उपपत्तिसमः

(६३) प्रमाणपद्धतिः

।। २० ।। (२) (१९) ।। उपपत्तिसमः ।। उभयहेतूपपत्त्या प्रत्यवस्थानमुपपत्तिसम इत्येके । यथा यदि शब्दस्यानित्यत्वोपपादकं कृतकत्वमस्तीत्यनित्यत्वमिष्यते तर्हि नित्यत्वोपपादकमस्पर्शत्वमस्तीति नित्यत्वमपि किं नेष्यत इति । एतदसत् । साधर्म्यसमाद्यभेदात् । तस्मान्मत्पक्षेऽपि किमपि साधनं भविष्यतीति सामान्यतः प्रत्यवस्थानमुपपत्तिसम इत्युदयनः । इदमप्यसत् । केवलाया एवमुक्तेर्निर्बीजत्वात् । प्रमाणोपपादने तूपपादकस्य साधुत्वे सदुत्तरत्वात् । असाधुत्वे तस्यैवोद्भाव्यत्वेनाजातित्वात् ।

जयतीर्थविजय

।। उभयेति । उभयस्मिन्वादिसाध्ये तदभावे च हेतूपपत्त्येत्यर्थः । एके प्राञ्चो नैयायिका इत्यर्थः ।। साधर्म्येति । अस्यापि प्रतिप्रमाणेन प्रत्यवस्थानरूपत्वादिति भावः । आदिपदेन वैधर्म्यसमपरिग्रहः ।। तस्मादिति । प्राचीनलक्षणस्य दुष्टत्वादित्यर्थः । साधर्म्यसमादिव्यावृत्त्यर्थं सामान्यत इत्युक्तम् । एतदेवोक्तं वरदराजेन ।

अस्मत्पक्षेऽपि किमपि प्रमाणमुपपद्यते ।

त्वत्पक्षवदिति प्राप्तिरुपपत्तिसमो मत ।। इति ।

सामान्यतः प्रत्यवस्थानमुपपत्तिसम इत्यत्र प्रत्यवस्थानं किं प्रमाणमूलकमुतातन्मूलकम् । आद्येऽपि मूलभूतं प्रमाणं किं साध्वसाधु वेति चतुर्धा विकल्प्य क्रमेण निराचष्टे ।। केवलाया इत्यादिना । केवलायाः प्रमाणामूलाया इत्यर्थः ।। तस्यैवेति । असाधुत्वस्यैवेत्यर्थः ।। अजातित्वादिति । तथा चोत्पत्तिसमाख्यं जात्यन्तरमेव नास्तीति भावः ।

भावदीपः

।। उभयेति । उभयस्मिन्पक्षद्वये हेत्वोरुपपादनेन वादिसाधनदूषणमित्यर्थः ।। केवलाया इति । साधकोक्तिरहिताया इत्यर्थः ।

श्रीवेदेशभिक्षु

पक्षत्वादिति हेतुसत्त्वान्न निर्बीजतेत्यत आह ।। प्रमाणेति । उपपादकस्य हेतोः ।। तस्यैवेति । उपपादकासाधुत्वस्यैवेत्यर्थः । यदा येन दोषेण साध्यत्वं तदा तस्यैवेत्यर्थः ।

अभिनवामृतम्

।। उभयहेतूपपत्त्येति । पक्षे वादिप्रतिवादिहेत्वोः सत्त्वाद्वादिनाऽत्रैकहेतुमुपादाय साधने कृते साधनान्तरमुपादाय प्रतिवादिनः प्रत्यवस्थानमुपपत्तिसम इत्यर्थः । एतेन प्रत्यवस्थानैकहेतुमूलत्वादुभयहेतूपपत्त्येत्येतदुक्तमयुक्तमिति परास्तम् । अतो लक्षणोदाहरणयोर्वैषम्यमिति परास्तम् ।। साधर्म्यसमाद्यभेद इति । घटसाधर्म्यात्कृतकत्वाद्यद्यनित्यत्वमिष्यते तर्ह्याकाशसाधर्म्यादस्पर्शत्वादनित्यत्वमपि किं नेष्यत इत्यभिप्राये साधर्म्यसमाभेदः । आकाशवैधर्म्यात्कृतकत्वाद्यद्यनित्यत्वमुच्यते तर्हि घटवैधर्म्यादस्पर्शरूपत्वान्नित्यः किं नेष्यत इति प्रयोगाभिप्राये वैधर्म्यसमाभेद इत्यर्थः ।। तस्मान्मत्पक्ष इति । उदाहरणन्तु शब्दो नित्यः कृतकत्वादित्युक्ते ब्रवीति । यद्यनित्यत्वे प्रमाणं कार्यत्वमस्तीत्यनित्यत्वमिष्यते तर्हि नित्यत्वपक्षे किमपि प्रमाणं भविष्यति । ततश्च बाधः प्रतिरोधो वेति ।। केवलाया एवमुक्तेरिति । हेतुमनुपन्यस्य मत्पक्षे किमपि प्रमाणं भविष्यतीत्येवमुक्ते पाक्षिकजयाशां प्रत्यप्रयोजकत्वादित्यर्थः । ननु मत्पक्षेऽपि किमपि प्रमाणं भवतीति न सामान्यतः प्रत्यवस्थानम् । अपि तु मत्पक्षः केनचित्प्रमाणेनोपेतो महाजनपरिगृहीतत्वादिति सामान्यतः प्रत्यवस्थानम् । अतो निर्बीजमित्यत आह ।। प्रमाणोपपादने त्विति । प्रमाणोपपादनपूर्वकं सामान्यतः प्रत्यवस्थाने तस्योपन्यस्तप्रमाणस्य साधुत्वे सदुत्तरत्वमेव । शिष्टाचारत्वलिङ्गेन मङ्गलेऽपि सामान्यतो वेदोपदिष्टत्वदर्शनात् । उपदिष्टहेतुसाधुत्वे यत्प्रयुक्तमसाधुत्वं तदेव दूषणं वक्तव्यम् । न तूपपत्तिसमत्वमित्यर्थः । एतेन सामान्यतः प्रत्यवस्थानस्यैवोपपत्तिसमलक्षणत्वेनोक्तत्वात् प्रमाणोपपादनप्रसक्त्यभावात्तन्निराकरणमयुक्तमिति परास्तम् ।

श्रीविट्टलभट्ट

।। उभयहेतूपपत्त्येति । उभयस्मिन्पक्षद्वये हेत्वोरुपपादने वादिसाधननिराकरणमित्यर्थः ।। नित्यत्वोपपादकं स्पर्शत्वमस्तीति । नित्यत्वसाधकं स्पर्शवत्त्वमस्तीत्यर्थः ।। साधर्म्यसमाद्यभेदादिति । वैधर्म्यसम आदिशब्दार्थः । अनभ्युपेतयुक्ताङ्गेन साधर्म्यचोदनेऽनभ्युपेतयुक्ताङ्गेन वैधर्म्येण प्रतिपक्षचोदने वैधर्म्यसमे चोक्तलक्षणसद्भावादस्य तदैक्यमिति बोध्यम् ।। तस्मादिति । उक्तलक्षणस्यायोगादित्यर्थः । साध्यतेऽनेनेति व्युत्पत्त्या साधनं साधकमित्यर्थः । उदयन आहेति शेषः ।। केवलाया इति । साधकोपन्यासरहितायाः । एवमुक्तेरस्मत्पक्षे किमपि साधनं भविष्यतीत्युक्ते निर्बीजत्वादुत्थानकारणशून्यत्वादित्यर्थः । असाधकेऽपीदं साधकमित्यभिमानो हि जात्युत्थानबीजं साधकानुपलम्भेनैव मुक्तनिर्बीजतया न जात्युत्तरमिति भावः । अस्त्येव जात्युत्थानबीजं प्रतिपक्षसाधकोपलम्भ इति वक्तव्यं तं प्रत्याह ।। प्रमाणोपपादने त्विति । प्रमाणस्य प्रतिपक्षसाधनस्योपपादने उपपादकस्य साधुत्वेऽभ्युपेतयुक्ताङ्गत्वे सदुत्तरत्वान्न जातित्वमित्यर्थः । असाधुत्वेऽनभ्युपेतयुक्ताङ्गत्वे तस्यैवोद्भाव्यत्वेनासाधोः प्रतिपक्षसाधकजात्युत्तरस्यैवोद्भाव्यत्वेनाजातित्वादस्मत्पक्षे किमपि साधनं भविष्यतीत्यस्य जातित्वाभावादित्यर्थः । एवकारेणास्मत्पक्षे किमपि साधनं भविष्यतीत्यस्यैवोद्भाव्यत्वं व्यावर्तयति । अस्मत्पक्षे किमपि साधनं भविष्यतीत्यस्य प्रतिपक्षसाधकत्वेनाकिञ्चित्करत्वात् । अनुद्भाव्य तेन न जातित्वम् । उद्भावना हि तस्यैव जात्युत्तरत्वादिति हृदयम् ।