प्राप्तिसमः

(५४) प्रमाणपद्धतिः

।। २० ।। (२) (९१०) ।। प्राप्तिसमः ।। अप्राप्तिसमः ।। साधनस्य साध्यप्राप्तिपक्षनिरासेन तस्य साधनत्वभङ्गः प्राप्तिसमः । अप्राप्तिपक्षनिरासेन तद्भङ्गोऽप्राप्तिसमः । कृतिज्ञप्तिसाधारणमिदं जातिद्वयम् । यथा धूमज्ञानमग्निज्ञानं प्राप्य जनयति चेत्सतैव प्राप्तिरिति तस्य प्राक् सिद्धत्वान्नोत्पादकम् । तथा धूमज्ञानमग्निं प्राप्य ज्ञापयति चेत्तर्ह्यन्यस्याः प्राप्तेरसम्भवाद्विषयविषयिभावे वक्तव्ये धूमज्ञान एवाग्नेः स्फुरणान्न तज्ज्ञापकत्वमिति प्राप्तिसमः । अप्राप्योत्पादकत्वं ज्ञापकत्वं चेत्तन्न । क्वाप्यदर्शनात् । न ह्यप्राप्याग्निः काष्ठं दहति । नापि प्रकाश्यमप्राप्य प्रदीपः प्रकाशयति । अतिप्रसङ्गश्चान्यथेत्यप्राप्तिसमः । अत्र कृतौ सामर्थ्यलक्षण प्राप्तिसद्भावेनातिप्रसङ्गाभावात्स्वरूपप्राप्तिरनपेक्षितैव । ज्ञप्तावपि तद्य्वाप्तलिङ्गविषयत्व रूपप्राप्तिसद्भावेनातिप्रसङ्गाभावाद्विषयविषयिभावोऽनपेक्षित एवेत्युत्तरं वाच्यम् । एतदनङ्गीकृत्य स्वरूपप्राप्त्यादिकमपेक्षमाणस्य स्वन्यायेन व्याघात इति ।

जयतीर्थविजय

।। कृतिज्ञप्तीति । उत्पत्तिज्ञप्तीत्यर्थः । अत्र कृतौ प्राप्तिसममुदाहृत्य दर्शयति ।। यथेति । ज्ञप्तौ प्राप्तिसममुदाहृत्य दर्शयति ।। तथेति । कृतिज्ञप्त्योरप्राप्तिसममुदाहृत्य दर्शयति ।। अप्राप्येति । अप्राप्तौ कृत्यसम्भवमुदाहृत्य दर्शयति ।। न हीति । अप्राप्तौ ज्ञप्त्यसम्भवमुदाहृत्य दर्शयति ।। नापीति । एतदेवाह वरदराजः ।

प्राप्य साध्यं साधयति हेतुश्चेत्प्राप्तिकर्मणः ।

साध्यस्य पूर्वं सिद्धिः स्यादिति प्राप्तिसमोदयः ।

अप्राप्य साधये साध्यं हेतुः सर्वं च साधयेत् ।

अप्राप्तेरविशिष्टत्वादित्यप्राप्तिसमस्थितिरिति । कृतिज्ञप्तिपक्षयोर्जातिद्वयस्य स्वव्याहतिं दर्शयति ।। अत्रेत्यादिना । शक्तिलक्षणप्राप्तीत्यर्थः ।। स्वरूपप्राप्तिरिति । कार्यकारणस्वरूपयोः संयोगादिलक्षणप्राप्तिरित्यर्थः ।। अनपेक्षितैवेति । अस्येत्युत्तरं वाच्यमित्युत्तरेणान्वयः । ज्ञप्तिपक्षे देयमुत्तरमाह । ज्ञप्ताविति । लिङ्गज्ञानं यद्वस्तु ज्ञापयति तद्य्वाप्त्येत्यर्थः ।। अतिप्रसङ्गाभावादिति । अप्राप्य ज्ञापकत्वे सर्वं ज्ञापयेदित्यतिप्रसङ्गाभावादित्यर्थः ।। स्वरूपप्राप्त्यादिकमिति । संयोगादिकमित्यर्थः ।। व्याघात इति । प्रतिषेधहेतावपि प्रतिषेध्यं प्राप्याप्राप्य वेत्यादेः साम्याद्य्वाघात इत्यर्थः ।

भावदीपः

इयमपि जातिः कृतिज्ञप्तिसाधारणीत्युपपादयति ।। यथेत्यादिना । एतज्जातिविषय इति वाच्यमित्यन्वयः । सिद्धविषयत्वेन प्रमितविषयत्वेनावस्थितिसम्भवादित्यर्थः ।। स्वन्यायेनेति । धूमवत्त्वमसाधकम् । अनवस्थारूपतर्कपराहतत्वात्सम्मतवदिति जातिवादिनोक्ते प्रतिषेधेऽपि धूमवत्त्वस्योत्पादकज्ञापकपरम्परयाऽनवस्थायाः सुवचत्वादिति भावः ।

श्रीविजयीन्द्रतीर्थ

।। अप्राप्तीति । असम्बन्धेत्यर्थः ।। कृतीति । उत्पत्तीत्यर्थः । अप्राप्तिसमप्रकारमाह ।। अप्राप्येति ।। अत्रेति । शक्तिरूपसम्बन्धः स च कार्यानिरूप्य इति तत्सम्बन्धत्वम् ।। लिङ्गेति । लिङ्गजन्यज्ञानविषयरूपेत्यर्थः ।। विषयविषयीति । लिङ्गज्ञानेन सहेत्यर्थः । तथा चायुक्ताङ्गाधिकत्वमिति भावः ।

श्रीवेदेशभिक्षु

।। प्राप्तीति । सम्बन्धस्येत्यर्थः ।। अन्यस्या इति । ज्ञानेनार्थस्य संयोगादिरूपायाः प्राप्तेरसम्भवादित्यर्थः ।। सामर्थ्येति । शक्तिरूपेत्यर्थः ।। अनपेक्षितैवेति । अनेनाप्ययुक्ताङ्गाधिकत्वमुक्तं द्रष्टव्यम् । एवमुत्तरत्रापि मूलक्षयादिति भावः । तथा च युक्ताङ्गहानिरिति भावः ।

अभिनवामृतम्

।। साधनस्येति । धूमज्ञानं वह्निज्ञानं प्राप्य जनयति । उताप्राप्येति स्वयं विकल्प्य पराभ्युपगममनपेक्ष्य प्रतिपक्षं निरस्य प्राप्तिपक्षं परिशेष्य तद्दूषणेन साधनत्वभङ्गः प्राप्तिसमेत्यर्थः । एवं ज्ञप्तावपि बोध्यम् ।। अप्राप्तिपक्षेति । धूमज्ञानं वह्निज्ञानं प्राप्य जनयत्युताप्राप्येति स्वयमेव विकल्प्य पराभ्युपगममनपेक्ष्य प्राप्तिपक्षं निरस्याप्राप्तिपक्षं परिशेष्य तद्दूषणेन साधनत्वप्रसङ्गोऽप्राप्तिसम इत्यर्थः । एवं ज्ञप्तावपि बोध्यम् । धूमज्ञानमग्निज्ञानमप्राप्य जनयत्युत प्राप्येति । तथा धूमज्ञानमग्निज्ञानमप्राप्य जनयत्युत तदप्राप्येति विकल्पौ मनसि निधाय विकल्पद्वयेऽप्याद्यपक्षयोर्दूषणमूह्यमिति भावेन परिशिष्टपक्षे दूषणमाह ।। यथा धूमज्ञानमित्यादिना । आद्यपक्षौ दूषयितुमनुवदति ।। अप्राप्योत्पादकत्वमिति ।। न ह्यप्राप्येति । अत्राग्निमिति द्वितीयान्त एव पाठः । न त्वग्निरिति प्रथमान्तः पाठः । दहधातुरग्निपरः । ततश्चैवं योजना । काष्ठमग्निं प्राप्याग्निं जनयतीति । एतेनाग्नेः कार्यभूतदाहप्राप्तेरेव वक्तव्यत्वेन काष्ठप्राप्तिकथनमयुक्तमिति परास्तम् । यद्यपि कारणीभूतोऽग्निर्भिन्नः कार्यभूतोऽप्यग्निर्भिन्नः । तथाऽपि तदाच्छादनेन परव्यामोहनायेदमुक्तमिति ध्येयम् ।। अतिप्रसङ्गश्चेति । अप्राप्यस्यैवोत्पादकत्वज्ञापकत्वाङ्गीकारेऽतिप्रसङ्ग इत्यर्थः । अतिदेशेनाप्राप्तिसमोदाहरणमाह ।। इत्यप्राप्तिसम इति । अप्राप्तिसमोऽप्येवमेव ज्ञेय इत्यर्थः । तत्प्रकारस्तु धूमज्ञानमग्निज्ञानं प्राप्योत्पादयति । उताप्राप्येति । नाद्यः । सत्तया विना प्राप्तेरसम्भवात् । प्राप्त्यङ्गीकारे सत्त्वप्राप्त्या जनकत्वाभावप्रसङ्गात्तस्मादप्राप्तिरेव वक्तव्या । तथा सत्यतिप्रसङ्गाज्जनकत्वहानिः । यदि धूमज्ञानमप्राप्य वह्निज्ञानं जनयेत्तर्हि घटादि ज्ञानमपि जनयेदविशेषात् । न च तदस्तीति न वह्निज्ञानमपि जनयतीति । एवं ज्ञप्तावप्युदाहरणं ज्ञेयम् । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा प्राप्तिसमोदाहरणेऽप्राप्तिपक्षनिरासाभावात् । अप्राप्तिसमोदाहरणेऽप्राप्योत्पादकत्वज्ञापकत्वयोः परिशेषत्वेन तन्न क्वाप्यदर्शनादित्युक्त्ययोगः । सम्भावितस्यैव परिशेष्यत्वेन न क्वाप्यदृष्टत्वस्य परिशेषकरणायोगात् । अप्राप्तिपक्षं दूषयित्वा प्राप्तिपक्षं परिशेष्य दूषणे पाक्षिकजयबुद्धिः प्राप्तिसमोत्थानहेतुः । साधनस्य साध्यात्पूर्वभावित्वमङ्गम् । तदभाव एवारोप्यः । प्राप्तिपक्षं दूषयित्वाऽप्राप्तिपक्षं परिशेष्य तद्दूषणे पाक्षिकजयबुद्धिरप्राप्तिसमोत्थानहेतुः । अतिप्रसङ्ग आरोप्यः ।। कृतौ सामर्थ्येति । उपलक्षणं चैतत् । अनुत्पादकत्वे सामर्थ्याभाव एव प्रयोजकः । अतः सामर्थ्यविधुरस्य जनकत्वाङ्गीकार एव ह्यतिप्रसङ्गो वक्तव्यः । समर्थस्य कार्यमप्राप्तस्य जनकत्वाङ्गीकारेऽतिप्रसङ्गाभावाज्जनकत्वहानिरित्युत्तरं वाच्यमिति ग्राह्यम् । प्राप्त्यादिकमपेक्ष्यमाणस्येत्यादिशब्दादप्राप्तेरिति प्रसञ्जकत्वं गृह्यते ।। स्वन्यायविरोध इति । परेण स्वानुमाने स्वरूपप्राप्तेरनपेक्षणात्प्राप्तिसमोदाहरणेन प्रतिबन्दीविरोधः । स्वानुमाननिर्वाहप्राप्तेर्नातिप्रसञ्जकत्वमित्यङ्गीकारात् । अप्राप्तिसमोदाहरणे तत्प्रतिबन्दीविरोध इत्यर्थः ।

आदर्शः

।। सतैवेति । सदसतोः सम्बन्धायोगादिति भावः ।। सामर्थ्यलक्षणप्राप्तिरिति । तज्जननानुकूलशक्तिमत्त्वमित्यर्थः । तादृशशक्तेर्न विषयसत्तापेक्षा किन्तु तद्विषयकत्वमपेक्षितम् । तच्च ज्ञानस्येव शक्तेरप्यसद्विषयकत्वं सम्भवतीति भावः ।

वाक्यार्थमञ्जरी

।। दहतीति । दग्धं करोतीत्यर्थः । तथा च दाहाख्यं विशिष्टं वह्निकार्यम् । तत्र दाहवह्निसम्बन्धाभावेऽपि काष्ठस्य वह्निसम्बन्धोऽस्ति । एवं च वह्नेः स्वकार्यसम्बन्धजनकत्वं प्राप्तम् । न चैवं धूमज्ञाने वक्तुं शक्यम् । धूमज्ञानकार्यत्वाभिमते वह्निज्ञानरूपविशेषवह्निना ज्ञानेन वोक्तरीत्या धूमज्ञानस्य सम्बन्धाभावादिति भावः ।। स्वन्यायेन व्याघात इति । प्रतिवादिनाह्युक्तरीत्याऽऽद्ये साध्यात्पूर्वं सिद्धिरूपसाधनविशेषणाभावाद् द्वितीये साध्यप्रसिद्धिरूपसाधनविशेषणाभावादित्युभयत्रापि साधनविशेषणासिद्धिमारोप्य धूमो न साधकोऽसिद्धिविशेषणकत्वादिति साधकस्यासाधकत्वं साधनीयम् । तत्राप्येवं वक्तुं शक्यम् । तथा हि । असिद्धिविशेषणकत्वज्ञानमसाधकत्वज्ञानं प्राप्य जनयति चेत् । सतैव प्राप्तिरिति प्राक् सिद्धत्वान्नोत्पादकत्वम् । अप्राप्यं चेदतिप्रसङ्गः । एवं ज्ञप्तावपि । न च सामर्थ्यादि लक्षणप्राप्त्यैवातिप्रसङ्गपरिहारोपपत्त्या न स्वरूपप्राप्तिरपेक्षितेति वाच्यम् । तदावश्यकत्वस्य त्वयैवोक्तत्वादिति । तथा च स्वरूपप्राप्तिरावश्यकीति तद्वाक्यन्यायेन धूमो न साधक इत्यादि तद्वाक्यस्य विरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।

श्रीविट्टलभट्ट

।। साधनस्येति । लिङ्गज्ञानरूपकारणस्य साध्यस्य साध्यज्ञानस्य वह्न्यादिरूपसाध्यस्य वा प्राप्तिसम्बन्ध इति यः पक्षस्तस्य निराकरणेन साधनत्वस्य कारणत्वस्य भङ्गो निराकरणं प्राप्तिसम इत्यर्थः । अप्राप्तिसमव्यावृत्त्यर्थं तृतीयान्तं विशेषणम् ।। अप्राप्तिपक्षनिरासेनेति । साध्याप्राप्तिपक्षनिरासेनेत्यर्थः । साधनस्येत्यनुवर्तते । तद्भङ्गः साधनत्वस्य भङ्ग इत्यर्थः । प्राप्तिसमव्यावृत्त्यर्थं तृतीयान्तं विशेषणम् ।। कृतिज्ञप्तिसाधारणमिति । कृतिरुत्पत्तिरित्यर्थः । उत्पत्तिसाधारणं व्याप्तिसमं निरूपयति ।। यथेति । चेच्छब्दो यद्यर्थे । तर्हीति शेषः । यदि धूमज्ञानं वह्निज्ञानं प्राप्य सम्बध्योत्पादयति तर्हि सता विद्यमानेनैव प्राप्तिर्भवतीति हेतोस्तस्य वह्नित्वज्ञानस्य प्राक् प्राप्तेः प्राक्सिद्धत्वाद्विद्यमानत्वान्नोत्पादकत्वमित्यर्थः । धूमज्ञानस्येति शेषः । ज्ञप्तिसाधारणं प्राप्तिसममाह ।। तथेति । कृतिज्ञप्तिसाधारणमप्राप्तसमं युगपदेव दर्शयति ।। अप्राप्त्येति । धूमज्ञानस्येति शेषः । अग्निज्ञानमग्निनेत्यनुवर्तते । धूमज्ञानस्याग्निज्ञानमग्निं प्राप्योत्पादकत्वज्ञापकत्वमभ्युपगतम् । तर्हि क्वाप्यदर्शनादप्राप्योत्पादकत्वज्ञापकत्वयोः कुत्राप्यनुपलम्भादित्यर्थः । अनुत्पादकत्वज्ञापकत्वं चेति शेषः । अदर्शनमुपपादयति ।। न हीति ।। अतिप्रसङ्गश्चान्यथेति । अन्यथाऽप्राप्योत्पादकत्वज्ञापकत्वयोरङ्गीकारेऽतिप्रसङ्गः । धूमज्ञानस्य घटज्ञानोत्पादकत्वघटज्ञापकव्युत्पत्तिरूपातिप्रसङ्गश्च स्यादित्यर्थः । अस्येत्युत्तरं वाच्यमित्यनेनान्वयः । कृतौ वह्निज्ञानं प्राप्तेन धूमज्ञानेन वह्निज्ञानोत्पत्तिर्भवतीति पक्षे सामर्थ्यलक्षणप्राप्तिसद्भावेन धूमज्ञानस्य वह्निज्ञानजननसामर्थ्यरूपसम्बन्धसद्भावेनातिप्रसङ्गाभावात् । स्वरूपप्राप्तिः सता वह्निज्ञानप्राप्तिर्नापेक्षितैवेत्यर्थः ।। ज्ञप्ताविति ।। वह्निज्ञप्त्येन धूमज्ञानेन वह्निज्ञानं भवतीति पक्ष इत्यर्थः । तद्य्वाप्त्येत्यत्र तच्छब्दो वह्निपरः ।। एतदिति । उक्तसम्बन्धरूपप्राप्तिद्वयमनभ्युपेत्य स्वरूपप्राप्त्यादिकं सता स्वकार्यसवह्निज्ञानस्वरूपेण प्राप्तिमादिशब्दोक्तां स्वज्ञाप्यवह्निविषयकत्वरूपप्राप्तिं धूमज्ञानस्याङ्गीकुर्वतः स्वन्यायव्याप्यतो विरोधो भवतीत्यर्थः । साध्यप्राप्तिहेतोर्विशेषणं च तज्जातिवाद्युक्तरीत्याऽत्र नास्तीति विशेषणासिद्धिरारोप्या । तथा च वादिसाधनं स्वसाध्यसाधकं न विशेषणसिद्धत्वात्सम्मतवदिति जातिवादिनो विवक्षितम् । अस्य प्रतिषेधो हेतोरपि प्राप्तिनिरासेन च साधनत्वनिराकरणासम्भवात् स्वन्यायविरोधान्तर्गतमुक्तमप्राप्तिद्वयमिति बोध्यम् ।