प्रमाणपद्धतिः
प्रत्यक्षानुमानागमैः व्याप्तिज्ञानम्
(४) प्रमाणपद्धतिः
ननु व्याप्तिज्ञानं केन प्रमाणेन जायते । यथायथं प्रत्यक्षानुमानागमैरिति ब्रूमः । तत्र तावद्धूमस्याग्निना व्याप्तिः प्रत्यक्षगम्या । तथा हि । महानसादौ धूमाग्न्योः साहचर्यं पश्यतः पुरुषस्यैष विमर्शो जायते । किमत्रैवैतो धूमाग्नी सहचरितावन्यत्र देशान्तरे कालान्तरे चैतज्जातीयौ परस्परपरिहारेण वर्तेते उतान्यतर एवान्यतरपरिहारेण किंवा सकलदेशकालयोः सहचरितावेवेति । ततो भूयोभूयो धूमं पश्यन्नग्निं पश्यति । अग्न्यभावे च धूमाभावम् । तथा धूमाभावेऽपि क्वचिदग्निसद्भावम् । ततः पुनरेष विचारो भवति । यथा बहुषु स्थलेषु धूमेन सहचरितोऽप्यग्निः क्वचित्तं परित्यज्य वर्तते । तथा धूमो मत्परिचितस्थलेष्वग्निना सह वर्तमानोऽपि क्वचित्तं परित्यज्य वर्तते । किं वा सर्वत्र तत्सहचरित एवेति । ततः पुनरेषा बुद्धिरुत्पद्यते । अग्नेर्धूमसम्बन्धेऽस्त्यार्द्रेन्धनसंयोग उपाधिः । स च धूमस्याग्निसम्बन्धे यदि कश्चिदुपाधिः स्यात्तदा सोऽप्यग्निं व्यभिचरिष्यति । न चेन्निर्निमित्तस्य सम्बन्धस्य धूमस्वभावत्वेन न क्वापि तदभावो भविष्यती (ति निश्चि) त्येवं निश्चित्य महानसादावुपाधिगवेषणे प्रवर्तते ।
जयतीर्थविजय
ननु व्याप्तिज्ञानं केन प्रमाणेन जायते । न तावत्प्रत्यक्षेण । तदभावेऽपि ब्राह्मणो न हन्तव्य इत्यादिव्याप्तिग्रहात् । अत एव नानुमानेन । नाप्यागमेन । तदभावेऽपि प्राणादिमत्त्वसात्मकत्वयोरनुमानेन व्याप्तिग्रहादित्याक्षिपति ।। नन्विति ।। केनेति । न केनापीत्यर्थः । उक्तरीत्या परस्पराननुगमादिति भावः । तृणारणिमणिन्यायेनाननुगतैर्विजातीयैरेव प्रमाणैर्विजातीये व्याप्तिग्रहो जायते । अतोऽननुगमो न दोष इति समाधत्ते ।। यथायथमित्यादिना नापिदृष्टान्तापेक्षेत्यन्तेन । यथायथं प्रत्यक्षयोग्या व्याप्तिः प्रत्यक्षेण गृह्यत इत्यादिक्रमेणेत्यर्थः । अत्रागमशब्दो वेदतन्मूलान्यतरवाक्यपरः । अतो धूमवह्निव्याप्तेरेव धूमो वह्निव्याप्य इत्याप्तोपदेशगम्यत्वेनोभयोदाहरणत्वेन सम्भवे ब्राह्मणो न हन्तव्य इत्यग्रेतनागमगम्यव्याप्त्युदाहरणं व्यर्थमिति शङ्कानवकाश इति द्रष्टव्यम् । तत्र प्रत्यक्षगम्यां व्याप्तिमुदाहरति । तत्रेति । प्रत्यक्षादिगम्यव्याप्तिमध्य इत्यर्थः । प्रत्यक्षस्य व्याप्तिग्राहकत्वे किमत्रैवैतावदित्यादिना वक्ष्यमाणव्यभिचारसंशयदशायां तथा ततः पुनरेष विचार इत्यादिना वक्ष्यमाणोपाधिसंशयदशायां च प्रत्यक्षेण व्याप्तिग्रहापत्तिरित्याशङ्क्य तच्छङ्काद्वयनिवर्तकाव्यभिचारानौपाधिकत्वनिश्चयसनाथस्यैव प्रत्यक्षस्य व्याप्तिग्राहकत्वमिति वक्ष्यन् व्याप्तिग्रहप्रकारप्रदर्शनव्याजेन तदुपपादयितुमारभते ।। तथा हीत्यादिनाऽविनाभावप्रमितिरुत्पद्यत इत्यन्तेनावान्तरवाक्यजातेन । विमर्श इति । विचार इत्यर्थः ।।
परस्परपरिहारेणेति । गोत्वाश्वत्ववदिति शेषः ।। अन्यतर एवेति । घटत्वेन विना प्रमेयत्ववदिति शेषः । यथा साध्यसाधनयोर्भूयस्सहचारदर्शनं व्याप्तिग्रहोपयोगि तथा साध्याभावसाधनाभावयोरपि भूयस्सहचारदर्शनं व्यभिचाराभावप्रदर्शनद्वाराऽन्वयव्याप्तिग्रहोपयोगीत्याह ।। अग्न्यभावे चेति । अत्र भूयोभूय इत्यनुषज्यते । अग्न्यभावे च धूमभावमित्यस्यानन्तरं ततः परस्परपरिहारेण कालान्तरे देशान्तरे वा वर्तनशङ्कां विधुनोतीति शेषः ।। तथा धूमाभावेऽपीति । धूमाभावेऽपि क्वचिदग्निसद्भावदर्शनाद्यथा बहुष्विति वक्ष्यमाणविचारावतारघटनार्थम् । अन्यथा भूयो दर्शनानन्तरं यथा बहुष्वित्युक्तशङ्कानवकाशादिति ध्येयम् ।। ततः पुनरेष इति । यद्यप्ययं विचारः किमत्रैवैतावित्यादिना प्राक् प्रदर्शितः । तथाऽपि भूयोदर्शनाभावप्रयुक्त एव सः । अयं त्वनौपाधिकत्वनिश्चयप्रयुक्त इति न पौनरुक्त्यमिति ज्ञातव्यम् । अत एव प्राग्विचारस्य सकृद्दर्शनकालीनत्वसूचनायात्रैवेत्युक्तम् । अत्र च तस्य भूयोदर्शनकालीनत्वसूचनाय बहुषु स्थलेष्वित्युक्तम् । अग्निरग्निजातीयः । धूमो धूमजातीयः ।। सोऽपीति । धूम इत्यर्थः ।। न चेदिति । उपाधिरित्यनुषज्यते । निर्निमित्तस्य निरूपाधिकस्येत्यर्थः ।
भावदीपः
ननु प्रत्यक्षस्य सन्निकृष्टमात्रग्राहितया नियमघटितसहचाररूपव्याप्तिग्रहे सामर्थ्यं नेति भावेन शङ्कते ।। नन्विति । यद्वा तर्केणैव व्याप्तिज्ञानं तर्कस्य च व्याप्तिसापेक्षत्वादनवस्थेति भावेन शङ्कते । नन्विति । भूयोदर्शनव्यभिचाराभावनिश्चयोपाध्यभावनिश्चयरूपसहकारिसामर्थ्यात्प्रत्यक्षाद्येव तद्ग्राहकं न तर्क इति भावेनाह ।। यथायथमिति । अव्ययं विभक्त्यादिनाऽव्ययीभावसमासः । स्वस्वयोग्यतामनतिक्रम्येत्यर्थः । जायते व्याप्तिज्ञानमित्यनुषङ्गः । प्रत्यभिज्ञानं प्रत्यक्षगम्यत्वं भूयोदर्शनादिसहकारित्रयव्यक्तीकरणेन दर्शयति ।। तथा हीत्यादिनाऽनुमानगम्यां त्वित्येतत्पर्यन्तग्रन्थेन । एष विमर्शो वक्ष्यमाणो विचारः । एतज्जातीयौ एतत्सदृशौ । अन्यतर एवाग्निरेव सहचरितावेवेति कृतकत्वानित्यत्वयोरिवेति भावः । इति विमर्श इति पूर्वेणान्वयः । तत एवं विमर्शानन्तरं भूयोभूयः पुनः पुनः पश्यतीति पदमुत्तरवाक्यद्वयेऽप्यनुषज्यते । एवं भूयोदर्शनप्रकारं प्रदर्श्योपाध्यभावनिश्चयेनैव व्यभिचाराभावनिश्चय इति भावेनोपाध्यभावनिश्चयप्रकारं दर्शयितुं व्यभिचारसन्देहप्रकारं तावदाह ।। ततः पुनरेष विचार इति । भूयः सहचारदर्शनानन्तरं व्यभिचारसन्देहगोचरो विचार इत्यर्थः । तं व्यनक्ति । यथेति । तथेत्यग्रेतनेनास्यान्वयः । इदानीमुपाधिभावाभावाधीनौ व्यभिचारतदभावावित्याह ।। ततः पुनरेषा बुद्धिरिति । व्यभिचारसन्देहानन्तरमुपाधिभावाभावाधीनौ व्यभिचारतदभावाविति बुद्धिरुत्पद्यत इत्यर्थः । तां व्यनक्ति ।। अग्नेरिति । यथेत्यनुषङ्गः । तथेत्यन्वयः ।। तमिति । धूममग्नितो व्यावर्तितवानयोगोलकादौ । न पुनरग्निं धूमवन्महानसादौ व्यावर्तितवानित्यर्थः । तत्र हेतुः ।। तदव्यापकत्वादिति । एतेनार्द्रेन्धनसंयोगे साधनाव्यापकत्वे सति साध्यव्यापकत्वरूपोपाधिलक्षणमपि सूचितं भवति । उपाधिस्स्यादिति । धूमाव्यापको वह्निव्यापकश्च धर्मः स्यादित्यर्थः । सोऽपि धूमोऽपीत्यर्थः । तदभावोऽग्निसम्बन्धभाव इत्यर्थः ।। इति निश्चित्येति । व्यभिचारभावाभावावुपाधिभावाभावाधीनाविति निश्चित्येत्यर्थः ।। उपाधीति ।। साधनधूमाव्यापकवह्निव्यापकधर्मगवेषण इत्यर्थः ।
श्रीविट्टलभट्ट
व्याप्तिप्रमितिरनुमानस्य सामर्थ्यमित्युक्तम् । सा च केन प्रमाणेनोत्पद्यत इति पृच्छति ।। नन्विति ।। यथायथं प्रत्यक्षानुमानागमैरिति । व्याप्तिज्ञानं जायत इत्यनुवर्तते । यथायथं यथास्वरूपमित्यर्थः ।। तत्रेति । प्रत्यक्षादिगम्यास्वित्यर्थः । विमर्शो विचारस्तदङ्गभूतः संशयो जायत इत्यर्थः । संशयाकारमेव दर्शयति ।। किमत्रैवेति । अस्मिन्नेव देशे काले चेत्यर्थः ।। अन्यत्रेति । तस्यैव विवरणं देशान्तरे कालान्तरे चेति ।। तत इति । उक्तसन्देहानन्तरमित्यर्थः । पश्यतीत्येतद्धूमाभावमित्यादिनाऽपि सम्बध्यते ।। ततः पुनरिति । भूयोदर्शनानन्तरं विचारस्त्वङ्गभूतः संशय इत्यर्थः । विचाराकारं दर्शयति ।। यथेति ।। ततः पुनरेषा बुद्धिरिति । एतादृशसंशयानन्तरं बुद्धिर्निश्चयरूपा बुद्धिरित्यर्थः । निश्चयाकारं दर्शयति ।। अग्नेर्धूमसम्बन्ध इति । तं व्यावर्तितवान् धूमं व्यावर्तितवानित्यर्थः । व्यापकनिवृत्त्या व्याप्यनिवृत्तेरेवावश्यकत्वादिति भावः । व्यावर्तितवानित्येतदग्निमित्यनेनापि सम्बध्यते ।। तदेति । तर्हीत्यर्थः । सोऽपि यथाऽग्निर्धूमं तथा धूमोऽप्यग्नि• व्यभिचरिष्यति । तं परित्यज्य स्थास्यति ।। न चेदिति ।। निर्निमित्तस्येति । निरूपकस्याग्निना सम्बन्धस्य धूमस्वभावत्वेन धूमस्य सहजत्वेन क्वापि धूमवति देशे तदभावोऽग्निसम्बन्धाभावो न भविष्यतीत्येवं निश्चित्यैतादृशनिश्चयानन्तरमित्यर्थः । महानसादावित्यनन्तरं धूमाग्निसम्बन्ध इत्यनुवर्तते ।