प्रमाणपद्धतिः
निर्विकल्पकसविकल्पकस्वरूपविचारः
(२९) प्रमाणपद्धतिः
निर्विकल्पकसविकल्पकभेदेन च द्विविधं प्रत्यक्षमित्याचक्षते । तत्र वस्तुस्वरूपमात्रावभासकं निर्विकल्पकम् । विशिष्टकारगोचरं सविकल्पकम् । तदष्टविधम् । तत्र द्रव्यविकल्पो यथा दण्डीति । गुणविकल्पो यथा शुक्ल इति । क्रियाविकल्पो यथा गच्छतीति । जातिविकल्पो यथा गौरिति । विशेषविकल्पो यथा विशिष्टः परमाणुरिति । समवायविकल्पो यथा पटसमवायवन्तस्तन्तव इति । नामविकल्पो यथा देवदत्त इति । अभावविकल्पो यथा घटाभाववद्भूतलमिति । एतदप्यसत् । विशेषसमवाययोरप्रामाणिकत्वात् । नाम्नः पश्चात्स्मरणेनाभावस्य च प्रतियोगिस्मरणाधीनज्ञानत्वेन तद्विकल्पस्य प्रथमाक्षिसन्निकर्षानन्तरमेवोत्पत्त्यभावेऽपि द्रव्यादिविकल्पानां प्रथममेवोत्पत्तौ बाधकाभावेन निर्विकल्पकानुपपत्तेः ।
जयतीर्थविजय
जरन्नैयायिकमतमाह ।। निर्विकल्पकेत्यादिना ।। एतदपीति । प्रत्यक्षप्रमाद्वैविध्यं सविकल्पकाष्टविध्यं चेत्यर्थः ।। नाम्नः पश्चादिति । धर्मिज्ञानादिति शेषः । विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वनियमे खलु विशेषणज्ञानरूपं निर्विकल्पकमङ्गीकार्यमिति नैयायिकादयः । विशिष्टज्ञानापरपर्याये सविकल्पके विशेषणज्ञानात्मकनिर्विकल्पकं न हेतुः । सविकल्पकाष्टके द्वयोरप्रामाणिकत्वेन निरासादितरेषु षट्सु निर्विकल्पकं हेतुरिति वाच्यम् । तदयुक्तम् । युगपद्विशेषणविशेष्येन्द्रियसन्निकर्षेणैव सविकल्पकोत्पत्तेरित्याशयेनाह ।। द्रव्यादिविकल्पानामिति । ननु सर्वस्यापि सविकल्पस्य प्रथमाक्षिसन्निकर्षादेवोत्पत्तिः किमिति नोच्यत इत्यत आह ।। नाम्न इत्यादिना । ननु नामस्मरणहेतुधर्मिज्ञानमेव निर्विकल्पकमिति चेन्न । तस्य सम्बन्धितावच्छेदकप्रकारकत्वावश्यंभावेन सविकल्पकत्वनियमात् । अन्यथा पशुत्वप्रकारकहस्तिज्ञानादपि हस्तिपस्मरणापत्तिरित्याचार्याशयात् ।
भावदीपः
एवं सन्निकर्षविषये वादिविवादं निरस्य तज्जन्यज्ञानेऽपि तन्निरसितुमाह ।। निर्विकल्पकेति ।। प्रत्यक्षमिति । ज्ञानमित्यर्थः ।। आचक्षत इति । तार्किकाः । तत्र तयोर्मध्ये । वस्तुमात्रेति । गुणगुण्यादिसम्बन्धमगृहीत्वा द्रव्यस्वरूपं गुणकर्मादि स्वरूपमात्रं वा गृह्णाति । यज्ज्ञानं तदित्यर्थः । विशिष्टाकारेति । सम्बन्धमपि गृह्णदित्यर्थः ।। अप्रामणिकत्वादिति । विशेषविकल्पः समवायविकल्पश्चेति द्वावयुक्तावित्यर्थः । अन्ये तु षडपि युक्ताश्चेदपि निर्विकल्पकं नोपेयमिति भावेनाह ।। नाम्न इति । द्रव्यादिविकल्पानां दण्डी शुक्ल इत्यादीनां प्रथममेवेन्द्रियसन्निकर्षोत्तरकालमेव । विशेषणी भूतदण्डादिज्ञानं विनैवेति यावत् । ननु नामविकल्पे पिण्डेन्द्रियसंयोगानन्तरं देवदत्त इति वर्णमालारूपनाम्नो गुणकर्मादेरिवेन्द्रियसंयुक्तार्थनिष्ठत्वाभावेन विशेषणीभूतनाम्नः पुरोवर्तिनि विशेषणरूपेण सम्बद्धतया भानार्थं तदुपनायकस्मरणमपेक्षितम् । तस्मिन्सति पश्चादेव नामविशिष्टनामिप्रत्यक्षेण देवदत्त इति भाव्यम् । तथा घटाभाववद्भूतलमित्यत्राभावस्य तत्र ससम्बन्धिकत्वेन सम्बन्धिनः प्रतियोगिभूतस्य घटस्य स्मृतिं विना तन्निरूपिताभावविशेषणज्ञानायोगेन तत्र स्मरणमपेक्षितमिति कथं प्रथममेव तयोर्विकल्पयोरुत्पत्तिरित्यत आह ।। नाम्नः पश्चादिति । पिण्डेन्द्रियसंयोगानन्तरमित्यर्थः । तदर्थमपि न निर्विकल्पकापेक्षा सविकल्पकस्मरणेनैव तयोर्विकल्पयोरुपपत्तेरिति भावः ।।
श्रीविजयीन्द्रतीर्थ
स्वरूपमात्रावभासकमिति । वैशिष्ट्यानवगाहि ज्ञानमित्यर्थः ।। विशिष्टाकारगोचरमिति । वैशिष्ट्यावगाहीत्यर्थः ।। अप्रामाणिकत्वादिति । तथा चाष्टविधत्वमनुपपन्नमित्यर्थः ।। बाधकाभावेनेति । विशेषणविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गाग्रहाभ्यामेव विशिष्टप्रत्यक्षोपपत्तौ विशेषज्ञानस्य तत्र हेतुत्वाभावादिति भावः ।
श्रीवेदेशभिक्षु
।। अप्रामाणिकत्वादिति । तथा चाष्टविधत्वमनुपपन्नमिति भावः । ननु समानगुणकर्मजातिमत्सु पृथिवीत्वाद्यवान्तरजातिविरहितेषु परमाणुषु परस्परं व्यावृत्तिबुद्धिर्योगिनामुदेति । सा च न तेषु व्यावर्तकधर्माभावे भवितुमर्हति । अतस्तेषु व्यावृत्तेर्बुध्द्यन्यथाऽनुपपत्त्या व्यावर्तकधर्माः स्वीकार्यास्त एव विशेषनामान इति कथं विशेषोऽप्रामाणिक इति चेन्मैवम् । विशेषेष्विव परमाणुष्वपि स्वरूपेणैवासङ्कीर्णेन व्यावृत्तिबुध्द्युपपत्तेः । अन्यथा विशेषेष्वपि विशेषान्तरकल्पनापत्त्याऽनवस्थापत्तेः । न चैवं घटादेरपि स्वव्यावृत्तिबुद्धिहेतुतोपपत्तौ रूपादिधर्माणामप्युच्छेदः स्यादिति वाच्यम् । तेषामनुभवसिद्धत्वेनापलापासम्भवात् । एवं समवायोऽप्रामाणिक एव । इमौ संयुक्तावितिवदिमौ समवेताविति प्रत्यक्षेणानुभवात् । समवायं जानामीत्यनुव्यसायाभावाच्च । नापि गुणक्रियाजातिविशिष्टा बुद्ध्यः सम्बन्धिभिन्नसम्बन्धविषयाः । भावमात्रविषयविशिष्टलौकिकप्रत्यक्षत्वात् । इतनिरूपणाधीननिरूप्यमात्रगोचरलौकिकप्रत्यक्षत्वाद्वा । दण्डीति प्रत्यक्षवदित्याद्यनुमानं मानम् । समवायसिध्द्यनन्तरं समवायेतरसम्बन्धिभिन्नसम्बन्धविषया इत्यपि प्रयोगसम्भवेन तृतीयस्याप्यतिरिक्तसम्बन्धस्य सिद्ध्यापत्त्याऽऽभाससमानयोगक्षेमत्वात् । अभावविशिष्टबुद्धिवत्स्वरूपसम्बन्धविषयत्वेनैवोपपत्त्याऽप्रयोजकत्वाच्च । न च लाघवादेक एव सम्बन्धः सिध्यतीति वाच्यम् । तथा सति प्रागभावादिविशिष्टबुद्धीः पक्षीकृत्य सम्बन्धिविषयकत्वसाधने लाघवेन तत्राप्यभावमात्रानुगत एको नित्यः सम्बन्धोऽङ्गीकार्यः स्यात् । विनिगमकाभावात् । तस्मान्नानुमानं तत्र मानम् । नाप्यागमः । अपौरुषेयस्य समवायावेदकस्यागमस्यानुपलम्भात् । गुणादिविशिष्टबुद्धीनां कुण्डबदरादिविशिष्टप्रत्ययवैलक्षण्यं त्वभेदविषयकत्वेनोपपद्यत इत्युक्तत्वान्नार्थापत्तिस्तत्र मानम् । अभेदेऽपि विशेषणविशेष्यभावादिकत्वं ततः सर्वैरङ्गीकार्येण पदार्थस्वभावविशेषेणैवोपपद्यते । कथमन्यथा सामान्यं सदित्यादिप्रत्यय इति । ननु द्रव्यादिविकल्पानां विशिष्टज्ञानत्वेन विशेषणज्ञानजन्यत्वावश्यम्भावाद्यदेव तज्जनकं विशेषणज्ञानं तदेव निर्विकल्पकं किञ्चिदङ्गीकार्यमित्यत आह ।। नाम्न इति ।। बाधकाभावेनेति । न च विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वान्यथाऽनुपपत्तिरेव बाधिका । विशेषणविशेष्योभयसन्निकर्षाभ्यामेव विशिष्टज्ञानोत्पत्तौ विशेषणज्ञानस्यापि तत्र कारणत्वे मानाभावात् । न चानुमितिरूपविशिष्टज्ञानविशेषे साध्यप्रसिद्धिरूपविशेषज्ञानविशेषस्य हेतुत्वदर्शनात् । यद्विशेषयोरिति न्यायेन सर्वत्रापि विशिष्टज्ञाने विशेषणज्ञानस्य कारणतेति वाच्यम् । मन्मते सामान्यप्रत्यासत्त्यभावेन साध्यतावच्छेदकप्रकारकयत्किञ्चित्साध्यविषयकप्रसिद्धेरेव कारणत्वेन विशेषणीभूतपक्षीयसाध्यविषयक प्रसिद्धेरेव कारणत्वात् । अन्यथाऽनुमितावेव पक्षविशेष्यज्ञानस्य कारणतोपलम्भाद्यद्विशेषणयोरिति न्यायेनैव सर्वत्र विशिष्टज्ञाने विशेष्यज्ञानस्यापि कारणतापातादिति भावः । ननु द्रव्यादिविकल्पापेक्षया पूर्ववस्तुदर्शनाभावेऽपि नामाभावविकल्पयोः पूर्ववस्तुमात्रावगाहि ज्ञानमङ्गीकार्यम् । न हि नाम्यधिकरणयोरदर्शने नामप्रतियोगिनोः स्मृतिः । येन तद्विशिष्टज्ञानं स्यात् । एवं चेत्तदुभयविकल्पयोः पूर्ववस्तुमात्रावगाहिप्रथमाक्षिसन्निकर्षानन्तरमेवोत्पत्त्यभावेन नामप्रतियोगिस्मरणजनकं वस्तुमात्रावगाहिज्ञानं निर्विकल्पकरूपं सिद्धमित्यत उक्तं नाम्न इत्यादिना । पश्चान्नामिदर्शनानन्तरं प्रतियोगिस्मरणाधीनज्ञानत्वेनेत्यन्तरं प्रतियोगिनश्च पश्चात्स्मरणेनेत्यावर्तनीयम् ।। उत्पत्त्यभावेऽपीति । तदुक्ताभ्युपगमो भिक्षुपादप्रकरणन्यायेनवस्तुतस्तत्रापि निर्विकल्पकानुपपत्तिरेव नामप्रतियोगिस्मरणजनकनाम्यधिकरणज्ञानयोः यत्किञ्चित्प्रकारावगाहित्वेन निर्विकल्पकत्वाभावादिति भावः ।
अभिनवामृतम्
।। निर्विकल्पकेति । विकल्प इति संज्ञा पूर्वाचार्यस्य । तथा च निष्कान्तं विकल्पेभ्य इति निर्विकल्पकं निष्प्रकारकं ज्ञानमिति यावत् ।। सविकल्पकमिति । विकल्पेन सहितं सविकल्पकम् । सप्रकारकमिति यावत् । एवं प्रकारेण प्रत्यक्षफलं द्विविधमाचक्षत इत्यर्थः ।। तदष्टविधमिति । द्रव्यविकल्पं गुणविकल्पं क्रियाविकल्पं जातिविकल्पं विशेषविकल्पं समवायविकल्पं नामविकल्पमभावविकल्पं चेति ग्राह्यम् । कस्मिन्ज्ञाने द्रव्यविकल्पमिति पृच्छति ।। द्रव्यविकल्पो यथेति । द्रव्यमेव विकल्पो द्रव्यविकल्पः । यथा कथं कस्मिन्ज्ञान इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । एतेन तदितिनपुंसकलिङ्गेन प्रकृतत्वाद्विकल्पो यथेति पुल्लिङ्गनिर्देशोऽनुपपन्न इति निरस्तम् । विशिष्टः परमाणुरिति योगिनां ज्ञानमिदं द्रष्टव्यम् ।। देवदत्त इति । उपनीतज्ञानमिदं द्रष्टव्यम् । निर्विकल्पकज्ञानं दूषयति ।। नाम्न इति ।। तद्विकल्पकस्येति । अभावनाम विकल्पो यस्येति तद्विकल्पं यस्येत्यर्थः ।। द्रव्यादिविकल्पानामिति । द्रव्यादयो विकल्पा येषां तानि द्रव्यादिविकल्पानि तेषां द्रव्यादिविकल्पानामित्यर्थः
।। छ ।। छ ।।
इति श्रीमत्सत्यनिधितीर्थश्रीमच्चरणाराधकश्रीसत्यनाथतीर्थयतिविरचितप्रमाणपद्धतिव्याख्यानेऽभिनवामृते प्रत्यक्षपरिच्छदः समाप्तः ।। छ ।।
वाक्यार्थमञ्जरी
।। निर्विकल्पकेति । निष्क्रान्तं विकल्पेभ्यः प्रकारेभ्य इति निर्विकल्पकम् । निष्प्रकारकमिति यावत् । विकल्पैः सहितं सविकल्पकम् । सप्रकारकमिति यावत् ।
।। इति श्रीप्रमाणपद्धतिवाक्यार्थमञ्जर्यां श्रीनिवासतीर्थकृतायां प्रत्यक्षप्रकरणं समाप्तम् ।। छ ।।
श्रीविट्टलभट्ट
परोक्षप्रत्यक्षविभागं दूषयितुमनुवदति ।। निर्विकल्पकेति । सन्निकर्षषाङ्विध्योक्तिसमुच्चयार्थश्चशब्दः ।। स्वरूपमात्रावभासकमिति । सम्बन्धाविषयकत्वे सति वस्तुस्वरूपमात्रविषयकत्वमित्यर्थः ।। विशिष्टाकारगोचरमिति । विशेषणविशेष्यभावगोचरमित्यर्थः।। एतदप्यसदिति । सन्निकर्षषङ्विधत्ववदेतदपि प्रत्यक्षद्वैविध्यादिकमप्यसदित्यर्थः ।। नाम्नः पश्चादिति । नामदर्शनान्तरमित्यर्थः । तद्विकल्पस्य नामाभावयोर्विकल्पस्येत्यर्थः । प्रथमाक्षसन्निकर्षानन्तरं नामाभावयोर्भानमिति प्रतियोगिस्मरणात्प्रागेवेन्द्रियसन्निकर्षस्तदनन्तरमित्यर्थः । आदिपदेन गुणक्रियाजातयो गृह्यन्ते । प्रथममेव द्रव्यगुणक्रियानिरूपितविशेषणज्ञानान्निर्विकल्पकात्प्रागेवेत्यर्थः । ननु विशेषणज्ञानजन्यत्वाद्विशिष्टज्ञानस्य विशेषणगोचरनिर्विकल्पकज्ञानात्प्रथममेव कथं तद्विशिष्टज्ञानोदयः । कारणाभावे कार्यायोगादिति चोद्यपरिहारायोक्तम् ।। बाधकाभावेनेति । विशेषणज्ञानरूपकारणाभावस्य बाधकस्या भावेनेत्यर्थः । निर्विकल्पकानुपपत्तेर्निविकल्पकस्यासम्भवादित्यर्थः । विशेषणज्ञानं विना विशिष्टस्मरणोदयान्न विशेषणज्ञानस्य विशिष्टज्ञानहेतुत्वम् । न च पूर्वानुभवस्य संस्कारद्वारा विशेषणज्ञानत्वेन हेतुत्वान्न स्मरणे व्यभिचार इति वाच्यम् । तस्य विशेषणज्ञानत्वेन जनकतया संस्कारस्य व्यापारत्वायोगात् । न हि तज्जन्यत्वे सति तज्जन्यजनकत्वमवान्तरव्यापारत्वम् । कुलालपुत्रादेरपि कुलालत्वव्यापारप्रसङ्गात् । किन्तु यद्धि यज्जनयित्वैव यज्जनयति तस्यैव तदवान्तरव्यापारत्वम् । न चात्र तत्सम्भवति । विशेषणज्ञानस्य प्रतियोगिस्मरणादेः संस्कारं जनयित्वापि विशिष्टज्ञानजनकत्वात् अन्यथा जागराद्यसविकल्पकप्रत्यक्षस्य एतज्जन्मनि गौरिति प्राथमिकप्रत्यक्षस्य वा संस्कारद्वारा पूर्वानुभवरूपविशेषणज्ञानजन्यत्वसम्भवान्निर्विकल्पकासिद्ध्या विवादापर्यवसानात् । स्मरणस्य विशिष्टज्ञानं प्रत्यप्यहेतुत्वापाताच्च । पूर्वानुभवस्यैव संस्कारद्वारा तत्र हेतुत्वोपपत्तेः । जन्यविशिष्टानुभवं प्रति विशेषज्ञानस्य हेतुत्वाङ्गीकारान्न स्मरणे व्यभिचार इति चेन्न । विशिष्टज्ञानरूपस्मरणस्येव विशिष्टानुभवस्यापि विशेषणज्ञानव्यतिरेकेणोत्पत्तिसम्भवात् । अभावत्वप्रतियोगित्वविशिष्टानुभवेऽनुपस्थितयोरेवाभावप्रतियोगित्वयोर्विशेषणयोः परेणापि भानाभ्युपगमादनुव्यवसाये पूर्वानुपस्थितस्य व्यवसायगतघटत्वादिप्रकारत्वादेर्विशेषणस्य च भानात् । अभावत्वादिविशिष्टानुभवादौ व्यभिचारापरिहाराच्च । न च तत्रापि प्रतियोग्यादिविशेषणज्ञानजन्यत्वस्य सत्त्वान्न व्यभिचार इति वाच्यम् । इदं रजतमिति ज्ञानस्य रजतांशे दोषजन्यत्वेऽपि धर्म्यंशेऽदोषः । जन्यत्वाभाववद्धर्म्यंशे गुणजन्यत्वेऽपि रजतांशगुणजन्यत्वाभावाच्च । प्रतियोगित्वादिविशिष्टानुव्यवसायस्य च प्रतियोग्यादिविशेषणविशिष्टांशे विशेषणज्ञानजन्यत्वेऽपि प्रतियोगित्वादिरूपविशेषणविशिष्टांशे विशेषणज्ञानजन्यत्वाभावेन तत्तांशे व्यभिचारापरिहारात् । अन्यथाजन्यज्ञानत्वावच्छिन्ने कार्ये आत्ममनोयोगादेरिव गुणस्य दोषाभावस्यापि हेतुत्वापातात् । विशेषणज्ञानस्य विशिष्टानुभव इव गुणदोषाभावयोर्जन्यज्ञानमात्रे व्यभिचाराभावस्य सुवचत्वात् । भ्रमत्वावच्छिन्नकार्यस्य गुणजन्यत्वापाताच्च । भ्रमत्वाधिकरणे तस्याव्यभिचारित्वात् । अनुमित्यादेर्विशिष्टज्ञानस्य पक्षादिरूपविशेष्यज्ञानजन्यत्वेन यत्सामान्ययोरिति न्यायाद्विशेषणज्ञानस्यैव विशिष्टानुभवस्यापि जन्यविशिष्टानुभवहेतुत्वापाताच्च । न चेष्टापत्तिः । समवायाभावविशेष्यकज्ञानस्यापि विशेष्यज्ञानजन्यत्वापत्त्या समवायादेर्ज्ञानाभावस्य निर्विकल्पविशेषत्वस्याभावापातात् । किञ्चास्तु विशेषणज्ञानस्य जन्यविशिष्टानुभवहेतुत्वम् । तथाऽपि प्रत्यभिज्ञायां तत्तास्मरणस्येव गौरित्यादिजागराद्यनुभवादावपि गोत्वादिस्मरणस्यैव हेतुत्वसम्भवान्निर्विकल्पकपक्षसिद्धिः । गौरित्याद्यनुभवपूर्वकाले गोत्वादिस्मरणयोग्यानुपलब्धिबाधितमिति चेत् तर्हि प्रत्यभिज्ञादिपूर्वकालेऽपि तत्तास्मरणादिकं योग्यानुपलब्धिबाधितमिति प्रत्यभिज्ञानादावव्यभिचाराद्विशेषणज्ञानस्य कारणत्वाभावान्निर्विकल्पकसिद्धिरिति बोध्यम् ।