प्रमाणपद्धतिः
(६) प्रमाणपद्धतिः
नन्वेवं सति न प्रत्यक्षं व्याप्तिग्राहकम् । मैवम् । यतः साहचर्यग्राहिणः प्रत्यक्षस्य भूयोदर्शनव्यभिचारादर्शनोपाध्यभावनिश्चयाः सहकारिणः । न च सहकारिभेदेऽपि प्रत्यभिज्ञायामिव प्रमाणान्तरत्वम् । वर्तमानसन्निकृष्टमात्रग्राहिप्रत्यक्षं कथमतीताद्यास्पदां व्याप्तिं गृह्णीयादिति चेन्न । सहकारिसामर्थ्येन करणानां शक्त्यन्तराविर्भावस्य बहुलमुपलम्भात् ।
जयतीर्थविजय
आशयमविद्वान् शङ्कते ।। नन्वेवमिति । प्रत्यक्षे सत्यप्यनौपाधिकत्वाद्यनिश्चयदशायां व्याप्तिनिश्चयाभावेनान्वयव्यभिचारादिति भावः । आशयमाविष्करोति ।। मैवमित्यादिना ।। शक्तयन्तरा अविर्भावस्येति । यथा वेत्रबीजस्य दावलक्षणसहकारिवशात्कदलीकाण्डजननानुकूलशक्त्यन्तराविर्भावस्तद्वदिति भावः ।
भावदीपः
।। नन्वेवमिति । तर्काधीनोपाध्यभावनिश्चयायत्तव्यभिचाराभावनिर्णयसहकृतभूयोदर्शनजन्यत्वे व्याप्तिज्ञानस्य स्वीकृते सतीत्यर्थः । यत इत्यस्य यतः सहकारिणोऽतो मैवमिति योजना । भूयोदर्शनव्यभिचारादर्शने द्वे एव सहकारिणी । उपाध्यभावनिश्चयस्तु व्यभिचाराभावनिश्चये हेतुरिति कृत्वा सोऽप्यत्र सहकारित्वेनोपात्त इति ध्येयम् । सहकारिभेदे मानान्तरापत्तिरित्यत आह ।। न चेति । संस्काररूपसहकारिभेदेन चक्षुर्जन्यप्रत्यभिज्ञायां यथा न प्रमाणान्तरता तथा व्याप्तिनिश्चयस्यापि । किन्तु प्रत्यक्षत्वमेवेत्यर्थः । सन्निकृष्टकतिपयधूमादिव्यक्तिषु व्याप्तिग्रहेऽपि देशकालव्यवहितव्यक्तिषु कथं व्याप्तिग्रहः । तत्र न्यायमत इव सामान्यप्रत्यासत्तेरभावेन तत्र चक्षुषोऽसामर्थ्यात् । तत्र व्याप्त्यग्रहे चापूर्वधूमदर्शनाद्वन्हिधीर्न स्यादिति भावेन शङ्कते ।। वर्तमानेति ।। बहुलमुपलम्भादिति । संस्काररूपसहकारिसामर्थ्याहितशक्तिकस्य चक्षुषोऽतीतवर्तमानविषयप्रत्यभिज्ञाजनकत्वदर्शनात् । तथा गन्धानुभवजन्यसंस्काराहितशक्तिकस्य चक्षुषश्चन्दनखण्डे सुरभिश्चन्दनखण्ड इति साक्षात्कारजनकत्वदर्शनाद्दोषाहितशक्तिकस्य चक्षुष इदं रूप्यमित्यसद्रूप्यविषयकधीजनकत्वदर्शनात् । दावदग्धवेत्रबीजस्य कदलीकाण्डजनकत्वदर्शनादित्यर्थः । तथा च भूयोदर्शनव्यभिचाराभावनिश्चयोपाध्यभावनिश्चयजन्यसंस्काराविर्भूतशक्तिकस्य चक्षुषोऽतीतादिधूमनिष्ठव्याप्तिविघटकत्वोपपत्तिरिति भावः । न चैवं धूमवह्निगोचरभूयोदर्शनसहकार्याहितशक्तिकं चक्षू रूपरसादिविजातीयगतव्याप्तिं गृह्णीयादिति शङ्क्यम् । इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यत इत्यनुव्याख्यानसुधोक्तरीत्या भूयोदर्शनजनितसंस्काराविर्भूतशक्तिकं चक्षुः स्वसन्निकृष्टव्यक्तिनिष्ठसादृश्यप्रतियोग्यतीतादिग्राहकमित्यत्र तात्पर्यात् ।
श्रीविजयीन्द्रतीर्थ
।। नन्वेवं सतीति । विचारसमुत्थानौपाधिकत्वज्ञानस्य हेतुत्व इत्यर्थः ।। भूयोदर्शनेति । इदं च व्याप्तिप्रत्यक्षनियतपूर्ववर्तितया सर्वमुपात्तम् । न हेतुताया उपाध्यभावनिश्चयभूयोदर्शनयोर्व्यभिचारज्ञानाभाव एवोपक्षीणत्वात् । कारणं तु व्यभिचारविरहसहकृतं साहचर्यग्राहिप्रत्यक्षमेवेत्यवगन्तव्यम् । यद्वा भूयोदर्शनानौपाधिकत्वनिश्चयव्यभिचारज्ञानाभावानां व्यापारव्यापारिभावेन हेतुतयैवोपादानम् । अस्ति च भूयोदर्शनेनोपाधितया शङ्क्यमानसाध्यसाधनसहचरितधर्माणां केषाञ्चित्साध्यव्यापकत्वनिञ्चयः । सति च तस्मिन्नुपाधिकज्ञानविरहे व्यभिचारज्ञानविरहित इति न व्यापारेण व्यापारिणोऽन्यथासिद्धिः । न च स्वतः सिद्धव्यभिचारज्ञानविरहवतोऽनौपाधिकत्वनिश्चयं विनैव व्याप्तिप्रत्यक्षसम्भवान्नैवमिति वाच्यम् । प्रत्यक्षेण व्याप्तिग्रहे विशेषादर्शने सति सहचारादिसाधरणधर्मदर्शनाव्यभिचारशङ्काऽवश्यकतयोक्तप्रकारानुसरणनियमादिति । प्रत्यक्षस्य नियतसहकारित्वात्सहकारिभेदेन सहितं यच्च व्याप्तिज्ञानं जनयति तत्प्रमाणान्तरमापद्येतेत्याशङ्क्याह ।। न चेति । प्रत्यक्षस्य व्याप्तिग्राहकत्वे बाधकान्तरं शङ्कते ।। वर्तमानेति । धूमत्वादिसामान्यस्य त्वयाऽनभ्युपगमादिति शङ्काभिप्रायः ।। सहकारेति । अञ्जनाद्यौषधरूपसहकारिसामर्थ्याच्चक्षुरादिप्रमाणस्य व्यवहितधनादिग्राहकत्वव्यभिचारादर्शनादिसहकारिवशादतीतादिनिष्ठतया व्याप्तिग्राहकत्वं प्रत्यक्षस्य भविष्यतीत्यर्थः ।
श्रीवेदेशभिक्षु
।। एवं सतीति । उक्तविचारसाध्योपाध्यभावज्ञानस्य व्याप्तिग्रहणहेतुत्वरूपेत्यर्थः ।। यत इति । अत्र भूयोदर्शनव्यभिचारादर्शनयोरेव सहकारित्वम् । उपाध्यभावनिश्चयग्रहणं तूपाधिशङ्कास्थलाभिप्रायं न तु सार्वत्रिकाभिप्रायम् । अन्यथोपाध्यभावनिश्चयस्य व्याप्तिसापेक्षोक्तविमर्शाधीनत्वेनानवस्थानात् । नन्वेवं व्याप्तिज्ञानं न प्रत्यक्षफलमपि तु विजातीयम् । प्रत्यक्षे क्लृप्तसामग्य्रजनकत्वात् । तथा च तद्धेतोर्भूयोदर्शनादेः प्रमाणान्तरत्वमित्यत आह ।। न चेति । सहकारिभेदेऽपि प्रमाणान्तरत्वं न चेति सम्बन्धः । अयं भावः । स्यादिदं यदि भूयोदर्शनादिकमेव स्वातन्त्र्येण व्याप्तिग्राहकं स्यात् । न चैवम् । यतो भूयोदर्शनादिकं व्याप्तिग्राहकप्रत्यक्षस्य सहकारीत्युक्तम् । न च सहकारिमात्रभेदे फलस्य विजातीयत्वम् । प्रत्यभिज्ञाया अपि तथात्वापातादिति ।। कथमतीतेति । सर्वोपसंहारेण कथं व्याप्तिग्रहः । सामान्यलक्षणानभ्युपगमादिति भावः ।। सहकारीति । प्रत्यभिज्ञायामेव दर्शनादिति भावः । अञ्जनादिसहकारिसामर्थ्येन चक्षुषो व्यवहितधनादिज्ञानजनकत्वस्य दर्शनादित्याहुः । सहकारिसामर्थ्येनेत्युपलक्षणम् । सामान्यलक्षणप्रत्यासत्त्यभावेऽपि वक्ष्यमाणरीत्या सादृश्यस्यैवातीतादिना प्रत्यासत्तित्वसम्भवात्सर्वोपसंहारेण व्याप्तिग्रहोपपत्तिरिति ध्येयम् ।
अभिनवामृतम्
।। न च सहकारीति । यथा प्रत्यभिज्ञायां जनयितव्यायां विलक्षणसामग्रीसहितत्वेऽपि न प्रमाणान्तरत्वम् । तथा प्रकृतेऽपि न प्रमाणान्तरत्वमित्यर्थः ।। बहुलमिति । वेत्रबीजादावित्यर्थः ।
आदर्शः
।। भूयोदर्शनव्यभिचारादर्शनोपाध्यभावनिश्चया इति । व्यभिचारः साध्याभावसम्बन्धमात्रम् । अयमर्थः । व्याप्तिस्त्वनौपाधिकसाध्याभाववत्सजातीयान्यत्वे सति साध्यसम्बन्धः । तत्र सहचारज्ञानं तु विशेष्यज्ञानविधयोपयुज्यते । तत्रोपाध्यभावनिश्चयव्यभिचारादर्शनाभ्यां साध्याभाववत्सजातीयान्यत्वं ज्ञानं जायते । तथा हि । स्वाव्यापकस्य स्वनिष्ठसाध्यसम्बन्धप्रयोजकत्वे खलु तत्प्रयोजकीभूतधर्माभावाधिकरणे वृत्तेः स्वसजातीयस्य साध्यसम्बन्धाभावेन साध्याभावसम्बन्धो भवेत् । स्वाव्यपकस्य स्वजातीयनिष्ठसाध्यसम्बन्धप्रयोजकत्वाधिकरणविशेषे साध्याधिकरणतासम्पादनद्वारैव । यथाऽऽर्द्रेन्धनसंयोगस्य पर्वते धूमाधिकरणेनासम्पादनेन वह्निनिष्ठधूमवद्वृत्तिताप्रयोजकत्वं साध्याधिकरणताप्रयोजकत्वं च साध्यव्यापकस्यैव सम्भवति । अन्यथा यत्र स्वं नास्ति तत्रत्यसाध्याधिकरणतायामेव प्रयोजनकत्वासम्भवेन सर्वत्रापि तदसम्भवात् । नित्यभूतद्रव्यत्वाधिकरणतायामपि गुणवत्त्वं क्षेमसाधारणं प्रयोजकम् । यद्वा तदभावप्रयोजकाभावप्रतियोगित्वमेव । तत्र प्रयोजकत्वं व्याप्याधिकरणतायां व्यापकस्यास्त्येव । ततश्चोपाध्यभावे निश्चिते स्वनिष्ठसाध्यसम्बन्धे स्वाभाविकत्वधीर्जायते । यथा धूमनिष्ठो वन्हिमद्वृत्तित्वादिरूपसम्बन्धः स्वाभाविकः स्वाव्यापकप्रयोज्यत्वाद्धूमत्वादित्यनुमानेन तादृशधीसम्भवात् । सम्बन्धे स्वाभाविकत्वं च धूमत्वादिव्यङ्ग्यसादृश्यप्रयोज्यप्रयोजकत्वम् । तादृशसादृश्यप्रयोजकश्च धूमाद्युत्पत्तिप्रयोजकस्तत्सत्ताप्रयोजको वा । अन्यत्र व्यापकान्तरे प्रयोजकत्वाङ्गिकारे गौरवान्मानाभावाच्च । ततश्चैतद्धूमसजातीयः साध्याभावप्रतियोगिकानौपाधिकसम्बन्धशून्यः साध्यसम्बन्धप्रयोजकप्रयोज्यसादृश्यप्रतियोगित्वादित्यनुमानेन व्यभिचाराभावनिर्णयो जायते । अत्र यो यद्धर्मविशिष्टप्रतियोगिकसम्बन्धप्रयोजकप्रयोज्यसादृश्यप्रतियोगी स तद्धर्मविशिष्टप्रतियोगिकाभावप्रतियोगिकानौपाधिकसम्बन्धशून्यो यथा वन्ह्यभावप्रतियोगिकानौपाधिकसम्बन्धशून्य आलोक इति सामान्यव्याप्तिः । अत्र भोजननिष्ठतृप्तिसाधनत्वादिरूपधर्मसम्बन्धप्रयोजकं यद्भोजनत्वं तदेवैतद्भोजनवृत्तिभोजनान्तरप्रतियोगिकसादृश्यप्रयोजकमिति साधनीभूततृप्तिसाधनत्वसम्बन्धप्रयोजकप्रयोज्यसादृश्यप्रतियोगित्वस्य विषपत्रादिदूषितभोजनवृत्तिभोजनत्वादौ सत्त्वात्तत्र तृप्तिसाधनत्वाभावाधिकरणवृत्तित्वस्यैव सत्त्वाद्य्वभिचारवारणायानौपाधिकत्वं साध्याभावसम्बन्धे विशेषणम् । अनौपाधिकत्वं च स्वनिष्ठसाध्यसम्बन्धे यः प्रयोजकस्तन्निष्ठतादृशप्रयोजकतारूपशक्तिविघटकाप्रयोजकत्वमेव । विषपत्रादेरेव तद्भोजननिष्ठतृप्तिसाधनताशक्तेः कुण्ठीभावापादनद्वारा भोजनत्वेऽपि तत्सम्बन्धविघटनपूर्वकं तदभावसम्बन्धापादकत्वेनानौपाधिकत्वेनौपाधिकसाध्याभावसम्बन्धाभाववत्त्वेन न व्यभिचारः । ततश्च धूमत्वव्यङ्ग्यसादृश्ये स्वप्रतियोगिसामान्यनिष्ठसाध्याभावसम्बन्धाभावकत्वहेतुना साध्याभावसम्बन्धवदप्रतियोगित्वमनुमिनोति । ततश्च साध्याभावसम्बन्धवदप्रतियोगिहेतुतावच्छेदकव्यङ्ग्यसादृश्यवत्त्वहेतुनाऽनौपाधिकसाध्याभावसम्बन्धवत्सजातीयान्यत्वरूपव्यभिचाराभावधीर्जायते । यद्वाऽनौपाधिकसाध्याभावसम्बन्धवदप्रतियोगिहेतुतावच्छेदकाभिव्यङ्ग्यसादृश्यमेव व्याप्तिघटकं तादृशसादृश्यनिष्ठं तादृशसाध्याभावसम्बन्धवत्प्रतियोगिकत्वं व्यभिचारः । तथा च सादृश्ये तादृशप्रतियोगित्वाभावज्ञानमेव व्यभिचाराभावज्ञानं बोध्यम् । ततश्च व्यभिचाराभावनिर्णयसहकृतं चक्षुर्व्यभिचाराभावांशेऽलौकिकं साध्यसम्बन्धांशे लौकिकं निर्णयेन व्याप्तिप्रत्यक्षं जनयतीति । अथ व्याप्तिप्रत्यक्षे व्यभिचारादर्शनं सामानाधिकरण्यं द्वयमेवानुमितिहेतुर्न तु व्यभिचाराभावनिर्णयोऽपि । तज्ज्ञानस्य दुर्मिलत्वात् ।
न चोभयोपाध्यभावनिर्णयेन व्यभिचाराभावधीः सम्भवतीति वाच्यम् । उपाध्यभावस्यापि निर्णेतुमशक्यत्वात् । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । तदभावज्ञाने प्रतियोगिन उपाधेर्ज्ञानस्यावश्यकत्वात्तादृशोपाधेरेवाप्रसिद्धत्वात् । उपाधिशरीरे व्यापकताया निविष्टत्वेन साध्ये तद्य्वाप्यत्वज्ञानायोपाध्यभावनिश्चयापेक्षापत्त्या तत्राप्येवमित्यनवस्थापाताच्च । न च तत्र प्रमाणान्तरेण व्यापकत्व निश्चय इति वाच्यम् । तादृशप्रमाणान्तरस्यानुपलभ्यमानत्वात् । सत्त्वे वा धूमनिष्ठव्याप्तिनिश्चयस्यापि तेनैव सम्भवेन प्रत्यक्षगम्यत्वोक्तेरयुक्तत्वापाताच्च । किञ्च वह्नौ धूमसम्बन्धे आर्द्रेन्धनसंयोगरूपोपाधिनिश्चयेन व्यभिचारज्ञानं भवतीत्युपपादनं विरुध्येत । तत्रोक्तरीत्योपाधिनिर्णयासम्भवात् । न च व्यभिचारज्ञानाभावस्यापि हेतुत्वे मानाभावः । व्याप्तेरव्यभिचारघटितत्वेन तज्ज्ञानं प्रति व्यभिचारज्ञानस्य प्रतियोगिज्ञानमुद्रया प्रतिबन्धकत्वेन कारणताया आवश्यकत्वादिति चेत् । मैवम् । धूमसामान्यस्यापि सामान्यत उपस्थितत्वेन तत्र वह्न्यभावसम्बन्धाभावसाधकविशेषप्रमाणस्याप्यभावकाले वस्तुत्वादिसामान्यधर्मदर्शनस्यापि सत्त्वेन तत्र व्यभिचारसन्देहस्याशक्यवारणत्वेन व्याप्तिग्रहप्रतिबन्धकव्यभिचारनिर्णयाभावेऽपि सार्वत्रिकव्याप्तिग्रहासम्भवात् । न च यस्य पुरुषस्य वह्निसमानाधिकरणतया यावन्तो धूमा दृष्टास्तावत्स्वेव धूमत्वज्ञानं तदरितिक्तधूमव्यक्तिर्नास्त्येवेति ज्ञानं तस्योक्तविधया धर्मिज्ञानाभावादेवोक्तविधया संशयसम्भवेन व्याप्तिनिर्णयः सम्भवतीति व्याच्यम् । तथापि पर्वतादौ धूमं दृष्टवतः पूर्वात्पन्नज्ञानेऽप्रामाण्यज्ञानद्वारा व्याप्तिसंशयस्यावश्यकत्वात् । न हि वयं व्याप्तिज्ञानमन्यथा न जायत इति नियमं ब्रूमः । दोषविशेषेण सामानाधिकरण्यज्ञानमात्रेणापि व्याप्तिग्रहसम्भवात् । अत एव सुधायां व्यभिचाराभावनिर्णयस्यैव कारणत्वमुपपादितम् । अत्र तूत्सर्गत उपाध्यभावनिर्णयस्य व्यभिचाराभावनिर्णयजनकत्वात्सहकारित्वमुक्तम् । न च तथाऽपि व्यभिचारज्ञानाभावस्य क्लृप्तत्वात्तस्यैव कारणत्वमास्तां न व्यभिचाराभावनिर्णयस्येति वाच्यम् । प्रतिबन्धकाभावस्यैव कारणताया अनङ्गीकारेण व्यभिचारज्ञानाभावस्याक्लृप्तत्वात् । व्यभिचारनिर्णयस्यैव प्रतिबन्धकत्वेन तदभावस्य कथञ्चित्कारणत्वाङ्गीकारसम्भवेऽपि तज्ज्ञानसामान्याभावस्य सर्वथाऽक्लृप्तत्वाच्च । व्यभिचाराभावनिर्णयस्याप्युपनायकतया कारणतायाः क्लृप्तत्वाच्च । अन्यथा सन्निकर्षाभावेनोक्तव्यभिचाराभावस्य चाक्षुषव्याप्तिज्ञाने भानायोगात् । न चोपाध्यभावो निर्णेतुमशक्यः । प्रमाणाभावहेतुना तस्य सिद्धेः ।
तथा हि । न तावत्प्रत्यक्षम् । तद्धि वह्निव्यापकत्वेन ज्ञातेषु धूमवन्निष्ठाभावप्रतियोगित्वावगाहि वा धूमवन्निष्ठाभावप्रतियोगित्वेन ज्ञातेषु वह्निव्यापकत्वावगाहि वा भवेत् । नोभयमपि सम्भवति । धूमवन्निष्ठाभावप्रतियोगिषु वह्निमन्निष्ठाभावप्रतियोगित्वस्यैव प्रतियोगित्वेन प्रत्यक्षेण ग्रहणात् । अनुमानादिकं तु नास्त्येवेति प्रमाणसामान्याभावसिद्धेः । सद्धेतुस्थले उपाधेरप्रसिद्धत्वेऽप्यप्रामाणिकप्रतियोगिकात्यन्ताभावादेर्न दोषः । यत्तु साध्यव्यपाकत्वग्रहायोपाध्यन्तराभावग्रहापेक्षयाऽनवस्थितिरिति । तदतीव मन्दम् । न हि व्याप्तिज्ञानसामान्यं प्रत्यक्षरूपमेव येन सर्वत्राप्युपाध्यभावनिश्चयोऽपेक्षित इति ब्रूमः । येनोक्तदोषः स्यात् । किन्तु क्वचिदनुमानादिना काश्चन व्याप्तयोऽनादितः सिद्धाः काश्चन साक्षिसिद्धाः । प्रत्यक्षस्थले स्वरसतश्च काश्चन । यत्र तु व्यभिचारशङ्कया विमर्शस्तत्रायमुपायो दर्शितः । तत्र तु क्वानवस्थावार्ता बाहुलिकत्वादस्यैव प्रदर्शनम् । यत्त्वार्द्रेन्धनसंयोगस्योपाधित्वप्रदर्शनं तदयुक्तमिति । तन्न । किं तत्र व्यभिचारनिर्णयायोपाधिनिर्णयो वर्णितः । न चैवम् । व्यभिचारस्य प्रत्यक्षत एव सिद्धत्वात् । किन्तु सामानाधिकरण्यसत्त्वेऽपि वह्नौ धूमव्यभिचारवद्य्वभिचारशङ्कायामुपाध्यभावेन व्यभिचाराभावं साधयितुमुपाधेर्व्यभिचारप्रयोजकत्वं च प्रदर्शयितुं प्रवृत्तत्वेन वैय्यर्थ्याभावात् । आर्द्रेन्धनसंयोगस्य वन्हिमन्निष्ठाभावप्रतियोगित्वं त्वध्यक्षसिद्धम् । धूमवन्निष्ठाभावप्रतियोगिता तु नोपलभ्यत इति तदभावज्ञानं जायते । यत्र तु शङ्का तत्र जनकत्वरूपानुमानेन जनकताज्ञानं च बहुषु स्थलेष्वन्वयव्यतिरेकौ दृष्टवतोऽन्यत्र तदलभ्यमानस्य भवति । तत्साजात्येनैवान्यत्रापि तज्ज्ञानं धूमेऽपि वह्निजन्यत्वरूपानुमानेन व्याप्तिनिश्चयसम्भवेऽपि तदनुपस्थितावपि व्याप्तिज्ञानस्यानुभवसिद्धत्वेन तत्प्रकारकस्यात्र प्रदर्शितत्वेन बाधकाभावात् । ननु हेतुनिष्ठसाध्यप्रतियोगिकस्वाभाविकसम्बन्ध एव व्याप्तिरस्तु । तथा च तज्ज्ञानादेवानुमितिसम्भवेन किमव्यभिचारस्य व्याप्तिघटकेनालं तज्ज्ञानेनापीति चेन्न । स्वाभाविकसाध्यसम्बन्धज्ञानस्य साक्षाद्विरोध्द्यविषयकत्वेनैकहेतौ तत्सत्त्वेऽपि हेत्वन्तरे साध्याभावशङ्कासम्भवेनानुमितेरसम्भवात् । एतत्सादृश्यप्रतियोगिकसामान्ये साध्याभावसम्बन्धाभावग्रहदशायां तु व्यभिचारशङ्काया असम्भवेन भवत्येवानुमितिः । नन्वेकत्र हेतौ साध्यसम्बन्धस्य स्वाभाविकत्वे गृहीते तादृशप्रतियोगित्वहेतुना यथा तत्सजातीयसामान्ये साध्याभावसम्बन्धाभावोऽनुमीयते तथा स्वाभाविकसाध्यसम्बन्ध एवानुमातुं शक्यः । तेनैवानुमितिः सम्भवतीति तस्यैव व्याप्तित्वमस्तु किं व्यभिचाराभावस्य व्याप्तिघटकत्वेनेति चेन्न । हेतौ साध्याभाववद्वृत्तित्वरूपव्यभिचारग्रहं प्रति साध्यवद्वृत्तिज्ञानस्य साक्षाद्विरोधित्वाभावात् । साध्याभाववद्वृत्तिरूपहेतुना साध्यसम्बन्धाभावसाधनसम्भवेन सत्प्रतिपक्षग्रस्तत्वनोक्तप्रतियोगित्वहेतुना साध्यसम्बन्धासिद्धेः । व्यभिचाराभावोऽवश्यं साधनीय एवेति । तावन्मात्रज्ञानस्यानुमितिजनकत्वसम्भवे सर्वत्र हेतौ साध्यसम्बन्धज्ञानस्यानपेक्षित्वात् । व्यभिचारनिश्चयाभावेन निश्चयासम्भवेऽपि तच्छङ्काया अपि सत्ताकाले तज्ज्ञानासम्भवात् । प्रतिपक्षसन्देहेऽप्यनुमितेरसम्भवात् ।
वाक्यार्थमञ्जरी
।। सहकारिसामर्थ्येनेत्यादि । नन्वत्र भक्तिपादीयसुधाविरोधः । तत्रातीतादिकसर्वं धूमादि तथाविधेनाग्न्यादिना व्याप्तमिति ज्ञापनपूर्वकं खल्वनुमानम् । तथा साक्षिणोऽतीतादिगोचरत्वाभावेऽन्यस्य तथाविधस्याभावादनुमानमात्रोच्छेदः स्यादित्युक्तेरिति चेत् । उच्यते । द्विविधं हि विप्रकृष्टधूमादिज्ञानम् । सर्वत्वप्रकारकं धूमत्वप्रकारकं चेति । तत्र सर्वत्वेन विप्रकृष्टधूमादिज्ञानं साक्षिणा विना न सम्भवतीति सुधाशयः । धूमत्वादिना तज्ज्ञानं त्वत्रोक्तम् । प्रकारद्वयेनेत्यङ्गीकारे न कोऽपि विरोध इति ।
श्रीविट्टलभट्ट
।। नन्वेवं सतीति । उपाध्यभावनिश्चयादीनां व्याप्तिप्रमाहेतुत्वे सतीत्यर्थः । सत्यपि सम्बन्धगोचरप्रत्यक्षे तेन व्याप्तिज्ञानानुदयादन्यस्य च प्रत्यक्षस्य व्याप्तिज्ञानजनकत्वात्प्राक्तनं प्रत्यक्षं व्याप्तिग्राहकमिति भावः । साहचर्यान्तरविरहादेव तेन व्याप्तिप्रमित्यनुदय इत्यभिप्रेत्य परिहरति ।। मैवमिति । मैवमित्यस्य तस्मादिति शेषेणान्वयः । यद्यपि व्यभिचाराज्ञाने सत्युपाध्यभावनिश्चयविलम्बेन व्याप्तिनिश्चयविलम्बाभावान्न तस्य सहकारित्वम् । तथाऽपि सत्युपाधिज्ञाने व्यभिचारादर्शनायोगात्तदर्थमुपाध्यभावनिश्चयोऽपेक्षित इति तस्य सहकारित्वाभिमान इति ध्येयम् । ननु तयोर्दर्शनादेः क्वापि प्रत्यक्षसहकारित्वाभावात्तत्सहकृतस्य साहचर्यग्राहिणः प्रत्यक्षस्य प्रमाणान्तरमेवाङ्गीकार्यं न प्रत्यक्षत्वेन प्रामाण्यमित्यत आह ।। न चेति । तथा प्रत्यभिज्ञायां कार्ये संस्कारलक्षणसहकारिविशेषे सत्यपि न प्रमाणान्तरत्वम् । तथा सम्बन्धग्राहिणः प्रत्यक्षस्य भूयोदर्शनादिसहकारिविशेषसद्भावेऽपि न प्रमाणान्तरत्वमित्यर्थः । ननु भूयोदर्शनादेः सहकारित्वेऽपि न प्रत्यक्षं व्याप्तिग्राहकं तस्य वर्तमानसन्निकृष्टार्थमात्रग्राहकत्वादिति शङ्कते ।। वर्तमानेति । कथमित्याक्षेपे । अतीताद्यस्पृशमतीतानागतासन्निकृष्टवर्तमानहेत्वाश्रयमित्यर्थः। नेति । भूयोदर्शनादिसहकारिसामर्थ्येन तस्य शङ्कान्तराविर्भावादिति शेषः । ननु सहकारिसामर्थ्येन शङ्कान्तराविर्भावस्य क्वाप्यनुपलम्भाद्वर्तमानसन्निकृष्टमात्रग्राहिणः प्रत्यक्षस्य सहकारिसामर्थ्येनातीतादिविषयीकरणसामर्थ्याविर्भाव एवायुक्त इत्यत आह ।। सहकारिसामर्थ्येनेति । शङ्कान्तराविर्भावस्य सहजशक्त्यतिरिक्त शक्त्युद्भावनस्येत्यर्थः । इदमुक्तं भवति । प्रत्यभिज्ञासाधनस्य प्रत्यक्षस्य संस्कारलक्षणसहकारिसामर्थ्येनातीतविषयीकरणसामर्थ्यस्य वेत्रबीजस्य दावदाहलक्षणसहकारिसामर्थ्येन कदलीकाण्डजननसामर्थ्यस्यामयसाधनद्रव्याणां तत्तदनुमानरूपसहकारिसामर्थ्येनामयनिवृत्तिजननसामर्थ्यात्सोपरता तत्र प्रकृतोऽपि शक्त्यन्तराविर्भावो युक्ते इति न दोषः इति ।