प्रमाणपद्धतिः

(३३) प्रमाणपद्धतिः

।। ९ ।। अपार्थकम् । अनन्वितवाचकपदादिप्रयोगोऽपार्थकम् । यथा कुण्डमजाजिनं दशदाडिमानि षडपूपा इत्यादि । इदं च स्फुटमसङ्गतम् ।

जयतीर्थविजय

।। अनन्वितेति । अनन्विता ये पदार्थास्तद्वाचकपदादिप्रयोग इत्यर्थः । आदिपदेन वाक्यपरिग्रहः । अत्रानन्वितवाचकपदाभ्यामर्थान्तरनिरर्थकयोर्निरासः । अर्थान्तरग्रस्तवाक्यस्य पदार्थवाचकत्वेनान्वितार्थवाचकत्वाभावात् । निरर्थकस्य च पदार्थवाचकत्वाभावात् । एतदेवाह वरदराजः । पदजातं वाक्यजातमनन्वितपदार्थकमिति । उदाहृत्य दर्शयति ।। यथेति । इत्यादीत्यादिपदेन व्यवधानान्वयस्यौदनं सरसि भुक्त्वा स्नातो यातीत्यादेः, सम्भवत्सर्वान्वयनिरासे सत्यसम्भवादन्वयस्य, नित्या वेदा अनादिः संसारोऽकर्तृकं क्षित्यादिकं जगद्वैचित्र्यं च निर्हेतुकमित्यादेश्च सङ्ग्रहः।

भावदीपः

।। अनन्वितेति । एतच्चार्थान्तरव्यावृत्त्यर्थम् । निरर्थकनिरासाय वाचकेति ।

श्रीविजयीन्द्रतीर्थ

।। अनन्वितेति । निरर्थकव्यावर्तनाय वाचकेति । अर्थान्तरवारणायानन्वितपदार्थोपस्थापकेत्यर्थः ।। इदं चेति । आकाङ्क्षाविरहादिति भावः ।

श्रीवेदेशभिक्षु

अनन्वितवाचकपदाभ्यां क्रमेणार्थान्तरनिरर्थकव्यावृत्तिः । आदिपदेन वाक्यपदप्रयोगसङ्ग्रहः ।। स्फुटमिति । आकाङ्क्षाविरहादिति भावः ।

अभिनवामृतम्

।। अनन्वितवाचकपदादिप्रयोग इति । आदिपदेनानन्वितावान्तर वाक्यं गृह्यते ।

आदर्शः

।। इदं च स्फुटमसङ्गतमिति । न चात्राप्यनुक्तिरेव प्रतिवाद्यादिजिज्ञासिताया अन्वितोक्तेरभावादिति वाच्यम् । जिज्ञासितार्थस्य बोधकत्वात् । न हि विभिन्नविभक्तिमत्पदेनार्थोपस्थितिर्न भवति । किन्त्वपेक्षितविभक्त्यभावात्परस्परमनन्वितत्वेन वाक्यस्यैकार्थकत्वं न सम्भवति । अतो नानुक्तिर्वक्तुं शक्या । किन्त्वनाकाङ्क्षितस्यानन्वितस्योक्तेरसङ्गतिरेवोद्भावनीयेति ।

श्रीविट्टलभट्ट

।। अनन्वितेति । आदिपदेनानन्वितं वाक्यं गृह्यते । अनन्वितपदबोधकशब्दप्रयोगोऽपार्थकमित्येव लक्षणवाक्यं विवक्षितम् । बोधकशब्दस्तु पदवाक्यभेदेन द्विविध इति ज्ञापनाय पदादिपदोपादानम् । अवाचकपदादिप्रयोगरूपनिरर्थकव्यवच्छेदाय वाचकपदग्रहणं कृतम् ।। इत्यादीनि । ओदनं स्नातो ग्रामं सरसि गत्वाऽश्नातीत्यादिरादिशब्दार्थः ।। इदं च स्फुटमसङ्गतमिति । कुण्डमजाजिनमित्यादि पदानामाकाङ्क्षादि विरहस्य स्फुटत्वादपार्थकं स्फुटं स्पष्टमसङ्गतमित्यर्थः ।