प्रमाणपद्धतिः

व्यतिरेकव्याप्तेः अप्रयोजकता

(१३) प्रमाणपद्धतिः

केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात्त्रिविधमनुमानमित्येके । साध्यधर्मविशिष्टो धर्मी पक्षः । तत्र व्याप्त्या वर्तमानम् । निश्चितसाध्यसमानधर्माधर्मी सपक्षः । तत्र सर्वस्मिन्नेकदेशे वर्तमानम् । साध्यतत्समानधर्मरहितो धर्मी विपक्षः । तद्रहितं केवलान्वयि । तद् द्विविधम् । सर्वसपक्षतदेकदेशवृत्तिभेदात् । शब्दोऽभिधेयः प्रमेयत्वादिति सपक्षव्यापकम् । सर्वस्मिन्नभिधेयतया सम्प्रतिपन्ने प्रमेयत्वस्य वृत्तेः । गुणत्वादिति सपक्षैकदेशवृत्ति । रूपादौ वृत्तेर्घटादाववृत्तेः ।

जयतीर्थविजय

सम्प्रति तत्रादौ तावत्प्रमाणसामान्येत्यादिना यत्प्रतिज्ञातं परोक्तानुमानविभागनिराकरणं तत्कर्तुं नैयायिकमतमनुवदति ।। केवलान्वयीत्यादिना ।। एक इति । नैयायिका इत्यर्थः । केवलान्वयिनो लक्षणं वक्तुं लक्षणघटकस्य पक्षस्य लक्षणमाह ।। साध्येति । धर्मिग्रहणं प्रमाणप्रमितस्यैव पक्षत्वमिति सूचनार्थम् । व्याप्त्या सर्वत्रेत्यर्थः । सपक्षलक्षणमाह ।। निश्चितेति । तत्र साधयितुं योग्यमिति व्युत्पत्त्या साध्यपदेन सिषाधयिषितं पक्षीयसाध्यं विवक्षितम् । निश्चितः साध्यसमानधर्मो यस्येति बहुव्रीहेर्धर्मादनिच् केवलादित्यनिच्प्रत्ययः । समानत्वं च धर्मस्य साध्यतावच्छेदकरूपेण विवक्षितम् । तेन विपक्षस्यापि प्रमेयत्वादिना समानधर्मवत्त्वान्नातिव्याप्तिरिति ज्ञेयम् । साध्यानिश्चयदशायां महानसादावतिव्याप्तिवारणाय निश्चितेति साध्यसमानधर्मविशेषणम् । निश्चितसाध्यवत्वं सपक्षत्वमित्युक्तेऽसम्भवः । निश्चितत्वसाध्यत्वयोर्विरोधादतः समानपदम् । धर्मपदं स्वरूपकथनार्थम् । सर्वस्मिन्नेकदेशे वेति स्वरूपकथनम् । न तु लक्षणशरीरानुप्रवेशेन वृत्तित्वमात्रं विवक्षितम् । साध्यतत्समानधर्मरहित इत्यत्र साध्यपदव्याख्यानन्तु पूर्ववत् । साध्यरहितो विपक्ष इत्युक्ते सपक्षे गतम् । अतस्तत्समानेति । समानधर्मरहितो विपक्ष इत्युक्ते पक्षे गतम् । अतः साध्येति ।। तद्रहितमिति । विपक्षशून्यमित्यर्थः । सर्वपक्षवृत्तित्वे सति सपक्षवृत्तित्वे सति विपक्षावृत्तित्वं केवलान्वयिनो लक्षणमिति निष्कर्षः । तदुक्तं वरदराजेन ।

पक्षः साध्यान्वितो धर्मी साध्यजातीयधर्मवान् ।

सपक्षोऽथ विपक्षस्तु साध्यधर्मनिवृत्तिमान् ।

सर्वेषु केषुचिद्वापि सपक्षेषु कृतान्वयि ।

विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयीति ।

अत्र पक्षवृत्तित्वमेव लक्षणमित्युक्ते भागासिद्धेऽतिव्याप्तिः । अतः सर्वेति । तावत्येवोक्ते केवलव्यतिरेकिणि गतम् । अतः सपक्षवृत्तित्वे सतीति । सर्वपक्षवृत्तित्वे सति सपक्षवृत्तित्वमेव लक्षणमित्युक्तेऽन्वयव्यतिरेकिणि धूमवत्त्वादौ गतम् । अतो विपक्षरहितत्वमिति क्रमेण व्यावर्त्यानि । व्युत्क्रमेण विपक्षरहितत्वेन केवलान्वयिनो लक्षणमित्युक्ते सर्वमनित्यं प्रमेयत्वादित्यनुपसंहारिणि गतम् । अतः सपक्षवृत्तित्वे सतीति । सपक्षवृत्तित्वे सति विपक्षावृत्तित्वमेव लक्षणमित्युक्ते आकाशमभिधेयमाकाशान्यत्वादित्यत्र गतम् । अतः पक्षवृत्तित्वे सतीति । पक्षविशेषणसर्वपदपरित्यागे तु कालाकाशावभिधेयौ कालान्यत्वादित्यत्र गतम् । अतः सर्वेति । आद्यन्तग्रहणेन सपक्षवृत्तित्वविशेषणत्यागे तु घटाकाशातिरिक्तं सर्वमभिधेयं घटाकाशान्यत्वादित्यत्र गतम् । अतः सपक्षवृत्तित्वे सतीति सर्वं सार्थकं द्रष्टव्यम् ।

भावदीपः

सर्वमप्यन्वय एवेति विवक्षुः परोक्तं निरसितुमनुवदति ।। केवलेति । एके तार्किकाः ।

सर्वेषु केषुचिद्वाऽपि सपक्षेषु कृतान्वयि ।

विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि ।।

इति परोक्तलक्षणं पक्षादिस्वरूपं वदन्नेवाह ।। साध्येति । यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्मः । सपक्षादिव्यावृत्तये धर्मेत्युक्तिः । वस्तुतोऽग्निविशिष्टपर्वतस्य साध्यत्वादन्यस्य पक्षत्वव्यावृत्तये धर्मेत्युक्तिः धर्ममात्रस्य प्रागेव सिद्धेः साध्यत्वायोगाद्विशिष्ट इत्युक्तिः । तथा च धर्मस्य साध्यत्वं तत्सम्बन्धितयैव सिध्यति । साधनसाध्यधर्मेण वैशिष्ट्यसम्बन्धोऽस्तीति धर्मीत्युक्तिः ।। तत्रेति । उक्तरूपपक्षे । व्याप्त्या वर्तमानमित्यस्य केवलान्वयीति वक्ष्यमाणेनान्वयः ।। निश्चितेति । निश्चितो यः साध्यसमानधर्मो व्यापकतावच्छेदकेन सदृशो यो धर्मः स यस्येति बहुव्रीहिः । इमौ पर्वतावग्निमन्तावित्यत्र व्यापकतावच्छेदकाग्नित्वधर्मेण साध्यसमानधर्मवत्त्वमन्योन्यं द्वयोरप्यस्तीति तद्व्युदासाय निश्चितेति धर्मविशेषणम् । असम्भवनिरासाय समानेति । व्याप्तिरूपप्रत्यासत्त्या निश्चितसाध्यसमानधर्मवतः साधनस्य निरासाय धर्मीति । तादृशधर्मं प्रत्याधारभूतेत्यर्थः । ननु कथं धर्मेति धर्मादनिच् केवलादित्युक्तेरिति चेन्मैवम् । धातुवृत्तावुक्तदिशा केवलादिति धर्मविशेषणम् । बहुव्रीह्याक्षिप्तपूर्वपदस्य विशेषणम् । तेन पूर्वपदीभवतः केवलादन्यनिरपेक्षात्परो यो धर्मशब्दस्तदन्तादित्यर्थः । तथा च निश्चितश्चासौ साध्यसमानश्च निश्चितसाध्यसमानः । तादृशो धर्मो यस्येति विग्रहे निश्चितसाध्यसमानपदस्य बहुव्रीहौ पूर्वपदीभवतोऽन्यनिरपेक्षत्वेनानिच् प्रत्ययोपपत्तेः । उक्ते विग्रहे केवलस्य धर्मविशेषणत्वेऽप्यदोषादिति ।। तत्रेति । सपक्षे । वर्तमानपदस्य केवलान्वयिपदेनान्वयः ।। तद्रहितमिति । विपक्षरहितमित्यर्थः । अभिधेयो वाच्यः । प्रमेयत्वात्प्रमाविषयत्वादित्यर्थः । शब्दोऽभिधेय इत्यत्रैव सपक्षैकदेशवृत्तिहेतुमुक्त्वोपपादयति ।। गुणत्वादिति । वृत्तीत्यनन्तरं केवलान्वयीत्यनुषङ्गः ।

श्रीविजयीन्द्रतीर्थ

नैयायिकसिद्धमनुमानभेदं दूषयितुमाह ।। केवलेति । सत्केवलान्वयादिलक्षणं वक्तुं पक्षादिलक्षणमाह ।। साध्येति । सिषाधयिषितत्वरहितव्यापकत्वाभिमतत्वनिश्चयाविषयः पक्ष इत्यर्थः । तेन प्रमाणसम्प्लवेऽपि पक्षता तत्रेत्यनेन पक्षवृत्तित्वलक्षणविशेषणोक्तिः शब्दोऽभिधेयो मूर्तत्वाद्वर्णात्मकत्वादिति व्यावृत्त्यर्थम् ।। निश्चितेति । व्यापकत्वाभिमतवत्तया निश्चित इत्यर्थः । तत्रेत्यनेन पक्षवृत्तित्वस्वरूपं द्विविधं चोक्तम् । विशेषणव्यावृत्त्यर्थं तु सर्वमभिधेयं प्रमेयत्वादिति साध्यतत्समानेऽतिव्यापकतावच्छेदकावच्छिन्नाभाववानित्यर्थः ।। तद्रहितमिति । अत्यन्ताभावाप्रतियोगिकसाध्यमित्यर्थः । धूमादिव्यावृत्त्यर्थः । व्यतिरेकलक्षणे पृथिवीतरभेदसाध्ये द्रव्यत्वमनित्यत्वे साध्ये पृथिवीत्वरूपसाधारणमितरभेदे साध्ये गुरुत्वं च व्यावर्तयितुं विशेषणानि ।

श्रीवेदेशभिक्षु

घटकतया पक्षादिकं लक्षयन्नेव केवलान्वयादिलक्षणमाह ।। साध्येति । अत्र साध्यत्वं सिद्धिकर्मत्वरूपमतो न सपक्षेऽतिव्याप्तिरिति ध्येयम् । हेत्वादेरतिव्याप्तेराह ।। धर्म इति ।। तत्रेति । पक्ष इत्यर्थः । शब्दोऽभिधेयश्चाक्षुषत्वादिति स्वरूपासिद्धेऽतिव्याप्तिवारणाय पक्षे वर्तमानमित्युक्तम् । एवमपि तस्यामेव प्रतिज्ञायां वर्णात्मकत्वादिति भागासिद्धेऽतिव्याप्तिवारणाय व्याप्त्येत्युक्तम् । सर्वमसिद्धेयं प्रमेयत्वादित्यत्रातिव्याप्तिवारकं सपक्षवृत्तित्वविशेषणम् । अन्वयव्यतिरेकादिव्यावृत्तकं विपक्षरहितमिति विशेषणमिति बोध्यम् ।

अभिनवामृतम्

।। साध्यसमानधर्माधर्मीति । ननु साध्यसमानधर्मेत्ययुक्तम् । धर्मादनिच् केवलादिति सूत्रेण केवलात्पदात्परो यः केवलो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिचो विहितत्वेन प्रकृते तदयोगादिति चेत् । उच्यते । साध्येन समानः साध्यसमानः साध्यसमानो धर्मो यस्येति विग्रहाश्रयणे समस्य समानस्य साध्यसमानेति पूर्वपदस्य केवलत्वानपायात् ।

आदर्शः

।। साध्यधर्मविशिष्टो धर्मी पक्ष इति । साध्यः पक्ष इत्येवोक्तौ वह्न्यादिमात्रस्य पक्षप्रतीतिः स्यात् । अतः साध्यधर्म इत्युक्तम् । यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्म इत्यर्थः । धर्मविशिष्ट इत्येवोक्तौ यस्य कस्यापि स्यात् । साध्यविशिष्ट इत्येवोक्तौ वह्निमत्पर्वतादिविशिष्टस्यापि साध्यत्वेन (तथा च यथाऽग्निः पर्वतसम्भन्धितया साध्य एवमग्निविशिष्टपर्वतोऽप्यग्निसम्बन्धितया साध्यः । अग्निपर्वतयोः स्वरूपमात्रस्य सिद्धत्वेऽपि विशिष्टासिद्धेरुभयत्रापि समानत्वात् । एवं चाग्निविशिष्टपर्वतस्यापि साध्यत्वेन तद्विशिष्टस्यान्यस्य तदवयवस्य पक्षत्वं स्यात् । अतस्तत्रातिव्याप्तिवारणाय धर्मपदं दत्तम् ।) तद्वद्भूतलादेरपि पक्षत्वं स्यादतो धर्म इत्युक्तम् । अनुमितिविषयीभूतविशिष्टघटकीभूतो यो धर्म इत्यर्थलाभेन तत्प्रतीतेर्वारणात् । साध्यधर्मविशिष्ट इत्येवोक्तौ शुद्धपर्वतादिसमवेतस्य शुद्धेन सह भिन्नाभिन्नस्यैव पक्षत्वं प्रतीयेत । विशिष्टगतस्य सर्वस्यापि धर्मस्य शुद्धसत्त्वनियमाभावात् । अतो धर्मीत्युक्तम् । तेन शुद्धस्यापि पक्षपदवाच्यत्वमस्ति ।

अयं भावः । सिद्धविषयीभूतधर्मविशिष्टत्वं पक्षपदप्रवृत्तिनिमित्तम् । तत्तत्पदान्तरसमभिव्याहाराद्विशेषविशिष्टबोधकत्वमिति । न च तर्हि जलह्रदादौ वह्नेः साध्यतायां पक्षपदप्रयोगाभावप्रसङ्गः । तत्र वह्निविशिष्टह्रदत्वरूपपक्षपदप्रवृत्तिनिमित्ताभावादिति वाच्यम् । इष्टापत्तेः मुख्यवाच्यत्वस्यानङ्गीकारात् । हेत्वाभासे हेतुपदप्रयोगस्येव पक्षाभासे ह्रदादौ पक्षपदस्य गौणत्वाङ्गीकारात् । न चोक्तधर्मावच्छिन्नवाचकत्वे खलु सर्वमिदं स्यात् । तत्रैव किं मानमिति चेत् । बहुव्यवहारस्यैव मानत्वात् । कोशादिवच्छक्तिग्राहकत्वेन तस्यापि प्रमितत्वात् । तथा हि । शास्त्रेऽयं पक्षः साधुरयमसाधुरस्मत्पक्षो भवत्पक्ष एकतरपक्षपरिग्रहः कार्य इत्यादयो बहवः पक्षपदव्यवहाराः । तत्र पक्षपदस्य नान्योऽर्थः सम्भवति । न हि पर्वतो वह्निमान्न वेति विवादवेलायां पर्वत इत्येतावन्मात्रोक्तौ पक्षपरिग्रहः कृतो भवति । पक्षपरिग्रहः इत्यस्य तदङ्गीकारबोधकवाक्यप्रयोग इत्यर्थकत्वात् । किन्तु वह्निमान्पर्वत इति विशिष्टबोधकवाक्यप्रयोग एव कृतो भवति । अयं पक्ष इत्यस्य प्रकृतसिद्धिविषयीभूतविशिष्ट इत्येवार्थः । एवमस्मत्पक्ष इत्यस्यास्मत्सम्बन्धिसिद्धिविषयीभूत विशिष्ट इत्येवार्थः प्रतीयत इति । एवं चोक्तव्यवहारात्पक्षपदस्य प्रकृतज्ञानविषयीभूतधर्माविशिष्ट वाचकत्वमेवेति । अनुमितौ पक्ष इत्यस्याप्यनुमितिविषयीभूतविशिष्ट इत्येवार्थः । तदेकदेशप्रयोगस्तु लक्षणादिनैव । अत एव मिथ्यात्वानुमानखण्डनटीकायामाश्रयासिद्धः पक्ष इति वाक्यव्याख्यानावसरे पक्षपदेन तदेकदेशो धर्मी लक्ष्यत इत्युक्तम् । केचित्तु पक्षताया अनुमितिकारणतां वदन्तः साध्यसन्देहस्यैव पक्षतारूपत्वं वदन्ति । अपरे तु सिषाधयिषाया एव घनगर्जितेन मेघानुमाने तदुभयोरप्यभावाद्य्वभिचारान्न तयोः पक्षत्वं किन्तु सिषाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षतेति । अपरे तु अनुमित्यन्यसिद्धिकारणस्यानुमितिप्रतिबन्धकत्वम् । अत एव संशयोत्तरं परामर्शसत्त्वेऽपि सन्निकर्षसत्त्वे प्रत्यक्षमेव जायते । तथा च तदभावोऽप्यनुमितिकारणम् । अतस्तस्यापि पक्षतान्तर्भावः कर्तव्य इति वदन्ति । तत्सर्वमप्यनादेयम् । सिद्धेरनुमितिप्रतिबन्धकतायां मानाभावात् । पर्वते वह्निरस्तीति श्रुतवतो धूमादिदर्शने विनाऽपीच्छामनुमितेरनुभवसिद्धत्वात् । तत्रेच्छाकल्पने चानुभवविरोधात् । अन्यथा मेघानुमानेऽपि तत्कल्पनाप्रसङ्गः । तत्रेष्टत्वग्रहाभाववतस्तत्साधनत्व ग्रहाभाववतश्च तत्रेच्छासामग्रयभावेन तत्रेच्छोत्पत्त्ययोगाच्चानिष्टं भवतीति श्रुतवतस्तद्य्वाप्यदर्शनेनामुमितेरभावप्रसङ्गाच्च । अनिष्टानुमिताविच्छाया असम्भवात् । अन्यथा शाब्देऽपि सिद्धेः प्रतिबन्धकत्वापातात् । मानाभावस्योभयत्रापि साम्यत् । एवं प्रत्यक्षादिसामग्रया अनुमितिप्रतिबन्धकतायामपि मानाभाव एव । न चैवं संशयोत्तरमनुमित्यापत्तिः । तत्र सन्निकर्षसत्त्वात् । करादिमत्त्वरूपव्याप्यदर्शनकाल एव पुरुषत्वस्यापि प्रत्यक्षोत्पत्तेः । द्वितीयक्षणेऽनुमित्यापादने त्विष्टापत्तेः । अथवा प्रत्यक्षानुमितित्वयोरेकत्र समावेशे बाधकाभावेन तस्मिन्काले जायमानप्रत्यक्ष एवानुमितित्वमपि स्वीक्रियताम् । जातिसाङ्कर्यस्य दोषत्वे मानाभावात् । न च तत्र पश्यामीत्यनुभववत्कल्पयामीत्यनुभवापत्तिः । त्वन्मतेऽपीच्छाघटितसामग्रया बलवत्त्वेनेच्छाकाले सति चक्षुःसन्निकर्षे पुरुषत्वदर्शनानन्तरं पुरुषत्वं न पश्यामि किन्तु कल्पयामीत्यनुभवापत्तेः । तत्रेष्टापत्तौ ममापीष्टापत्तिरेव तर्हि सर्वदा व्याप्यदर्शनसद्भावादनुमित्यापत्तिरेव तर्हि सर्वदा व्याप्यदर्शनसद्भावादनुमित्यापत्तिरिति वाच्यम् । त्वत्पक्षेऽप्यापत्तेः साम्यात् । क्वचिद्य्वाप्तिस्मरणाभावेन क्वचिदिच्छारूपोत्तेजकाभावेन नानुमित्यापत्तिरिति चेत् । समं ममापि । क्वचिदन्यविषयकोत्कटेच्छादिना क्वचिद्य्वाप्तिस्मरणाद्यभावादिना क्वचिदननुगतप्रतिबन्धकसत्त्वादिनेति वक्तुं सम्भवात् । अस्तु वा प्रत्यक्षसामग्रयाः समाने विषये बलवत्त्वं तथाऽपि न तदभावः कारणम् । प्रतिबन्धकाभावस्य कारणताया आकरे खण्डितत्वात् । कारणताङ्गीकारेऽपि तस्य पदप्रवृत्तिनिमित्ततायां मानाभाव इत्यलमनल्पजल्पनेन ।। तत्र व्याप्त्या वर्तमानमिति । तत्र पक्षे । व्याप्त्या विशेषसम्भन्धेन यावत्पक्षे वर्तमानमित्यर्थः । केवलान्वयीत्यत्रान्वयः सपक्ष इत्यस्य पक्षसदृश इत्यर्थः । सादृश्यं च पक्षवृत्तिधर्मव्यङ्ग्यमेवेत्यभिप्रेत्य सपक्षलक्षणमाह ।। साध्यसमानेति ।। तत्र सर्वस्मिन्निति । सपक्ष इत्यर्थः ।। वर्तमानमिति । केवलान्वयीत्यत्रान्वयः । विपक्ष इत्यत्र पक्षविरुद्ध इत्यर्थः । विपदस्य विरुद्धार्थकत्वादित्याशयेन विपक्षलक्षणमाह ।। साध्येति । तथा च पक्षव्यापकत्वे सति सपक्षवृत्तित्वे सति विपक्षरहितत्वं केवलान्वयित्वमित्युक्तं भवति । एवमुत्तरत्रापि बोध्यम् ।

श्रीविट्टलभट्ट

परोक्तानुमानविभागं दूषयितुमनुवदति ।। केवलान्वयीति । केवलान्वयिलक्षणविशेषणानां पक्षादिघटितत्वादुपोद्घातप्रक्रियया पक्षादिलक्षणं वदन्नेव तद्विशेषणान्याह ।। साध्येति । साध्यान्वितत्वं हेतावप्यस्तीति धर्मीत्युक्तम् । धर्मीत्यनेन साध्यधर्मित्वस्याविवक्षितत्वात् । तेन तद्य्ववच्छेदः । न चैवं विशिष्टपदवैय्यर्थ्यं स्यादिति वाच्यम् । धर्मीत्यस्य विशिष्टपदविवरणरूपत्वेन तस्य लक्षणशरीरप्रविष्टत्वात् । साध्यपक्षेऽपादानान्न सपक्षेऽतिव्याप्तिः । तत्रानुमेयान्वितत्वाभावात् ।। तत्रेति । पक्षे व्याप्त्या सार्वत्रिकसम्बन्धेन सर्वस्मिन्पक्षे वर्तमानमिति यावत् ।। निश्चितेति । साध्यत्वाकारमन्तरेण व्यापकतावच्छेदकेन धर्मेण साध्यसमानधर्मवत्त्वमभिप्रेतमिति विपक्षेऽतिप्रसङ्गः । निश्चितपदं स्वरूपकथनपरम् । पक्षेऽतिव्याप्तिवारणाय समानपदम् । साध्यसमानधर्मवति हेतावतिव्याप्तिवारणाय धर्मपदम् ।। तत्रेति । सपक्षे वर्तमानमित्येतावदेव लक्षणशरीरप्रविष्टमिति ज्ञातव्यम् । साध्यतत्समानेति साध्यरहितत्वं सपक्षेऽस्ति । तत्समानधर्मरहितत्वं पक्षेऽस्तीति तद्य्ववच्छेदाय विशेषणद्वयम् । अत्र धर्मिपदं स्वरूपकथनार्थम् । तद्रहितं केवलान्वयीति विपक्षशून्यपूर्वोक्तविशेषणद्वयोपेतं च केवलान्वयीत्यर्थः । तथा च सकलपक्षवृत्तित्वे सति विपक्षशून्यं केवलान्वयीत्युक्तं भवति । शब्दोऽभिधेय आकाशविशेषगुणत्वादित्यादावतिव्याप्तिवारणाय द्वितीयं विशेषणम् । शब्दोऽभिधेयो मूर्तत्वादित्यत्रातिव्याप्तिनिवृत्त्यर्थं पक्षवृत्तित्वे सतीत्युक्तम् । शब्दघटावभिधेयौ मूर्तत्वादित्यादिहेतुव्यावृत्त्यर्थं सकलेति ।। सपक्षतदेकदेशवृत्तिभेदादिति । सपक्षवृत्तेः सत्त्वस्य भेदाभेदौ द्वैविध्यादित्यर्थः । प्रमेयवदितीत्यनन्तरं केवलान्वयीति शेषः ।। गुणत्वादिति ।। शब्दोऽभिधेय इति । प्रतिज्ञाऽनुवर्तते । इतीत्यनन्तरं केवलान्वयीति शेषः ।