव्यापकत्वावगाह्यनुमतिं प्रति काणत्वस्यैव निर्मूलत्वात् । हेतौ पक्षतावच्छेदकव्यापकत्वज्ञानस्य साध्ये पक्षतावच्छेकव्यापकत्वज्ञानं प्रति कारणतायां मानाभावात् । तथा सति धूमो पर्वतत्वव्यापक इति ज्ञानाद्वन्हिः पर्वतत्वव्यापक इति निश्चयापत्तेः । न च न केवलहेतौ व्यापकत्वज्ञानं साध्ये तव्द्यापकत्वधियं प्रति हेतुः किन्तु तत्साध्यव्याप्यत्वेन गृहीते हेतौ तव्द्यापकत्वज्ञानं तद्धेतुव्यापकसाध्यव्याप्यत्वस्याभावे तद्धेतुव्याप्यत्वस्याप्यसम्भवादिति वाच्यम् । तर्हि यत्स्वव्यापकव्यापकं तत्स्वव्यापकमिति वा यद्यव्द्याप्यव्याप्यं तत्तव्द्याप्यमिति व्याप्तिज्ञानसत्त्व एव स्वव्यापकीभूतहेतुव्यापकत्वज्ञानात्पक्षतावच्छेदकव्यापकत्वज्ञानं साध्ये भवेत् । न तूक्तव्याप्तिज्ञानशून्यकाले । अन्यथा वन्हिं विना धूमो न सम्भवतीत्येतावता धूमो वन्हिव्याप्य इति ज्ञानाभावकाले धूमवानिति ज्ञानमात्राद्वन्ह्यनुमित्यापत्तेः । तत्रोक्तपरामर्शे पर्वतत्वव्यापकत्वस्य वन्हिव्याप्यत्वविशिष्टे धूमे भानेन कथञ्चित्पक्षतावच्छेदकव्यापकव्याकत्वस्य साध्ये भानसम्भवेऽप्युक्तसामान्यव्याप्तिज्ञानाभावेन तावन्मात्रेण साध्ये पक्षतावच्छेदकव्यापकत्वभानासम्भवात् । न च तादृशपरामर्शोत्तरानुमित्या पक्षतावच्छेदकसामानाधिकरण्येन साध्यसंशयनिवृत्त्याद्यन्यथाऽनुपपत्त्या तादृशपरामर्शस्य तादृशानुमतिं प्रति स्वातन्त्र्येण कारणता स्वीक्रियत इति वाच्यम् । अस्मदुक्तरीत्या सर्वेषु पक्षेषु साध्यस्य भानेन कस्यामपि व्यक्तौ साध्यसंशयासम्भवेन तादृशसंशयादिनिवृत्त्यादेः प्रयोजनतासम्भवात् । न च सामग्य्रभावः । तव्द्याप्यहेतोरेव सर्वव्यक्तिषु परामर्शे भासमानत्वे तस्यैव सामग्रीत्वात्। न च परामर्श एव सर्वव्यक्तीनां भाने कारणाभावः । परार्थानुमितौ परोक्त्या भानसम्भवात् । स्वार्थानुमितौ जिज्ञासानुसारेण यथायथं साक्ष्यादिनोपनीतस्य भानसम्भवात् । तदभावे तादृशानुमितिरपि नोदेत्येव । भवत्पक्षेऽपि सर्वपक्षव्यक्तीनां भानाभावे हेतौ तव्द्यापकत्वग्रहानुपपत्तिः । यत्र पक्षतावच्छेदकं तत्र हेतुरिति व्याप्तिग्रहाभावात् । अधिकं तु व्याप्तिग्रहोपायकथनावसरे व्यक्तीभविष्यति । यत्तु सर्वव्यक्त्यवगाहित्वेन प्रतिबन्धकताकल्पने गौरवमिति । तदयुक्तम् । व्यापकत्वानवगाहिनः सर्वः पर्वतो वन्हिमानिति ज्ञानस्य प्रतिबन्धकत्वं सर्वानुभवसिद्धमिति तथा प्रतिबन्धकतायाः सर्वेषामप्यावश्यकत्वात् । एवं चाव्याप्तधर्मस्यापि लक्षणपदवाच्यत्वं जिज्ञासानुसारेणैकस्य द्वयस्य वा वक्तव्यमस्त्येव । तथाऽपि ग्रन्थे लक्षणत्वेन वक्तव्यश्च व्यापक एव धर्मः सर्वजिज्ञासानिवर्तकत्वात्स्वोक्तलक्षणज्ञानेन सर्वेषामपि जिज्ञेसानिवृत्तिर्भवत्विति ग्रन्थकर्तॄणामिच्छासत्त्वात् । लक्ष्यतावच्छेदकव्यापकस्यैकस्य धर्मस्यालाभे हि धर्मद्वयं वक्तव्यम् । अन्यथा तादृशधर्मज्ञानाभावानुमापकं भवतीत्याशयेन तद्विशेषणंदत्तमित्यविरोधः ।
ननु सिद्धान्तेऽनुगतधर्माभावात्कथमेकस्य धर्मस्य यावल्लक्ष्यवृत्तित्वं घटते । न च परमते कथं गन्धादीनामननुगतानां लक्षणत्वमिति वाच्यम् । तन्मते गन्धत्वरूपजातेरनुगतत्वेन तेन रूपेण लक्षणत्वसम्भवादिति चेन्न । मन्मतेऽपि सादृश्यस्यानुगतत्वेन तेनरूपेण लक्षणत्वसम्भवात् । तथा हि । यावल्लक्ष्यवृत्तिधर्मप्रतियोगिकसादृश्यवत्त्वस्यैव यावल्लक्ष्यवृत्तित्वपदार्थत्वात् । सास्नादिमत्त्वे चैकगवि वृत्तावपि निखिलगोवृत्तिसास्नादिमत्त्वप्रतियोगिकसादृश्यस्य सत्त्वात् । न च शबलत्वस्यापि गोलक्षणत्वापत्तिः । शबलत्वे निखिलगोवृत्तिरूपसाजात्यस्य सत्त्वादिति वाच्यम् । यद्धर्मविशिष्टस्य लक्षणत्वमभिलषितं तद्धर्मव्यङ्ग्यसाजात्यस्यैव विवक्षितत्वात् । शुक्लगवादिगतस्य कस्यापि धर्मस्य शबलत्वव्यङ्ग्यसादृश्यप्रतियोगित्वाभावेन तेन रूपेण लक्षणत्वासम्भवात् । अलक्ष्यवृत्तित्वेन निमित्तेन रूपत्वेन रूपेणापि लक्षणत्वं न सम्भवति । न च गोवृत्तिरूपाणामलक्ष्यावृत्तित्वमपि सम्भवतीति वाच्यम् । अलक्ष्यावृत्तीत्यस्यालक्ष्यवृत्तिधर्मसाजात्याभावस्य विवक्षितत्वात् । महिष्यादिवृत्तिरूपसाजात्यस्य रूपत्वादिव्यङ्ग्यस्य सत्त्वाद्रूपत्वेन रूपेण लक्षणत्वासम्भवात् । न चालक्ष्यगतधर्मप्रतियोगिकलक्षणतावच्छेदकीभूतधर्माभिव्यङ्ग्यसादृश्याप्रसिद्ध्या लक्षणाप्रसिद्धिरिति वाच्यम् । अप्रामाणिकप्रतियोगिकाभावाङ्गीकारेण प्रतियोग्यप्रसिद्धेरदोषत्वात् । नृृङ्गित्वस्यापि गोलक्षणत्वापत्तिः । अलक्षीभूतघटादिगतधर्मसजातीयत्वाभावादिति वाच्यम् । यावन्त्यलक्ष्याणि तत्तद्गतधर्मसजातीयत्वाभावस्य लक्ष्यतावच्छेदकविशिष्टप्रतियोगिकभेदसमानाधिकरणधर्मसजातीयत्वसामान्याभावस्य वा विवक्षितत्वेनादोषत्वात् । अथ यत्रैकमेव लक्ष्यं तत्र लक्ष्ये यावत्त्वाप्रसिद्धिः । एवं यत्रैक एव दण्डो घटचतुष्टयेऽस्ति तत्र तावतां घटानां तद्दण्डस्य तद्दण्डत्वेन लक्षणत्वस्य सत्त्वेन तत्राव्याप्तिश्च । तत्र लक्षणतावच्छेदकीभूतस्य तद्दण्डत्वस्यैकमात्रवृत्तित्वेन सादृश्यानभिव्यञ्जकत्वेन लक्षणतावच्छेदकधर्माभिव्यङ्ग्यसादृश्यप्रसिद्धिः । यद्यपि दण्डत्वादयः सर्वेऽपि धर्मा एकमात्रवृत्तयस्तथाऽपि वक्ष्यमाणरीत्या सामान्यरूपत्वमपि तेषु वर्तत इति तेषु सादृश्याभिव्यञ्जकत्वं सम्भवति न तु तव्द्यक्तित्वेषु । किञ्च स्वाश्रयस्यापि यावल्लक्ष्यान्तर्गतत्वेन तद्वृऽत्तिधर्मप्रतियोगिकलक्षणतावच्छेदकधर्माभिव्यङ्ग्यसादृश्यस्य स्वस्मिन्नसम्भवश्च । सादृश्यस्य भेदव्याप्तत्वेन स्वस्मिन्स्वसादृशस्यासम्भवात् । न च स्वाश्रयातिरिक्तानि यावन्ति लक्ष्याणि तद्गतधर्मसजातीयत्वविवक्षणान्न दोष इति वाच्यम् । एकस्य दण्डादेर्धर्मस्य चतुःपञ्चघटादेर्लक्षणत्वं तत्र स्वाश्रयातिरिक्तलक्ष्याप्रसिद्धेः। न चाभेदेऽपिसादृश्यमङ्गीक्रियते । एकमात्रवृत्तेरपि सादृश्यव्यञ्जकत्वं चेति नोक्तस्थलेषु दोष इति वाच्यम् । मानाभावेनाभेदसादृश्याङ्गीकारायोगात् । न च तत्र प्रत्यक्षं घटान्तरे घटसादृश्यवत्स्वस्मिन्स्वसादृश्यस्याप्रतीतेः । अत एव तार्किकैरपि सादृश्यलक्षणे भेदो निवेशितः । अन्यथा तद्गतधर्मवत्त्वमेव तत्सदृशत्वमिति ब्रूयुः । नाप्यनुमानागमौ । स्वस्मिन्स्वसादृश्यमपि वर्तत इति प्रतिपादकयोस्तयोरदृष्टेः । स्वोक्तपरिष्कारमात्रनिर्वाहायाप्रामाणिकस्याङ्गीकारानुपपत्तेः । सादृश्यस्य भेदव्याप्तत्वमिति टीकाग्रन्थेषु सत्त्वात्तद्विरोधश्च । न च पररीत्यैव तदुक्तिरिति वाच्यम् । स्वमते तदङ्गीकारे ज्ञापकाभावात् । प्रत्युत स्वमते शक्तिग्रहप्रतिपादनवेलायामिदं गौरित्युपदेशवाक्यस्थेदंपदस्यायमेतत्सदृशश्चेत्यर्थकत्वमेवोक्तम् । यदि स्वस्मिन्नपि स्वसादृश्यं तर्हि स्वस्मिन्स्वप्रतियोगिकसादृश्यसत्त्वेन स्वसदृशार्थकत्वमात्रे स्वसदृशानां स्वस्य च सङ्ग्रहसम्भवेनोभयार्थकत्वकथानानुपपत्तेः। एवं तर्कताण्डवे त्रिविक्रमपाददृष्टान्तेन सम्बन्धद्वयेनानुगतत्वोक्तिरप्ययुक्ता स्यात् । एकेन प्रतियोगिता सम्बन्धेनैवानुगतत्वसम्भवत् । गगनं गगनाकारमित्यादेर्लक्षणया तत्सदृशमन्यन्नास्तीत्यर्थः । तथैवैतद्वाक्यादर्थप्रतीतेः । आग्रहेऽपि सादृश्यस्य भेदव्याप्तत्वपक्षेऽनिर्वाहश्चेति चेत् । अत्रोच्यते । लक्ष्ये व्याप्त्या वर्तमानत्वं च लक्ष्यतावच्छेदकव्यापकत्वम् । तच्च लक्ष्यतावच्छेदकवन्निष्ठाभावाप्रतियोगित्वमेव । इत्थं च यादृशधर्मविशिष्टं यादृशधर्मवन्निष्ठाभावाप्रतियोगित्वे सत्यलक्ष्यावृत्तितद्धर्मविशिष्टं लक्षणमिति निष्कर्षः । भवति च सास्नादिमत्त्वत्वविशिष्टं गोत्वविशिष्टस्य लक्षणम् । गवि सास्नादिमत्त्वं नास्तीत्यप्रतीत्या सास्नादिमत्त्वत्वविशिष्टस्य गोनिष्ठाभावाप्रतियोगित्वात् । न च प्रतिव्यक्ति सास्नादिमत्त्वस्य भिन्नत्वेन चालनीयन्यायेन सर्वेषां सास्नादिमत्त्वव्यक्तिगोनिष्ठाभावप्रतियोगित्वमस्त्येव । यावल्लक्ष्यवृत्तित्वस्याभावे विशेषणेऽप्युभयाभावविशिष्टाभावादिकमादाय तत्प्रतियोगित्वं दुर्वारमिति वाच्यम् । विशिष्टस्यातिरिक्ततामते तत्तद्गवितत्तत्सास्नाव्यक्त्यभावादेः सत्त्वेऽपि सास्नादिमत्त्वत्वविशिष्टस्य तदप्रतियोगित्वत्तादृशविशिष्टस्यैव लक्षणत्वेनाङ्गीकृतत्वात् । केवलपुरुषवति भूतले दण्डी नास्तीति प्रतीतिसत्त्वेन केवलविशेष्यमात्रे विशिष्टाभावप्रतियोगित्वाभाववत् विशेष्ये विशेषणे च विशिष्टगतनाशप्रतियोगित्वाभाववच्च विशिष्टाभिन्नतत्तत्सास्नादिमत्त्वव्यक्तिषु पूर्वक्षणावच्छिन्नसास्नादिमत्त्वत्वविशिष्टेषु समुदाये च विद्यमानस्यापि गोत्वसमानाधिकरणाभावप्रतियोगित्वस्य तत्तदतिरिक्ते सास्नादिमत्त्वत्वविशिष्टेऽङ्गीकारे मानाभावेन तादृशप्रतियोगित्वभावात् । न च तत्तव्द्यतिरिक्तायां विशिष्टव्यक्तौ मानाभावः । तत्तत्सास्नादिमत्त्वानवगाहिनः सास्नादिमत्त्वमित्याकारायाः प्रतीतेरेव मानत्वात् । अन्यथा पुरुषाद्यतिरिक्तदण्डिरूपविशिष्टस्याप्यसिद्ध्यापातात् । न च तत्राभेदोऽप्यङ्गीकृत इति वाच्यम् । प्रकृतेऽपि तस्याङ्गीकारात् । न च विशिष्टगतस्य विशेष्यावृत्तित्वेऽपि विशेष्यगतस्य विशिष्टवृत्तित्वमावश्यकमेवेति वाच्यम् । विशेष्यगतस्य नाशाप्रतियोगित्वस्य प्रागभावप्रतियोगित्वस्य विशिष्टेऽभावात् । यत्र विशिष्टस्य शुद्धेन भेदाभेदो नास्ति तत्र विशेष्यशक्त्यैव परस्परधर्मा नाश्रयत्वादेर्निवाहः प्रतीत्यनुसारेण व्यवस्थायाः अङ्गीकृतत्वेन नातिप्रसङ्गोपि । ननु सास्नादिमत्त्वस्य तत्तद्य्वक्तिघटितत्वेन भिन्नभिन्नत्वेनैकस्यांगवि गव्यन्तरवृत्ति सास्नादिमत्त्वरूपव्यक्तिघटितसास्नानादिमत्त्वत्वविशिष्टाभावोऽस्त्येवेति वाच्यम् । विशिष्टानां भिन्नभिन्नत्वेऽपि प्रातिस्विकत्वेऽपि विशिष्टप्रतियोगिकाभावस्यैकतादृशविशिष्टाधिकरणेऽङ्गीकाराद्गवितादृशविशिष्टं नास्तीत्यप्रतीतेः । यथा मतान्तरे तत्तत्सास्नाव्यक्त्यभावस्य गवि सत्त्वेऽपि सास्नादिमत्त्व सामान्याभावस्यासत्वम् । इयांस्तु विशेषः तन्मते सास्नादिमत्त्वत्वस्यानुगतधर्मस्य तदभावप्रतियोगितावच्छेदकत्वम् । मन्मते तु तादृशावच्छेदकत्वादौ प्रमाणाभावेनाननुगतत्वेऽप्यनुगतत्वेन पराभिमतो यो धर्मस्तद्विशिष्टस्यैव प्रतियोगित्वमिति । अवच्छेदकत्वादेरप्रामाणिकत्वं त्वस्मदाचार्यकृतद्वैतद्युमणौ स्पष्टम् । यद्यपि गवि तत्तव्द्यक्तिघटितगतसास्नादिमत्त्वं नास्तीतिधीरस्ति । तथाऽपि तादृशप्रतीतिसिद्धाभावप्रतियोगित्वं तव्द्यक्तिघटितसास्नादिमत्त्वाविशिष्ट एव न तु शुद्धसास्नादिमत्त्वविशिष्टे । तथा सति शुद्धे प्रतियोगित्वावगाहिनो गवि सास्नादिमत्त्वं नास्तीति प्रतीत्यापत्तेः । अवच्छेदकत्वादिकत्वमिति न तदङ्गीकारेणोक्तापत्तिवारणसम्भवः । यद्यपि सास्नादिमत्त्वत्वमपि तत्तत्सास्नादिमत्त्वव्यक्तिनिष्ठं भिन्नभिन्नम् । तथाऽपि तद्विशिष्टस्य न सास्नादिमत्त्वरूपयत्किञ्चिव्द्यक्तिमन्निष्ठाभावप्रतियोगित्वमिति सामान्यधर्म इत्युच्यते । तथा च गोनिष्ठाभावाप्रतियोगित्वादलक्ष्यावृत्तित्वाच्च लक्षणसमन्वयः सास्नादि मत्त्वे । न च ृङ्गित्वेऽतिव्याप्तिः । ृङ्गित्वत्त्वविशिष्टस्य गोनिष्ठाभावाप्रतियोगित्वात् । गोवृत्तिृङ्गित्वानामलक्ष्यावृत्तित्वाच्चेति वाच्यम् । अलक्ष्यीभूतमहिष्यादिवृत्तिृङ्गित्वसजातीयत्वेन तदन्यत्वाभावान्न दोष इति वाच्यम् । यत्रैक एव धर्मो दीर्घदण्डादिर्लक्ष्यालक्ष्योभयवृत्तिस्तस्य लक्षणत्वापत्तेः स्वस्मिन्स्वजात्यभावेन तदन्यत्वसत्त्वात् । लक्षणावच्छेदकस्यैकमात्रवृत्तित्वेन सादृश्यानभिव्यञ्जकत्वाच्च । यद्धर्मविशिष्टसामान्यमलक्ष्यावृत्तितत्वमित्यर्थकत्वमलक्ष्यावृत्तीत्यस्यार्थ इत्यपि न साधु । एकस्यैव दण्डादिव्यक्तेर्यत्र लक्षणता तत्र सामान्याप्रसिद्धेः । न च दण्डत्वानां तत्तद्दण्डवृत्तीनां नानात्वेन नैकस्यापि दण्डत्वस्य नानापदार्थवृत्तित्वं किन्त्वेकमात्रवृत्तित्वम् । तथाऽपि सादृश्याभिव्यञ्जकत्वं दृष्टमिति चेत् । वैषम्यात् । नैकस्यापि दण्डत्वस्य स्वानधिकरणीभूतदण्डवन्निष्ठाभावे प्रतियोगितया भासमाने वस्तुनि प्रकारतया भानमस्ति । दण्डवति दण्डो नास्तीत्यप्रतीतेः । यद्यपि पूर्वक्षणवृत्तित्वविशिष्टस्य दण्डत्वस्यास्ति भानं तथाऽपि तच्छुद्धदण्डस्वाद्भिन्नमेव । शुद्धदण्डत्वं तु नैव भासते । अतो दण्डत्वं त्वनुगतमित्युच्यते सामान्यधर्म इति च । इदमेवानुगतत्वं नाम । यद्धर्माश्रयज्ञाने सति विजातीयसादृश्यप्रतीतिस्तेन तत्सादृश्यप्रतियोगिनां सर्वेषामुपस्थितिः । इदं चानुभवसिद्धम् । सादृश्यप्रतीत्यादिकं घटत्वाद्यनुगतत्वेन पराभिमतधर्मप्रतीतौ । अन्यथा सामान्यप्रत्यासत्त्या सर्वघटानां प्रत्यक्षत्वाङ्गीकारो युक्तः स्यात् । न तव्द्यक्तित्वादिधर्माणां सादृश्यप्रत्यक्षसाधनत्वमस्ति । अतस्तदेकदेशमात्रवृत्तीत्युच्यते । न ह्येकदण्डवति भूतले दण्डो नास्तीति प्रतीतिरस्ति । अतो दण्डत्वादीनामनुगतत्वमङ्गीकार्यम् ।
एवं च तादृशाभावस्य सर्वेषां प्रतियोगितावच्छेदकीभूतदण्डत्वाश्रयाणां प्रतियोगित्वात्तादृशैकदण्डवति तदभावो नास्तीति न प्रतीयत इति वक्तुं शक्यते । अन्यथा दण्डत्वानां भिन्नत्वेन तादृशप्रतीतौ यद्दण्डत्वं प्रतीयते तस्यैव प्रतियोगितावच्छेदत्वापत्त्या तदाश्रयस्यैव प्रतियोगित्वेन तदन्यदण्डस्याप्रतियोगित्वेन तद्वति तादृशप्रतीतेरापत्तेः । न च सर्वे दण्डा अभावे प्रकारतया प्रतीयन्त इति युक्तम् । दण्डो नास्तीत्येकवचनार्थकत्वस्यान्वयानुपपत्तेः । न च दण्डत्वे एकत्वस्यान्वयः । तदाश्रयत्वस्य सर्वदण्डेष्वभावेन तादृशप्रतीतेर्भ्रमत्वापत्तेः । मन्मते तु दण्डस्यैकत्वेन न प्रतीतेर्भ्रमत्वम् । सर्वदण्डव्यक्तीनामभाने प्रतियोगितावच्छेदकभूतधर्माश्रयत्वात्प्रतियोगित्वं युज्यते । न च दण्ड इत्येकवचनं समुदायाश्रयमिति वाच्यम् । तथा सत्येकत्वस्य समुदायत्वेऽन्वयप्राप्त्या तादृशसमुदायत्वविशिष्टस्यैव प्रतियोगित्वापत्तेः । नीलघटो नास्तीतिप्रतीतिसिद्धाभावस्य नीलघटस्यैव प्रतियोगित्ववत् । तथा चैकदण्डवति भूतले दण्डद्वय प्रतितिवद्दण्डो नास्तीति प्रतीत्यापत्तेः । अभावांशे अभासमानत्वेऽपि प्रतियोगित्वं प्रतियोग्यंशे । अभासमानत्वेऽपि प्रतियोगितावच्छेदकत्वमित्यङ्गीकारे सर्वस्यापि सर्वाभावप्रतियोगित्वप्रसङ्ग इति सर्वव्यवस्थोच्छेदप्रसङ्ग इति चेन्मैवम् । दण्डो नास्तीति प्रतीतावभावांशे दण्डो दण्डे दण्डत्वं प्रतीयते न तु तत्र दण्डत्वेऽवच्छेदकत्वम् । अननुभवात् । किन्तु तादृशाभावप्रतीतिर्दण्डेऽस्तीति धियं विरुणद्धि । न तद्दण्डो नास्त्युभयं नास्ति तत्क्षणविशेषवृत्तित्वविशिष्टो दण्डो नास्तीति धीस्तादृशधियं प्रतिबध्नातीत्येतावन्मात्रमनुभवसिद्धम् । तत्रावच्छेदकत्वतत्पर्याप्तितदवच्छेदकत्वानां सर्वथाऽप्रतीयमानानामङ्गीकारं कृत्वैकस्य धर्मस्य नानाव्यक्तयवृत्तित्वं नानाव्यक्तिषु भासमानदण्डत्वादिधर्माणामेकत्वं वा सर्वथा कदाऽप्यप्रतीयमानमङ्गीकृत्य व्यवस्थाङ्गीकारे महागौरवात् तदपेक्षयाऽस्मद्रीतेरेव लघुत्वात् । तथा हि । दण्डो नास्तीति प्रतीतावभावांशे दण्डत्वविशिष्टस्य प्रतीतेस्तादृशविशिष्यस्यैव प्रतियोगित्वं न तद्दण्डत्वविशिष्टदण्डत्वाविशिष्टस्य तस्याभावांशतादृशविशिष्टस्याभासमानत्वात् । न च भवत्पक्षे दण्डत्वतद्दण्डत्वयोरैक्यमेव भेदे मानाभाव इति वाच्यम् । प्रतीतेरेव मानत्वात् । न हि दण्डस्तद्दण्ह इति प्रतीत्योरवैलक्षण्यं कश्चिदुपैति । प्रतीतिवैलक्षण्यं विषयवैलक्षण्यं विना न निर्वहति । अन्यथा घटपटयोरपि वैलक्षण्यासिद्धिप्रसङ्गात् । प्रतीतेर्वैलक्षण्येऽपि विषययोरैक्यमेवेति वक्तुं शक्यत्वात् । न च प्रतीतिः स्वविषये सर्वतो वैलक्षण्यमवागाहते । अन्यथा प्रतीतीनामवैलक्षण्यापत्तेरिति चेत् । समं प्रकृतेऽपि । अधिकं त्वाकरे व्यक्तमिति नेह प्रपञ्चते ।
न चोक्तरित्याऽभावे भासमानस्यैकस्यैव दण्डस्य प्रतियोगित्वं स्यान्नसर्वदण्डानामिति वाच्यम् । दण्डो नास्तीतिप्रतीतेरनन्तत्वेनैकस्यां प्रतीतावेकस्य तदन्यप्रतीतावन्यस्येति सर्वेषां दण्डानां भानसम्भवात् । नह्यभावप्रतीतौ तत्प्रतियोगिनां सर्वेषां भानमिति नियमोऽस्ति । तव मतेऽपि दण्डत्वेनोपस्थितैकदण्डावगाहिनो दण्डो नास्तीति प्रतीतेः सम्भवात् । किञ्चाभावांशे भासमानप्रतियोग्यंशे यो धर्मो भासते तद्धर्मज्ञानेन विजातीयसादृश्यज्ञानं भवति । तादृशसादृश्यप्रतियोगिनां सर्वेषां प्रतियोगित्वम् । यथा भवन्मते प्रतियोगितावच्छेदकाश्रयाणां सर्वेषां प्रतियोगित्वं तथा प्रतियोगितावच्छेदकत्वेनाभिमतधर्माभिव्यङ्ग्यं यादृशं विजातीयसादृश्यं तदभिव्यञ्जका ये धर्मास्तद्विशिष्टसामान्यस्य प्रतियोगित्वमित्यङ्गीकारसम्भवात् । विशिष्टानां परस्परं विजातीयसादृश्यवत्त्वाच्च । सादृश्यस्य तद्भिन्नत्वे सति तद्गतधर्मवत्त्वरूपत्वादतिरिक्तसादृश्याङ्गीकारे मानाभाव इति वाच्यम् । धर्माणामनुगतत्वस्य खण्डितत्वेन तद्गतधर्मवत्त्वस्यान्यत्रासम्भवात् । सादृश्यस्य प्रत्यक्षसिद्धत्वाच्च । न च दण्डत्वादेः सादृश्यव्यञ्जकत्वे मानाभावः । एकदण्डज्ञाने दण्डान्तरे तत्सादृश्यस्य कदाऽप्यसंशयात् । दण्डत्वस्य सकलदण्डज्ञानजनकत्वस्य त्वन्मतसिद्धस्यासम्भवश्च । दण्डत्वस्यानुगतत्वेऽपि प्रथमतस्तज्ज्ञानाभावात् । वस्तुतोऽनुगतत्वस्यैव प्रयोजकत्वे तद्धटे अभासमानस्यापि सर्वघटप्रत्यक्षोत्पादकत्वप्रसङ्गः । निष्प्रतियोगिकत्वेन प्रत्यासत्तित्वानुपपत्तिश्च । सप्रतियोगित्वाङ्गीकारे तस्यैव सादृश्यात्वाङ्गीकारसम्भवः । प्रतियोगितासम्बन्धेन सर्वघटसम्बन्धित्वेन सामान्यरूपत्वेन सर्वघटवृत्तित्वाङ्गीकारे प्रयोजनाभावात् । अत एव तर्कताण्डवे सम्बन्धद्वयेनानुगतत्वमुक्तं सादृश्यस्य । एवं तद्दण्डत्वादिज्ञानेऽपि सादृश्यविशेषस्यास्फूर्तेः । तस्य विशेषधर्मत्वं दण्डत्वादेः सामान्यरूपत्वं दण्डत्वतद्दण्डत्वादेः स्वाश्रयीभूततद्दण्डाभिन्नत्वेनैक्यसत्त्वेऽपि विशेषबलादेकस्यैवोभयरूपत्वं युक्तम् । तदुक्तम् । अतो विशेषसामान्यरूपं सर्वमपीष्यत इति । इत्थं च गोवृत्तिृङ्गित्वस्य लक्षणत्वापत्तिर्दुर्वारेति चेन्न । अलक्ष्यवृत्तिसजातीयान्यत्वालक्ष्यावृत्तित्वोभयवत्त्वनिवेशे दोषात् । न चाप्रसिद्धिः । प्रतियोग्यप्रसिद्धेरदूषणत्वात् । यद्वा । स्वविशिष्टनिष्ठभेदाप्रतियोगिलक्ष्यातावच्छेदकविशिष्टकं यद्धर्मविशिष्टं भवति तद्धर्मविशिष्टत्वमित्यर्थकत्वेन दोषाभावात् । लक्ष्यतावच्छेदकीभूतगोत्वविशिष्टस्य ृङ्गीत्ववन्महिष्यादिनिष्ठभेदप्रतियोगित्वेनाप्रतियोगित्वाभावात् । केचित्तु । यद्धर्माविशिष्टप्रतियोगिकाभावाधिकरणं यत्किञ्चिदलक्ष्यव्यक्तिर्भवति तद्धर्मविशिष्टभिन्नत्वमित्यर्थः । तथा च ृङ्गित्वत्वानां तत्तच्छृङ्गित्वनिष्ठानां भिन्नत्वेऽपि तद्विशिष्टाभावो न महिष्यादावस्ति । तादृशप्रतीतिसिद्धाभावस्य सर्वेषां तादृशविशिष्टाभावानां प्रतियोगित्वेन प्रतियोगिभूततादृशैकविशिष्टवति तादृशाभावासम्भवात् । तथा च तादृशाभावानधिकरणीभूतमहिष्यादिरूपालक्ष्यव्यक्तित्वेन तदन्यत्वाभावान्न लक्षणत्वापत्तिः । अलक्ष्यत्वं च लक्ष्यतावच्छेदकधर्मविशिष्टप्रतियोगिकभेदवत्त्वम् । गवि गव्यन्तरप्रतियोगिकभेदसत्वेऽपि तस्मिन्भेदे गोत्वविशिष्टप्रतियोगिकत्वं नास्ति । गौर्नेत्यप्रतीतेः न लक्षणस्याप्यलक्ष्यवृत्तित्वम् । ननु लक्ष्ये इतरभेदज्ञानाभावकाले लक्ष्यतावच्छेदकविशिष्टप्रतियोगिकभेदोऽप्यन्यत्र ज्ञातुमशक्य इति कथमेतल्लक्षणज्ञानं सम्भवति । तत्सत्त्वे वैय्यर्थ्यं लक्षणस्यैवेति चेन्न । श्रोतुर्ज्ञानाभावेऽपि वक्तुर्ज्ञानसत्त्वेन तदुक्त्या श्रोतुरपि ज्ञानसम्भवात् । लक्ष्यतावच्छेदकत्वं च लक्ष्यबुद्धावितरव्यावर्तकतया भासमानत्वं जिज्ञासाविषतावच्छेदकत्वम् । अवच्छेदकत्वं च तदंशे भासमानमेवेत्यादिकमूह्यं सूरिभिरित्यास्तां विस्तरः ।
प्रामाणिकप्रतियोगिकाभावानङ्गीकारे तु लक्ष्यनिष्ठभेदाप्रतियोगि यादृशविशिष्टवत्तादृशत्वे सति यादृशविशिष्टत्वप्रतियोगिकरणं यत्किञ्चिदलक्ष्यं भवति तादृशविशिष्टभेदकूटवत्त्वं लक्षणम् । अन्यत्सर्वं पूर्ववद्बोध्यम् । यद्वा । साक्षात्तद्विरूद्धत्वरूपं प्रतियोगित्वं निवेशनीयम् । प्रतियोग्यारोपे यत्प्रधानं तेनैव साकमभावस्य विरोध इत्यप्रमाणिकप्रतियोगिकात्यन्ताभावनियमवादिमतेऽङ्गीकृतत्वेनोक्तप्रतियोगित्वस्य प्रामाणिकेऽपि सत्त्वात् । एवमेवोत्तरत्र लक्षणानि परिष्कर्तव्यानि । यद्धर्मादिलिङ्गकेतरभेदानुमितिविषयत्वेन वा यत्किञ्चिच्छब्दवाच्यत्वानुमितिविषयत्वेन वेच्छाविषयीभूतं यद्धर्मविशिष्टं लक्ष्यं तद्धर्मो लक्ष्यतावच्छेदक इत्युच्यते ।
वाक्यार्थमञ्जरी
।। यो धर्म इति ।। यज्जातीयो धर्म इत्यर्थः । लक्ष्यालक्ष्यजातीये । एतेन भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपीत्यनुव्याख्यानोदाहृतश्रुत्या सिद्धान्ते धर्माणां प्रतिव्यक्तिभेदाङ्गीकारात्कथं सास्नादिमत्त्वस्य सकललक्ष्यवृत्तित्वरूपलक्ष्यव्याप्यत्वम् । ृङ्गित्वस्याप्यन्यत्र भावात्कथं लक्ष्यादन्यत्र न वर्तत इत्यनेन तव्द्यावृत्तिरित्यादिदूषणं परास्तम् । न हि धूमस्य वन्हिव्याप्तिर्नामैकस्य धूमस्य सकलवन्ह्यधिकरणवृत्तित्वं किन्तु धूमजातीयस्य वन्हिजातीयाधिकरणे सर्वत्र वृत्तिरेव । तथाऽत्रापि सास्नादिमत्त्वजातीयसकलगोवृत्तित्वमेव तद्य्वाप्यत्वम् । श्रङ्गित्वजातीयं लक्ष्यादन्यत्राप्यस्तीत्यतिव्याप्तम् । एकजातीयत्वं च परस्परैकजात्याश्रयत्वम् । अस्माकं तु सदृशजात्याश्रयत्वमिति । नन्वथाऽपि लक्ष्ये वृत्तित्वमेवास्तु किं तव्द्याप्त्या । न चाव्यापकस्य शबलत्वादेर्गोलक्षणत्वव्यावृत्तये तदुपादानमिति वाच्यम् । सुधायां लिङ्गतया हि लक्षणमुपयुज्यते । न च व्यापकता लिङ्गत्वोपयोगिनी व्याप्यत्वेनैव तदुपपत्तेः । अन्यथा धूमादीनामलिङ्गतापातादित्यादिनाऽव्यापकस्यापि लक्षणत्वसमर्थनेन तव्द्यावर्तनानुपपत्तिरिति चेत् । अस्त्यत्र विशेषः । यदा गोविशेषस्य लिलक्षयिषितत्वम् तदा शबलत्वमपि गोलक्षणं भवत्येव । गोविशेष एव व्यावृत्त्यादेर्बुभुत्सितत्वेन तस्यापि स्वाश्रये व्यावृत्त्यदिधीहेतुत्वात् । यदा तु गोमात्रस्य लिलक्षयिषितत्वं तदा त्वलक्षणमेव । गोमात्रे व्यावृत्त्यादेर्बुभुत्सितत्वेनासार्वत्रिकस्य तस्य तदहेतुत्वात् । तत्राद्यपक्षानुसारेण सुधाप्रवृत्तिः । द्वितीयपक्षानुसारेणैतद्ग्रन्थप्रवृत्तिः । अत एव सुधायामव्याप्तेर्लक्षणदोषतावादस्तु सर्वस्यापि लिलक्षयिषितत्वे द्रष्टव्य इत्युक्तम् । नन्वेवं सति प्रथमपक्षे इदं लक्षणं शबलत्वेऽव्याप्तमिति चेन्न । लक्ष्यव्याप्तलक्षणस्यैवेदानीं लिलक्षयिषितत्वेन तस्यालक्ष्यत्वात् । तर्ह्यस्य विशेषलक्षणत्वेन लक्षणसामान्यलक्षणं वक्तव्यमिति चेत् । सत्यम् । उक्तमेव सुधायां लक्षणं लक्ष्यलक्षणस्यासाधारणधर्म इति । ननु लक्षणलक्षणं स्वस्मिन्नस्ति वा न वा । आद्ये आत्माश्रयः । द्वितीयेऽव्याप्तिरिति चेन्न । प्रतिलक्ष्यं लक्षणभेदाङ्गीकारेणात्माश्रयप्रसक्तेरभावात् । अस्यैव यत्तद्वृत्तित्वे हि स स्यात् । न चैवम् । एतत्सदृशस्यान्यस्यैवैतद्वृत्तित्वात् ।
श्रीविट्टलभट्ट
प्रमाणपद्धतिं कुर्म इत्यनेन प्रमाणलक्षणपरोदीरितप्रमाणलक्षणालक्षणत्वाद्यभिधानं प्रतिज्ञातम् । तत्र किं लक्षणमलक्षणं च किमिति जिज्ञासायां तदुभयं क्रमेण निरूपयति ।। यो धर्म इत्यादिना । लक्ष्ये व्याप्त्या वर्तते लक्ष्ये सार्वत्रिकसम्बन्धेन वर्तते । सर्वस्मिल्लक्ष्ये वर्तत इति यावत् । ननु भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपीत्यनुव्याख्यानोदाहृतश्रुत्या धर्मिणामिव धर्माणामपि परस्परं भिन्नत्वात्सास्नादिमत्त्वादेर्धर्मस्य तत्तव्द्यक्तिमात्रवृत्तित्वेन सकलवृत्तित्वाभावादनुपपन्नमिदं लक्षणमिति चेन्न । यो धर्मो यज्जातीयो धर्मो लक्ष्ये लक्ष्यजातीये सर्वस्मिन्नस्तीत्यर्थस्य विवक्षितत्वात् । साजात्यं चैकसादृश्यसम्बन्धिधर्माश्रयत्वमेव । न त्वेकजात्याश्रयत्वम् । तथा चानुगतधर्मवादे गन्धव्यक्तिनां स्वरूपसम्बन्धात्मकस्य तदाधारत्वस्य चाननुगतत्वेऽपि सकलगन्धव्यक्तीनामेकजात्यश्रयत्वमात्रेण गन्धवत्त्वस्य पृथिवीलक्षणस्य सकललक्ष्यवृत्तित्ववत्सास्नादीनां स्वरूपसम्बन्धात्मकस्य तदाधारस्यचाननुगतत्वेऽपि सकलसास्नादिधर्मवृत्तिसास्नात्वादिजातीनामेकत्वात्सास्नादिमत्त्वस्य गोलक्षणस्य सकललक्ष्यवृत्तित्ववच्चाननुगतधर्मवादेऽपि सास्नादीनां सास्नात्वादीनां च भेदेऽपि सकलसास्नादीनां सकलसास्नात्वादीनां च कस्यचिद्धर्मत्वेनेतरेषां प्रतियोगित्वेनैकसादृश्यसम्बन्धित्वात्सकलसास्नासम्बन्धवद्दृश्यस्यैकत्वेन वा सकलसास्नात्वसम्बन्धिसादृश्यस्यैकत्वेन वा सास्नावत्त्वस्य सकललक्ष्यवृत्तित्वसम्भवाद्धर्मान्तरेऽप्येवमुपपादनसम्भवात्सास्नादिमत्त्वस्य सकललक्ष्यवृत्तित्वं युक्तम् । न हि सास्नादीनां स्वाश्रितधर्मैक्येनानुगमो वक्तव्यो न तु स्वसम्बन्धिधर्मैक्येनेत्यत्र राजाज्ञाऽस्ति । प्रत्युत स्वसम्बन्धविशेषरूपस्वाश्रितत्वापेक्षया स्वसम्बन्धस्य लघुरूपत्वेन स्वसम्बन्धिधर्मैक्येन वाऽनुगतिकथनं न्याप्यमिति । तदुक्तं सुधायाम् । सादृश्यव्यावृत्तत्वेऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधनत्वानुभवादिति । सादृश्यस्य व्यावृत्तत्वेऽपि प्रत्याश्रयं भिन्नत्वेऽपि प्रतियोगिनिरूप्यत्वेन प्रतियोगिपदमधिकरणस्याप्युपलक्षणम् । प्रतियोग्यधिकरणसम्बन्धित्वेनानुगतफलस्य सर्वोपसंहारेण शक्तिव्याप्तिकार्यकारणभावादिग्रहरूपस्य स्वनिरूपकसास्नादीनामनुगतरूपस्य फलस्य कार्यस्यासाधकत्वानुभावत्प्रयोजकत्वानुभवादित्यर्थः । ननु यद्येकसादृश्यसम्बन्धो वैकसादृश्यसम्बन्धिधर्माश्रयत्वं वा साजात्यमभिप्रेतम् । तर्हि द्रव्यत्वादिना सास्नादिसदृशृङ्गादेर्महिष्यादावलक्ष्येऽपि सत्त्वान्न वर्तते चान्यत्रेत्यस्य सास्नादिमत्त्वादावभावादसम्भवीदं लक्षणमिति चेन्न । अनुगतधर्मवादेऽप्यस्य चोद्यस्य साम्यात् । द्रव्यत्वादिना सास्नादिसमजातीयृङ्गादेरलक्ष्ये सत्त्वात् । यदि ृङ्गादिव्यावृत्तेन सास्नात्वादिरूपजातिविशेषेणात्र साजात्यमभिप्रेतमिति नोक्तदोषः तर्ह्यस्मिन्मतेऽपि तथाऽस्तु । ृङ्गादिव्यावृत्तं सकलसास्नादिसम्बन्धि यदन्तरङ्गं सादृश्यं तन्निरूपकत्वं वा सादृश्यविशेषनिरूपकधर्माश्रयत्वं वा साजात्यमित्यत्राभिप्रेतमित्यस्माभिरङ्गीकारात् । तस्माद्यथानुगतधर्मवादे गन्धानामननुगतत्वेऽपि तेषामेकगन्धत्वसम्बन्धेनानुगमः । यथा च सास्नानां तत्तद्गोमात्रवृत्तित्वेऽप्येकसास्नात्वसम्बन्धेनानुगमस्तथाऽननुगतधर्मवादेऽपि सकलसास्नादीनामेकसादृश्यनिरूपकत्वेन वैकसादृश्यनिरूपकसास्नादिधर्माश्रयत्वेन वा सकललक्ष्यानुगमः साधूक्तः ।। यो धर्मो लक्ष्ये व्याप्त्या वर्तत इति । वर्तत इत्येतदप्रामाणिकशशृङ्गत्वादेर्लक्षणत्वनिरासः । एकशफत्वादावतिव्याप्तिवारणाय लक्ष्य इत्युक्तम् । शबलत्वादेर्गोलक्षणत्वनिरासायोक्तं व्याप्त्येति । ृङ्गित्वादिव्यावृत्त्यर्थमुक्तं न वर्तते चान्यत्रेति ।