प्रमाणपद्धतिः
(१६) प्रमाणपद्धतिः
पक्षव्यापकं सपक्षवृत्ति सर्वविपक्षव्यावृत्तमन्वयव्यतिरेकीति । तदपि द्विविधम् । सर्वसपक्षतदेकदेशवृत्तिभेदात् । शब्दोऽनित्यः कृतकत्वादिति सपक्षव्यापकम् । सर्वस्मिन्ननित्ये कृतकत्वस्य वृत्तेः । पर्वतोऽग्निमान्धूमवत्त्वादिति सपक्षैकदेशवृत्ति । अग्निमत्यपि क्वचिद्वृत्तेः । क्वचिच्चावृत्तेः । इदं हि यद्धूमवत्तदग्निमद्यथा महानसः । यदग्निमन्न भवति तद्धूमवन्न भवति यथा ह्रद इति व्याप्तिद्वयसद्भावादन्वयव्यतिरेकीत्युच्यते ।
जयतीर्थविजय
अन्वयव्यतिरेकिणो लक्षणमाह ।। पक्षेत्यादिना । सर्वपक्षवृत्तित्वे सति सपक्षवृत्तित्वे सति सर्वविपक्षव्यावृत्तत्वमन्वयव्यतिरेकिणो लक्षणमिति निष्कर्षः । एतदेवाह वरदराजोऽपि
व्यावृत्तं यद्विपक्षेभ्यः सपक्षेषु कृतान्वयम् ।
व्याप्त्या पक्षे वर्तमानमन्वयव्यतिरेकि तदिति ।
अतो द्वितीयम् । प्रथमद्वितीयमात्रोपादानेन तृतीयविशेषणपरित्यागे केवलान्वयिनिगतम् । आद्यविशेषणोपादाने केवलव्यतिरेकिणि गतम् । अतस्तृतीयं विशेषणमिति क्रमेण व्यावर्त्यानि । व्युत्क्रमेण तु विपक्षव्यावृत्तत्वमेव लक्षणमित्युक्ते कालाकाशातिरिक्तं सर्वमनित्यम् । आकाशान्यत्वादित्यत्र गतम् । अतः सर्वेति । तृतीयविशेषणमात्रोपादाने त्वाकाशातिरिक्तं सर्वमनित्यम् । आकाशान्यत्वादित्यत्र गतम् । अतः सपक्षवत्त्वे सतीति । द्वितीयतृतीयमात्रोपादाने तु तयोरेव पक्षसाध्ययोराकाशाधिकरणत्वहेतावतिव्याप्तिः । अत आद्यविशेषणम् । आद्यविशेषणानुपादानेन विशिष्टग्रहणे आकाशघटातिरिक्तं सर्वमनित्यम् । आकाशान्यत्वे सति घटत्वादित्यत्र गतम् । अत आद्यविशेषणम् । आद्यविशेषणे सर्वपक्षविशेषणसर्वपदानुपादाने त्वाकाशघटातिरिक्तं सर्वमनित्यम् । रूपवत्त्वादित्यत्र गतम् । अत आद्यविशेषणम् । आद्यविशेषणे सर्वपक्षविशेषणसर्वपदानुपादाने त्वाकाशघटातिरिक्तं सर्वमनित्यम् । रूपवत्त्वादित्यत्र गतम् । अतः सर्वेति पक्षविशेषणम् । आद्यन्तमात्रोपादानेन मध्यमविशेषणत्यागे तु केवलव्यतिरेकिणि प्राणादिमत्त्वादावतिव्याप्तिः । अतो मध्यमविशेषणमिति सर्वाण्यपि विशेषणानि सार्थकानीत्यवधेयम् ।
भावदीपः
व्यावृत्तं यद्विपक्षेभ्यः सपक्षे तु कृतान्वयि । व्याप्त्या पक्षे वर्तमानमन्वयव्यतिरेकि तदित्युक्तरीत्याऽन्वयव्यतिरेकिलक्षणमाह ।। पक्षव्यापकमिति ।
श्रीवेदेशभिक्षु
।। पक्षव्यापकमिति । अत्र वाङ्मनसी अनित्ये मूर्तत्वादित्यत्र केवलव्यतिरेकिकेवलान्वयिनोश्चातिव्याप्तिवारणाय क्रमेण विशेषणानि द्रष्टव्यानि । अस्याप्यन्वयव्यतिरेकपदवाच्यायां निमित्तं वक्तुमाह ।। इदं हीति । वक्ष्यमाणरीत्याऽन्वयव्याप्तिरूपसाध्यसिद्ध्युपयोगात् कथमनुपयोग इत्यत उक्तं प्रकृतसाध्यसिद्धाविति । सात्मकत्वरूपसाध्यसिद्धावित्यर्थः ।
श्रीविट्टलभट्ट
अन्वयव्यतिरेकिणं लक्षयति ।। पक्षव्यापकमिति । पूर्ववदिदं विशेषणं व्याख्येयम् । केवलव्यतिरेकिण्यतिव्याप्तिपरिहाराय द्वितीयं विशेषणम् । पर्वतोऽग्निमान्प्रमेयत्वादित्यादावतिव्याप्तिनिरासार्थं तृतीयं विशेषणम् । अस्यामेव प्रतिज्ञायां द्रव्यत्वादित्यत्रातिव्याप्तिपरिहारार्थं तृतीये सर्वस्मादिति विशेषणम् । कृतकत्वादित्यनन्तरमन्वयव्यतिरेकीति शेषः । एवं धूमत्वादित्यनन्तरं शेषोऽनुसन्धेयः । कृतकत्वादित्यादेर्हेतोरन्वयव्यतिरेकीति संज्ञायां किन्निमित्तमिति जिज्ञासायामाह ।। इदं हीत्यादिना । इत्यनेन प्रकारेण व्याप्तिसद्भावादित्यर्थः । कृतकत्वहेतावपि व्याप्तिद्वयसद्भावस्तूक्तरीत्या सुगम इत्युक्तनिमित्तमस्तीति ज्ञातव्यम् । उच्यत इत्यत्रेतिशब्दः परमतानुवादपरिसमाप्तौ वर्तते ।