प्रमाणपद्धतिः
(७) प्रमाणपद्धतिः
किञ्च प्रतीतस्य धूमस्याग्निसम्बन्धे स्वाभाविकतया निश्चिते यद्यन्यत्रापि धूमः स्यात्तर्हि तस्याप्येवमित्येवं व्याप्तिग्रहो भवतीत्यतः काऽत्रानुपपत्तिः । एतेन प्रमेयत्वाभिधेयत्वयोर्व्याप्तिं गृण्हतः सार्वज्ञप्रसङ्गः इत्यपि परास्तम् । कुत एतत्सर्वं कल्प्यत इति चेत् । कार्यदर्शनादेव । अस्ति तावद्धूमदर्शनानन्तरमग्निज्ञानम् । न च तदयथार्थम् । संवादित्वात् । न चान्यदर्शनेनान्यज्ञानं निर्निमित्तं भवितुमर्हति । अतिप्रसङ्गात् । न च व्याप्तिप्रमां समुचितदेशत्वप्रमां चापहाय निमित्तान्तरमस्तीति कार्यमेवैतत्कल्पयति । यथा खलु शिलाशकलादावनुपलब्धामपि क्षितिसलिलादिसहकारिसमुद्भूतां बीजस्य शक्तिमङ्कुरदर्शनं कल्पयतीति । अनुमानगम्यां तु व्याप्तिमुत्तरत्रोदाहरिष्यामः । न च तस्याप्यनुमानस्य व्याप्त्यपेक्षायामनवस्था । अन्ततः प्रत्यक्षागममूलत्वात् । ब्राह्मणो न हन्तव्यो गौर्न पदास्पृष्टव्येत्यागमगम्या व्याप्तिः । न चात्र कश्चित्क्षुद्रोपद्रवो नापि दृष्टान्तापेक्षेति ।
जयतीर्थविजय
असन्निकृष्टधूमादौ व्याप्तिग्रहणार्थमुपायान्तरमाह ।। किञ्चेति ।। तस्याप्येवमिति । तस्यापि देशान्तरीयधूमस्य । एवं वह्निव्याप्तिरित्यर्थः ।। इत्येवं व्याप्तिग्रह इति । यद्यन्यत्रापि धूमः स्यात्तर्हि सोऽपि धूमो वन्हिव्याप्यः स्यात् । सन्निकृष्टधूमवदित्यनुमानेन व्याप्तिग्रह इत्यर्थः । अत्र शङ्कासमाधानप्रकारस्तर्कताण्डवे द्रष्टव्यः ।। एतेनेति । व्याप्तिग्रहणकाले साध्यसाधनाधिकरणानां यत्र यत्रेति सामान्याकारेणैव ज्ञानेनेत्यर्थः । प्रमेयत्वाभिधेयत्वयोर्व्याप्तिग्रहणकाले साध्यसाधनाधिकरणानामशेषविशेषज्ञाने हि सार्वज्ञं स्यात् । न त्वेवमिति भावः ।। कुत एतत्सर्वमिति । अतीतादिनिष्ठव्याप्तिग्रहणं तदनुकूलतर्कादिकं चेत्यर्थः । कार्यदर्शनमेवोपपादयति ।। अस्ति तावदित्यादिना ।। अतिप्रसङ्गादिति । घटदर्शनादपि पटज्ञानापत्तेरिति भावः । नन्वन्यस्य दर्शनेनान्यज्ञानान्यथाऽनुपपत्या निमित्तमात्रसिद्धावपि तयोर्व्याप्तिसिद्धौ किमायातमित्यत आह ।। न चेति । अनुमानगम्यामिति । प्राणादिमत्त्वं सात्मकत्वव्याप्यम् । तदभावव्यापकाभावप्रतियोगित्वादित्यादिनोत्तरत्रोदाहरिष्याम इत्यर्थः । उत्तरत्रावश्यमुदाहरिष्यमाणाया अस्या व्याप्तेः पूर्वमप्युदाहरणे वचनगौरवं स्यात् । अतो लाघवादुत्तरत्रैवोदाहरिष्याम इति भावः ।। ब्राह्मण इति । एतदर्थप्रतिपादेन यो ब्राह्मणायावगुरेत्तं शतेन यातयेदित्यागमेन गम्येत्यर्थः ।। कश्चिदिति । व्यभिचाराशङ्कारूपः कथमतीताद्यास्पदां व्याप्तिं गृह्णीयादित्यादिरूपश्चेत्यर्थः । आद्यस्य प्रात्यक्षिकव्याप्तिग्रह एव प्रतिबन्धकत्वात् । आगमस्यातीतानागतादिसकलगोचरत्वेन द्वितीयोऽपि नागमिकव्याप्तिग्रहप्रतिबन्धक इति भावः ।। नापीति । प्रत्यक्षानुमानाभ्यां व्याप्तिग्रह एव दृष्टान्तस्यापेक्षितत्वादिति भावः । धूमे वह्निव्याप्तेरेव यथाऽगमगम्या व्याप्त्युदाहरणत्वं न सम्भवति तथोक्तमर्वाक् ।
भावदीपः
अनुमानादिना तत्र व्याप्तिग्रह इति पक्षान्तरमाह ।। किञ्चेति ।। निश्चित इति । प्रागुक्तदिशा प्रत्यक्षेणाप्तोपदेशेन वा निश्चिते सति तस्याप्येवं व्याप्यत्वम् । पुरोवृत्तिधूमनिष्ठस्वरूपतत्सादृश्यप्रतियोगित्वेन व्यवहितधूमव्यक्त्युपस्थितौ सत्यां यद्यन्यत्र धूमः स्यात्तर्हि सोऽपि वह्निव्याप्यो धूमत्वादेतद्धूमवदित्यनुमानेन यद्यन्यत्रापि धूमः स्यात्सोऽपि वह्निव्याप्यः स्यान्न चेद्वह्निव्याप्यस्तर्ह्येतत्सदृशो न स्यात् । एतन्निष्ठसादृश्यप्रतियोगी वा न स्यात् । भवति च तथा । अतो वह्निव्याप्य इति तर्केण वा तद्ग्रह इति न काऽप्यनुपपत्तिरित्यर्थः ।। एतेनेति । विप्रकृष्टानुमितिरूपत्वेनेत्यर्थः । तर्कताण्डवे तु व्याप्तिज्ञानं यद्यन्यत्रापि धूमः स्यात्तर्हि तस्याप्येवमिति विप्रकृष्टव्याप्यांशे सम्भावनारूपम् । न निश्चयरूपम् । व्याप्त्यंशे तु निश्चयरूपमिति नृसिंहाकारमिति । पूर्ववाक्यार्थमुक्त्वैतेन सर्वत्र निश्चयरूपत्वाभावेन न सार्वज्ञप्रसङ्ग इत्यर्थ उक्तः । विस्तरस्तु खण्डनोक्तसार्वज्ञप्रसङ्गभङ्गे ध्येयः ।। एतत्सर्वमिति । लिङ्गप्रमितिव्याप्तिस्मृत्योरनुमितेहेतुत्वं भूयोदर्शनादेर्व्याप्तिधीहेतुत्वं व्याप्तिप्रकारमपेक्ष्यानुमितिजनकत्वं शक्त्यन्तरकल्पनेत्यादिकं सर्वमित्यर्थः । अतिप्रसङ्गादिति । घटज्ञानात्पटधीप्रसङ्गादित्यर्थः ।। कार्यमेवेति । अग्निज्ञानरूपमेवेत्यर्थः । तत्र दृष्टान्तो यथेति ।। प्रत्यक्षेण व्याप्तिग्रहोक्तिः ।। उत्तरत्रेति । केवलव्यतिरेक्युक्तिप्रस्तावे इत्यर्थः ।। इत्यागमगम्येति । इत्यागमाभ्यां ब्राह्मणत्वाहन्तव्यत्वयोर्गोत्वपदाऽस्प्रष्टव्यत्वयोर्व्याप्तिर्गम्येत्यर्थः ।। न चात्रेति । व्याप्तेरागमगम्यत्वविषये भूयोदर्शनादिसापेक्षत्वं शक्त्यन्तरकल्पनाऽनुमानगम्यव्याप्ताविवानवस्थानाश्वासशङ्काव्यवहिते व्याप्तिग्रहायोग इत्यादिक्षुद्रोपद्रवो नास्ति अनयोर्वाक्ययोः यो यो ब्राह्मणस्स न हन्तव्य इति तात्पर्येण ब्राह्मणसामान्यस्यैव हननप्रतिषेधेन सर्वेष्वपि हननाभावावगतेरिति भावः । इतिशब्दः प्रत्यक्षादिप्रमाणत्रयगम्यव्याप्त्युक्तिसमाप्तौ ।
श्रीविजयीन्द्रतीर्थ
असन्निकृष्टधूमादौ व्याप्तिरनुमेया सन्निकृष्टप्रत्यक्षगृहीतव्याप्तिकधूमादिवदित्याह ।। किञ्चेति । प्रतीतस्य धूमस्य सन्निकृष्टस्येति शेषः । यद्यप्यसन्निकृष्टो धूमो वह्निव्याप्यो धूमवान् सन्निकृष्टधूमवदिति व्याप्तिग्रहे धूमत्वादेः सामान्यस्याभावाद् दृष्टान्ते साधनवैकल्यं पक्षाद्यनुपस्थितेरनुमानानवतारश्च । तथाऽपि धूमत्वमात्रनिष्ठसाध्यप्रतियोगिधर्मवत्त्वस्य हेतुकरणेन साधनवैकल्यम् । धूमनिष्ठसादृश्यप्रतियोगित्वादिरूपसामान्यलक्षणाभ्युपगमाच्च न पक्षाद्यनुपस्थितिरिति मन्तव्यम् ।। एतेनेति । यद्यप्यभिमतसामान्यलक्षणापेक्षयाऽयं प्रसङ्गो दुर्वारः । तेन रूपेण सार्वज्ञप्रसङ्गस्येष्टत्वे समं समाधानम् । तथाऽपि सामान्यलक्षणायां पराभिमतायां मानाभाव इत्यत्र तात्पर्यम् ।। अनुमानगम्यां त्विति । प्रत्यक्षेतरमानगम्यामपीत्यर्थः ।। ब्राह्मणो न हन्तव्य इति । यद्ब्राह्मणहननं तदनिष्टसाधनमिति नरकसाधनत्वप्रविष्टव्याप्तिरस्मादागमादवगन्तव्येत्यर्थः ।। नापीति ।। व्याप्तेरागमेनोपस्थितौ न सहचारज्ञानापेक्षेति भावः ।
श्रीवेदेशभिक्षु
तुष्यत्विति न्यायेनाह ।। किञ्चेति । माऽस्तु प्रत्यक्षेणातीतादिधूमे व्याप्तिग्रहः । वर्तमानधूमनिष्ठव्याप्तौ प्रत्यक्षेण निश्चितायां तद्धूमदृष्टान्तेन विप्रतिपन्नो धूमोऽग्निव्याप्तो भवितुमर्हति धूमात्परिदृश्यमानधूमवदिति धूमवत्त्वादिहेतुना तत्रापि व्याप्तिग्रह इति स्वीकारे बाधकाभावात् । न चैवमनुमानगम्यां त्वित्त्युत्तरग्रन्थविरोधः । अतीतादाविव वर्तमानेऽपि लिङ्गे व्याप्तेः केवलानुमानगम्यत्वस्य तदर्थत्वादिति भावः । यद्वा यद्यतिथिरागच्छेत्तर्हि स भोजयितव्य इत्यादौ वाक्यजन्यज्ञानस्य निमित्तांशे सम्भावनारूपत्वं तस्मिन्सति नैमित्तिकं कार्यमित्यंशे तु निश्चयरूपत्वमित्येवं नरसिंहाकारत्वं तथा प्रकृतेऽपि व्याप्यंशे सम्भावनारूपं व्याप्त्यंशे तु निश्चयरूपमिति नरसिंहाकारमतीतादिलिङ्गे व्याप्तिज्ञानमित्याह ।। किञ्चेति । सर्वोपसंहारेण व्याप्तिग्रहे खण्डनोक्तदूषणं परिहरति । एतेनेति । अत्रोक्तखण्डने एवं चेत्प्रमेयत्वाभिधेयत्वयोर्व्याप्तिं गृह्णतः सार्वज्ञं स्यात् । तथा च सर्वगताशेषविशेषाणां ज्ञातत्वादयं च घटो न वेति संशयादिकं न स्यादिति । तदप्येतेनोक्तरीत्याऽतीतादिलिङ्गेऽनुमानेनैव व्याप्तिज्ञानाङ्गीकारेण नरसिंहाकारज्ञानाङ्गीकारेण वा निरस्तमित्यर्थः । येन सामान्यलक्षणयाऽशेषपदार्थान्ज्ञात्वा तत्र व्याप्तिर्गृह्यत इत्युच्यते । तं प्रतीदं त्वदीयं दूषणं नास्माकमिति भावः । ननु तथाऽपि सहकारिसामर्थ्येन वा सादृश्यरूपप्रत्यासत्त्या वा प्रत्यक्षेणैवातीतादौ व्याप्तिग्रह इति पूर्वोक्तपक्षे सार्वज्ञप्रसङ्गोऽनिवार्य इति चेन्न । सर्वं सामान्यतो यस्मात्सर्वैरेवानुभूयत इत्याचार्यैरुक्तत्वेन सामान्यतः सार्वज्ञस्येष्टत्वात् । विस्तरस्तु तर्कताण्डवे द्रष्टव्यः । एवं प्रत्यक्षगम्यां व्याप्तिमुदाहृत्येदानीमनुमानगम्या व्याप्तिः केत्यपेक्षायामाह ।। अनुमानेति । परोक्तकेवलव्यतिरेक्यनुमानदूषणावसरे व्यतिरेकव्याप्त्याऽन्वयव्याप्तिरनुमेयेति वक्ष्याम इति भावः ।। न चात्रेति । अनुमानागमगम्यव्याप्तावित्यर्थः । क्षुद्रोपद्रवो प्रत्यक्षस्य वर्तमानमात्रग्राह्यत्वात्कथमतीताद्यास्पदव्याप्तिग्राहकत्वमित्यादिरूपः । प्रत्यक्षस्य तथा नियमेऽप्यनुमानागमयोर्वतमानमात्रग्राहित्वनियमाभावादिति भावः ।। नापि दृष्टान्तापेक्षेतीति । येन तस्याप्यागमान्तरवेद्यत्वेऽनवस्थेति शङ्कावकाश इति भावः ।
अभिनवामृतम्
केषाञ्चित्प्रत्यक्षेण व्याप्तिग्रहणप्रकारमुक्त्वाऽन्येषां व्याप्तिग्रहप्रकारमाह ।। किञ्चेति ।। पूर्वेषां सर्वत्र प्रत्यक्षेणैव व्याप्तिग्रहः । एतेषां सन्निकृष्टधूमेषु प्रत्यक्षेण व्याप्तिग्रहोऽसन्निकृष्टधूमेषु विप्रकृष्टो धूमो वह्निना स्वाभाविकसम्बधवान् धूमत्वादेतद्भूमवदित्यनुमानेन व्याप्तिग्रह इति भेदः ।। शिलाशकलादाविति । शिलाशकलादौ बीजस्याङ्कुरजननेऽनुकूलां भूशक्तिमनुपलब्धामपि क्षितिसलिलादिसमुद्भूतमङ्कुरदर्शनं कल्पयतीत्यर्थः ।। अनुमानगम्यामिति । सन्निकृष्टासन्निकृष्टमात्रेऽनुमानगम्यामित्यर्थः । पूर्वत्र सन्निकृष्टेषु प्रत्यक्षेण व्याप्तिग्रहोऽसन्निकृष्टेष्वनुमानेनेत्युक्तम् । उत्तरत्र व्याप्यमात्रेऽनुमानेन व्याप्तिग्रहप्रकारो वक्ष्यतीति भेदः । न चात्र कश्चिदिति । अतीतादिविषयकत्वं कथमिति शङ्का नेत्यर्थः ।
आदर्शः
किञ्च साध्यसम्बन्धज्ञानस्यैव हेतुतामते प्रत्येकं तत्तद्य्वक्तित्वावच्छिन्ने साध्यसम्बन्धज्ञानं कारणं वा सामान्यरूपावच्छिन्ने वा सामान्यरूपेणापि सर्वहेतुव्यक्तिविशेषकं वा व्याप्तिज्ञानं कारणम् । नाद्यः । व्यक्त्यन्तरे सामानाधिकरण्यज्ञानानामनन्तानां हेतुत्वे मानाभावात् । कदाचित्कतिपयव्यक्त्यनुपस्थितिकालेऽनुमित्यभावप्रसङ्गाच्च । प्रकृतसाध्यसन्देहदशायां प्रकृतहेतौ साध्यसम्बन्धग्रहासम्भवश्च । सम्भवे वा सिद्धसाधनताप्रसङ्गश्च । न च पर्वतत्वाद्यवच्छिन्ने वह्नित्वावच्छिन्नं न सिद्धमिति वाच्यम् । तत्रापि निमित्ताभावात् । पर्वतत्वावच्छिन्नस्य धूमाधिकरणत्वं गृहीतवतः पुरुषस्य तद्धूमाधिकरणे पर्वतत्वग्रहस्यावश्यकत्वेन तत्रैव वह्निसम्बन्धस्य ज्ञानात् । अत एव वर्ण्यसमाख्याजातिलक्षणस्य परसिद्धस्यानुवादकप्रमाणलक्षणटीकायां पक्षवृत्तिहेतोर्व्याप्तिग्राहकमानाविषयत्वं धर्म इत्युक्तम् । न द्वितीयः । व्यभिचारग्रहाप्रतिबद्ध्यत्वप्रसङ्गात् । मणिमन्त्रादिन्यायेन पृथक् प्रतिबन्धकत्वाङ्गीकारे गौरवात् । अत एव न तृतीयः । समानविशेष्यकसिद्धेः । प्रतिबन्धकतामते सिद्धसाधनत्वाच्च । तस्मादव्यभिचरितसाध्यसम्बधो व्याप्तिः । तज्ज्ञानं चोक्तरीत्या चक्षुरादिना व्यभिचाराभावज्ञानसहकृतेनाव्यभिचारांशस्य लौकिकसन्निकर्षेण भानासम्भवेऽपि ज्ञानलक्षणसन्निकर्षेण भानसम्भवः । उक्तव्याप्तौ साध्याभावसंसर्गवत्सजातीयान्यत्वस्य घटकत्वेनैतद्धूमसजातीयेषु तत्सजातीयत्वशङ्काया उपाध्यभावादिना निरसनेन जायमानं व्याप्तिज्ञानं धूमत्वेन सामान्यरूपेणातीतादिधूमविषयकमपि भवति । स्मरणे तु यथासम्भवं सामान्यरूपेण व्यक्त्यवगाहीति द्रष्टव्यम् । यद्वा वर्तमानधूममात्रावगाह्येव भवतु व्याप्तिनिश्चयः । तथाऽपि तादृशव्याप्तिघटकसादृश्यप्रतियोगित्वज्ञानं हेतावपेक्षितम् । तादृशप्रतियोगिभूतहेतुज्ञानादेवानुमितिः । इत्थं च व्याप्तिज्ञानस्यातीताद्यास्पदत्वं नास्त्येव ।
न चैवं तर्हि धूमान्तरव्यक्तौ कदाचिद्य्वाप्तिसंशयोऽपि स्यादिति वाच्यम् । धूमत्वादिसामान्यरूपेण व्याप्तिग्रहस्यैव सामान्यरूपवत्तया ज्ञातव्यक्तौ तादृशसंशयविरोधित्वाङ्गीकारात् । यदि देशान्तरेऽपि धूमः सोऽपि धूमत्वरूपसामान्यधर्मेण ज्ञातो भवत्येवेति न तत्र व्याप्तिसंशयः । प्रकृतहेतौ व्याप्तिग्रहस्यानपेक्षितत्वे कथादावुपन्यस्तहेतोर्व्याप्तौ प्रमाणाकाङ्क्षाया अनुत्थानप्रसङ्गेन तत्कथनादेरसङ्गतत्वप्रसङ्गः । तदपेक्षायां तु न वर्तमानमात्रे व्याप्तिग्रहोपपादनं सम्भवतीति चेत् । तत्र हेतुतावच्छेदकाभिव्यङ्ग्यसादृश्ये साध्याभावसम्भन्धवदप्रतियोगिकत्वसाध्यसम्बन्धवदनुयोगिकत्वयोरेव प्रमाणादेरुपन्यासादसङ्गत्यादेरभावात् । अत एवैतत्सजातीय एव दृष्टान्तप्रदर्शनेन साध्यसामानाधिकरण्यं क्रियत इत्याशयेनाह ।। किञ्चेति । एवं धूमनिष्ठसादृश्यप्रतियोगित्वात् । इति हेतौ । व्याप्तिमत्प्रतियोगिकसादृश्यज्ञानस्यैवानुमितिहेतुत्वात्प्रकृतहेतौ व्याप्तिग्रहस्यानपेक्षितत्वात् । एवं व्याप्तिग्रह उक्तप्रकारेण सन्निकृष्टधूमेष्वेव व्याप्तिग्रहः । यद्वा । साध्यसम्बन्धवदनुयोगिकसाध्याभावसम्भन्धवदप्रतियोगिकसादृश्यप्रतियोगित्वं व्याप्तिः । तथा च सन्निकृष्टधूमेष्वनुयोगित्वरूपा व्याप्तिरुक्त प्रकारेण गृह्यते । तदनन्तरं देशान्तरे धूमदर्शनानन्तरं तत्प्रतियोगित्वरूपा व्याप्तिश्चक्षुषैव गृह्यते । पूर्वव्याप्तिस्मरणस्यानुमितिकारणत्वोक्तिस्त्वनुयोगित्वरूपव्याप्त्यभिप्रायेणेत्याशयेनाह ।। किञ्चेति ।। तस्याप्येवमिति । एतद्धूमसदृशत्वहेतोः । एवं व्याप्तिग्रह उक्तप्रतियोगित्वरूपव्याप्तिग्रहः ।। एतेनेति । सामान्यरूपेणैव व्याप्तिग्रहस्योपपादितत्वेनेत्यर्थः । संशयादिविरोधिविशेषशक्तिमज्ज्ञानस्यैव सार्वज्ञप्रयोजकत्वेन तादृशज्ञानानङ्गीकारेण न सार्वज्ञस्य प्रसङ्ग इति भावः ।
श्रीविट्टलभट्ट
तस्याप्येवमित्येवमिति । तस्यापि देशान्तरस्थधूमस्याप्ययमेवमग्निसम्बन्धः स्वाभाविक इत्यनेन प्रकारेणेत्यर्थः । काऽत्रानुपपत्तिरिति किंशब्द आक्षेपे । अत्र प्रत्यक्षस्यातीताद्यव्याप्तिनिश्चायकत्व इत्यर्थः । एतादृशव्याप्तिज्ञानस्यातीतानागतविप्रकृष्टव्याप्यांशे सम्भावनारूपत्वानिश्चयहेतुं प्रत्यक्षस्य वर्तमानसन्निकृष्टमात्रग्राहित्वेऽपि संशयोत्पादने प्रत्यक्षस्य सन्निकर्षानपेक्षत्वान्नोक्तदोष इति भावः ।। एतेनेति । व्याप्तिज्ञानस्यातीतानागतविप्रकृष्टव्याप्यांशे निश्चयत्वाभावेनेत्यर्थः । ननु व्याप्यांशे सन्देहरूपस्य तत्सम्बन्धरूपव्याप्त्यंशे निश्चयरूपत्वमनुपपन्नमिति चेन्न । यद्यतिथिरागच्छेत्स भोजयितव्यो यदि प्रतिहर्ताऽयच्छेत्सर्ववेदसं दध्यादित्यादि व्याप्तिजन्यज्ञानस्य निमित्तांशे सम्भावनारूपत्वेऽपि तस्मिन्सति नैमित्तिकं कार्यमित्यंशे निश्चयरूपत्वोपपत्तेः ।। एतत्सर्वमिति । व्याप्त्यादिप्रमितेरनुमितिहेतुत्वं भूयोदर्शनादेश्चानुमितिप्रयोजकत्वमित्येतत्सर्वमित्यर्थः ।। कार्येति । अनुमितिरूपकार्यस्य दर्शनादेवेत्यर्थः । एवेत्यनेनास्य कल्पनस्य निमित्तान्तरं नान्वेषणीयमिति सूचयति ।। संवादित्वादिति । बाधकाभावरूपसंवादित्वादित्यर्थः ।। अतिप्रसङ्गादिति । घटपटादिज्ञानस्य वह्न्यनुमितिहेत्वापत्तिरूपातिप्रसङ्गादित्यर्थः ।
ननु तथाऽपि व्याप्तिसमुचितदेशवृत्तित्वतया धूमप्रमितिर्वह्न्यनुमितौ निमित्तमित्यत्र किमायातमित्यत आह ।। न च व्याप्तिप्रमामिति । व्याप्तितया समुचितदेशवृत्तित्वतया च धूमप्रमितिं परित्यज्य निमित्तान्तरं न चास्तीति हेतोः कार्यमनुमितिरूपं कार्यं ज्ञातमेतद्य्वाप्तिसमुचितदेशत्ववत्तया धूमज्ञानमनुमितिकारणं भूयोदर्शनादिसहकृतप्रत्यक्षं व्याप्तिग्राहकमित्येतत्सर्वं कल्पयतीत्यर्थः । बीजस्य शक्तिं कमलबीजादेरङ्कुरजननानुकूलसामर्थ्यमित्यर्थः ।। अनुमानगम्यामिति । उत्तरत्र ततोऽनुमानेन तां साधयितुं व्यतिरेकव्याप्तिरुपन्यस्यत इत्यत्रानुमानज्ञेयां व्याप्तिं च वक्ष्याम इत्यर्थः । न च तस्यापीति । व्याप्तिग्राहकस्याप्यनुमानस्य व्याप्त्यपेक्षया व्याप्तिज्ञानापेक्षयेत्यर्थः ।। अन्तत इति । दूरे गत्वा प्रत्यक्षागमयोरन्यतरस्य व्याप्तिज्ञाननिमित्तत्वादित्यर्थः ।। इत्यागमगम्येति । इत्यागमाभ्यां ज्ञेया व्याप्तिरित्यर्थः । आगमगम्येति शेषः । ब्राह्मणत्वादिपुरस्कारेण हननाद्यकर्तव्यताबोधकत्वात्तयोर्व्याप्तिग्राहकत्वमिति ज्ञेयम् । यद्वा ब्राह्मणो ब्राह्मणत्वावच्छिन्नो न हन्तव्यः । गौर्गोत्वावच्छिन्ना न पदा स्पृश्येति व्याप्तिरागमस्येत्यर्थः ।। न चेति । अत्रागमस्य व्याप्तिग्राहकत्वे न कश्चिद्वर्तमानमात्रग्राहित्वादिरूपः क्षुद्रोपद्रवः क्षुद्रबाधको न चास्तीत्यर्थः । न च ब्राह्मणत्वावच्छिन्नो न हन्तव्य इत्यादेरर्थस्य दृष्टान्ताभावात्कथमागमेन व्याप्तिग्रहो भविष्यतीत्यत आह ।। नापीति । अत्रेत्यनुवर्तते । आगमस्य व्याप्तिग्राहकत्वे दृष्टान्तापेक्षा निदर्शनापेक्षा नास्तीत्यर्थः । आगमान्तरस्येवास्याप्यागमस्य व्याप्तिरूपस्वार्थबोधकत्वोपपत्तेर्दृष्टान्तो नापेक्षित इति भावः ।