प्रमाणपद्धतिः
बाह्येन्द्रियत्र्यैविध्यम्
(२८) प्रमाणपद्धतिः
बाह्येन्द्रियं त्रिविधम् । दैवमासुरं मध्यममिति । तत्र यथार्थज्ञानप्रचुरं दैवम् । अयथार्थज्ञानप्रचुरमासुरम् । समज्ञानसाधनं तु मध्यमम् । स्वरूपेन्द्रियमप्युत्तमानां विषयस्वरूपे प्रकारे च यथार्थमेव । अधममध्यमानां तु स्वरूपमात्रे यथार्थमेव । प्रकारे त्वयथार्थं मिश्रं चेति । इन्द्रियार्थयोस्तु सन्निकर्षोऽपरोक्षज्ञानहेतुः षोढा भिद्यत इत्येके । तद्यथा । संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायो विशेषणविशेष्यभावश्चेति । तत्र चक्षुःस्पर्शनयोर्घटादिद्रव्यैर्मनसश्चात्मना संयोगः । तेषां स्वविषयगतगुणकर्मसामान्यैः संयुक्तसमावायः । तथा घ्राणरसनयोर्गन्धरसाभ्याम् । एतेषां स्वविषयगुणकर्मगतसामान्यैः संयुक्तसमवेतसमवायः । श्रोत्रस्य शब्देन समवायः । तद्गतसामान्यैः समवेतसमवायः । एतेषामेतत्पञ्चविधसम्बन्धसम्बद्धार्थस्थाभावसमवायाभ्यां पञ्चविधो विशेषणविशेष्यभाव इति । तदसत् । गुणादीनां गुण्यादिभिरभेदेन समवायाभावात् । आत्मनस्तद्धर्माणां च साक्षिविषयत्वेन मनोविषयत्वाभावात् । वर्णात्मकस्य शब्दस्य द्रव्यत्वेनाकाशविशेषगुणत्वाभावात् । अतः सर्वेन्द्रियाणां स्वस्वविषयैः स्वस्वविषयप्रतियोगिकाभावेन च साक्षादेव रश्मिद्वारा सन्निकर्षः ।
जयतीर्थविजय
।। अयथार्थं मिश्रं चेति । अधमानां स्वरूपेन्द्रियमयथार्थं मध्यमानां स्वरूपेन्द्रियं मिश्रमिति यथायोग्यं द्रष्टव्यम् ।। तथेति । संयुक्तसमवाय इत्यर्थः ।। एतेषामिति । चक्षुःस्पर्शनमनोघ्राणरसनानामित्यर्थः । स्वविषयगतगुणकर्मसामान्यैरिति । गुणत्वरूपत्वकर्मत्वोत्क्षेपणत्वादिसामान्यैरित्यर्थः ।। तद्गतसामान्यैरिति । गत्वकत्वादिभिरित्यर्थः । एतेषामिति । षडिन्द्रियाणामित्यर्थः । एते सम्बन्धाः संयोगादयः । तैः सम्बन्धैः सम्बद्धार्था घटत्वरूपत्वशब्दत्वरूपाः । तेषु विद्यमानाभ्यामभावसमवायाभ्यामित्यर्थः । इदमुक्तं भवति । यदा चक्षुस्संयुक्ते भूतले घटाभावो गृह्यते तदा चक्षुर्घटाभावयोः संयुक्तविशेषणविशेष्यभावः सन्निकर्षः । यदा चक्षुस्संयुक्तघटसमवेतरूपे रसाभावो गृह्यते तदा रसाभावचक्षुषोः संयुक्तसमवेताविशेष्यभावः । रसत्वरहितं रूपत्वं रूपत्वे रसत्वं नास्तीत्यत्र संयुक्तसमवेतसमवेतविशेषणविशेष्यभावः । गकारे घत्वं नास्तीत्यत्र समवेतविशेषणविशेष्यभावः । गत्वरहितं घत्वं धत्वे गत्वं नास्तीत्यत्र समवेतसमवेतविशेषणविशेष्यभाव इत्यभावे विशेषणविशेष्यभावपाञ्चविध्यम् । समवाये तु तन्तुषु पटसमवाय इत्यत्र संयुक्तविशेषणविशेष्यभावः । पटे रूपसमवाय इति संयुक्तसमवेतविशेषणविशेष्यभावः । पटरूपे रूपत्वसमवाय इति संयुक्तसमवेतसमवेतविशेषणविशेष्यभावः । इहाकाशे शब्दसमवाय इति समवेतविशेषणविशेष्यभावः । शब्दे शब्दत्वसमवाय इत्यत्र समवेतसमवेतविशेषणविशेष्यभाव इति पाञ्चविध्यं द्रष्टव्यमिति ।। वर्णात्मकस्येति । न तु ध्वन्यात्मकशब्दस्य द्रव्यत्वमिति भावः ।। साक्षादेवेति । न तु नैयायिकोक्तरीत्या संयुक्तसमवेतादिसम्बन्धान्तरघटित इत्यर्थः । ननु नयनोन्मीलनसमनन्तरमनेकयोजनस्थितमार्ताण्डमण्डलमुपलभ्यते । तत्कथं नयनसूर्यमण्डलयोः साक्षादेव सन्निकर्षः । न हि मार्ताण्डमण्डलं चक्षुर्देशमायाति । न वा चक्षुर्मार्ताण्डमण्डलं यातीत्यत आह ।। रश्मिद्वारेति । रश्मीनामतिलघुत्वेन शीघ्रं बहुदूरगामित्वं युक्तमेव । दृश्यते हि लाघवातिशयेन तेजसो वेगातिशयः । यदुदयाचलचूडावलम्बिन्येव मयूखमालिनि भवनोदरेष्वालोकः प्रसरीसरीतीति भावः ।
भावदीपः
।। यथार्थज्ञानप्रचुरमिति । बाहुल्येन यथार्थज्ञानजनकमित्यर्थः । एवमग्रेऽपीत्यर्थः ।। समज्ञानेति । भ्रमाभ्रमज्ञानेत्यर्थः ।। स्वरूपेन्द्रियमपीति । न केवलं स्वरूपज्ञानमित्यपेरर्थः ।। प्रकार इति । सत्यत्वपारतन्त्र्यादितद्धर्म इत्यर्थः । यदत्रायथार्थज्ञानसाधनं तन्निर्दोषपदव्यावर्त्यमिति भावो ध्येयः । स्वमतं विवक्षुर्न्यायमतं तावदनूद्य निराह ।। इन्द्रियार्थयोरिति ।। तद्यथेति । तत् षाड्विध्यं यथा स्पष्टं भवति तथोच्यत इत्यर्थः ।। तेषामिति । चक्षुस्त्वङ्मनसामित्यर्थः ।। गन्धरसाभ्यामिति । संयुक्तसमवाय इति तथा शब्दार्थः । चक्षुस्त्वङ्मनोरसनघ्राणसंयुक्तेषु स्वस्वविषयेषु गुणकर्मसामान्यगन्धरसानां समवायादिति भावः ।। एतेषामिति । उक्तचक्षुरादिपञ्चेन्द्रियाणां गुणकर्मगतैः सामान्यैरिति चक्षुरादीन्द्रियसंयुक्तेषु घटादिविषयेषु समवेतानि गुणकर्माणि तत्र रूपत्वोत्क्षेपणत्वादिसामान्यानां समवायादिति भावः ।। श्रोत्रस्येति । तस्याकाशात्मकत्वाद्वर्णध्वन्यात्मकशब्दस्य च तुद्गुणत्वाद्गुणगुणिनोश्च समवायादिति भावः ।। तद्गतेति । शब्दकखादिगतकत्वखत्वादिसामान्यैरित्यर्थः । श्रोत्रसमवेते शब्दे तेषां समवायादिति भावः ।। एतेषामिति । चक्षुस्त्वङ्मनोघ्राणरसनश्रोत्राणां संयोगादिभेदेन पञ्चविधविषयसम्बद्धा येऽर्था द्रव्यतद्गतगुणकर्मसामान्यगुणकर्मगतसामान्यशब्दतद्गतसामान्यरूपाः पञ्चविधा अर्थाः । तत्रत्यौ यावभावसमवायौ ताभ्यां सह पञ्चविधो विशेषणविशेष्यभावश्चेत्यर्थः । चक्षुःसंयुक्ते घटे रूपसमवाय इति । घटो नास्तीति च समवायाभावौ संयुक्तविशेषणविशेष्यभावेन । तथा घटरूपे रूपत्वसमवाय इति । घटो नास्तीति च समवायाभावौ संयुक्तविशेषणविशेष्यभावेन । तथा घटरूपे रूपत्वसमवाय इति रसत्वाभाव इति संयुक्तसमवेतविशेष्यविशेषणभावेन रूपत्वे रूपसमवाये रसत्वाभाव इति । संयुक्तसमवेतविशेषणविशेष्यभावेन सङ्गृह्यते । सप्तम्यन्तानां विशेषणत्वात् । प्रथमान्तानां विशेष्यत्वात् । एवं ककारे कत्वसमवाय इति गत्वाभाव इति समवेतविशेषणविशषष्यभावेन शक्यत इति संयक्तविशेषणविशेष्यभावादिभेदेन पञ्चविध इत्यर्थः । तर्हि कः सन्निकर्षोऽर्थेन्द्रियाणामित्यत आह ।। अत इति । परोक्तस्यायुक्तत्वादित्यर्थः । स्वस्वविषयप्रतियोगिकाभावेनेतीन्द्रिययोग्याभावेनेत्यस्योपलक्षणमेतत् । समवायसम्बन्धाव्यवधानेनेत्यर्थः । सर्वेन्द्रियाणां तैजसत्वाभिप्रायेणोक्तम् ।। रश्मिद्वारेति । यद्वा चक्षुरभिप्रायेण रश्मिद्वारेति । तदितरेन्द्रियाभिप्रायेण साक्षादेवेति ।
श्रीविजयीन्द्रतीर्थ
।। यथार्थज्ञानप्रचुरमिति । यथार्थसाक्षात्कारप्रचुरमित्यर्थः । एवमग्रेऽपि ।। समज्ञानसाधनमिति । परस्परमधिकाधिकसङ्ख्यारहितयाथार्थायथार्थसाक्षात्कारसाधनमित्यर्थः स्वरूपमात्रे यथार्थमेवेत्येतत्तूभयसाधारणम् । तेषामेव प्रत्येकमसाधारणरूपमाह ।। प्रकारे त्विति । अयथार्थमयथार्थमेवेत्यर्थः । स्वाभिमत सन्निकर्षस्य प्रत्यक्षत्वव्यवस्थापनाय पराभिमतं सन्निकर्षं दूषयितुमुपन्यस्यति ।। इन्द्रियार्थयोस्त्विति । क्रमेण तेषां विषयं दर्शयति ।। तत्रेत्यादिना ।। एतेषामिति । उक्तसन्निकर्षविषयाणां पञ्चविधविशेष्यभाव इत्यर्थः । सन्निकर्षस्य प्रतियोगिनि निरूप्यत्वात्प्रतियोगिनं दर्शयति ।। एतत्पञ्चविधसम्बन्धसम्बद्धार्थस्याभावसमवायाभ्यामिति ।। गुणादीनामिति । तथा च समवायघटिताः संयुक्तसमवायादयोऽसिद्धा इत्यर्थः । अन्यत्र संयोगस्य प्रत्यासत्तित्वेऽपि नात्मनि तस्य प्रत्यासत्तित्वमित्याह ।। आत्मन इति ।। आकाशगुणत्वाभावादिति । इदं च वस्तुगतिमनुरुध्योक्तम् । तस्याकाशगुणत्वेऽपि गुणगुणिनोरभेदेन साक्षादेव रूपस्य चक्षुषेव रश्मिद्वारा सम्बन्धस्य प्रकृते वक्तुं शक्यत्वेन क्षत्यभावादिति । कस्तर्हि सन्निकर्ष इत्यपेक्षायामाह ।। अतः सर्वेन्द्रियाणामिति ।। रश्मिद्वारेति । तत्तदिन्द्रियैकदेशद्वारेत्यर्थः ।
श्रीवेदेशभिक्षु
प्रत्यक्षलक्षणे यन्निर्दोषत्वमिन्द्रियविशेषणमुक्तं तत्स्वरूपेन्द्रिये स्वरूपकथनमात्रमितरत्र विशेषणमिति भावेन प्रकारान्तरेणेन्द्रियविभागमाह ।। बाह्येन्द्रियमिति । यथार्थज्ञानप्रचुरं यथार्थज्ञानसाक्षात्कारप्रचुरमित्यर्थः । एवमग्रेऽपि ।। विषयस्वरूप इति । धर्मिणीत्यर्थः । अत्र यथार्थज्ञानसाधनं स्वरूपं बाह्यं वा । यावदिन्द्रियं तावन्निर्दोषविशेषविशेषणेन व्यावर्त्यमिति भावः । एवं स्वमते प्रत्यक्षं निरूप्येन्द्रियार्थयोः सर्वत्र साक्षादेव सन्निकर्षो न तु क्वचित्साक्षात्क्वचित्परम्परयेति व्यवस्थापयितुं तावत्परमतमनूद्य दूषयति ।। इन्द्रियार्थयोस्त्विति । अत्र समवायस्याजन्यत्वेऽपि संयोगस्य जन्यत्वेन तद्घटितसंयुक्तसमवायादेर्जन्यत्वोपपत्तेरिन्द्रियव्यापारतोपपन्नेति । ध्येयम् । एवं श्रोत्रेण शब्दग्रहे केवलसमवायस्याव्यापारत्वेऽपि शब्दसमवायस्याजन्यत्वसम्भवेन व्यापारत्वं युक्तमेवेति द्रष्टव्यम् । ननु विशेषणविशेष्यभावस्य भूतलघटाभावादिमात्रवृत्तित्वेनेन्द्रियावृत्तित्वात्कथमिन्द्रियसन्निकर्षता तस्येत्यत आह ।। एतेषामिति । पूर्वोक्तेन्द्रियाणामित्यर्थः । एते संयोगादयः पञ्च सम्बन्धास्तैः सम्बन्धा येऽर्थास्तत्स्थौ विद्यमानौ यावभावसमवायौ ताभ्यामित्यर्थः । तथा च न विशेषणविशेष्यभावमात्रं सन्निकर्षो येन तस्येन्द्रियावृत्तित्वेन तत्सन्निकर्षतानुपपत्तिः । किन्त्विन्द्रियसंयुक्तविशेषणतादिरेवेति भावः । पञ्चविध इत्युपलक्षणम् । अन्येऽपि विशेषणविशेष्यभावा इन्द्रियाभावसन्निकर्षभूताः सन्तीति ज्ञातव्यम् । तथा हि । शब्दाभावग्रहे केवलविशेषणविशेष्यभावः शब्दाभावस्याकाशात्मकश्रोत्रविशेषणत्वात् । भूतलवृत्तिघटाभावग्रहे संयुक्तविशेषणविशेष्यताऽपरा । भूतलवृत्तिघटाभावग्रहे संयुक्तसमवेतसमवेतविशेषणविशेष्यतेत्याद्या विशेषणविशेष्यभावा अभावग्राहका अनेके द्रष्टव्याः । समवायग्रहार्थं तु विशेषणविशेष्यभावचतुष्टयमेव । तन्तुषु पटसमवायग्रहे संयुक्तविशेषणता प्रथमा । द्वितीया तु तन्तुरूपरूपत्वसमवायग्रहे केवलविशेषणता । तृतीया शब्द समवायग्रहे केवलविशेषणता । तुरीया शब्दत्वसमवायग्रहे समवेतविशेषणतेति ।। गुणादीनामिति । समवायस्य भेदनियतत्वादित्यर्थः । तथा च समवायघटिताः संयुक्तसमवायादयः सन्निकर्षा न युक्ता इति भावः । गुणगुण्यादीनामभेद एव कुत इति चेत् । अस्ति तावद्गुण्यादिप्रतीतेः कुण्डबदरादिप्रतीतितो वैलक्षण्यं साक्षिसिद्धम् । न चाभेदविषयत्वमन्तरेणान्यद्य्वावर्तकं तत्रास्ति । न वाऽयुतसिद्धविषयकत्वेनान्यथासिद्धिः । अभेदातिरिक्तस्यायुतसिद्धत्वस्यानिर्वचनात् । निर्वचने वा कालान्तरभाविनः संविभागादेः प्रतीत्यनुपयोगात् । अभेदेऽपि गुणगुणिभावोऽपर्यायशब्दवाच्यादिकं विशेषबलादुपपद्यते । विशेषश्च धर्मिग्राहकप्रमाणेन भेदकार्यकारित्वेनैव सिद्ध इत्यादिकं शास्त्रे समर्थितं द्रष्टव्यम् । विस्तरभयान्नेह प्रपञ्च्यते । संयोगस्यान्यत्र प्रत्यासत्तित्वेऽपि नात्मनि तस्य तथात्वमित्याह ।। आत्मन इति । ततश्च यदुक्तं मनसश्चात्मनेत्यादि तद्गतमिति भावः । आत्मतद्धर्मज्ञानस्य मानसत्वे च तस्या बुभुत्सितग्राह्यत्वस्य च बुभत्साया अपि तज्ज्ञानाधीनत्वेनानवस्थापत्त्योगात् । साक्षिणश्च स्वप्रकाशत्वेन सुषुप्त्यादौ मनस उपरमेऽपि साक्षिरूपज्ञानाङ्गीकारेण चास्मन्मते न काचिदनुपपत्तिरिति ध्येयम् ।। वर्णात्मकस्येति । ध्वन्यात्मकस्य च वायुगुणत्वाङ्गीकारादाकाशगुणत्वाङ्गीकारेऽपि न समवायः सन्निकर्षो भवेदिति भावः । द्रव्यत्वेनेति वस्तुगतिमनुरुध्योक्तम् । वस्तुतस्तु गुणत्वेऽपि न समवायः सन्निकर्षोऽभेदादिति बोध्यम् । न च सामान्यवत्त्वे सत्यस्मदादिबाह्यैकेन्द्रियग्राह्यत्वेन वर्णानां गुणत्वसिद्धेः कथं द्रव्यत्वमिति वाच्यम् । अस्मन्मते तमसि व्यभिचारात् । परमते प्रदीपप्रभायां व्यभिचारात् । एवं परमतं दूषयित्वेदानीं स्वमते साक्षादेव सन्निकर्ष इत्याह ।। अत इति । परमतस्यायुक्तत्वादित्यर्थः । रश्मिद्वारेतीन्द्रियाणां तैजसत्वादुक्तम् । तथा च वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दः शब्दान्तरमारभते । यस्तु कर्णशष्कुल्यवच्छिन्नशब्दः स एव श्रोत्रेण गृह्यत इति यन्मतं तदसमञ्जसमित्युक्तं भवति । श्रोत्रस्यैव रश्मिद्वारा गमनोपपत्तेः । विवृतं चैतदन्यत्र तत्रैवानुसन्धेयम् । रश्मिद्वारेत्यस्य तत्तदिन्द्रियैकदेशद्वारेत्यर्थ इति केचित् । अन्ये तु चक्षुरभिप्रायेणेदमुक्तमित्याहुः ।
अभिनवामृतम्
प्रत्यक्षलक्षणे लक्ष्यालक्ष्यविवेकाय बहिरिन्द्रियविभागमाह ।। बाह्येन्द्रियमिति ।। यथार्थज्ञानप्रचुरमिति । यथार्थज्ञानजननस्वभावं दैवमित्यर्थः ।। समानसाधनमिति । उभयस्वभावत्वान्नृसिंहाकारं प्रमाणमप्रमाणमिन्द्रियमिति बोध्यम् ।। प्रकारे त्वयथार्थं मिश्रं चेति । नन्वेवं तर्हि साक्षिणः प्रामाण्यनियमाभावात्साक्षिगृहीते ज्ञानप्रामाण्ये पुनः सन्देहापत्त्या निःशङ्कप्रवृत्तिर्न स्यादिति चेत् । सत्यम् । अप्रमाणमेव तमोयोग्यानां साक्षी किं नाम तमः पातानन्तरमेव न तु संसारदशायाम् । एवं मध्यमानां साक्षी लिङ्गभङ्गानन्तरमेवायथार्थज्ञानं व्यनक्ति न तु संसारदशायाम् । इदानीं जगत्प्रवृत्तिनिवृत्त्यनुकूले ईश्वरसङ्कल्पानुरोधेन प्रमाणमेव साक्षी यथार्थत्वेन मनोवृत्तिरूपं विज्ञानं जनयति । प्रमाणानां प्रामाण्यमिवाप्रमाणानां प्रामाण्यमपि परत इत्यङ्गीकारात् । एवं च साक्षीगृहीतेऽर्थे संसारदशायां विसंवाददर्शनाभावेन प्रामाण्यनिश्चये पुनः प्रामाण्यसन्देहाभावेन निःशङ्कप्रवृत्तिरुपपन्नैवेति । भूतलादिनिष्ठाभावसमवायाभ्यामिन्द्रियस्य न विशेषणविशेष्यभावसन्निकर्ष इन्द्रियस्याभावं प्रति विशेषणत्वस्य विशेष्यत्वस्य वाऽभावादित्यत आह ।। एतेषामिति । चक्षुरादीन्द्रियाणामेतत्पञ्चविधसम्बद्धार्थस्वभावसमवायाभ्यां पञ्चविधः सम्बन्ध इत्यर्थः । तथा हि । चक्षुषा भूतलवृत्त्यभावभूतलभूतलत्वसमवाययोर्ग्रहे संयुक्तविशेषणविशेष्यभावः । घटरूपवृत्त्यभावरूपत्वसमवाययोर्ग्रहे संयुक्तसमवेतसमवेतविशेषणविशेष्यभावः । श्रोत्रेण शब्दवृत्तिशब्दत्वाभावयोर्ग्रहे समवेतविशेषणविशेष्यभावः । शब्दवृत्तिशब्दवृत्तित्वसमवायाभावग्रहे समवेतसमवेतविशेषणविशेष्यभाव इति । नन्वस्तु येषां गुणानां गुणिनां भेदस्तत्र समवायाभावः । यस्य वर्णात्मकशब्दरूपगुणस्य गुणिनाऽत्यन्तभेदः । तत्र समवायसम्बन्धोऽभ्युपेयः । ततश्च समवायनिराकरणमयुक्तमित्यत आह ।। वर्णात्मकस्येति । यद्यपि द्रव्यत्वं प्रतिवादिनोऽसिद्धम् । तथाऽपि तत्साधयामीति भावेन तथोपन्यासः ।। स्वविषयप्रतियोगिकाभावेन चेति । यद्यप्यभावो विषय एव तथाऽपि कुरुपाण्डवन्यायेनेयमुक्तिरित्यदोषः ।। साक्षादेवेति । इन्द्रियस्य घटादिनेव रूपादिनाऽपि साक्षादेव सन्निकर्षः । न तु घटादिव्यवधानेनेत्यर्थः । ननु विप्रकृष्टत्वात्कथं साक्षात्सन्निकर्ष इत्यत अत आह ।। रश्मिद्वारेति । न च तावता साक्षात्त्वभङ्गः । साक्षाच्छब्देन घटादिव्यवधानाभावस्य विवक्षितत्वात् ।
आदर्शः
।। समवायाभावादिति । यद्यपि गुणगुण्यादीनां समवायाभावेऽपि सम्बन्धान्तरमस्त्येव तथापि तद्धटितस्य सम्बन्धस्य न सन्निकर्षत्वम् । साक्षात्सम्बन्धस्यैव सम्भवे परम्परासम्बन्धस्य कल्पने प्रमाणाभावादिति भावः ।। साक्षादेवेति । द्वयोरेव संयोग इति नियमे प्रमाणाभावादिति भावः । चक्षुषो दूरस्थविषयैः कथं सम्बन्धः । न च बहिर्गच्छतीति वाच्यम् । अणोर्युगपदनेकार्थसम्बन्धायोगात् । व्याप्तत्वे चाल्पस्थाने स्थित्ययोगादित्यत उक्तं रश्मिद्वारेति । प्रभादीनामिवेन्द्रियरश्मीनामपि सङ्कोचविकाससम्भवादित्याशयः ।। छ ।। छ ।।
।। इति श्रीमट्टीकाकृत्पादविरचितप्रमाणपद्धतिभावप्रकाशके श्रीमद्य्वासपुरीवासिवासुदेवाचार्यशिष्यश्रीनिवासाचार्यशिष्यनरसिंहाचार्यविरचितादर्शनामके ग्रन्थे प्रत्यक्षपरिच्छेदः समाप्तः ।।
वाक्यार्थमञ्जरी
।। दैवमिति । मुक्तियोग्यतमोयोग्यनित्यसंसारिसम्बन्धीत्यर्थः।। यथार्थज्ञानप्रचुरमिति । ऋजुज्ञाने स्वविरोध्यल्पत्वाभावेऽपि रवेः प्रचुरप्रकाशवद्यथार्थप्राचुर्यं द्रष्टव्यम् ।। समज्ञानसाधनमिति । कालादिभेदेनेदं द्रष्टव्यम् । उक्तं च सुधायाम् । मध्यमजीवसम्बन्धिचैतन्ये प्राकृते चाक्षे निर्दोषत्वं सदोषत्वं चोभयं कालादिभेदेनेत्यत इति ।। प्रकारे त्विति । सत्यत्वभगवदधीनत्वादौ तज्ज्ञानप्रामाण्या प्रामाण्यादावित्यर्थः । तदयथार्थज्ञानस्यैव मोक्षविरोधित्वात् । तेन तेषां दुःखज्ञानं सुखत्वप्रकारकं स्यात् । घटादिज्ञानप्रामाण्यज्ञानमप्ययथार्थमेव स्यादिति शङ्काऽनवकाशः ।। साक्षादेवेति । इन्द्रियस्य घटादेरिव रूपादिभिरपि साक्षादेव सन्निकर्षः । न तु घटाव्यवधानेनेत्यर्थः । विप्रकृष्टार्थैः कथं साक्षात्सन्निकर्ष इत्यत उक्तम् ।। रश्मिद्वारेति । साक्षादिति तु घटादिव्यवधानमेव व्यावर्तितमिति भावः।
श्रीविट्टलभट्ट
प्राकृतेन्द्रियं सर्वेषामेकरूपमेव न किन्तु तद्विशेषोऽस्तीति ज्ञापनाय प्रकारान्तरेण तद्विभागमाह ।। बाह्येन्द्रियं त्रिविधमिति । आत्मातिरिक्तं नेन्द्रियमित्यर्थः । दैवं मुक्तियोग्यजीवसम्बन्धिबाह्येन्द्रियमित्यर्थः । आसुरं तमोयोग्यजीवसम्बन्धिबाह्येन्द्रियमित्यर्थः । मध्यमं मध्यमजीवसम्बन्धिबाह्येन्द्रियमित्यर्थः । बाह्येन्द्रियेषूत्तमत्वाद्दैवोन्द्रियस्य प्रथममुद्देशः । तत्रापकृष्टेषूत्तमत्वादासुरेन्द्रियत्त्यनन्तररमुद्देशोऽवविष्टस्यान्ते निर्देशः ।। तत्रेति । तेषु देवासुरमध्यमबाह्येन्द्रियेषु यथार्थज्ञानं प्रचुरं बहु यस्मिंस्तथा । साधनत्वसम्बन्धेन बहुयथार्थज्ञानवदित्यर्थप्रचुरयथार्थज्ञानसाधनमिन्द्रियं दैवोन्द्रियमिति हृदयम् । मुक्त्ययोग्यबाह्येन्द्रियेष्वतिव्याप्तिवारणाय प्रचुरपदम् । यद्यपीदमृजुबाह्येन्द्रियेषु नास्त्येव ऋजूनामयथार्थज्ञानाभावात् । तद्बाह्येन्द्रियाणां स्वजन्यायथार्थज्ञानापेक्षया प्रचुरयथार्थज्ञानसाधनत्वायोगात् । तथाऽप्येतेषु जनेषु धनप्रचुरो देवदत्त इतिवद्य्वावृत्तयथार्थज्ञानप्रचुरं दैवमित्यस्यायथार्थवर्णनसम्भवात् । तेषु द्विविधेन्द्रियापेक्षया बहुयथार्थज्ञानसाधनत्वस्य ऋजुबाह्येन्द्रियेऽपि सत्त्वान्नातिव्याप्तिः । केचित्तु सुधायामव्याप्तेरदोषस्योक्तत्वादव्याप्तेरदोषत्वपक्षे इयमुक्तिरित्याहुः ।। अयथार्थज्ञान प्रचुरमिति । अयथार्थज्ञानं प्रचुरं यस्मिंस्तत्तथा । साधनसम्बन्धेन प्रचुरायथार्थज्ञानवदासुरमध्यमजीवसम्बन्धि बाह्येन्द्रियमित्यर्थः ।। समज्ञानसाधनमिति । समार्थो यथार्थज्ञानायथार्थज्ञानयोः साधनत्वं मध्यमजीवसम्बन्धि बाह्येन्द्रियमित्यर्थः । उत्तमाधममध्यमजीवसम्बन्धि बाह्येन्द्रियवत्तत्स्वरूपेन्द्रियमपीति भ्रान्तिवारणायाह ।। स्वरूपेन्द्रियमपीति । यथोत्तमानां स्वरूपज्ञानं तथोत्तमानां मुक्तियोग्यानां स्वरूपेन्द्रियमपीत्यर्थः । विषयस्वरूपे तस्य विषया आत्मरूपतद्धर्मा विषयाणां स्वरूपे प्रकारे च तद्धर्मतया प्रतीयमाना पारतन्त्र्ये पराधीनस्वातन्त्र्यादौ प्रकारे च यथार्थं बाह्येन्द्रियवत्कुत्रचिद्विषयेऽयथार्थमित्यर्थः । उत्तमानां साक्षिविषयात्मादिधर्मतया भ्रान्तिवारणायाह ।। स्वरूपेन्द्रियमपीति । यथोत्तमानां स्वरूपज्ञानं तथोत्तमानां मुक्तियोग्यानां स्वरूपेन्द्रियमपीत्यर्थः । विषयस्वरूपे तस्य विषया आत्मरूपतद्धर्मा विषयाणां स्वरूपे प्रकारे च तद्धर्मतया प्रतीयमानपारतन्त्र्ये पराधीनस्वातन्त्र्यादौ प्रकारे च यथार्थं बाह्येन्द्रियवत्कुत्रचिद्विषयेऽयथार्थमित्यर्थः । उत्तमानां साक्षिविषयात्मादिधर्मतया प्रतीयमानाः स्वातन्त्र्यादेः प्रकारा मनोविषय एवेत्युत्तमानां स्वरूपेन्द्रियनियमनं यथार्थमिति भावः । तर्ह्यधममध्यमानां स्वरूपेन्द्रियं विषयस्वरूपप्रकारेऽप्ययथार्थमेव किमिति जिज्ञासायामाह ।। अधममध्यमनां त्विति । स्वरूपेन्द्रियमित्यनुवर्तते । अधममध्यमानां तु तमोयोग्यनित्यसंसारिणां तु स्वरूपेन्द्रियं स्वरूपमात्रे पूर्वोक्तसाक्षिविषयात्मसुखदुःखादिस्वरूपमात्रं यथार्थमेव नायथार्थमित्यर्थः । मात्रपदव्यावर्त्यमाह ।। प्रकारेत्विति । तद्धर्मतया प्रतीयमानस्वातन्त्र्यादि प्रकारे त्वयथार्थमित्यर्थः । आत्मसुखदुःखादिरूपसाक्षिविषयधर्मतया प्रतीयमानः स्वातन्त्र्यादिप्रकारस्तेषां स्वरूपेन्द्रियविषय इति भावः । इन्द्रियाणामर्थसन्निकर्षः साक्षादेवेति वक्तुं समयान्तरोक्त सन्निकर्षाननूद्य दूषयति ।। इन्द्रियार्थयोस्त्वित्यादिना । अपरोक्षज्ञानहेतुरिन्द्रियार्थयोः सन्निकर्षस्त्वित्यन्वयः । आचक्षत इति शेषः ।। घटादिद्रव्यैरिति । आदिपदेन पटादयो गृह्यन्ते । यद्यपि घटादिरित्येवालम् । तथाऽप्यादिपदेन पटादिद्रव्यस्यैव सङ्ग्रहो न तु घटादिगतगुणकर्मगतसामान्यानामिति ज्ञापयितुं द्रव्यपदं तेषामिति । चक्षुःस्पार्शनमनसामित्यर्थः । विषयपदं तद्विषयद्रव्यपरम् । तेन तद्विषयाणां गुणकर्मगतसामान्यानामसङ्ग्रह इति बोध्यम् ।। गन्धरसाभ्यामिति । संयुक्तसमवायमनुवर्तते ।। एतेषामिति । चक्षुस्त्वङ्मनोघ्राणरसनानां स्वविषयेषु रूपस्पर्शज्ञानगन्धरसादिगुणेषु कर्मसु च गते सामान्य इत्यर्थः । तदेतत्पञ्चविधसम्बद्धार्थस्थाभावसमवायाभ्यामिति तेषु गतैः संयोगादिभिः पञ्चविधैः सम्बन्धैः सम्बन्धेषु युक्तेषु संयुक्तसंयुक्तसमवेतसंयुक्तसंयुक्तसमवेतसमवेतसमवेतेष्वर्थेषु घटतद्रूपत्वशब्दशब्दत्वादिरूपविषयेषु स्थिताभ्यामभावसमवायाभ्यां संयुक्तविशेषणविशेष्यभाव इत्येवं प्रकारेण पञ्चविधो विशेषणविशेष्यभाव इत्यर्थः ।। गुणादीनामिति । प्रथमादिपदेन क्रियासामान्ययोर्ग्रहणम् । द्वितीयादिपदेन क्रियातद्य्वक्त्योर्ग्रहणम् ।। अभेदेन समवायाभावादिति । समवायस्य भिन्नोभयाश्रितत्वान्नाभेदे समवायः सम्भवति । तथा च संयुक्तसमवायादिसमवायघटितो न सन्निकर्ष इति बोध्यम् ।। तद्धर्माणां चेति । आत्मधर्माणां जातीनां योग्यगुणानां चेत्यर्थः । मनोविषयत्वाभावादात्ममनसोर्न संयोगः सन्निकर्षस्तद्धर्मैश्च न संयुक्तसमवायः सन्निकर्ष इति भावः । आकाशविशेगुणत्वाभावादिति । विशेषपदं स्वरूपकथनपरम् । शब्दस्य गुणत्वाभावादाकाशात्मकस्य श्रोत्रस्य वर्णात्मकशब्देन समवायाभावान्न समवायसन्निकर्षः । शब्दत्वादिना च समवायघटितः सन्निकर्ष इति ज्ञातव्यम् । परमतदूषणमुपसंहरन्स्वसिद्धान्तमाह ।। अत इति । संयुक्त समवायादेरभावेनासन्निकर्षत्वादित्यर्थः । विषयाणां दूरस्थत्वादिन्द्रियाणां कथं तैः साक्षात्सन्निकर्ष इत्यत उक्तम् ।। रश्मिद्वारेति ।। रश्मिवर्तिनामिन्द्रियाणामत्यन्ताभेदात्साक्षात्सन्निकर्षो युक्त इति भावः ।