प्रमाणपद्धतिः

(१९) प्रमाणपद्धतिः

प्रतिज्ञाहेतूदाहरणान्युदाहरणोपनयनिगमनानि वा त्रय एवावयवा इति भाट्टाः । उदाहरणोपनयौ द्वावेवेति बौद्धाः तदेतदसत् । व्याप्तिद्वैविध्यनिराकरणेनोदाहरणोपनयद्वैविध्यस्यापि निराकृतत्वात् । नियमानुपपत्तेश्च । न हीदं वाक्यमागमतया व्याप्त्यादिबोधकम् । येनाकाङ्क्षाद्यनुसारेण पञ्चावयवादिनियमः स्यात् । परस्य परस्मिन्नाप्त्यनिश्चयात् । निश्चये वा प्रतिज्ञामात्रेण पूर्तेर्हेत्वाद्यभिधानवैय्यर्थ्यात् । किन्तु गृहीतव्याप्त्यादेः पुरुषस्य तत्स्मारकत्वादिनाऽगृहीतव्याप्त्यादेस्तु तज्जिज्ञासाजनकत्वेनोपयुज्यते । व्याप्तिस्मरणादिकं चैतैश्चतुर्भिरपि प्रकारैर्भवदनुभूयते । तत्किमनेन नियमेन ।

जयतीर्थविजय

।। तदेतदिति । उदाहरणद्वैविध्यं पञ्चैव त्रय एवावयवा इत्यादिनियमो न चेत्यर्थः ।। नियमेति । पञ्चैव त्रय एवेत्यादिनियमानुपपत्तेरित्यर्थः । पञ्चावयवनियमं वदन्वादी प्रष्टव्यः । पञ्चत्र्याद्यवयवप्रयोक्तरि वादिनि किमाप्तिनिश्चयो नास्त्युतास्तीति । आद्यपक्षेऽवयवनियमं भिनत्ति ।। न हीति । इदं वाक्यं वादिवाक्यमित्यर्थः । आगमतयाऽऽप्तवाक्यत्वविधया । आप्त्यनिश्चयात् यथार्थमेवायं वदतीति विश्वासाभावादित्यर्थः । तथा च वादिना पञ्चावयवादिप्रयोगेऽपि यथार्थमेवायं वदतीति निश्चयाभावेन पुनराकाङ्क्षोदयात्तन्निवृत्त्यर्थमवयवान्तरप्रयोगस्यावश्यकत्वान्न पञ्चावयवादिनियम इति भावः । परस्य परस्मिन्नाप्तिनिश्चयोऽस्तीति द्वितीयपक्षे बाधकमाह ।। निश्चये वेति । यथार्थमेवायं वदतीति विप्रलम्भकत्वाभावादिघटिताप्तिनिश्चये वेत्यर्थः ।। हेत्वादीति । परस्मिन्नाप्तिनिश्चयसत्त्वेनास्तिकस्य मन्वादिस्मृतितः सन्ध्यावन्दनादिकर्तव्यतानिश्चयवत्प्रकृतेऽपि प्रतिज्ञामात्रेण साध्यसिद्धेः सप्रमाणमेवायं वदिष्यतीति निश्चयसत्त्वेन हेत्वादिरूपप्रमाणाकाङ्क्षाविरहाद्धेत्वाद्यभिधानवैय्यर्थ्यमित्यर्थः । तथा च वाक्यश्रोतुर्वादिन्याप्तिनिश्चयेऽनिश्चये वा पक्षद्वयेऽप्यवयवनियमोऽनुपपन्न इति भावः । तर्हि वादिवाक्यं कथं बोधकमिति पृच्छति ।। किन्त्विति । उत्तरमाह ।। गृहीतेति । तथा च पररीत्या व्याप्तिपक्षधर्मताभ्यां वाऽस्मद्रीत्या व्याप्तिसमुचितदेशवृत्तित्वाभ्यां वा विशिष्टलिङ्गस्मृतिर्यावता भवति तावदेव वक्तव्यम् । तावदभिधानं चावयवनियमाभावेऽप्युपपद्यत इत्याह ।। व्याप्तिस्मरणादिकमिति ।। एतैश्चतुर्भिरिति । पञ्चेत्येकः प्रकारः । उदाहरणान्ता उदाहरणादयो वा त्रय इति पक्षद्वयम् । उदाहरणोपनयौ द्वावेवेत्येकः ।। एवं चतुर्भिरित्यर्थः । भवत् ज्ञायमानम् ।

भावदीपः

।। नियमानुपपत्तेश्चेति । पञ्चैवावयवास्त्रय एव द्वावेवेति नियमानामयोगाच्चेत्यर्थः । तां व्यनक्ति ।। न हीत्यादिना ।। आकाङ्क्षाद्यनुसारेणेति । अग्निमानित्युक्ते कुत इति प्रमाणाकाङ्क्षायां धूमवत्त्वादिति हेतूक्तौ कथमस्याग्निसाधकतेति सामर्थ्यजिज्ञासायां प्राधान्यक्रमेण व्याप्तिपक्षधर्मतयोरुक्त्यर्थमुदाहरणोपनयौ सर्वस्य बुद्ध्यारोहाय निगमनमित्याकाङ्क्षायोग्यताद्यनुसारेणेत्यर्थः । परस्य प्रतिवादिनः । परस्मिन्वादिनि । गृहीतव्याप्त्यादेरित्यादिपदेन पक्षधर्मताग्रहः । व्याप्त्यादिस्मरणाद्यर्थमप्यवयवनियमोऽपेक्ष्यत इत्यत अह ।। स्मरणादिकं चेति ।। एतैश्चतुर्भिः प्रकारैरिति । पूर्वोक्तप्रकारैरित्यर्थः । भट्ट(मतो)तथागतोक्तप्रकारद्वयमुपेत्य चतुर्भिरित्युक्तम् ।

श्रीविजयीन्द्रतीर्थ

भट्टमतेनावयवनियममाह ।। प्रतिज्ञेति । बौद्धमतेनाह ।। उदाहरणेति । तार्किकोक्तोदाहरणादिद्वैविध्यं तावद्दूषयति ।। व्याप्तीति । व्यतिरेकव्याप्तिगमकत्वमादायोदाहरणादिद्वैविध्यमुक्तम् । तस्या गमकनिषेधादित्यर्थः । अवयवनियममपि दूषयति ।। नियमेति । ननु कथं नियमानुपपत्तिः । यावता कुत्र किं साध्यमित्याकाङ्क्षायां प्रतिज्ञा कुत इत्यत्र हेतुः । कथं गमकत्वमित्यत्रोदाहरणम् । उपनयश्च गमकतौपयिकरूपताप्रदर्शनाय । बाधसत्प्रतिपक्षयोः सतोर्गमकत्वासम्भवात्तदभावज्ञानानुवादभूतनिगमनमन्यप्रयोजनाभावात्प्रयुज्यत इत्याकाङ्क्षैव तार्किकमते नियामिका । मीमांसकस्य त्वबाधितत्वज्ञानस्यानुमित्यहेतुत्वात्पक्षधर्मतायाश्च धूमवत्त्वादिति हेतुप्रयोगाभ्युपगमेन हेतुवचनेनैव प्रदर्शनान्निगमनोपनययोरनपेक्षणात्प्रतिज्ञादित्रयम् । उपनयनिगमनाभ्यां वा पक्षधर्मतासाध्यत्वयोर्बोधनादुदाहरणेन व्याप्त्युपदर्शने उपनयेन च व्याप्तस्य लिङ्गस्य पक्षधर्मताप्रदर्शने हेत्ववयवकृत्यस्यापि कृतत्वादवयवद्वयनियमोऽप्यपेक्षानुसारेणैवेत्यत आह ।। न हीति ।। आप्तीति । आप्तत्वेत्यर्थः ।। तज्जिज्ञासेति । व्याप्त्यादिज्ञानानुकूलजिज्ञासाजनकधूमाद्युपस्थितिजनकत्वेनेत्यर्थः ।

श्रीवेदेशभिक्षु

ननु कथं नियमानुपपत्तिः । हेत्वाकाङ्क्षाप्रयोजकत्वेन प्रतिज्ञाया आवश्यकत्वे ततो हेत्वाकाङ्क्षायां लिङ्गस्वरूपमात्रबोधकहेतुवाक्यप्रयोगे कथमस्या गमकतेति जिज्ञासायां व्याप्तिपक्षधर्मता रूपसामर्थ्यद्वयबोधनायोदाहरणोपनययोः प्रवृत्तिः । ततः सर्वस्यैकबुद्ध्यारोहायैकवाक्यतामापादयितुं निगमनमपेक्षितमित्याकाङ्क्षाद्यनुपपत्तिरेवावयवनियमकल्पिकेत्यत आह ।। न हीदमिति । आगमतयाऽऽप्तवाक्यतया ।। चतुर्भिरिति । नैयायिकसौगताभ्यामुक्तप्रकारद्वयम् । मीमांसकोक्तं च प्रकारद्वयमिति प्रकारचतुष्टयं बोध्यम् ।। अनुभूयत इति । अयं भावः । मीमांसकादीनां स्वस्वनियमानुसारेण त्र्यवयवद्य्ववयवप्रयोगे पञ्चावयवनियमवादिनां नैयायिकादीनां व्याप्त्यादिमल्लिङ्गोपस्थितिर्भवति न वा । नेति पक्षे नैयायिकादिर्मीमांसकादीन्न निराकुर्यात् । तदुक्तलिङ्गाबोधात् । एवं मीमांसकादयोऽपि न तान्निराकुर्युः । तदुक्तलिङ्गाबोधात् । प्रत्युत परस्परं स्वस्वावयवनियमसंरक्षणायैतेषां कथान्तरारम्भः स्यात् । तत्राप्युक्तरीत्या परस्परमबोधे स्वस्वावयवनियमसमर्थनानुपपत्तिरिति वादिप्रतिवादिनोर्मूकीभाव एवापद्येत । तस्मात्समयबन्धानुसारेण स्वस्वरीत्या प्रयोगे परस्परं बोधो भवतीत्याद्य एव पक्षोऽङ्गीकार्यः । एवं तर्हि पञ्चावयवादिनियमाभावेऽपि व्याप्त्यादिमल्लिङ्गबोधोऽनुभूयत इति सर्वैरङ्गीकृतत्वान्न तन्नियमो युक्त इत्यर्थः ।

अभिनवामृतम्

।। न हीदमिति । आगमतया बोधके आकाङ्क्षाक्रमेण पञ्चावयवानां सार्थक्यमिति तुष्यतु दुर्जन इति न्यायेनोक्तमिति बोध्यम् । एतेन निश्चये वा हेत्वभिधानवैय्यर्थ्यमित्युत्तरग्रन्थविरोध इति परास्तम् ।। एतैः प्रकारैरिति । तार्किकोक्तप्रकार एको मीमांसकोक्तप्रकारद्वयं बौद्धोक्त एकप्रकार इति प्रागुक्तैश्चतुर्भिः प्रकारैरित्यर्थः ।

श्रीविट्टलभट्ट

।। तदेतदसदिति । तन्नैय्यायिकोक्तमेतद्भाट्टोक्तमित्यर्थः ।। ननु नियमानुपपत्तिश्चेति । पञ्चावयवा इति नियमो युक्त इत्युक्तम् । यावता व्याप्तिपक्षधर्मताविशिष्टलिङ्धीस्तावदाकाङ्क्षाक्रमेण वक्तव्यम् । अन्यथा न्यूनतापातात् । तत्र साध्यानुपस्थितौ हेत्वाकाङ्क्षैव नोदेतीति साध्योपस्थित्यर्थं प्रतिज्ञातावशक्यशङ्का । कस्मादिदं ज्ञेयमित्याकाङ्क्षायां लिङ्गस्वरूपप्रतिपादकं धूमादिहेतुवचनम् । तत्र लिङ्गस्य सामर्थ्यजिज्ञासायां प्रथमं व्याप्तिप्रदर्शनार्थमुदाहरणम् । पश्चात्पक्षधर्मताप्रदर्शनार्थमग्निव्याप्तधूमवानयमित्युपनयः । ततः सर्वस्यैकबुद्ध्यारोहायैकवाक्यतामापादयितुमुपसंहाररूपं निगमनं चापेक्षितमिति पञ्चावयावनामपेक्षितत्वादित्यत आह ।। न हीदमिति । इदं परोपदेशात्मकमागमतयाऽऽप्तवाक्यतयेत्यर्थः । पक्षधर्मत्वमादिशब्दार्थः ।। येनेति । आप्तवाक्यतया बोधकत्वेनेत्यर्थः ।। आकाङ्क्षाद्यनुसारेणेति । श्रोतुर्जिज्ञासानुसारेणेत्यर्थः । विप्रलम्भराहित्यं सिद्धं धर्मिणमुद्दिश्य साध्यधर्मो विधीयत इति परोक्तनियमश्चादिशब्दार्थः ।। स्यादिति । उच्यत इति शेषः ।। गृहीतव्याप्त्यादेरिति । गृहीता निश्चिता व्याप्तिरादिः पक्षधर्मता येन तस्येत्यर्थः ।। तत्स्मारकत्वादिनेति । तस्य व्याप्त्यादेरित्यर्थः । तत्स्मरणहेतुसंस्कारोद्बोधकत्वमादिपदेन गृह्यते ।। तज्जिज्ञासाजनकत्वेनेति । तत्तस्माद्य्वाप्तिपक्षधर्मताविशिष्टलिङ्गस्मृत्यादेरनियतावयवैर्जायमानवदनेन पञ्चावयवा इत्यादिनियमेन किं फलं न किमपीत्यर्थः । एतैः पञ्चावयवादिरूपैः प्रकारः परोपदेशप्रभेदैर्बुद्धिसौक्ष्म्यमान्द्यलक्षणवैचित्र्याज्जायमानोऽनुभूत इत्यर्थः । न चावयवनियमाभावे न्यूनादिनिग्रहोद्भावनं न स्यादिति वाच्यम् । यथोदाहरणे दृष्टान्तोक्तिः । यच्छब्दतच्छब्दयोर्वीप्साविशेष्यकण्टकोद्धारः । असाधकतानुमानं चानियतमिति न्यायमते समयसम्बन्धानुसारेण न्यूनाद्युद्भावनम् । यथा चोदाहरणादि कालस्त्रयोऽवयवा इति भट्टमतेऽप्राप्तकालाद्युद्भावनम् । तथाऽस्मत्पक्षेऽप्युक्तवक्ष्यमाणपक्षेष्वेतं पक्षमाश्रित्यैव वक्तव्यमिति बुद्धिसौक्ष्म्यमान्द्यरूप वैलक्षण्यमपेक्ष्य लोकशास्त्रप्रवाहतो मार्गेण यावती पक्षधर्मताविशिष्टलिङ्गोपस्थितिर्भवति तावद्वक्तव्यमिति वा समयसम्बन्धानुसारेण न्यूनतादिनिग्रहोद्भावनोपपत्तेरनियतावयवपक्षो युक्त इति बोध्यम् । तदुक्तं प्रमाणलक्षणटीकायाम् । न चैवमवयवाभ्युपगमव्याघातात् । यस्य यावता विना न बोधस्तं प्रति तदभिमानस्येष्टत्वात् । विचित्रबुद्धयो हि पुरुषा इति ।