अपकर्षसमः
(४९) प्रमाणपद्धतिः
।। २० ।। (२) (४) ।। अपकर्षसमः ।। पक्षादिष्टधर्मापकर्षणमपकर्षसम इत्येके । यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते तर्हि तत एव तद्वदेव शब्दः श्रावणोऽपि मा भूदिति । अत्र वक्तव्यम् । किमिदं साधनमुतापादनमिति । नाद्यः । अर्थान्तरत्वेन निरनुयोज्यानुयोगत्वाभावात् । द्वितीये तूत्कर्षसम एवायम् । न हि भावोत्कर्षोऽभावोत्कर्ष इत्येतावता भेदः सम्भवति । उदयनस्तु दृष्टान्ते साध्येन साधनेन वा सहचरितस्य कस्यचिद्धर्मस्य निवृत्त्या पक्षे तयोरन्यतराभावसाधनमपकर्षसम इत्याह । यथा महानसेऽग्निमत्त्वेन धूमवत्त्वेन वा सहदृष्टस्य स्थाल्यादिमत्त्वस्य पर्वतेऽभावात्तयारोप्यभावः । तत्र साध्याभावसाधने सत्प्रतिपक्षत्वं बाधो वाऽऽरोप्यः । साधनाभावसाधने त्वसिद्धिरिति । इदमप्यसत् । साध्याभावसाधने साधर्म्यसमप्रकरणसमाभ्यां भेदाभावप्रसङ्गात् । तस्माद्य्वाप्त्यनपेक्षया पक्षे साधनाभावसाधनमेवापकर्षसमः । तत्र व्याप्त्यभावः साधनग्राहकप्रमाणविरोधश्चेत्युत्तरं वाच्यम् । साहचर्यमेव प्रयोजकं किं व्याप्त्यादिनेति ब्रुवाणं प्रति स्वन्यायविरोध इति ।
जयतीर्थविजय
अपकर्षसमस्य निष्कृष्टलक्षणं वक्तुं नैयायिकैकदेश्युक्तलक्षणमनूद्य दूषयति ।। पक्षादित्यादिना भेदः सम्भवतीत्यन्तेन । इष्टधर्मापकर्षणमिष्टस्य धर्मस्य व्यावर्तनमित्यर्थः । दूषयति । अत्रेति ।। वक्तव्यमिति । श्रावणो मा भूदिति साधनमपकर्षसम इत्यर्थो वा तथाऽऽपादनमपकर्षसम इत्यर्थो वेति विकल्पनीयमित्यर्थः ।। अर्थान्तरत्वेनेति । शब्दानित्यत्वसाधनबाधनानुपयुक्तत्वादिति भावः ।। निरनुयोज्यानुयोगत्वाभावादिति । तथा च व्यापकनिरनुयोज्यानुयोगत्वाभावेन तद्य्वाप्यं जातित्वं सुतरां न सम्भवतीति भावः ।। उत्कर्षसम एवायमिति । तल्लक्षणसद्भावादिति भावः । ननु पक्षे दृष्टान्तनिष्ठधर्मापादनमुत्कर्षसमः । तत्कथं पक्षे दृष्टान्तधर्माभावापादनस्योत्कर्षसमाभेद इत्यत आह ।। न हीति । दृष्टान्तनिष्ठधर्मस्य पक्ष आपादनमुत्कर्षः । स चापाद्यमानो धर्मो भावोऽभावो वाऽस्तु । एवं च श्रावणो न स्यादित्यापादनस्याप्युत्कर्षसमत्वं दुष्परिहरमिति भावः । उदयनोक्तमप्युत्कर्षसमलक्षणं दूषयितुमनुवदति ।। उदयनस्त्विति । सहचरितस्येत्यनन्तरं साध्यसाधनव्यापकत्वेनारोपितस्येति शेषः । अन्यथा तन्निवृत्त्या पक्षे साध्यसाधनयोरन्यतराभावसाधनायोगात् । अत एवाह वरदराजः ।
व्यावृत्ते व्यापकाभासे पक्षतो लिङ्गसाध्ययोः ।
आकर्षोऽन्यतरस्य स्यादपकर्षसमः स्फुट ।। इति ।
अन्यतराभावसाधनमिति । न त्वन्यतराभावापादनम् । येनोत्कर्षसमाभेदः स्यादिति भावः ।। यथेति । अनेन न पर्वतो वह्निमान्न वा धूमवान् स्थाल्यादिशून्यत्वादित्यनुमानद्वयं सूचितं भवति । साध्यसाधनाभावसाधनयोः कुत्र दूषणे पर्यवसानमित्यत आह ।। तत्रेति ।। सत्प्रतिपक्षत्वमिति । स्थापनाप्रतिपक्षहेत्वोः समबलत्वाभिमानोऽस्ति चेदिति शेषः ।। बाधो वेति । अधिकबलत्वाभिमानसत्त्व इति शेषः । दूषयति ।। इदमपीति ।। साधर्म्यसमप्रकरणसमाभ्यामिति । यथाक्रमं समाधिकबलत्वाभिमानदशायामिति शेषः । यद्यपि तुल्यत्वमभ्युपेत्यैव परहेतोः स्वहेतुना । ‘‘बाधेन प्रत्यवस्थानं प्रक्रिया सम इष्यते । साधर्म्येण प्रत्यवस्थानं साधर्म्यसम’’ इति वरदराजरीत्या लक्षणभेदसत्त्वात्ताभ्यामस्याभेदः सम्भवति । तथाऽपि साध्याभावसाधकत्वरूपदुष्टत्वमूलमादाय साधर्म्यसमप्रकरणसमाभ्यामस्यैकजातित्वसम्भवे वैजात्यमात्रेण भेदकलक्षणकल्पनमनुचितम् । यत्किञ्चिदवान्तरवैलक्षण्यमात्रेण जातिभेदाङ्गीकारे साधर्म्यवैधर्म्यसमयोः प्रतिधर्मसमान्तर्भावो न स्यादित्याचार्याणामाशयः । अत एव तुल्यन्यायतयैतमेवाशयं स्फुटीकरिष्यत्याचार्यः प्रकरणसमप्रस्तावे । यथा प्रतिदृष्टान्तसमादावन्यतरचोदनेनैकजातित्वं तथा साधर्म्यसमादिनाप्येकजातित्वमसम्भवेन पृथक्करणानुपपत्तिरिति । एवमेव साध्यसमाच्च भेदाभाव इत्याद्यग्रिमग्रन्थेषु तत्र तत्र शङ्कासमाधाने द्रष्टव्ये । स्वयं निष्कृष्टलक्षणमाह ।। तस्मादिति ।। व्याप्त्यनपेक्षयेति । इदं सदुत्तरे साधनाभाव साधनेऽतिव्याप्तिनिरासाय । साधनमेवापकर्षसम इत्यवश्यं वाच्यं नैयायिकैरिति शेषः । सम्भवदुक्तिकस्यैवान्तर्भाव्यत्वादस्माभिरेवं निष्कृष्टमिति भावः । असामर्थ्यद्वयं वक्तुमुत्तरकथाप्रवृत्तिप्रकारमाह । तत्रेति ।। व्याप्त्यभाव इति । साधनीभूतव्यापकाभासव्यावृत्तेः साधनव्यावृत्त्या सहेति शेषः ।। स्वन्यायविरोध इति । धूमवत्त्वमसाधकं स्वरूपासिद्धत्वात् । शब्दानित्यत्वसाधकचाक्षुषत्ववदिति प्रतिषेधहेतावपि चाक्षुषत्वेऽसिद्धत्वेन साधकं रूपवृत्तित्वमुपलब्धमिति धूमवत्त्वात्तद्य्वावर्तमानमसाधकत्वमपि व्यावर्तयेदिति स्वन्यायविरोध इति भावः ।
भावदीपः
।। पक्षादिष्टधर्मेति । वादिसाधनसामर्थ्येनेति योज्यम् । तत एव तद्वदेवेत्यग्रेऽभिधानात् । नेदं लक्षणं युक्तमित्याह ।। अत्र वक्तव्यमिति । एतल्लक्षणकजातिविषये साधनमापादनं वेदमिति वक्तव्यमित्यर्थः ।। अर्थान्तरत्वे (नेति)ऽपीति । प्रकृतानुपयुक्तान्वितोक्तिरूपत्वाज्जातीनां च निरनुयोज्यानुयोगरूपनिग्रहस्थानप्रभेदत्वादित्यर्थः ।। उदयनस्त्विति । आहेत्यन्वयः । व्यापकधर्मनिवृत्त्या व्याप्याभावसाधनस्य सदुत्तरत्वेन तद्य्वावृत्तये सहचरितस्येत्येवोक्तम् ।। आरोप्य इति । जातिवादिनेति योज्यम् ।। असिद्धिरिति । आरोप्येत्यनुषङ्गः ।। साधर्म्यसमप्रकरणसमाभ्यामिति । सत्प्रतिपक्षत्वारोपे साधर्म्यसमः । बाधारोपे प्रकरणसम इति विवेकः ।। व्याप्त्यनपेक्षयेति । दृष्टान्ते साधनेन सहचारमात्रवतः कस्यचिद्धर्मस्य निवृत्त्या पक्षे साधनाभावसाधनमित्यर्थः । एवकारेण साध्याभावसाधनं व्यावर्तयति । उदाहरणमत्र महानसे धूमवत्त्वेन सहचरितस्य स्थाल्यादेरभावेन पर्वते धूमवत्त्वाभावः । असिद्धिरारोप्येति स्पष्टमिति नोक्तम् ।। तत्रेति । उक्तजात्युत्तर इत्यर्थः ।। किं व्याप्त्यादिनेति । किं प्रमाणविरोधेन चेत्यादिपदार्थः । तृतीयजातावन्तर्भावं सूचयंस्तदनन्तरमुत्तरप्रकारमाह ।। इति ब्रुवाणं प्रतिस्वन्यायेत्यादि । नेदं धूमवत्त्वं साध्यसाधकम् । असिद्धत्वाच्छब्दानित्यत्वासाधकचाक्षुषत्ववदिति जातिवादिनोक्ते सति स्थापनावादिना दृष्टान्तीकृते चाक्षुषत्वेऽसिद्धत्वेन सहदृष्टस्य जातिवृत्तित्वस्य त्वया पक्षीकृते धूमवत्त्वेऽभावेनासिद्धत्वस्याप्यभाव इति त्वदुक्तो हेतुरसिद्ध इति स्वन्यायेन जातिवादिनोक्तन्यायेन तस्य विरोध इत्युत्तरं वाच्यमित्यर्थः ।
श्रीविजयीन्द्रतीर्थ
पूर्ववद्दोषमाह ।। अत्रेति । पराभिमतापकर्षलक्षणं दूषयितुमनुवदति ।। नाद्य इति । जातेश्च निरनुयोज्यानुयोगभेदत्वादिति ।। द्वितीय इति । अश्रावणरूपाभावोत्कर्षादिति भावः । साध्याभावसाधनांशे दूषणमाह ।। इदमपीति । स्वयं लक्षणमाह ।। तस्मादिति ।
श्रीवेदेशभिक्षु
।। निरनुयोज्यानुयोगत्वाभावादिति । जातेश्च निरनुयोज्यानुयोगप्रभेदरूपत्वादिति भावः ।। भेदाभावप्रसङ्गादिति । यदि सत्प्रतिपक्षत्वमारोप्यं तदा साधर्म्यसमाभेदप्रसङ्गः । यदा तु बाध आरोप्यस्तदा प्रकरणसमाभेदप्रसङ्ग इति विवेकः । तर्ह्यपकर्षसमजातिरेव किं नास्तीत्यतस्तस्य लक्षणमाह ।। तस्मादिति । तदुत्तरव्यावृत्त्यै व्याप्त्यनपेक्षयेति । अत्रापि युक्ताङ्गहानिमाह ।। व्याप्त्यभाव इति ।। साधनग्राहकेति । तथा च तदभावसाधनेऽविषयवृत्तित्वं चेति भावः ।
अभिनवामृतम्
।। पक्षादिष्टधर्मापकर्षणमिति । अनिष्टधर्मापकर्षणेऽपकर्षसमाभासेऽतिव्याप्तिं वारयितुमिष्टेति । दृष्टान्तादिष्टधर्मापकर्षणं व्यावर्तयितुं पक्षादिति ।। उदयनस्त्विति । यद्यपि दृष्टान्ते साध्यसहचरितसाधनसहचरित एव । यत्र क्वापि साधनसहचरितः साध्यसहचरित इति नियमात्साध्येन वा साधनेन वेति विकल्पाभिधानमयुक्तम् । तथाऽपि साध्यसहचरिततया दृष्टस्य साधनसहचरितत्वेन दर्शननियमाभावात् । दर्शनविकल्पाभिप्रायेण साध्येन वा साधनेन वा सहचरितस्येत्युक्तम् । अत एवाग्निमत्त्वेन वा सहदृष्टस्येत्युक्तम् ।। साधर्म्यसमप्रकरणसमाभ्यां भेदाभावप्रसङ्गादिति । व्याप्तेरनङ्गत्वाभिमाने साधर्म्यसमाद्भेदाभावः । अङ्गत्वाभिमाने तु प्रकरणसमाद्भेदाभाव इति विवेकः ।। तत्र व्याप्त्यभाव इति । परचित्तवर्तिनो व्याप्त्यबाधितविषयत्वयोरङ्गत्वानभ्युपगमस्य ज्ञातुमशक्यत्वेन प्रथमं व्याप्त्यभावः । साधनग्राहकप्रमाणविरोधश्चेत्युत्तरं वाच्यम् । न तु जातित्वमित्यर्थः । व्याप्त्यादिमनपेक्ष्यापि साधनाभावसाधने पाक्षिकजयबुद्धिरुत्थानबीजम् ।। इति ब्रुवाणं प्रतीति । एवं ब्रुवाणस्य जातित्वं न वक्तव्यम् । किन्नाम स्वन्यायविरोध एव वक्तव्यः । न त्वपकर्षसमः । वृथा प्रभेदकल्पनायोगादिति भावः । स्वन्यायविरोधप्रकारस्तु प्रतिवादिना स्वाभ्युपगतप्रमेयान्तरसाधकस्य हेतोर्व्याप्तिहीनेन व्याप्त्यनुमानेन भावसाधनसम्भवेनासिद्धिं वारयितुं व्याप्तिहीनत्वसाधनग्राहकप्रमाणविरोधयोर्दूषणत्वाङ्गीकारात् । तत्प्रतिबन्द्या तयोर्दूषणत्वस्यावर्जनीयत्वादिति द्रष्टव्यः ।
आदर्शः
।। निरनुयोज्यानुयोगत्वाभावादिति । जातेस्तत्प्रभेदत्वादिति भावः।। उदयनस्त्विति । सहचरितस्य कस्यचिद्धर्मस्येत्यनन्तरं व्यापकत्वं परित्यज्य तदिति पूरणीयम् । मानलक्षणटीकायां तथैवोक्तत्वादिति । सत्प्रतिपक्षारोपे साधर्म्यसमाभेदो बाधारोपे प्रकरणसमाभेद इति विवेकः ।
वाक्यार्थमञ्जरी
एके एकदेशिनः । एवमग्रेऽपि ।। अर्थान्तरत्वेनेति । अश्रावणत्वसाध्यस्य कृतकत्वानुमानदूषणानुपयोगादिति भावः ।। द्वितीये त्विति । तथात्वे तर्कपराहतिकथनेन प्रकृतोपयोग इति तुशब्दार्थः ।। उत्कर्षसम एवेति । तत्राप्युक्तरीत्या तर्कपराहतिकथनादिति भावः । ननु तत्र स्थाल्यादिमत्त्वरूपभावधर्मोत्कर्षोऽत्र त्वश्रावणत्वरूपाभावधर्मस्येत्यतो भेद इत्यत आह ।। न हीति ।। व्याप्त्यनपेक्षयेति । दृष्टान्ते साधनेन सहचरितस्य कस्यचिद्धर्मस्य निवृत्त्येत्यनुवर्तते ।। साधनग्राहकेति । धूमग्राहकप्रत्यक्षेत्यर्थः ।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या साधनाभावे प्रसाध्य धूमः साध्यसाधको न स्वरूपासिद्धत्वाच्छब्दानित्यत्वसाधकचाक्षुषत्ववदिति वादिसाधनस्यासाधकत्वं साधनीयम् । तत्रापि स्वरूपासिद्ध्युद्भावनं सम्भवति । तथा हि । दृष्टान्ते चाक्षुषत्वे स्वरूपासिद्धत्वेन सहचरितस्य चाक्षुषत्वस्य निवृत्त्या धूमेऽपि स्वरूपासिद्धस्यापि निवृत्तिः । न तत्र व्याप्त्यभाव इति वाच्यम् । साहचर्यमात्रं प्रयोजकं न व्याप्तिरिति त्वयैवोक्तत्वादिति । तथा च साहचर्यमात्रेण साधनाभावसाधनमिति तद्वाक्यन्यायेन नायं साधकोऽसिद्धत्वादिति तद्वाक्यस्य विरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।
श्रीविट्टलभट्ट
।। पक्षादिष्टधर्मापकर्षणमिति । वादिसामर्थ्येनेति वक्तव्यम् । अन्यथा हेत्वन्तरेणाविशेषापादनरूपविशेषसमजातितो भेदाभावप्रसङ्गात् । इष्टस्य पक्षेऽभ्युपगतस्य धर्मस्य पक्षादाकर्षणं पक्षे तदभावापादनमित्यर्थः ।। अत्रेति । कृतकत्वादेव शब्दः श्रावणोऽपि न स्यादिति जातिवादिनोक्तौ वादिना प्रष्टव्यमित्यर्थः । किमिदं प्रष्टव्यमिति जिज्ञासायामाह ।। किमिदमिति । इदं तर्हि तत एव तद्वदेव शब्दः श्रावणोऽपि मा भूदिति वादिनोक्तमित्यर्थः । साधनं साधनानुमानमुतापादनं तर्को वेति वक्तव्यमिति पूर्वेणान्वयः ।। अर्थान्तरत्वेनेति । शब्दस्यानित्यत्वे साधिते तदश्रावणत्वसाधनस्य प्रकृतानुपयुक्तोक्तित्वेन निरनुयोज्यानुयोगरूपजातित्वाभावादित्यर्थः । जातिर्निरनुयोज्यानुयोग प्रभेदत्वेनोक्तापकर्षसमजातेरर्थान्तरतया निग्रहस्थानत्वेन जातित्वमेव न स्यादिति भावः ।। द्वितीयेत्विति ।। इदमापादनमिति । द्वितीये तु पक्षेऽयं वादिसाधनसामर्थ्येन पक्षेऽश्रावणत्वापादनरूपोऽपकर्षसम उत्कर्षसम एव । वादिसाधनसामर्थ्येन दृष्टान्तगतस्याश्रावणत्वस्य पक्षेऽसत्त्वापादनरूपादुत्कर्षसम एव न ततोऽतिरिक्त इत्यर्थः । ननु वादिसाधनसामर्थ्येन दृष्टान्तात्पक्षेऽनिष्टस्य भावरूपधर्मस्योत्कर्ष उत्कर्षसमः । वादिसाधनसामर्थ्येनानिष्टस्याभावरूपे धर्मस्य दृष्टान्तात्पक्षे उत्कर्षस्त्वपकर्षसम इत्यनयोरस्ति भेद इत्यत आह ।। न हीति । अभावस्योत्कर्षोऽभावोत्कर्ष इत्येतावता वैचित्र्येणान्वययोर्भेदो न हि सम्भवतीत्यर्थः । अन्यथा भावे द्रव्याद्यनेकवैचित्र्यसद्भावादभावेऽन्योन्याभावत्वाद्यनेकवैचित्र्यसद्भावादुत्कर्ष समाया अपकर्षसमायाश्चानेकजातितापातादिति भावः । उदयनस्त्विति । अस्याहेत्यन्वयः ।। दृष्टान्त इति । साध्येन साधनेन वा सहचरितस्य साध्यसाधनयोरन्यतरेण सहचरितस्येत्यर्थः । साध्यसाधनान्यतरव्यापकनिवृत्त्या पक्षे साध्यसाधनयोरन्यतराभावसाधने सदुत्तरेऽतिव्याप्तिपरिहाराय सहचरितस्य धर्मस्य निवृत्तत्वेति विशेषणम् । दृष्टान्तपदं दृष्टान्ते साध्यसाधनयोः सत्त्वसम्भवेनोपात्तम् । न तु लक्षणशरीरप्रवेशाभिप्रायेण । परस्पराव्याप्तिपरिहारायान्यतरपदम् । तत्रेति । साध्याभावसाधनाभावयोर्मध्य इत्यर्थः ।। इदमप्यसदिति । उदयनोक्तलक्षणमपि दुष्टमित्यर्थः । साध्याभावसाधनपक्षे साधर्म्यसमप्रकरणसमाभ्यामागमनमभ्युपेतयुक्ताङ्गेन प्रतिपक्षचोदनं साधर्म्यसममधिकबलेन बाधचोदनं प्रकरणसमस्ताभ्यां भेदाभावादित्यर्थः । साधर्म्यसमे प्रकरणसमेऽप्यतिव्याप्तेरुदयनोक्तापकर्षसमलक्षणं वाऽसदिति भावः ।। तस्मादिति । पूर्वोक्तापकर्षसमलक्षणस्य दुष्टत्वादित्यर्थः । व्याप्त्यनपेक्षया साधनव्याप्त्यनपेक्षारहितयेत्यर्थः । कस्यचिद्धर्मस्य निवृत्त्यनुवर्तते । एतेनेत्यनेन साध्याभावसाधनं व्यावर्तयति । विपक्षाभावसाधनाभावस्यादोषत्वात् । तद्य्वावृत्त्यर्थं पक्षपदोपादानम् । साधनव्यापकनिवृत्त्या पक्षे साधनाभावसाधने सद्दूषणेऽतिव्याप्तिवारणाय व्याप्त्यनपेक्षयेति विशेषणम् । व्याप्तिरहितयेत्युक्तावपि तद्य्ववच्छेदो भवति । तथाऽपि रहितसाधनसहचरितस्य कस्यचिद्धर्मस्य निवृत्याऽतिव्याप्तिसत्त्वाभिमानेन तथा परोक्षसाधनाभावसाधनस्य सद्दूषणत्वात् । तद्य्ववच्छेदाय व्याप्त्यपेक्षरहितयेत्युक्तम् । व्याप्त्यपेक्षा व्याप्त्यङ्गीकारस्ततः स्वविशेषणेन तद्य्ववच्छेदः ।। तत्रेति । व्याप्त्यनपेक्षया कस्यचिन्निवृत्त्या पक्षे साधनाभावसाधने कृते त्वित्यर्थः । व्याप्त्यभावः कस्यचिन्निवृत्तेः साधनाभावेन व्याप्त्यभावः । साधनग्राहकप्रमाणविरोधश्च पक्षे साधनसद्भावादेकप्रमाणविरोधश्चेत्युत्तरं दूषणं वक्तव्यमित्यर्थः ।। साहचर्यमेवेति । कस्यचिद्धर्मस्य निवृत्तेः साधनाभावेन साहचर्यमेव प्रयोजकमेव साधनाभावसाधने नियामकम् । किं व्याप्त्यादिना । अव्यभिचरितत्वविशिष्टसाहचर्येणादिशब्दोक्तप्रमाणविरोधेन च किं न किमपीति वदतो जातिवादिनः स्वन्यायविरोधो भवतीत्यर्थः । कथमत्र स्वन्यायविरोधः । इत्थम् । वादिसाधनं धूमवत्त्वं न स्वसाध्यसाधकमसिद्धत्वाच्छब्दानित्यत्वसाधकचाक्षुषत्ववदिति हि जातिवादिनो विवक्षितम् । अत्र दृष्टान्तभूते चाक्षुषत्वेऽसिद्धत्वेन सहचरितस्य जातित्वस्य पक्षे धूमवत्त्वे निवृत्त्याऽसिद्धत्वरूपभावसाधनाभावसाधनसम्भवात्स्वोक्तरीत्या स्ववचनस्य विरोधो भवतीत्यपकर्षसमः स्वन्यायविरोध इति ।