संशयसमः
(५८) प्रमाणपद्धतिः
।। २० ।। (२) (१४) संशयसमः ।। सत्यपि निर्णयकारणे साधारणधर्मादिमात्रेण संशयापादनं संशयसमः । यथा यदि धूमवत्त्वादग्निमत्त्वनिश्चयस्तर्हि ह्रदमहानससाधारणेन द्रव्यत्वेन तत्संशयः किं न स्यादिति । तत्र निर्णायकाभावसहकृतस्यैव समानधर्मादेः संशयकारणत्वादत्र निर्णायकसद्भावादसंशय इति वाच्यम् । निर्णायकं न संशयप्रतिबन्धकमिति वदतः स्वन्यायविरोध इति ।
जयतीर्थविजय
।। सत्यपीति । साधारणधर्ममात्रेणेत्यस्यैव विवरणं सत्यपि निर्णयकारण इति । मात्रपदेन सदुत्तरसंशयापादनव्यवच्छेदः । एतदेवोक्तं वरदराजेन ।
सन्देहहेतुसद्भावात्सति निर्णयकारणे ।
संशयस्य प्रसङ्गो यः स संशयसमो भवेत् ।। इति ।
तथा च वादिहेतोः संशयकारणेन सत्प्रतिपक्षितत्वान्न साध्यसाधकत्वमिति भावः । स्वव्याहतिं वक्तुमुत्तरकथामाह ।। तत्रेत्यादिना ।। स्वन्यायेति । प्रतिषेधहेतावपि दूषकादूषकसमानधर्मेण प्रमेयत्वेनादूषकत्वसंशयापादकत्वसम्भवात्स्वव्याघात इति भावः ।
भावदीपः
।। साधारणधर्मादिमात्रेणेति । मात्रपदव्यावर्त्यो निर्णायकाभाव इति सूचनाय सत्यपि निर्णयकारण इति । आदिपदेनासाधारणधर्मादिग्रहः ।। स्वन्यायेति । धूमवत्त्वमसाधकं द्रव्यत्वरूपसाधारणधर्मेण सत्प्रतिपक्षत्वात्सम्मतवदिति जातिवाद्युक्तप्रतिषेधेऽपि यदि सत्प्रतिपक्षत्वादसाधकत्वनिश्चयस्तर्हि सत्प्रतिपक्षासत्प्रतिपक्षसाधारणेन हेतुत्वधर्मेणासाधकत्वसंशयोऽपि किं न स्यादिति स्वन्यायविरोध इत्यर्थः ।
श्रीवेदेशभिक्षु
।। संशयसम इति । विशेषादर्शनसमवहितं समानधर्मादिना संशयापादने सदुत्तरेऽतिव्याप्तिपरिहाराय मात्रपदं तद्य्ववच्छेद्यप्रदर्शनायैव पूर्वं सत्यन्तं लक्षणान्तर्गतम् ।
अभिनवामृतम्
।। सत्यपि निर्णयकारण इति । वाद्युपन्यस्तप्रमाणनिराकरणमेतत् । वादिनो निर्णयकारणोपन्यासेऽपि समानधर्मादिमात्रेण संशयापादनं संशयसम इत्यर्थः । उदाहरति ।। यथेति । पर्वतोऽग्निमान्धूमवत्त्वादिति वादिनोक्ते प्रतिवादी वदति । यदि सत्यपि प्रतिबन्धके निर्णायक प्रमाणसद्भावमात्रेण निर्णयः स्यात्तर्हि संशयसामग्री सद्भावात्संशयोऽपि स्यादिति । अत्र संशयसामग्रया निर्णायकप्रमाणप्रतिबन्धकत्वाङ्गीकारेण पाक्षिकबुद्धिरुत्थानहेतुः । निश्चयसामग्रयाः संशयसामग्रीप्रतिरुद्धत्वमारोप्यम् ।। असंशय इति । प्रतिबन्धकीभूता संशयसामग्रयेव नास्तीति वाच्यमिति भावः ।। निर्णायकमिति । निर्णायकं न संशयसामग्रीप्रतिबन्धकम् । ततश्च संशयकारणसद्भावान्निश्चयसामग्रयाः प्रतिबन्धो दुर्वार इति भावः ।। स्वन्यायविरोध इति । स्वाभ्युपगतनिर्णायकप्रमाणस्य निश्चयजननदशायां संशयप्रसङ्गं वारयितुं निश्चयसामग्रयाः संशयसामग्रीप्रतिबन्धकत्वस्याङ्गीकृतत्वात् प्रतिबन्दी न विरोध इत्यर्थः ।
वाक्यार्थमञ्जरी
।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या सत्प्रतिपक्षमारोप्य धूमो न साधकः सत्प्रतिपक्षत्वादिति वादिसाधनस्यासाधकत्वं साधनीयम् । तत्राप्येवं वक्तुं शक्यम् । तथा हि । यदि सत्प्रतिपक्षादिसाधकत्वनिश्चयस्तर्हि श्रावणत्वप्रमेयत्वसाधर्म्येण साधकत्वसंशयः किं न स्यात् । न चात्र निर्णायकसद्भावान्न संशय इति वाच्यम् । निर्णायकं न संशयप्रतिबन्धकमिति त्वयैवाङ्गीकारात् । तथा च निर्णायकं न संशयप्रतिबन्धकमिति तद्वाक्यन्यायेन धूमो न साधक इति तद्वाक्यस्य विरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।
श्रीविट्टलभट्ट
।। सत्यपि निर्णयकारण इति । समानधर्मादिमात्रेणेत्यादिकमेव लक्षणकथनम् । मात्रपदव्यावर्त्यो निर्णायकाभाव इति ज्ञापयितुं निर्णयकारणे सत्यपीत्युक्तम् । आदिपदेनासाधारणधर्म विप्रतिपत्त्योर्ग्रहणं कृतम् । असति निर्णयकारणे संशयापादनस्य सदूषणत्वात् । तद्य्ववच्छेदाय मात्रपदम् ।। तत्रेति । एवं संशयापादन इति वाच्य इत्यर्थः । अन्वय इत्यनन्तरमुत्तरपदं योज्यम् ।। स्वन्यायविरोध इति । विपक्षसाधर्म्येण संशयापादने सत्प्रतिपक्षत्वमारोप्यम् । एवं च वादिसाधनं न स्वसाध्यसाधकं सत्प्रतिपक्षत्वात्सम्मतवदिति जातिवादिनो विवक्षितम् । अस्य हेतोरपि स्वोक्तन्यायेन दूषणसम्भवात्संशयसमः स्वन्यायविरोधो भवतीत्यवगन्तव्यम् ।