प्रमाणपद्धतिः

(१७) प्रमाणपद्धतिः

तदिदमसत् । व्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धावनुपयोगात् । न हि भावेन भावसाधनेऽभावस्याभावेन व्याप्तिरुपयुज्यते । व्याप्तिपक्षधर्मतयोर्वैय्यधिकरण्यं चैवं सति स्यात् । कथं तर्हि केवलव्यतिरेकिणः शास्त्रे संव्यवहारः । इत्थम् । तत्रापि यत्प्राणादिमत्तत्सात्मकमित्येव व्याप्तिः । किन्तु व्याप्तिग्रहणस्थानस्यैव विप्रतिपत्तिविषयत्वप्राप्त्या सा दर्शयितुमशक्याऽभूत् । ततोऽनुमानेन तां साधयितुं व्यतिरेकव्याप्तिरुपन्यस्यते । प्राणादिमत्त्वादिति प्रयुक्ते कथमस्य व्याप्तिरित्याकाङ्क्षायां प्राणादिमत्त्वं सात्मकत्वेन व्याप्तम् । तदभावव्यापकाभावप्रतियोगित्वात् । यद्यदभावव्यापकाभावप्रतियोगि तत्तेन व्याप्तम् । यथा धूमवत्त्वमग्निमत्त्वेनेत्यस्यार्थस्य विवक्षितत्वात् । अन्वयव्यतिरेकिणि तु व्यतिरेकव्याप्तिरनुपयुक्तैव । विवक्षितव्याप्तेः प्रत्यक्षादिनैव सिद्धत्वात् । व्यभिचाराभावदर्शनमुखेन कथञ्चिदुपयुज्यते वेति ।

जयतीर्थविजय

व्याप्तिद्वैविध्यं दूषयति ।। तदिदमिति । नन्वन्वयव्यतिरेकव्याप्त्योरुभयोरपि प्रमाणप्रमितत्वात्कथमिदं व्याप्तिद्वैविध्यकथनमसदित्यत आह ।। व्यतिरेकेति । प्रकृतकार्यसिद्धावनुपयोगमेवोपपादयति ।। न हीति । भावेन प्राणादिमत्त्वहेतुना । भावसाधने सात्मकत्वादिसाधने । अभावस्य सात्मकत्वाभावस्य । अभावेन प्राणादिमत्त्वाभावेन । व्याप्तिर्नोपयुज्यत इत्यर्थः । तथात्वे सात्मकत्वाभावनिष्ठया व्याप्त्या शब्दाद्यनित्यतासिद्ध्यापत्त्याऽतिप्रसङ्गादिति भावः । दूषणान्तरं चाह ।। व्याप्तीति । वैयधिकरण्यं भिन्नाधिकरणत्वमित्यर्थः ।। कथं तर्हीति । तर्हि व्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धावनुपयुक्तत्वे । संव्यवहारः परं प्रति व्यतिरेकव्याप्त्युपन्यासो वा स्वस्य तज्ज्ञानं वा कथं न कथमपीत्यर्थः । प्रयोजनाभावादिति भावः । संव्यवहारस्य साध्यसिद्ध्यनुपयोगेऽप्युपयोगं समर्थयते ।। इत्थमिति ।। तत्रापीति । व्यतिरेकिस्थलेऽपीत्यर्थः ।। इत्येव व्याप्तिरिति । उपयोगिनीति शेषः । तर्हि व्यतिरेकव्याप्तिरेव नोपन्यस्यतां किमनयाऽतिप्रसक्त्या व्यधिकरणया व्यतिरेकव्याप्त्येत्याशङ्कते ।। किन्त्विति । उत्तरमाह ।। व्याप्तिग्रहणेति ।। तां साधयितुमिति । तामन्वयव्याप्तिमित्यर्थः। उपन्यासस्यावसरमाह ।। प्राणादिमत्त्वादितीति ।। तदभावेति । तस्य सात्मकत्वस्य योऽभावस्तस्यव्यापको योऽभावः प्राणादिमत्त्वाभावः यत्सात्मकं न भवति तत्प्राणादिमन्न भवतीति व्याप्तेः । तत्प्रतियोगित्वात्तनिरूपकत्वादिति भावः । एवं केवलव्यतिरेकिणं भङ्क्त्वाऽन्वयव्यतिरेकिणं भिनत्ति । अन्वयव्यतिरेकिणि त्विति ।। अनुपयुक्तैवेति । कुत इत्यत आह ।। विवक्षितेति । अन्वयव्याप्तेरित्यर्थः । तत्र व्याप्तिग्रहणस्थानस्य विप्रतिपत्तिविषयत्वाभावेन व्यतिरेकव्याप्तिग्रहणमन्तराऽपि पक्षातिरिक्ते प्रमाणान्तरेण व्याप्तिग्रहणसम्भवादिति भावः । व्यतिरेकव्याप्तेरन्वयव्यतिरेकिणि नियमेनोपयोगं निराकृत्य क्वचिदेवान्वयव्यतिरेकिण्युपयोगमङ्गीकृत्य क्वाचित्कोपयोगेऽपि न व्यतिरेकिणीवान्वयव्याप्तौ लिङ्गीभूय किन्तु प्रकारान्तरेणेत्याह ।। व्यभिचाराभावेति । यत्र साध्याभावस्तत्र साधनमपि नास्तीति ज्ञाते साध्यभाववति साधनसत्त्वावगाहिन्यन्वयव्याप्तिग्रहप्रतिबन्धिका व्यभिचारशङ्का निवर्तते । विरोधज्ञानस्य वृत्तत्वात्तादृशशङ्कानिवृत्तिद्वारा व्यतिरेकव्याप्तिज्ञानमन्वयव्याप्तिग्रह उपयुज्यत इति भावः ।

भावदीपः

त्रिविधमित्यादिनाऽनूदितं परमतमयुक्तमित्याह ।। तदिदमसदिति । तत्र दूष्यांशं निराह । व्यतिरेकेति । प्रकृतेत्युपक्रान्तसात्मकत्वादिसाध्यसिद्धावनुपयोगादित्युक्तं व्यनक्ति ।। न हीति । प्राणादिमत्त्वेन सात्मकत्वसाधने कार्ये सात्मकत्वाभावस्य प्राणादिमत्त्वाभावेन व्याप्तिर्न ह्युपयुज्यत इत्यर्थः ।। एवं सतीति । भावयोर्लिङ्गलिङ्गिभावः । तदभावयोर्व्याप्तिरित्युक्ते सतीत्यर्थः । व्यतिरेकिणः प्राणादिमत्त्वहेतोः शास्त्रेऽर्थसाधकत्वेनोपन्यासरूपसंव्यवहारः कथमित्यर्थः । एवं तर्हि व्यतिरेकोक्तिर्व्यर्थेति भावेन पृच्छति ।। किन्त्विति । भावयोर्व्याप्तिग्रहानुमापकतयेति भावेनाह ।। व्याप्तिग्रहणस्थानस्यैवेति । पक्षभूतत्वादिति भावः ।। तदभावेति । सात्मकत्वाभावं प्रति व्यापको यो अभावस्तत्प्रतियोगित्वादित्यर्थः । एतेनानुमानगम्यां तु व्याप्तिं वक्ष्याम इति प्रागुक्तं विवृतं ध्येयम् । सर्वथाऽनुपयुक्तैव किमित्यत आह ।। व्यभिचाराभावेति । व्यतिरेकव्याप्त्या साध्याभाववति विपक्षे हेत्वभावप्रतिपादनादिति भावः । प्रागुक्तदिशोपाध्यभावनिश्चयेनापि व्यभिचाराभावनिश्चयसम्भवात्कथञ्चिदित्युक्तम् । इतिशब्दः परोक्तव्याप्तिद्वैविध्यादिनिराससमाप्तौ ।। परोक्तानुमानत्रैविध्यनिरासः।

श्रीविजयीन्द्रतीर्थ

अन्वयव्यतिरेकिलक्षणेऽनित्ये वाङ्मनसे कृतकत्वादित्यस्य केवलव्यतिरेकिकेवलान्वयिनोश्चातिव्याप्तिवारणाय विशेषणानि दूषयति ।। तदिदमिति ।। वैयधिकरण्यमिति । न च साध्याभावव्यापकाभावप्रतियोगित्वं प्रयोजकमिति नोक्तदोष इति वाच्यम् । सामग्रयन्तरकल्पनापत्तेः । तव विरुद्धस्य हेत्वाभासत्वाभावापत्तेश्च । यस्मिन्सत्यनुमितिप्रतिबन्धः स खल्वाभासः । अन्यथोपाधेरपि तथात्वापत्तेः । एवं च सकलसाध्याधिकरणनिष्ठाभावप्रतियोगित्वज्ञानेन हेतुसाध्यसामानाधिकरण्यज्ञानप्रतिबन्धेऽपि साध्याभावे साधनाभावसामानाधिकरण्याज्ञानस्यानुमित्युपयोगित्वेनाभिमतस्य न क्षतिरविरोधात् । तथा च व्यतिरेकव्याप्तिज्ञानमादायानुमितिसम्भवान्नानुमितिप्रतिबन्ध इति कथमाभासत्वमिति भावः । व्यतिरेकव्याप्तेरुपयोगमाह ।। कथमित्यादिना । उपाधेरदूषणत्वेऽपि दूषणभूतोपायत्वेनोपन्यासवत्तदुपन्यास इति भावः । अन्वयव्यतिरेकिणि तत्प्रयोजनमाह ।। अन्वयेति । व्याप्त्यनुमापकत्वाभावेऽपि साध्याभाववति साधनग्रहरूपव्यभिचारज्ञाननिवर्तकत्वेन व्यतिरेकव्याप्तेरुपयोग इत्यर्थः ।

श्रीवेदेशभिक्षु

।। वैयधिकरण्यमिति । तथा च व्याप्तिविशिष्टपक्षधर्मताज्ञानलक्षणलिङ्गपरामर्शासम्भवादनुमितिर्न स्यात् । न चात्र साध्याभावव्यापकाभावप्रतियोगित्वज्ञानमेवानुमितिकारणम् । अत उक्तपरामर्शासम्भवो न दोष इति वाच्यम् । तृणारणिमणिजन्यवह्निष्विव लिङ्गपरामर्शादिरूपोक्तकारणद्वयजन्यानुमित्योरवान्तरविशेषस्याननुभवात् । तत्कल्पनस्यान्योन्याश्रयेण योग्यानुपलब्धिबोधेन चायुक्तत्वादिति भावः ।। अनुमानेनेति । एतेनानुमानगम्यां व्याप्तिमित्यादिनोक्तं प्रदर्शितं भवति । व्यभिचारशङ्काया असार्वत्रिकत्वान्न सर्वत्रान्वयव्यतिरेकिणि व्यतिरेकव्याप्त्युपयोग इत्यभिप्रेत्य कथञ्चिदित्युक्तमित्याहुः ।

अभिनवामृतम्

अन्वयव्याप्तेरज्ञातत्वाद्य्वतिरेकव्याप्तेरुपयोगाभावात्कथं केवलव्यतिरेकिणः संव्यवहार इति पृच्छति ।। कथं तर्हीति ।। इत्येव व्याप्तिरिति । साध्यसिद्धेरङ्गमिति शेषः । किमर्थं तर्हि व्यतिरेकव्याप्त्यनुसरणमिति पृच्छति ।। किन्त्विति । उत्तरमाह ।। व्याप्तिग्रहमिति । तदभावव्यापकाभावेति । अस्य हेतोरसिद्धिपरिहाराय व्यतिरेकव्याप्त्युपन्यास इति भावः ।। व्यभिचाराभावेति । अन्वयव्याप्तिग्रहणमिति शेषः ।

आदर्शः

।। न हि भावेन भावसाधन इति । धूमत्वावच्छिन्नेन वह्नित्वावच्छिन्नसाधन इत्यर्थः । ननु न वयं वह्न्यभावे धूमाभावव्याप्तिज्ञानात्पर्वते धूमरूपहेतोः सकाशादनुमितिं ब्रूमो येनेदं दूषणं सङ्गच्छेत किन्तु साध्याभावव्यापकतावच्छेदकं यद्धर्मावच्छिन्नप्रतियोगिताकाभावत्वं तद्धर्मावच्छिन्नत्वं व्याप्तिः । प्रकृतहेतावेतादृशव्याप्तिज्ञानादनुमितिरिति । अतो नेदं दूषणं लगतीति चेन्न । तथा सति केवलव्यतिरेकित्वानुपपत्तेः । तथा हि । केवलव्यतिरेकित्वं नाम किमन्वयव्याप्तिशून्यत्वं वा स्वजन्यानुमितेरन्वयव्याप्तिज्ञानाजन्यत्वं वा । नाद्यः । व्यतिरेकव्याप्तिमङ्गीकृत्यान्वयव्याप्त्यनङ्गीकारस्य व्याहतत्वात् । न द्वितीयः । भवदुक्तव्याप्तेः प्रकृतहेतुनिष्ठत्वेनान्वयव्याप्तित्वेन तज्ज्ञानादेवानुमितेरङ्गीकृतत्वात् । परन्तु स्वाश्रयव्यापकीभूताभावप्रतियोगित्वस्य प्रकृतहेतौ ज्ञानोत्पादनद्वारा । तथा च तद्विशिष्टहेतुप्रकारकं पक्षधर्मताज्ञानमनुमितिहेतुरिति वाच्यम् । उक्तपक्षधर्मताज्ञानमात्रेणानुमितिसम्भवेन व्यतिरेकव्याप्तिज्ञानस्यान्यथासिद्धत्वात् । पृथक्कारणताकल्पने मानाभावात् । किञ्च पृथक्कारणताकल्पने व्यतिरेकव्याप्तेर्हेत्वंशे भानासम्भवेन व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानस्यैवानुमितिकारणत्वं न तु ज्ञानद्वयस्येति पक्षो दत्तजलाञ्जलिः स्यात् । न चान्वयव्याप्तिस्थले एव तन्नियम इति वाच्यम् । वैलक्षण्यकल्पने बीजाभावात् । उक्तस्थलेऽप्यन्वयव्याप्त्यनुसन्धानेनैवानुमितिकल्पने लाघवाच्च । भवद्भिरपि साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपप्रकृतहेतुनिष्ठव्याप्त्यनुसन्धानस्याङ्गीकृतत्वात् । व्याप्तिपदस्यानुमितिजनकज्ञानविषयत्वार्थकत्वेनोक्तधर्मस्यानुमितिजनकज्ञानविषयत्वस्याङ्गीकृतत्वात् । न चैवं सर्वत्रान्वयव्याप्तिज्ञानकल्पने गौरवमिति वाच्यम् । व्यतिरेकव्याप्तिज्ञानवतोऽन्वयव्याप्तौ कदाऽपि संशयानुत्पत्त्याऽन्वयव्याप्तिज्ञानस्यानुभवसिद्धत्वेनाकल्पनात् । व्यतिरेकव्याप्तिस्थले पृथक्कारणताकल्पने गौरवात् ।

किञ्च यत्र केवलव्यतिरेकित्वाभिमानस्तत्रापि पुरुषविशेषस्योपदेशादिनाऽन्वयव्याप्तिज्ञानसम्भवेन तेनैवानुमितेरपि सम्भवेनान्वयव्यतिरेकित्वापातः स्यात् । न ह्यनादौ संसारे कस्यापि पुरुषस्योपदेशादिनाऽन्वयव्याप्तिज्ञानं तेन चानुमितिर्नैव जायत इत्यत्र प्रमाणमस्ति । तस्माद्य्वतिरेकव्याप्तिज्ञानस्यानुमितिकारणत्वासम्भवात् सर्वत्रान्वयव्याप्तिज्ञानसम्भवाच्च परोक्तविभागादिकमयुक्तमेव । वस्तुतस्तु साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्याप्तिज्ञानं वा व्यापकसामानाधिकरण्यरूपव्याप्तिज्ञानं वा नानुमितिहेतुः किन्त्वस्मदुक्तव्याप्तिज्ञानमेव । अन्यविधव्याप्तिज्ञानस्य कारणताङ्गीकारे स्वातन्त्र्येण कारणता कल्पनीया । उक्तव्याप्तिज्ञानस्य कारणताङ्गीकारे तु न कारणता पृथक्कल्पनीया । यत्समानाधिकरणत्वेन यः पदार्थो ज्ञातस्तत्प्रकारकज्ञानस्य तत्प्रकारकज्ञानं प्रति कारणता । साधारण धर्मज्ञानस्य संशयकारणतामङ्गीकुर्वता क्लृप्तैव । तत्प्रकारकज्ञानं प्रति तद्वदवृत्तिधर्मप्रकारकज्ञानस्य प्रतिबन्धकताऽपि सर्वसम्मता । एवं च व्याप्तिज्ञानस्य साध्याभाववदवृत्तिहेतुप्रकारकत्वेनानुमितौ साध्याभावप्रकारकत्वाभावप्रयोजकत्वम् । एवं व्याप्तिज्ञानस्य साध्यसमानाधिकरणहेतुप्रकारकत्वेनानुमितौ साध्यप्रकारकत्वप्रयोजकत्वमपि क्लृप्तमिति नाधिककल्पनमिति मन्तव्यम् । अन्यविधव्याप्तिज्ञानादप्यनुभवसिद्धत्वेन तज्ज्ञानस्यापि कारणत्वमङ्गीकर्तव्यमिति केचित् ।

वाक्यार्थमञ्जरी

।। कथं तर्हीति । अन्वयव्याप्तिर्नास्त्येव व्यतिरेकव्याप्तिर्विद्यमानाऽपि चेदनुपयोगिनी सा ह्युपायाभावात्कथं प्राणादिमत्त्वस्य सात्मकत्वसाधकत्वं तदभावे च कथं तस्य शास्त्रे केवलव्यतिरेक्यनुमानत्वेन व्यवहार इत्यर्थः ।। इत्येव व्याप्तिरिति । तथा च साध्यसाधकत्वं युक्तमेवेति भावः । तर्हि सैव प्रदर्शनीया । व्यतिरेकव्याप्तिप्रदर्शनस्य कुत्रोपयोग इति पृच्छति ।। किन्त्विति । उत्तरमाह ।। व्याप्तीति । साधनप्रकारमेवाह ।। प्राणादिमत्त्वादिति ।। तदभावव्यापकाभावेति । तथा चैतत्साधनप्रतिपत्त्यर्थंव्यतिरेकव्याप्त्युपन्यास इति भावः । केवलव्यतिरेकित्वव्यवहारस्तु केवलव्यतिरेकव्याप्त्यनुमेय व्याप्तिकत्वेनैव नान्वयव्याप्तिविरहादिति हृदयम् । एतेन यद्यनुमानत्रैविध्यं न स्यात्तर्हि कथं प्रमाणलक्षणटीकायां त्रिविधमनुमानमित्यनेन तत्त्रैविध्यमुक्तम् । न चासौ परमतानुवाद इति युक्तम् । तथा सति सर्वत्र निर्दोषत्वानुवृत्तेन बाधितादौ प्रसङ्गः । तत्पुनर्द्विविधं दृष्टं सामान्यतो दृष्टं चेत्युत्तरग्रन्थस्वारस्याप्रसङ्गात् । न हि परमतेनोक्तलक्षणेषु स्वमतेनोक्तसामान्यलक्षणस्थनिर्दोषत्वानुवृत्त्याऽतिव्याप्तिपरिहारो युज्यते । न वा पुनरुक्तविभागेन स्वाङ्गीकृतविभागस्य पुनर्विभागत्वं सङ्गच्छते । यदि चात्र द्वैविध्यस्य निराकरणेनेति कण्ठतो वक्ष्यमाणत्वात्तद्द्वैविध्यं न स्यात्कथं तर्ह्यविभागे व्याप्तिः । सा द्विविधा । अन्वयव्याप्तिर्व्यतिरेकव्याप्तिश्चेति व्याप्तिद्वैविध्यं कथं तत्रोक्तम् । न चायमपि परमतानुवाद इति युक्तम् । यदुक्तं निर्दोषप्रमितलिङ्गमनुमानमिति तदयुक्तमित्यादिना व्याप्तिरुपपत्तिमूलमिति मूलमवतार्य तद्य्वाख्यानपरोक्तं लक्षणमित्येतद्ग्रन्थसन्दर्भमध्यपतितव्याप्तिद्वैविध्योक्तेः परमतानुवादत्वस्य शङ्कितुमशक्यत्वात् । अत एव तत्र केचित्त्वित्यादिपाठकल्पनमपास्तम् । तथा सत्यत्रेव तत्रापि तद्दूषणप्रसङ्गात् । एवं वैधर्म्यदृष्टान्ततद्विरोधवैधर्म्योदाहरणानि व्यतिरेकानुमानेऽप्यङ्गीकारज्ञापकानि बहूनि तत्र सन्तीति कथमत्र तन्निरूपणमिति शङ्का परास्ता । न ह्यत्र केवलव्यतिरेकिस्वरूपमेव निराक्रियते किं नाम व्यतिरेकव्याप्त्या प्रकृतसाध्यकरूपमेव केवलव्यतिरेकि । अत एव व्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धावनुपयोगादिति दूषितम् । व्यतिरेकव्याप्त्यनुमेयान्वयव्याप्त्यादिकं तु केवलव्यतिरेकि प्रमाणलक्षणटीकाभिप्रेतमत्राप्यङ्गीकृतमेव । अत एव कथं तर्हि केवलव्यतिरेकिणः संव्यवहार इत्यादिना तथैवोक्तम् । यद्यपि तदेतद्द्वैविध्यं तुशब्देन व्यवच्छिनत्तीति सुधायां व्याप्तिद्वैविध्यनिराकरणेनेत्यत्र च व्याप्तिद्वैविध्यं साक्षादेव निराकृतम् । तथाऽपि साक्षात्प्रकृतसाध्यसिद्ध्यङ्गभूतैव व्यतिरेकव्याप्तिस्तत्र च निराकृता न त्वन्वयव्याप्त्यनुमापिका । अत एव तर्कताण्डवे यत्तु सुधायां व्यतिरेकिनाऽनुमानपञ्चरूपतावैधुर्यादित्येतत्परिशेषानुमानेष्वनैकान्तिकमिति व्यतिरेकिणस्तटस्थशङ्कितानुमानत्व शङ्कानिराकरणं तत्पररीत्याश्रित्येत्युक्त्वा व्यतिरेकव्याप्तिः साधकतयोपयुज्यत इत्यभिप्रेत्य वेत्थमपि पक्षोऽभिहित इति सङ्क्षेपः ।

श्रीविट्टलभट्ट

।। तदिदमिति । केवलान्वयिकेवलव्यतिरेकीत्यादिना पूर्वमुक्तमिदं हीत्यादिनाऽधुनोक्तं सर्वमसदित्यर्थः ।। व्यतिरेकव्याप्तेरिति । साध्याभावस्य साधनाभावेन व्याप्तेः प्राणादिमत्त्वसाधनेन ज्ञापनीयतया प्रसक्तसाध्यसिद्धौ साक्षाद्य्वाप्यरूपाङ्गतयोपयोगाभावादित्यर्थः । अनुपयोगमुपपादयति ।। न हीति । हिशब्देन भावेन भावसाधने व्यतिरेकव्याप्तेरेव साक्षादुपयोगाङ्गीकारे विपक्षे बाधकाभावात्स धूमोऽप्ययमन्यो वा कश्चिन्निरग्निकेऽस्त्वित्यप्रयोजकत्वापरनामकव्याप्त्यभावशङ्कायां तन्निवर्तकविपक्षबाधकतर्काङ्गभूतव्याप्तेर्व्यतिरेकव्याप्तित्वेन तन्निश्चयेनैव प्रकृतसाध्यसिद्धिसम्भवात् । अप्रयोजकशङ्कानिरासार्थं तर्कानुसरतावैय्यर्थ्यापातात् । व्याप्यं लिङ्गमिति लिङ्गलक्षणस्य व्यतिरेकिण्यभावप्रसङ्गाच्च । साध्याभावस्य साधनाभावेन व्याप्तिरूपाया व्यतिरेकव्याप्तेस्तत्राभावात् । व्याप्तिबलेनार्थगमकत्वं लिङ्गलक्षणं व्यतिरेकिण्यस्तीति चेन्न । अतिप्रसङ्गेनान्यदीयव्याप्तेः प्रकृतहेत्वङ्गत्वरूपबलत्वासम्भवात् । प्रतियोग्यनुयोगिभावातिप्रसङ्गो निवारक इति चेन्न । तथा सत्यार्द्रेन्धनवह्निसंयोगगतधूमनिरूपितान्वयव्याप्तेस्तदभावेन धूमाभावसिद्धावङ्गत्वापातात् । निषिद्धत्वेन पापसाधनत्वसिद्धौ निषिद्धत्वाभावस्य पापसाधनत्वाभावनिरूपितव्याप्तेरङ्गतापाताच्च । प्राणादिमत्त्वरूपसाधनाभावस्य साध्याभावेन व्याप्तेः प्रकृते हेत्वङ्गत्वापातात् । भावत्वे सति कृतकत्वाभावस्यानित्यत्वाभावेन व्याप्तेः कृतकत्वेनानित्यत्वसिद्धावुपयोगप्रसङ्गाच्च । अविशेषादित्यादि विपक्षे बाधकं सूचयति । दूषणान्तरमाह ।। व्याप्तिपक्षधर्मतयोरिति । एवं सति व्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धौ साक्षादुपयोगे सतीत्यर्थः । न चेष्टापत्तिः । शब्दोऽभिधेयः प्रमेयत्वादित्यादौ पक्षधर्मतासमानाधिकरणव्याप्तेरेवाङ्गतया क्लृप्तत्वात् । अन्यथा धूमगतव्याप्तिव्यधिकरणवृक्षगत पक्षधर्मताया वह्निसिद्ध्यङ्गतापातात् । प्रतियोग्यनुयोगिभावोऽपि प्रसङ्गभञ्जक इति चेन्न । तथा सति पक्षधर्मताव्यधिकरणतायाः प्राणादिमत्त्वाभावस्य साध्याभावेन व्याप्तेरपि प्रकृतसाध्यसिद्धावङ्गत्वापातात् । आर्द्रेन्धनसंयोगाभावेन धूमाभावसिद्धावार्द्रेन्धन संयोगगतान्वयव्याप्तेरसङ्गतापाताच्च । निषिद्धत्वाभावस्य पापसाधनत्वाभावेन व्याप्तेर्निषिद्धत्वेन पापसाधनत्व सिद्धावङ्गतापाताच्चेति हृदयम् । ननु तर्हि परीक्षकाणां केवलव्यतिरेकानुमानस्य प्रकृतसाध्ये प्रमाणतयाऽविगीतव्यवहारः कथमिति पृच्छति ।। कथं तर्हीति । तर्हि प्रकृतकार्यसिद्धावनङ्गत्व इत्यर्थः। विप्रतिपत्तिविषयत्वव्याप्त्येति । सात्मकत्वरूपसाध्यत्वेनेति शेषः ।। विवक्षितव्याप्तेरिति । प्रकृतसाध्ये सिद्ध्यङ्गभूतान्वयव्याप्तेरित्यर्थः ।। प्रत्यक्षादिनैवेति । आगम आदिशब्दार्थः । एवेत्यनेन व्यतिरेकव्याप्तिरूपमनुमानं व्यवच्छिनत्ति ।। व्यभिचाराभावप्रदर्शनमुखेनेति । तदभावव्यापकाभावप्रतियोगिनस्तद्य्वभिचाराभावायोगात् । व्यभिचाराभावप्रदर्शनद्वारेण कथञ्चिद्य्वभिचारशङ्कानिवर्तकत्वेनान्वयव्याप्तिग्रहे उपयुक्तैवेत्यर्थः ।