प्रमाणपद्धतिः
(५) प्रमाणपद्धतिः
तत्र केचिद्धर्मा उभयव्यापकाः । यथा प्रमेयत्वम् । नैतत्सम्बन्धं विघटयितुमीशते । केचिदुभयाव्यापकाः । यथा महानसत्वम् । तेऽपि नैतत्सम्बन्धविघटनाय समर्थाः । केचिद्धूमव्यापका अग्न्यव्यापकाः । यथाऽऽर्द्रेन्धनसंयोगः । तेऽप्यग्नेर्धूमवियोजने शक्ता अपि न धूमस्याग्निवियोजने । यस्त्वग्नेर्व्यापको धूमस्य त्वव्यापकः स स्वयं व्यावर्तमानः शक्ष्यत्येतत्सम्बन्धं विघटयितुम् । स तु नास्त्येव । अनुपलम्भात् । अतीन्द्रियोऽपि प्रमाणान्तरवेद्यः स्यात् । न च तत्प्रमाणमुपलभ्यते । न चाप्रामाणिकः शङ्कामप्यधिरोहति । अतो नात्रोपाधिरस्तीति निर्णीतवतोऽविनाभावाप्रमितिरुत्पद्यते ।
जयतीर्थविजय
।। उभयव्यापका इति । साध्यसाधनोभयव्यापका इत्यर्थः ।। न धूमस्याग्निवियोजन इति । शक्ता इत्यनुषज्यते ।। शक्ष्यत्येतत्सम्बन्धं विघटयितुमिति । व्यापकनिवृत्तौ व्याप्यनिवृत्त्यवश्यम्भावादिति भावः ।।
भावदीपः
अभावं निर्धारयितुमुपाधिं परिशेषयति ।। तत्रेति । व्यभिचारभावाभावयोरुपाधिभावाभावाधीनत्वे सतीति वा धर्मेषु मध्य इति वाऽर्थः । उपलक्षणत्वेनैकमुदाहरति ।। यथा प्रमेयत्वमिति । एवमग्रेऽपि । अत एव त इत्यग्रे बहुवचनोक्तिः । तत्सम्बन्धं धूमस्याग्निसम्बन्धमित्यर्थः । स्वनिवृत्तेरेवाभावेन कथमग्निसम्बन्धं धूमस्य व्यावर्तयेदिति भावः । तेऽपि न शक्ता इति अव्यापकस्य साध्यव्यावर्तनेऽतिप्रसङ्गादिति भावः ।। न धूमस्याग्निवियोजन इति । शक्ता इत्यनुषङ्गः । धूमव्यापकः स्वयं व्यावर्तमानः स्वव्याप्यं धूममेव व्यावर्तयति । न तु धूमं स्थापयित्वा तस्याग्निसम्बन्धं व्यावर्तयतीत्यर्थः । एवं प्रसक्तां स्त्रिविधान्धर्मानुपाधित्वसम्भवेन निरस्योपाधित्वेन सम्भावितं धर्मं परिशेषयति ।। यस्त्वग्नेरिति । तं सम्बन्धं धूमस्याग्निसम्बन्धमित्यर्थः । सम्भावितं धर्मं परिशेष्याधुना तदभावनिर्धारप्रकारमाह ।। स तु नास्तीति ।। अत इति । प्रामाणिकत्वात्तादृशस्य शङ्कानर्हत्वाच्चेत्यर्थः ।। उपाधिरिति । व्यभिचारसम्पादक इति योज्यम् ।। अविनाभावेति । साध्यत्वाभिमतवस्तुसाहित्येनैव सत्त्वरूपाव्यभिचरितसम्बन्धप्रमितिरित्यर्थः। नन्वत्र धूमस्याग्निसम्बन्धे उपाधिरैन्द्रियकश्चेदुपलभ्येत नोपलभ्यते । अतोऽनुपलम्भान्नास्तीति । अतीन्द्रियश्चेत्प्रमाणान्तरवेद्यः स्यात् । न च तत्प्रमाणमुपलभ्यते । अप्रामाणिकं न शङ्कार्हम् । अतोऽत्र नास्त्युपाधिरिति तर्केणोपाध्यभावं निश्चित्य तेन तदधीनव्यभिचाराभावनिश्चयेन व्याप्तिनिश्चये तर्कस्यापि व्याप्तिधीसापेक्षत्वादनवस्था स्यादिति चेन्न । उपाधिसन्देहे सत्येव तदपनयेन तदभावनिर्णयाय तर्कस्यावतारात् । अत एव प्रागुपाधिसन्देह एव प्रदर्शितः । यत्र तु नोपाधिसन्देहो न तत्र तर्कावतार इति नानवस्थेति तात्पर्यात् । वक्ष्यति चान्ततः प्रत्यक्षागममूलत्वादिति । उक्तं हीत्थमेव तर्कताण्डवे खण्डनोक्तिव्याप्तिनिश्चयानुपपत्तिभङ्गे ।
श्रीविट्टलभट्ट
।। तत्रेति । महानसादिधर्मेष्वित्यर्थः । उभयव्यापकादुभयोर्धूमाग्न्योर्व्यापकादित्यर्थः ।। नैतत्सम्बन्धमिति । एते उभयव्यापकाः प्रमेयत्वादयस्तत्सम्बन्धं धूमस्याग्निनैकाधिकरणवृत्तित्वरूपं सम्बन्धमित्यर्थः ।। तेऽपीति । धूमव्यापकाग्न्यव्यापकाश्चार्द्रेन्धनसंयोगादय इत्यर्थः । धूमेवियोजनेऽपि धूमसम्बन्धविघटन इत्यर्थः ।। अग्निवियोजन इति । शक्त इत्यनुवर्तते ।। स तु नास्तीति । तुशब्दो विशेषणार्थः । योग्यत्वविशिष्टोऽपीत्यर्थः । अनुपलम्भाद्योगानुपलब्धेरित्यर्थः । इन्द्रिययोग्यस्योपाधेरपि तदयोग्यः कश्चिदस्त्वित्यत आह ।। अतीन्द्रियोऽपीति । प्रमाणान्तरवेद्यः प्रत्यक्षातिरिक्तप्रमाणविषय इत्यर्थः ।। तत्प्रमाणमिति । प्रत्यक्षातिरिक्तप्रमाणमित्यर्थः । उपाधाविति शेषः । यद्वा तस्मिन् इन्द्रियोपाधौ प्रमाणमनुमानादिकमित्यर्थः । अनुमानागमयोरभावादयोग्योपाधिर्नास्तीति भावः । ननु प्रमाणाभावेनोपाध्यनिश्चयेऽपि तत्र कर्हिचिदुपाधिरिति सन्देहो भविष्यतीत्यत आह ।। न चेति । अप्रामाणिकः सर्वप्रमाणागोचरः । शङ्कायामपि न केवलं निश्चयम् । किं नाम सन्देहं च नाधिरोहति विषयतया न बध्नातीत्यर्थः । सत्त्वस्य प्रमाणवृत्तौ तन्त्रत्वात् । तत्सद्भावे प्रमाणविषयत्वावश्यम्भावात् । अविषयस्य सत्त्वव्यतिरेकात्तत्सन्देहो न युक्त इति भावः ।। अत इति । उपाधेः सकलप्रमाणविषयत्वादत्र धूमाग्निसम्बन्ध इत्यर्थः ।। अविनाभावप्रमितिरिति । नियतसामानाधि करण्यरूपसम्बन्धपर्यवसन्नान्वयादविनाभावरूपव्याप्तिः प्रमितिरित्यर्थः ।