प्रसङ्गसमः

(५५) प्रमाणपद्धतिः

।। २० ।। (२) (११) ।। प्रसङ्गसमः ।। अनवस्थाभासप्रसञ्जनं प्रसङ्गसमः । यथा पर्वतस्योत्पादकं वाच्यम् । तस्यापीत्यनवस्था । एवं पर्वतस्य ज्ञापकं वाच्यं तस्यापीत्यनवस्थेति । अत्र सिद्धविषयत्वेनावस्थानसम्भवेन मूलक्षयाभावाददोषत्वमिति वाच्यम् । तदनङ्गीकारे तु स्वन्यायविरोध इति ।

जयतीर्थविजय

।। अनवस्थाभासेति । सदुत्तरानवस्थाप्रसञ्जनव्यावृत्त्यर्थमाभासपदम् । कृतिज्ञप्तिसाधारणीयं जातिरित्यभिप्रेत्याह ।। एवमिति ।। इत्यनवस्थेति । तथा च वादिहेतोरनवस्थालक्षणतर्कपराहतिर्दूषणमिति भावः । तदुक्तं वरदराजेन ।

सिद्धे दृष्टान्तहेत्वादौ साधनप्रश्नपूर्वकम् ।

अनवस्थाभासवाचः प्रसङ्गसमजातिता ।। इति ।

स्वव्याहतिं दर्शयितुमुत्तरकथाप्रकारमाह ।। अत्रेति ।। सिद्धविषयत्वेनेति । पर्वतादिकारणपरम्परायाः प्रत्यक्षादिसिद्धत्वादित्यर्थः ।। मूलक्षयाभावादिति । प्रतीतपर्वतादिलक्षणकार्यविलोपाभावादित्यर्थः । अनवस्थितासिद्धकारणापेक्षायां प्रतीति कार्यविलोपलक्षणानवस्थाया एव दोषत्वादिति भावः ।। स्वन्यायविरोध इति । न हि हेतुस्साधकोऽनवस्थालक्षणं प्रतिकूलतर्कपराहतत्वादिति प्रतिषेधकानुमानेऽप्येवमनवस्थाया वक्तुं शक्यत्वादिति भावः ।

श्रीविजयीन्द्रतीर्थ

।। अत्रेति । प्रमाणसिद्धतया युक्ताङ्गहानिरित्यर्थः ।

अभिनवामृतम्

।। अनवस्थाभासप्रसञ्जनमिति । सिद्धानामपि दृष्टान्तहेतुपक्षाणां किमस्य कारणं किमत्र प्रसङ्गसम इत्यर्थः । तदुक्तम् ।

सिद्धे दृष्टान्तहेत्वादौ साधनं प्रश्नपूर्वकम् ।

अनवस्थाभासवाचः प्रसङ्गसमजातिता ।। इति ।

कृतौ तावत्कारणपरम्परापेक्षामुखेन सत्त्वापादनं जयहेतुबुद्धिरुत्थानहेतुः पक्षादेः स्वरूपासिद्धिरारोप्या । ज्ञप्तेर्निश्चितत्वस्याप्यनिश्चितत्वाभिधानं जयहेतुरिति बुद्धिरुत्थानहेतुर्हेत्वादीनामज्ञानासिद्धिरारोप्येति ।। सिद्धविषयत्वेनेति । मूलक्षयकरत्वस्य परचित्तवर्तिनोऽनवस्थाङ्गीकारस्य ज्ञातुमशक्यत्वात्पर्वतादिकारणाङ्गीकारस्य सिद्धविषयत्वेन परमाण्वादाववस्थासम्भवेन मूलक्षयाभावादनवस्था न दोष इत्येवोत्तरं बीजं न तु जातित्वमित्यर्थः ।। तदनङ्गीकार इति । मूलक्षयकरत्वस्यानवस्थाङ्गतानङ्गीकारे परेण स्वानुमानस्यैवंविधतर्कविरोधपरिहाराय मूलक्षयकरत्वस्य तर्काङ्गत्वाभ्युपगमात्तत् प्रतिबन्दीविरोध इत्यर्थः ।

वाक्यार्थमञ्जरी

।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्याऽनवस्थापादकतर्कपराहतमारोप्य न धूमः साध्यसाधकस्तर्कपराहतत्वादिति वादिसाधनस्य साधकत्वं साधनीयम् । तत्राप्येवं वक्तुं शक्यम् । तथा हि । धूमस्य किञ्चिदुत्पादकं वाच्यम् । तस्यापि तथा । एवं ज्ञप्तावपि । न च सिद्धविषयत्वेन मूलक्षयाभाव इति वाच्यम् । अवस्थानाभाव एवानवस्थाप्रयोजको न मूलक्षयोऽपीति त्वयैवाभ्युपगमादिति । तथा चानवस्थानाभाव एव प्रयोजक इति तद्वाक्यन्यायेन न धूम इत्यादि तद्वाक्यस्यविरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।

श्रीविट्टलभट्ट

।। अनवस्थाभासप्रसञ्जनमिति । अनवस्थापादनरूपसद्दोषनिरासायाभासपदम् । इयमपि जातिः कृतिज्ञप्त्यै साधारणीति ज्ञापयितुमुत्पादकत्वज्ञापकत्वपक्षयोरनवस्थाभासं दर्शयति । यथेति ।। अत्रेति । उत्पादकज्ञापकपरम्परापेक्षयाऽनवस्थापादक इत्यर्थः ।। तस्येति । वाच्यमित्युत्तरेणान्वयः । सिद्धविषयत्वेनोक्तपरम्परायाः प्रमितपदार्थविषकत्वेनाप्रमितानेकपदार्थसम्बन्धित्वेनेति यावत् । अवस्थासम्भवेऽवस्थायाः स्थितेः सत्त्वस्योपपत्तौ मूलक्षयाभावादीशकार्यविरोधाभावाददोषत्वेनेत्युत्तरं वक्तव्यमित्यर्थः ।। तदनङ्गीकारेत्विति । प्रमितपदार्थसम्बन्धपरम्पराया अदोषत्वानभ्युपगमे स्वार्थविरोधो भवतीत्यर्थः । पक्षोत्पादकपरम्परापेक्षयाऽनवस्थापदेनाश्रयासिद्धिरारोप्या । परम्परापेक्षयाऽनवस्थापदेन त्वज्ञानासिद्धिरारोप्या । तथा च वादिसाधनं स्वसाध्यसाधकं न । आश्रयासिद्धत्वादज्ञानासिद्धत्वाद्वा सम्मतवदिति जातिवादिनो विवक्षितम् । अस्य प्रतिषेधहेतोरपि धर्माद्युत्पादकज्ञापकपरम्परापेक्षयाऽनवस्थाभासप्रसञ्जनसम्भवादियं जातिः स्वन्यायविरोध इत्यवगन्तव्यम् ।