प्रमाणपद्धतिः
व्याप्तिज्ञानतत्स्मरणसहितं लिङ्गस्य सम्यग्ज्ञानमनुमानम्
(३) प्रमाणपद्धतिः
ननु पर्वते वर्तमानो धूमो गृहान्तर्वर्तिनः पुरुषस्य किमित्यग्निप्रमां न जनयति । उच्यते । न प्रत्यक्षवदनुमानमज्ञातकरणम् । किन्तु सम्यग्ज्ञातमेव । तथाऽपि नारिकेलद्वीपवासिनो देशान्तरं गतस्य धूमप्रमितावपि कस्मान्नाग्निप्रमोदयः । उच्यते । तस्य धूमस्वरूपज्ञानेऽप्यग्निव्याप्ततया तज्ज्ञानाभावात् । ज्ञातव्याप्तिकस्यापि कुतः कदाचिदग्निप्रमाऽनुत्पत्तिः । व्याप्तिस्मरणाभावात् । व्याप्तिस्मरणवतः पर्वते धूमं दृष्टवतोऽपि कथं पर्वतादन्यत्राग्निप्रमाऽनुद्भवः । व्याप्तिप्रकारमपेक्ष्य लिङ्गज्ञानस्य लिङ्गिज्ञानजनकत्वनियमात् । तथा हि । कयोश्चित्समानदेशकालयोर्व्याप्तिः । यथा रसस्य रूपेण । कयोश्चित्समानदेशत्वेऽपि भिन्नकालयोः । यथा धूमस्याग्निना । कयोश्चित्समानकालत्वेऽपि भिन्नदेशयोः । यथा कृत्तिकोदयस्य रोहिण्युदयासत्त्या । कयोश्चिद्भिन्नदेशकालयोः । यथाऽधोदेशे नदीपूरस्योर्ध्वदेशवृष्ट्या । कस्यचित्कादाचित्कस्य समानदेशत्वेऽपि सार्वकालीनेन । यथा पतनस्य गुरुत्वेन । कस्यचित्समानदेशत्वेऽपि सार्वकालिकस्य कादाचित् केन । यथा शरीरत्वस्य विनाशेन । कस्यचित्प्रदेशवर्तिनो व्याप्यवर्तिना । यथा संयोगस्य द्रव्यत्वेन । कस्यचिद्य्वाप्यवर्तिनः प्रदेशवर्तिना । यथा रूपस्य संयोगेन । कयोश्चिदेकावयविवर्तिनोरप्यवयवभेदेन । यथा तुलोन्नमनावनमनयोरित्यादि । तथा च व्याप्तिज्ञानतत्स्मरणसहितं लिङ्गस्य सम्यग्ज्ञानं सम्यग्ज्ञातं वा लिङ्गं व्याप्तिप्रकारानुसारेण समुचितदेशादौ लिङ्गिप्रमां जनयदनुमानमित्युक्तं भवति । अत एव लिङ्गिस्वरूपस्य ज्ञातत्वेऽपि देशविशेषादिसंसृष्टतया ज्ञापकत्वान्नानुमानस्य वैयर्थ्यम् । ततश्चानुमानस्य द्वयं सामर्थ्यम् । व्याप्तिः समुचितदेशादौ सिद्धिश्चेति । न तु पक्षधर्मतानियमः ।
जयतीर्थविजय
स्वरूपसत एव व्याप्यधर्मस्य व्यापकप्रमितिसाधनत्वं सिद्धान्तिनोऽभिमतमिति भ्रमन् शङ्कते ।। नन्विति ।। तथाऽपीति । ज्ञातस्य व्यापकप्रमितिसाधनत्वपक्षेऽपीत्यर्थः ।। नारिकेलद्वीपवासिन इति । धूमरहितदेशनिवासिमात्रोपलक्षणमिदम् । कथं तर्हि तादृशपुरुषस्य जीवनमिति शङ्कानिरास उपलक्षणप्रयोजनम् । व्याप्तिप्रकारभेदान्वक्तुं प्रतिजानीते ।। तथा हीति ।। यथा कृत्तिकेति । कृत्तिकोदयस्य रोहिण्युदयेन समानकालत्वाभावादासत्तिग्रहणम् । आसत्तिर्नाम सन्निधिः। अनुमानलक्षणमुपसंहरति ।। तथा चेति । यदर्थं व्याप्तिप्रकारो निरूपितस्तदाह ।। व्याप्तिप्रकारेति । अत्र चार्वाकाः प्रत्यातिष्ठन्ते । धूमवत्त्वरूपं लिङ्गं वह्निमत्त्वरूपलिङ्गिनं साधयतीत्येतदयुक्तम् । विकल्पासहत्वात् । तथा हि । किमत्र पर्वतीयोऽग्निः साध्यः किंवा वह्निसामान्यमाहोस्वित्तार्णत्वपार्णत्वादिविशिष्टः । नाद्यः । पर्वतनिष्ठेनाग्निना धूमस्य क्वचिदपि साहचर्यादर्शनेन व्याप्तेर्दुर्गमत्वात् । न द्वितीयः । वह्निसामान्यस्य सिद्धत्वेन सिद्धसाधनात् । न तृतीयः । तार्णादीनामनन्तत्वेन तैः साकं धूमस्य व्याप्तिग्रहणानुपपत्तेः । तदुक्तमभियुक्तैः । विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुत इति । तद्वतोऽनुपपन्नत्वादित्यस्य तार्णत्वादिविशिष्टस्यानन्तत्वेन तद्विशिष्टवह्निना धूमे व्याप्तिग्रहणस्यानुपपन्नत्वादित्यर्थः । तस्माल्लिङ्गिप्रमासाधनत्वानुपपत्तेरनुमानं निष्फलमिति । तदेतदपाकरोति ।। अत एवेति । उक्तचोद्यं सूचयति ।। लिङ्गिस्वरूपस्य ज्ञातत्वेऽपीति । धूमाधिकरणावच्छेदेन सामान्येनेति शेषः । देशविशेषादिसंसृष्टतयेति । पर्वतादिदेशविशेषेत्यर्थः । अयं भावः । आद्यपक्ष एव स्वीक्रियते । न च साध्यविशेषेण साकं हेतोर्व्याप्तेर्दुर्ग्रहत्वेन तत्सिद्ध्यनुपपत्तिः । साध्यसामान्येन व्याप्ततया ज्ञातस्य लिङ्गस्येव समुचितदेशवृत्तिताज्ञानरूपसहकारिबलेन पर्वतादिदेशविशेषसंसृष्टतया साध्यानुमापकत्वसम्भवादिति उक्तमेवार्थं प्रपञ्चयितुमनुमानसामर्थ्यं विभजते ।। ततश्चेति । नन्वनुमानस्य त्रीणि सामर्थ्यानि । व्याप्तिः समुचितदेशे सिद्धिः पक्षधर्मता चेति । तथा च कथं द्वैविध्यमित्यत आह ।। न त्विति । पक्षधर्मताया अधोदेशनदीपूरादावभावेनासार्वत्रिकत्वादिति भावः । न तु पक्षधर्मतेत्येव वाच्ये नियम इति निर्दिशता क्वाचित्कापि न पक्षधर्मतात्वेन रूपेणोपयुज्यते । किन्तु समुचितदेशवृत्तितारूपेण । पक्षस्यापि समुचितदेश एवान्तर्भावात् । क्वचित्समुचितदेशवृत्तित्वं सामर्थ्यं क्वचित्पक्षधर्मतेत्यननुगतसामर्थ्यद्वयकल्पने गौरवादिति सूचितं भवति ।
भावदीपः
प्रमितिसाधनमित्युक्त्या यथार्थज्ञानसाधनत्वेनानुप्रमाणान्तर्गतिः सूचिता । व्याप्यस्य व्यापकप्रमितिसाधनत्वमसिद्धमिति भावेनाशङ्क्य व्याप्तिस्मरणं व्याप्यज्ञानं वाऽनुमितिसामग्रीत्याह ।। नन्वित्यादिना व्याप्तिस्मरणाभावादित्यन्तेन । उक्तसामग्रया अप्यनुमितिसाधनत्वाभावमाशङ्क्य व्याप्तिस्मृतिसापेक्षत्वमिव व्याप्तिप्रकारसापेक्षत्वमपि व्याप्यज्ञानस्य लिङ्गिज्ञानजनने सामग्रीति परिहरति ।। व्याप्तिप्रकारमिति । व्याप्तिप्रकारं प्रतिज्ञापूर्वं नवधा दर्शयति ।। तथा हीत्यादिनेत्यादीत्यन्तेन ।। रसस्य रूपेणेति । यत्र रसस्तत्र रूपं यदा रसस्तदा रूपमिति च पृथिवीजलयोर्व्याप्तिसत्त्वादिति भावः ।। यथा धूमस्येति । यत्र धूमस्तत्राग्निरितिवन्न समानकालत्वं कार्यकारणभावापन्नत्वेन धूमाग्न्योः पूर्वापरकालत्वनियमादिति भावः । रोहिण्युदयासत्त्या रोहिण्युदयसान्निध्येनेत्यर्थः ।। शरीरस्य त्वविनाशेनेति । यच्छरीरंतद्विनाशीति व्याप्तेरिति भावः । संयोगस्य द्रव्यत्वेनेति । यत्र संयोगस्तत्र द्रव्यत्वमिति व्याप्तेरिति भावः ।। रूपस्य संयोगेनेति । यत्र रूपं तत्र संयोग इति पृथिव्यादित्रिषु व्याप्तेरिति भावः ।। एकावयवीति । तुलारूपैकावयवीत्यर्थः । इत्यादीत्यादिपदेन भिन्नदेशयोः समानकालयोर्व्याप्यवर्तिनोः पक्षिगमनतच्छायागमनयोर्व्याप्तिरित्यादेर्ग्रहः । ततश्च किं प्रकृत इत्यत आह ।। तथा चेति । व्याप्तिप्रकारस्यानेकविधत्वे सतीत्यर्थः । समुचितदेशादौ लिङ्गिप्रमां जनयदिति । एवं च धूमस्य स्वसमानदेशस्थेन वह्निना व्याप्तिरिति स्वसमानदेश एव लिङ्गिप्रमाजनकत्वं न पर्वतादन्यत्रेति भावः । व्याप्तिप्रकारस्यानेकविधत्वोक्त्या समानाधिकरणयोरेव व्याप्तिरिति तार्किकमतं निरस्तं ध्येयम् । ननु व्याप्तिग्रहदशायामेव वह्न्यादिसाध्यस्य ज्ञातत्वात्किमनुमानेनेत्यत आह ।। अत एवेति । समुचितदेशे लिङ्गिप्रमाजनकत्वादेवेत्यर्थः ।। ततश्चेति । लिङ्गस्य व्याप्तिप्रकारस्योक्तत्वादेवेति वाऽर्थः ।
श्रीविजयीन्द्रतीर्थ
ननु व्यवहितधूमेऽननुमानरूपे निर्दोषोपपत्तित्वसत्त्वादव्याप्तितादवस्थ्यमित्याह ।। नन्विति ।। सम्यग्ज्ञातमेवेति । तथा चाज्ञातत्वमप्युपपत्तिदोष इति भावः । एवमग्रेऽपि तथाऽज्ञातत्वं तद्दोष एवेति मन्तव्यम् ।। व्याप्तिप्रकारमपेक्ष्येति । पक्षनिरूपितव्याप्तिप्रविष्टसम्बन्धवत्तया ज्ञातस्येत्यर्थः । व्याप्तिप्रविष्टसम्बन्धमेवाह ।। तथा हीत्यादिना ।। अधोदेशे नदी पूरस्येति । नदीपूरासमानाधिकरणत्वनिरूपकदेशत्वं वृष्टिसमानाधिकरणोर्ध्वदेशत्वनिरूपकदेशत्वं व्याप्यव्यापकयोः परस्पराधिकरणेन सम्बन्ध इत्यर्थः ।। लिङ्गस्य सम्यग्ज्ञानमिति । व्याप्तिप्रविष्टसम्बन्धवत्तया व्याप्यतावच्छेदकेन चेत्यर्थः ।। सम्बन्धान्तरेण व्यापकसत्त्वादनुमितेः प्रमात्वेऽपि नोपपत्तेः । प्रमाऽनुमानमिति करणत्वमत आह ।। व्याप्तिप्रकारानुसारेणेति । व्याप्तिप्रविष्टसम्बन्धानुसारेणेत्यर्थः । अत एव व्याप्तिप्रविष्टसम्बन्धेन पक्षे व्यापकमनुमितिविषयोऽत एव व्यापकस्य क्वचिज्ज्ञाने सम्बन्धान्तरेण पक्षे वा ज्ञानेन सिद्धसाधनमित्याह ।। अत एवेति ।। सिद्धश्चेति । सत्तेत्यर्थः । न तु पक्षधर्मतेति ।
ननु हेतौ पक्षनिरूपितव्याप्तिप्रविष्टसम्बन्धवत्त्वस्यावश्यवाच्यत्वे पक्षे व्याप्तिप्रविष्टसम्बन्धेन हेतुसत्त्वमेव सामर्थ्यमस्तु । कृतं सम्बन्धपर्यन्तानुधावनेन । न च सम्बन्धस्य तवापि प्रवेशान्न गौरवमिति वाच्यम् । सम्बन्धवत्त्वमित्यत्र तवाधिकस्य सम्बन्धसम्बन्धस्य प्रवेशादिति । मैवम् । एतस्य पक्षधर्मापक्षधर्मोभयसमुचितदेशवृत्तिहेतुसमानाधिकरणत्वेन सामान्यतया लघुत्वात् । न च तत्र शरीरलाघवम् । तदपेक्षया सामान्याभाववत्त्वस्यादरणीयत्वात् । अत एव व्याप्तिस्मृतिप्रकारेण समुचितदेशवृत्तित्वज्ञानं कारणमित्यपि सङ्गच्छते । अन्यथा व्याप्यत्वप्रकारकसमुचितदेशवृत्तित्वज्ञानस्यैव जनकतया व्याप्तिस्मरणस्य परामर्शेनान्यथासिद्धस्य साहित्यापवर्गानौचित्यात् । व्याप्यतावच्छेदकप्रकारकज्ञानत्वस्यावच्छेदकप्रवेशेन गुरुत्वात् । अत एव यत्नत्वं जातिरूपतया लघुशरीरं परिहृत्योपाधितया गुरुशरीरमपि व्यापारत्वमेवाख्यातवाच्यतावच्छेदकमिति भाट्टाः । भवतु वा शरीरलाघवम् । तथाऽपि हेतौ तादृशसम्बन्धज्ञानस्यैव कारणत्वम् । व्याप्तिप्रविष्टसम्बन्धेन नदीपूरस्योर्ध्वदेशे ज्ञानाभावात् । तथा सति लोहितस्फटिक इतिवदूर्ध्वदेशो नदीपूरवानिति प्रतीत्यापत्तेरिति दिक् ।
श्रीवेदेशभिक्षु
ननु व्याप्यो धूमो व्यापकप्रमितिं जनयन्ननुमानं चेत् व्यवहितधूमोऽप्यग्निप्रमां जनयेत् । न हि जनयति । अनुभवविरोधात् । तथा चानुमानेऽपि तस्मिन्निर्दोषोपपत्तित्वसत्त्वादतिव्याप्तिरित्याशङ्कते । नन्विति । व्याप्योऽपि धूमो न सत्तामात्रेणेन्द्रियवत्प्रमाकरणं किन्तु प्रमित एव । तथा च तत्राज्ञातत्वरूपदोषस्यैव सत्त्वान्नातिव्याप्तिरित्याह ।। उच्यत इत्यादिना । एवमग्रेऽपि तथा तथा ज्ञातव्यम् । न दोष इति मन्तव्यम् । नन्वेवं यदुक्तरूपं लिङ्गपर्यन्त इवान्यत्राप्यग्निप्रमापकतां न जनयेत् । न हि कुठारो देशविशेष एव हेतुरित्याशङ्कते ।। व्याप्तीति । समुचितदेशे व्याप्तिप्रविष्टसम्बन्धवत्तया ज्ञातस्यैव लिङ्गस्यानुमानत्वेन फलबलेन कल्पनात् । न हि सर्वकरणैरेकविधैर्भाव्यमिति नियमोऽस्ति । अतिप्रसङ्गात् । अतो नोक्तदोष इति परिहरति ।। व्याप्तीति । व्याप्तिप्रकारं व्याप्तिप्रविष्टसम्बन्धम् । एवमग्रेऽपि । व्याप्तिप्रविष्टसम्बन्धमेवाह ।। तथा हीत्यादिना । एवमनुमानस्यानुमितिजनकत्वप्रकारं निरूप्योक्तार्थं सङ्गृह्योपसंहरति ।। तथा चेति ।। सम्यग्ज्ञातं वा लिङ्गमिति । वर्तमानलिङ्गाभिप्रायेण । वस्तुतस्त्वतीतानागतादावव्यभिचाराल्लिङ्गज्ञानमेव सर्वत्र मानमिति द्रष्टव्यम् । समुचितदेशादावित्यस्यावश्यकत्वे उपष्टम्भकमाह ।। अत एवेति । एवं सति परोक्षधर्मताऽऽवश्यकतेत्याह ।। ततश्चेति । नन्वधोदेशगतनदीपूरकत्वादित्यादिप्रयोगेण सर्वत्र पक्षधर्मता सम्पादयितुं शक्या । अतः कथं तदनियम इति चेत् । किमेवं प्रयोगविपरिणामो लौकिकरीतिमाश्रित्योत स्वक्रियासंरक्षणार्थः । नाद्यः । लौकिका ह्यूर्ध्वदेशे वृष्टिः कुत इति पृष्टा अधोदेशे नदीपूरादित्येव वदन्ति । न द्वितीयः । सिद्धे प्रयोगपरिणामे व्यभिचाराभावेन प्रक्रियाप्रामाण्यसिद्धिस्तत्सिद्धौ च प्रयोगपरिणामसिद्धिरित्यन्योन्याश्रयात् ।
अभिनवामृतम्
।। नन्विति । यदि व्याप्यो धर्मो व्यापकप्रमितिजनकः स्यात्तर्हि गृहान्तर्वर्तिनोऽप्यग्निप्रमाजनकः स्यात् । न चासौ तथेति व्यापकप्रमाजनक एव न भवतीति भावः ।। कायोश्चित्समानदेशकालयोरिति । कयोश्चित्समानदेशकालयोर्मध्ये एकस्यापरेण व्याप्तिरित्यर्थः । एतेन व्याप्तेर्हेतुमात्रनिष्ठत्वेनोभयनिष्ठत्वाभावात्कयोश्चित्समानदेशकालयोरित्ययुक्तमिति परास्तम् । एवमुत्तरत्रापि द्रष्टव्यम् ।। रोहिण्युदयासत्त्येति । रोहिण्युदयासत्तिर्नाम रोहिण्युदयसामग्रीसम्मेलनम् । एतेनोदयासत्तिशब्दस्योदयाव्यवहितपूर्वकालवाचित्वेन तस्य सार्वत्रिकेन भिन्नदेशत्वानुपपत्तिरिति परास्तम् ।। सार्वकालीनेनेति । अत्र गुरुत्वस्य सार्वकालीनत्वं नाम यावद्वस्तुभावित्वं विवक्षितमिति बोध्यम् ।। विनाशेनेति । अत्र विनाशशब्देन विनश्यदवस्थैवोच्यते । एतेन विनाशस्य शरीरनिष्ठत्वाभावाच्छरीरत्वेन समानदेशत्वाभिधानमयुक्तमिति परास्तम् ।। तुलोन्नमनावनमनयोरिति । अत्र समव्याप्तिसद्भावात्तुलोन्नमनावनमनयोरिति द्विवचनम् । अन्यथा प्राग्वदुन्नमनस्यावनमनेनेति वाऽवनमनस्योन्नमनेनेति वाऽवक्ष्यत् ।। सम्यग्ज्ञातं वा लिङ्गमिति । नन्वतीतानागतलिङ्गकानुमितौ लिङ्गस्यासत्त्वेन कारणत्वायोगात् । सम्यग्ज्ञातं लिङ्गमनुमानमित्ययुक्तमिति चेन्न । लिङ्गसत्तादशायां व्यापारोऽपि लिङ्गपरामर्शः । लिङ्गाभावदशायां तत्प्रतिनिधिरित्यङ्गीकारात् । न हि प्रतिनिधिकृतं स्वकृतं नेति वक्तुं शक्यते । अन्यथा विशेषकृतस्वव्यवहारादेर्भेदकार्यत्वं न स्यात् । न स्याच्च पूतिकाकृतस्य सोमकार्यत्वम् ।। द्वयं सामर्थ्यमिति । सामर्थ्यापादकमङ्गमिति यावत् ।
आदर्शः
।। व्याप्तिप्रकारमपेक्ष्येति । व्याप्तेः प्रकारस्तद्घटकपदार्थानां विशेषणविशेष्यभावः । अपेक्षणं च ज्ञानमेव । उत्तरकालीनत्वं ल्यबर्थः । लिङ्गिज्ञानजनकतायामन्वयः । व्याप्तिशरीरे स्वजातीयहेत्वधिकरणे येन सम्बन्धेन साध्यसजातीयाधिकरणं निविष्टं तत्सजातीयसंसर्गप्रतियोग्यधिकरणे लिङ्गिप्रमां जनयतीत्यर्थः ।। धूमस्याग्निनेति । वन्ह्यधिकरणे देशोर्ध्वभागवृत्तित्वमेव । तत्राव्याप्तिरिति व्याप्तिशरीरघटकयोरूर्ध्वाधोदेशयोर्भिन्नत्वादिति भावः । व्याप्तिज्ञानतत्स्मरणेति प्रात्यक्षिकस्थलाभिप्रायेण । अथवा स्मरणपदं ज्ञानसामान्यार्थकम् । व्याप्तेः प्रकारो विशेषणविशेष्यभावः । तस्यानुसारस्तत्सदृशविशेषणविशेष्यभावः । तृतीयार्थो वैशिष्ट्यम् । व्याप्तिशरीरे हेत्वधिकरणनिविष्टसम्बन्धांशे यादृशसम्बन्धेन यादृशसजातीयस्य विशेषणत्वं देशविशेषस्य विशेष्यत्वं तत्सजातीयविशेष्यता योग्यताविशिष्टत्वमित्यर्थः । समुचितदेशादावित्यत्रान्वयः । समुचितत्वं च व्याप्तिरूपो यः सम्बन्ध आधेयतारूपस्तन्निरूपकाधिकरणसजातीयत्वम् । आदिपदेन तादृशोर्ध्वदेशादिर्ग्राह्यः । अनुमानस्य लिङ्गस्य । समुचितदेशादौ सिद्धिश्चेति । स्वनिष्ठव्याप्तिरूपाधेयतानिरूपकीभूताधिकरणभूते देशे इत्यर्थः ।
वाक्यार्थमञ्जरी
।। यथा तुलेति । यदैकस्मिंस्तुलावयवे उन्नमनमूर्ध्वगमनं तदा तदवयवोत्तरेऽवनमनमधो गमनमित्यर्थः ।
श्रीविट्टलभट्ट
।। व्यापकमिति । साध्यत्वाद्य्वाप्यमनुमानमित्युक्तम् । तर्ह्यप्रमितधूमस्य पुरुषस्य धूमेनाग्निप्रमा कस्मान्नोत्पद्यत इति पृच्छति ।। गृहान्तर्वर्तिन इति । एतदप्रमितधूमपुरुषस्योपलक्षणम् । किमिति कस्मादित्यर्थः ।। सम्यग्ज्ञातमेवेति । अन्यथाज्ञातस्याग्निप्रमित्यसाधनत्वात्सम्यगिति विशेषणम् ।। तथाऽपीति । सम्यग्ज्ञातस्यैव लिङ्गस्य व्यापकमिति साधनत्वेन गृहान्तर्वर्तिनः पुरुषस्य पर्वते सताऽपि धूमेनाग्निप्रमित्यनुदयेऽपीत्यर्थः । नारीकेलद्वीपवासिन इत्येतदज्ञातधूमाग्निव्याप्तिपुरुषपरम् ।। कदाचिदिति । व्याप्तिस्मरणाभावदशायामित्यर्थः ।। व्याप्तिस्मरणवतो धूमं दृष्टवतोऽपीति । पर्वते धूमं व्याप्यतया दृष्टवत इत्यर्थः । अन्यथा न खलु विशकलिते व्याप्तिस्मृतिपक्षधर्मताज्ञाने भावयतोऽनुमितिमिति सुधावचनविरोधापातात् । विशकलिताधिकणभेदेन व्याप्तिपक्षधर्मविषय इत्यर्थः । स्मृतिव्याप्तिश्च व्याप्यं धूमं प्रतिजानामि । ततोऽनुमितिरिति प्रमालक्षणटीकावचनविरोधप्रसङ्गाच्च । कथं पर्वतादन्यत्राग्निप्रमानुद्भव इति । कथं कस्मादित्यर्थः । न चान्यत्र धूमप्रमितिभावादेवाग्निप्रमानुदय इति वाच्यम् । साध्यप्रमितिः पक्ष एव प्रवर्तते । प्रदेशविशेषनियमस्याकस्मिकत्वापातात् । न च यदवच्छिन्ने लिङ्गप्रमितिस्तदवच्छिन्ने देशे साध्यप्रमितिनियम इति नोक्तातिप्रसङ्ग इति वाच्यम् । व्याप्यवृत्तिद्रव्यत्त्वादिनाऽव्याप्यवृत्तिसंयोगादेरव्याप्यवृत्तिसंयोगादिना व्याप्यवृत्तिद्रव्यत्वादेरवयवान्तर्वृत्तितुलोन्नमनेनावयवान्तरेऽवनमस्य चासिद्ध्यापातात् । तथा च पक्षधर्मताप्रकारानुसारेणानुमानस्यानुमितिजनकत्वनियमायोगादनुमिते देशे नियमेन किञ्चिन्नियामकमिति प्रष्टुराशय इति बोध्यम् ।
व्याप्तिप्रकारमपेक्ष्येति । अविनाभावरूपाया व्याप्तेः स्वभावमनुसृत्येत्यर्थः । अत एव सुधायां तथा साध्यनियतदेशता कथं स्यादित्याशङ्क्य व्याप्तिस्वभावादिति ब्रूम इत्युक्तम् । इदमुक्तं भवति । केनचिद्विना कस्यचिदवस्थानं यत्तस्य तेनास्याव्याप्तिः । सा च यदि यस्य लिङ्गस्य व्यधिकरणेनैव साध्येन विनाऽवस्थानरूपा तर्हि तत्स्वभावानुसारेण तस्य लिङ्गस्य स्वानधिकरण एव पक्षे साध्यानुमितिहेतुत्वं सा यदि यस्य लिङ्गस्य स्वाधिकरणेनैव साध्येन विनाऽनवस्थानरूपा तर्हि तदनुसारेण तस्य स्वाधिकरण एव पक्षे साध्यानुमितिजनकत्वम् । धूमस्य तु व्याप्तिः स्वाधिकरणेनैव साध्येन विनाऽनवस्थानरूपेति तस्य स्वाधिकरण एव पक्षे साध्यप्रमाजनकत्वान्न पर्वतादन्यत्र वह्निप्रमोद्भव इति लिङ्गस्य साध्यप्रमाजनकत्वं व्याप्तिप्रकारमभ्युपेत्येत्युक्तम् । के तत्र व्याप्तिप्रकारा इति जिज्ञासायां तानाह ।। तथा हीत्यादिना ।। कयोश्चित्समानदेशकालयोर्व्याप्तिरिति । समान एको देशः कालश्च यतोस्तौ तथोक्तौ । उभयोरेकव्याप्तिनिरूपणपरस्येत्यर्थः । उदाहरणमुखेन दर्शयति ।। यथेति । व्याप्तिरित्यनुवर्तते । एवमुत्तरत्राप्यनुवृत्तिरनुसन्धेया । रसस्येत्यनन्तरं स्वसमानदेशकालीनेति शेषः ।। कयोश्चित्समानदेशत्वेऽपीति । उदाहृतव्याप्तिप्रकारस्य वैलक्षण्यस्फुटीकरणायापिशब्दः ।। यथा धूमस्येति । स्वसमानदेशभिन्नकालेनेति शेषः । एवमुत्तरत्रापि शेषोऽनुसन्धेयः । यद्यप्यधिकरण देशस्यापि वह्निधूमसमानदेशत्ववदधिककालस्यापि तस्य धूमकालसमानकालसम्भवाद्वन्हेः समानदेशकालत्वमेव । तथाऽप्येकदा सतोरपि ज्येष्ठकनिष्ठयोः सव्येतरविषाणयोरिव समानकालत्वव्यवहारत्वाभावात्समानकालोत्पन्नत्वमनधिककालत्वं वा समानकालत्वम् । तच्च धूमाग्न्योर्नास्त्येवेत्यभिप्रेत्यैवमुक्तिरिति मन्तव्यम् ।। रोहिण्युदयासत्त्येति । रोहिण्युदयाव्यवहितपूर्वसमयेनेत्यर्थः ।। कादाचित् कस्येति । अयावद्धर्मभाविन इत्यर्थः ।। सार्वकालीनेति । यावद्धर्मभाविनेत्यर्थः ।। कस्यचित् समानदेशत्वेऽपीति । एकदेशसम्बन्धेऽपीत्यर्थः । सार्वकालीनस्य यावद्धर्मभाविन इत्यर्थः ।। कादाचित्केन इति । धर्म्युत्तरकालीनेत्यर्थः । प्रदेशवर्तिन इति । धर्म्येकदेशवर्तिन इत्यर्थः ।। व्याप्यवर्तिन इति । धर्मिणां व्याप्यवर्तमाने तु सर्वावच्छेदेन धर्मिणि वर्तमानेनेति यावत् ।। कयोश्चिदेकावयविवर्तिनोरप्यवयवभेदेनेति । अवयवभेदेनैकावयवये वर्तिनोरन्योन्यं व्याप्तिरित्यर्थः ।। यथा तुलोन्नमनावनमनयोरित्यादीति । अवयवभेदेनैकावयविवर्तिनोरित्यनुवर्तते । भिन्नावयववर्तिनोस्तुलोन्नमनावनमनयोर्द्वयोरप्येकनिरूपिताव्याप्तिरूपस्येत्यर्थः । यत एवान्यत्र यथा रसस्य रूपेणेत्याद्येवोक्ता । अत्र यथा तुलोन्नमनावनमनयोरिति द्विवचनमुपात्तम् । कयोश्चिदवयविभेदेन भिन्नावयविवर्तिनोर्यथा छाया शिरश्चलनस्य । छायावच्छिरसश्चेत्यनेनेत्यादिरादिशब्दार्थः । अस्त्येवं व्याप्तिरनेकप्रकारा तथाऽपि किं प्रकृत इत्यत आह ।। तथा चेति । व्याप्तिप्रकारानुसारेण यन्निष्ठव्याप्तिर्यत् स्वभावात्तल्लिङ्गं तद्य्वाप्तिस्वभावानुसारेणेत्यर्थः । समुचितदेशादौ समुचित आदिशब्दार्थः । यद्देशकालवर्तिसाध्येन विना लिङ्गस्यानवस्थानं स एव साध्यस्य समुचितो योग्यो देशः । कालश्च तस्मिन्नधिकरणे पक्षे साध्यप्रमां जनयदनुमानमित्युक्तं भवति । व्याप्यो धर्मो व्यापकप्रमितिसाधनं भवदनुमानमित्युच्यत इत्यनेनोक्तं भवतीत्यर्थः ।
ननु व्याप्यो धर्मो व्यापकमिति साधनं भवन्ननुमानमित्युक्तम् । व्याप्तिग्रहणदशायामेव वह्न्यादेर्व्यापकस्वरूपस्य प्रमितत्वात् । अनुमानं विफलमेव स्यादिति चोद्यमप्यत एव निरस्तमित्याह ।। अत एवेति । लिङ्गस्य समुचितदेशादौ लिङ्गिप्रमाजनकत्वादेवेत्यर्थः । देशविशेषसम्बन्धतया व्यापकमिति न प्रमाणान्तरसाध्येति भावः । ननु व्याप्तिप्रकारानुसारेण समुचितदेशादौ लिङ्गप्रमां जनयदनुमानं चेत्तर्हि व्याप्तिरेवानुमितौ प्रयोजिका न त्वन्यदिति प्राप्तम् । न च तद्युक्तम् । व्याप्तिज्ञानवतोऽपि लिङ्गस्य स्वोचितदेशादौ प्रमितिं विना साध्यस्य स्वोचितदेशादौ सिद्धिश्चेति । यत्र प्रमितं लिङ्गमनुमितं जनयति स एव लिङ्गस्य समुचितो देशकालश्च स च क्वचित्पक्षभूत एव क्वचिदन्य एव तत्र सिद्धः प्रमितिरित्यर्थः । तार्किकादिपक्षं प्रतिपक्षयति ।। न तु पक्षधर्मतानियम इति । न तु पक्षे तत्त्वप्रमितिरेवानुमानस्य सामर्थ्य इत्यर्थः । अधोदेशादौ प्रमितस्य नदीपूरस्योर्ध्वदेशे पक्षे कालान्तरस्थवृष्ट्यनुमितिहेतुत्वस्य पक्षे प्रमितस्य विकास्यस्य देशान्तरस्थसूर्योदयानुमापकत्वस्य समुद्रे प्रमिताया वृद्धेर्देशान्तरस्थचन्द्रोदयानुमापकत्वस्य चोपादेयगतरूपादेरुपादानगतरूपाद्यनुमापकत्वस्य चानुभवान्न पक्षधर्मतानियम इति भावः ।