प्रमाणपद्धतिः

(१३) प्रमाणपद्धतिः

किंसंज्ञकोऽयं वृक्ष इत्यनध्यवसायः । स तु कोटीनामतिबाहुल्यादनिर्दिष्टकोटिकः संशय एव । वटादिव्यावृत्तिं पश्यतोऽपि पनसे यत्किञ्चित् संज्ञकोऽयं वृक्ष इत्युत्पद्यते तज्ज्ञानमेव न भवति । किन्तु संज्ञाविषयं जिज्ञासामात्रम् । स्वप्नेऽपि गजादिदर्शनं चेद्यथार्थमेव । मानसवासनाजन्यत्वाद्गजादीनाम् । तेषु यद्बाह्यत्वज्ञानं स विपर्यय एव । बाह्यालीप्रदेशे पुरुषेणानेन भवितव्यमित्यूहापरनामकं सम्भावनाज्ञानमप्यन्यतरकोटिप्रापकप्राचुर्यनिमित्तोऽन्यतरकोटिप्रधानः संशय एव ।

जयतीर्थविजय

किंसंज्ञकोऽयं वृक्ष इति योऽयमन्तःकरणवृत्तिविशेषो जायते स किं किंशुकादिव्यावृत्तिमपश्यतः पुरुषस्योत पश्यत इति विकल्प्याद्यं दूषयति ।। स त्विति । कुतोऽनिर्दिष्टकोटिकत्वं संशयस्य किं कोटीनामनिर्वचनीयत्वान्नेत्याह ।। अतिबाहुल्यादिति । एवं च संशयविपर्ययतत्साधनानामित्यत्र संशयपदेनैव तादृशानध्यवसायस्यापि गृहीतत्वान्न पृथग्गणनमनध्यवसायस्य कार्यमिति भावः । द्वितीयं निराह ।। वटादीति ।। जिज्ञासामात्रमिति । ननु स्वप्नाख्यमयथार्थज्ञानान्तरमस्ति । तथा च तस्यापि निरास इति कुतो नोक्तः । तथा हि स्वाप्नगजादयः किमान्तरा बाह्या वा । पक्षद्वयेऽपि जन्या अजन्या वा । नाद्यः । बाह्यत्वानुभवविरोधात् । आन्तरकारणाभावाच्च । सुप्तस्य शरीरविदारणप्रसङ्गाच्च । नाप्यान्तरत्वे सत्यजन्या इति द्वितीयः । स्वाप्नात्प्रागूर्ध्वं चोपलम्भापत्तेः । नापि बाह्यत्वे सति जन्या इत्याद्यः । बहिरुपादानानुपलम्भात् । नापि बाह्यत्वे सत्यजन्या इति द्वितीयः । त्वन्मतेऽविद्यातिरिक्ताजन्यभावस्य नित्यत्वनियमेन स्वप्नात्प्रागूर्ध्वं च बहिस्तदुपलम्भापत्तेः। अतोऽनिर्वचनीयगजादिविषयकत्वादयथार्थः स्वप्नः । वैशेषिकरीत्याऽयथार्थस्मृतिरूपो वेति । अनूदितमर्थं किं गजादिस्वरूपविषयेऽयथार्थमुत बाह्यत्वादिविषय इति विकल्प्याद्यं निराचष्टे ।। स्वप्न इति । स्वप्नकाल इत्यर्थः । न च पूर्वोक्तविकल्पग्रासः । आन्तरत्वे सति जन्या इति कल्पस्वीकारात् । एतत्पक्षे उक्तमुपादानाभावलक्षणं दोषमुद्धरति ।। मानसेति । तथा च मानसवासनैव गजाद्युपादानकारणमिति भावः । न चातीन्द्रियमानसवासनोपादानकत्वाद्गजादीनामतीन्द्रियत्वापत्तिरिति वाच्यम् । स्वप्नायाथार्थ्यवादिवैशेषिकं प्रति द्य्वणुकोपादानकत्र्यणुकवत्प्रत्यक्षत्वोपपत्तेरित्युत्तरसम्भवात् । एतस्मिन्नेव पक्ष उक्तं बाह्यात्वानुभवविरोधं द्वितीयं दोषं परिहरति ।। तेष्विति । ननु भगवत्पादैर्भ्रान्तिर्जाग्रत्त्वमेव हि जाग्रत्त्वमिति हि भ्रमो जाग्रत्त्वमेव तेषां मिथ्येत्यादिनाऽनुव्याख्यानभागवततात्पर्यादौ स्वाप्नयाथार्थ्यप्रकरणे जाग्रत्त्वांश एव स्वप्नस्य भ्रमत्वकथनात्किं तदुल्लङ्घ्य बाह्यत्वग्रहणेनेति चेत् । उच्यते । जाग्रत्त्वग्रहणमुपलक्षणमिति सुधायां व्याख्यातत्वादित्येकमुत्तरम् । कृत्यान्तरमपि बाह्यत्वग्रहणस्याकलयामः । स्वाप्नायाथार्थ्यवादिनो हि वैशेषिकाः प्रकृताः । यदवोचदिति वैशेषिका इति तेषां मतेऽन्तरिन्द्रियं मन इति घण्ठाघोषः । एवं चान्तरमानसवासनोपादानकेषु गजादिषु बाह्यत्वमवगाहमानः स्वप्नोऽयथार्थ एवेति स्फुटीकरणार्थं बाह्यत्वग्रहणमिति ।। ऊहापरनामकं सम्भावनाज्ञानमिति । अनेनोहस्य सम्भावनायाश्च ज्ञानान्तरत्वं निरस्तं ज्ञातव्यम् ।

भावदीपः

बाह्यालीप्रदेशे बाह्यवीथीप्रदेश इत्यर्थः ।

श्रीविजयीन्द्रतीर्थ

वैशेषिकानामेवानध्यवसायलक्षणमाह ।। किंसंज्ञक इति । ननु वैशेषिकोक्तस्वप्नानध्यवसायरूपं ज्ञानद्वयमस्त्येव । तत्कुतस्तदपि यथार्थपदव्यावृत्तत्वेन न प्रदर्शितमित्यत आह ।। स तु कोटीनामिति । तथा च संशयत्वेन तस्यापि व्यावर्त्यकुक्षिनिक्षेपोऽस्तीति भावः । ननु व्यावर्तकधर्माग्रहः संशये कारणम् । तथा च यदा व्यावर्तकधर्मग्रहे सति किंसंज्ञको वृक्ष इत्याकारकमुत्पद्यते । तत्कथं संशयेऽन्तर्भवेत् । संशयोत्पादकस्य तदानीमभावादित्यत आह ।। तज्ज्ञानमेव न भवतीति । विशिष्टज्ञानत्वावच्छिन्नं प्रत्येव व्यावर्तकधर्माग्रहत्वेन हेतुत्वादिति भावः । किं तदित्यत आह ।। जिज्ञासामात्रमिति । किंशब्दजन्योपस्थितिप्रकारीभूतधर्मवानयमितीच्छामात्रमित्यर्थः । ननु तथाऽपि स्वप्नोऽतिरिच्यत इत्यत आह ।। स्वप्नेऽपीति । स्वप्नावस्थायामित्यर्थः ।। यथार्थमेवेति । तथा च तस्य ज्ञानान्तरत्वेऽपि यथार्थत्वेन सङ्ग्राह्यत्वादेव न व्यावृत्त्यकोटिनिक्षेप इति भावः । ननु गजादेस्तदा तत्राभावाद्विषयमव्याप्तं याथार्थ्यं कुतः स्वप्न इत्यत आह ।। मानसवासनेति । ननु गजादिषु यद्विथीस्थात्वज्ञानं तद्भिन्नमेव । न च तदपि यथार्थमेव । वासनाजन्यगजस्य वीथिस्थत्वाभावात् । न च वासनयैव वीथिस्थत्वमपि गजे जायत इति वाच्यम् । पूर्वावगतवीथ्याः पूर्वोत्पन्नत्वेन तद्वीथिस्थत्वस्य तत्काले वासनाया अप्यनुत्पत्तेरत आह ।। स विपर्यय एवेति । इदं रजतमित्यादिवदसद्विषय एवेत्यर्थः । तथा च विपर्ययत्वेन तस्योपादानान्न न्यूनत्वमिति भावः । ननु सम्भावनारूपं ज्ञानान्तरमस्ति तत्कुतो न व्यावर्तितमित्यत आह ।। सम्भावनाज्ञानमपीति । संशयभिन्नस्य तस्याभावान्न संशयभिन्नत्वेन तस्योपादानमिति भावः ।

श्रीवेदेशभिक्षु

तत्रानध्यवसायस्यसंशयान्तर्भावं वक्तुमज्ञातस्वरूपस्यान्तर्भावयितुमशक्यत्वात्तत्स्वरूपमनुवदति ।। किंसंज्ञक इति । का संज्ञा यस्य सः किंसंज्ञकः । इत्याकारं ज्ञानमिति शेषः । तस्यान्तर्भावमाह ।। स इति । वृक्षत्वादिसाधारणधर्मदर्शने वटादिसंज्ञकत्वादिकोटिस्मृतौ निर्णायकादर्शने विशेषजिज्ञासायां च जायमानमिदं ज्ञानं संशयरूपमेव । तथा संशयग्रहणेनैव तस्यापि गृहीतत्वान्न पृथग्व्यावर्त्यत्वेन प्रदर्शनीयमिति भावः । तर्हि स्थाणुपुरुषादिसंशयवत्कोटिनिर्देशः स्यादित्यत उक्तं कोटीनामिति । संशयोऽपि द्विविधः । निर्दिष्टकोटिकोऽनिर्दिष्टकोटिकश्चेति । तत्रानध्यवसितरूपं ज्ञानमनिर्दिष्टकोटिसंशयरूपमिति भावः । ननु वस्तुगत्या पनसे वटादिव्यावृत्तिनिश्चयेऽपि किंसंज्ञकोऽयमुत्पद्यते । स न तावत्संशयः । इतरकोटिव्यावृत्तिनिश्चयात् । भेदाग्रहस्य च संशयहेतुत्वात् । अतः स एवास्माकमनध्यवसाय इत्यत आह ।। वटादीति । मानमेव न सम्भवति । कुतोऽनध्यवसाय इत्येवार्थः । तर्हि किं तदिति पृच्छति ।। किन्त्विति । उत्तरमाह ।। संज्ञाविषयमिति । संज्ञाविशेषविषयमित्यर्थः । वटादिव्यावृत्तिदर्शनानन्तरमयं वृक्षः किंसंज्ञक इति सामान्यनिश्चयस्य विशेषजिज्ञासाजनकत्वस्य सत्त्वादिति भावः । स्वप्नेऽपि गजतुरगादिज्ञानस्य प्रमाणत्वेन सङ्ग्राह्यतया न व्यावर्त्यत्वमित्याशयेनाह ।। स्वप्नेऽपीति । स्वप्नावस्थायामपीत्यर्थः । ननु कथं यथार्थत्वं स्वाप्नगजादीनां सत्यत्वानुपपत्तेः । सत्यत्वे तेषां नित्यत्वमनित्यत्वं वा वक्तव्यम् । न च तत्सम्भवति । उभयपक्षेऽपि पूर्वोत्तरकाले दर्शनप्रसङ्गात् । न च दृश्यतेऽतस्तेऽसत्या एव । तथा च तद्दर्शनमयथार्थमेवाङ्गीकार्यम् । न च प्रतीतकाल एव सृष्टिनिरोधावतो न दोष इति वाच्यम् । उपादानाद्यभावेन सृष्टेरयोगात् । प्रागुत्तरकालं मृत्पिण्डकपालादिदर्शनप्रसङ्गाच्चेत्यत आह ।। मानसेति । मानसवासनेत्युपादानकीर्तनम् । वासनायाश्चाप्रत्यक्षत्वेनोपादानाद्यदर्शनमुपपन्नमिति भावः । न चैवं वासनोपादानकगजादीनामप्रत्यक्षतापत्तिः । अतीन्द्रियद्य्वणुकोपादानकस्यापि त्र्यणुकस्य प्रत्यक्षत्ववदुपपत्तेः । स्वाप्नस्वशिरश्छेदादीनामस्मिन् जन्मन्यननुभूतत्वेन वासनाऽसम्भवादुपादानाभावेनासत्त्वापत्तिरित्यत उक्तं मानसेति । मनसोऽनादित्वेन पूर्वजन्मानुभूतं तद्वासनाया मनोगताया अत्रोपादानत्वसम्भवान्नासत्त्वमिति भावः । वासनाया आत्मधर्मत्वं वदन्तोऽपि निरस्ता इति द्रष्टव्यम् । वासनाया जडत्वेन संस्कारत्वेन वा वेगादिवदनौचित्यात् । अत्रोपादानकीर्तनमुपलक्षणम् । ईश्वरः कर्ताऽदृष्टादिकं निमित्तमिति च द्रष्टव्यम् । प्रमाणन्तु सर्वत्र सन्ध्ये सृष्टिराह हीत्यादिनोक्तं द्रष्टव्यम् । नन्वेवं गजादिस्वरूपमात्रज्ञानस्य बाधाभावेन यथार्थत्वेऽपि तेषु गजादिषु यद्बहिष्ठत्वज्ञानं तदयथार्थमेवाङ्गीकार्यम् । स्वाप्न एवायं मया दृष्टो गजादिर्न बाह्य इति बाधदर्शनात् । न च बाह्यताया अपि वासनादिकं कारणं सम्भवतीति सत्यत्वोपपत्त्या तज्ज्ञानमपि यथार्थमेव भविष्यतीति वाच्यम् । न ह्युपादानादिसम्भवमात्रेण सत्यत्वमाचक्ष्महे । किन्तु बाधाभावेन सामग्य्रभावेन सत्त्वं ब्रुवाणं प्रति तदसिद्धिरावेदिता । न चैवं प्रकृते बाह्यताया उक्तरीत्या बाध्यत्वात् । तथा च स्वाप्नं बाह्यताज्ञानमयथार्थमुक्तातिरिक्तव्यावृत्त्यन्तर्भविष्यतीत्यत आह ।। तेष्विति । तथा च विपर्ययग्रहणेन गृहीतत्वात्तस्यापि न पृथग्व्यावर्त्यत्वमिति भावः । इदमुपलक्षणम् । कदाचिद्गवान्तरेऽप्यप्रतिपन्नशशत्वविषाणित्वसामानाधिकरण्यज्ञानमपि विपर्यय इति ग्राह्यम् । तस्याप्युपादानाभावेनासत्त्वात् । न च तत्रापि शब्दाभासादिना भ्रान्त्या संस्कारोत्पत्तिः । सर्वत्रासति शाब्दभ्रमनियमे मानाभावात् । नापि सर्वथाप्रतिपन्नं स्वप्ने न पश्यतीति नियन्तुं शक्यते । तत्रापि विभागतः शशत्वादि प्रतीतमिति चेत् । तथाऽपि परस्परसामानाधिकरण्यस्य स्वप्ने प्रतीयमानस्य पूर्वं कदाऽप्यप्रतीतेः । बाह्ये बाध्यत्वाच्च तस्य । उक्तं च भगवत्पादैः ।

कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ।

दृष्टं समानाधिकरणं दृश्यतेऽत्र स च भ्रम इति ।

नन्वथापि सम्भावनारूपमयथार्थमानान्तरमस्तीति शङ्कानिरासायोहापरनामकमित्युक्तम् । अनध्यवसायसमुच्चयार्थमपिशब्दः । सम्भावनाज्ञानमपि संशय एवेत्यन्वयः । संशयत्वेन प्रसिद्धसंशयवदुभयकोट्योः साम्येनोल्लेखः स्यादित्यत उक्तमन्यतरकोटिप्रधान इति । तथा चानिर्दिष्टकोटिकोऽपि संशयो द्वेधा । समानानेककोटिकोऽन्यतरकोटिप्रधानश्चेति । तत्र सम्भावनारूपं ज्ञानमन्यतरकोटिप्रधानसंशयरूपमेवेत्यर्थः । अन्यतरकोटिप्राधान्ये निमित्तमुक्तमन्यतरकोटिप्रापकेति ।

अभिनवामृतम्

अनध्यवसायशब्दो ज्ञाने जिज्ञासायां च वर्तते । तत्राद्यस्य संशयेऽन्तर्भावः । द्वितीयं तु ज्ञानमेव न भवतीति वक्तुमनध्यवसायाकारमाह ।। किंसंज्ञक इति । तत्राद्यस्य संशयानन्तर्भावहेतोः सर्वथा निर्दिष्टकोटिकत्वस्यासिद्धिरेव विशिष्यनिर्दिष्टकोटिकत्वस्यत्वन्यथासिद्धिरिति भावेनानन्तर्भावमाह ।। स तु कोटीनामिति ।। अनिर्दिष्टकोटिक इति । विशिष्यानिर्दिष्टकोटिक इत्यर्थः । एतेन कोटिनां बाहुल्येऽनिर्देशोऽनुपपन्नः । अनिर्देशे चाकोटिकत्वप्राप्त्या कोटिनां बाहुल्याभिधानमयुक्तमिति परास्तम् । त्रिविधः स्वप्नः । अयथार्थज्ञानात्मकः केवलज्ञानात्मकः केवलार्थात्मकश्चेति । तत्राद्यः सर्वानुभवसिद्धः । द्वितीयस्त्वर्जुनादीनां स चागमेन सिद्धः । ननु न ज्ञानं स्वप्नो बाह्यार्थविषयत्वादिति चेत् । निरिन्द्रियप्रदेशावस्थितमनोजन्यत्वेन प्रकारान्तरानिरूपणात् । इदमेव हि ज्ञानस्य स्वप्नत्वम् । यन्निरिन्द्रियप्रदेशावस्थितमनोजन्यत्वं प्रकारान्तरानिरूपणात् । तदर्थस्तु कैलासादिर्न स्वप्नः । बाह्यत्वेन वासनोपादानकत्वाभावात् । इदमेव ह्यर्थस्य स्वप्नत्वं यद्वासनाविशिष्टोपादनकत्वम् । न चात्र तदस्ति । उक्तं च बृहदारण्यके । प्राणेन रक्षन्नवरं कुलायं बहिः कुलायादमृतश्चरित्वेति । उक्तं च बृहद्भाष्ये ।

अंशेन जीवमादाय क्वचिद्देशो बहिर्न नयत् ।

स्वप्नेषु फाल्गुनं यद्वत्कृष्णकैलासमानयदिति ।

तात्पर्यनिर्णये चोक्तम् । जयद्रथस्यैव वधं निशायां स्वप्ने नयन्तं गिरिशान्तकं हरिरिति । तृतीयस्तु परमेश्वरादीनाम् । तथा हि । स्वाप्नपदार्थस्रष्टा परमात्मा तावत्स्वप्नपदार्थान्पश्यति । योगिनोऽपि योगप्रभावात्पश्यन्तीत्यविवादम् । अन्यथा सार्वज्ञभङ्गप्रसङ्गात् । तथा च तेषां ज्ञानं न स्वप्नः । निरिन्द्रियप्रदेशावस्थितमनोजन्यत्वात् । अर्थस्तु स्वप्न एव । वासनाविशेषोपादानकत्वादिति । तत्र ज्ञानात्मकस्य कस्यचित्स्वप्नस्य प्रमायां कस्यचिद्भ्रमेऽन्तर्भाव इत्यभिप्रेत्य प्रमाऽन्तर्भावं तावदाह ।। स्वप्नेऽपीति । चेच्छब्दो यदर्थे । यद्गजादिदर्शनं तद्यथार्थमेव । तेषु यद्बाह्यत्वज्ञानमिति । ननु गजादीनामिव वासनामयस्य बाह्यत्वस्य तत्रोत्पत्तिसम्भवेन बाह्यत्वज्ञानं विपर्यय इत्युक्तमिति चेत् । उच्यते । न वयमुपादानसम्भवमात्रेण स्वप्नार्थस्य सत्यतामाचक्ष्महे । किन्तु बाधाभावेन । तथा च बाधसद्भावेन बाह्यत्वस्यासत्त्वात्तज्ज्ञानं भ्रमः ।

आदर्शः

।। वटादिव्यावृत्तिमिति । स्वपरिचितयावन्नामवाच्यत्वाभावनिश्चयवत इत्यर्थः । संशयकोटीनां बुद्ध्यनारूढत्वात्साधारणधर्माभावात् संशयस्य तदानीमसम्भवादिति भावः ।। तज्ज्ञानमेवेति । तद्वाक्याभिलाप्यम् ।। जिज्ञासेति । वस्तुत्वात्सामान्यतो वाच्यत्वे ज्ञाते सामान्यधर्मप्रकारकज्ञानस्य विशेषजिज्ञासां प्रति हेतुत्वाज्जिज्ञासा जायत इति भावः ।

वाक्यार्थमञ्जरी

।। अनिर्दिष्टेति । विशेष्यानुक्तेरित्यर्थः । मानसवासनेति । मनोविकारसंस्कारेत्यर्थः ।। बाह्यालीति । बाह्यवीथिकाप्रदेश इत्यर्थः ।। अन्यतरकोटिप्रापकेति । अन्यतरकोटिज्ञापकबाहुल्यकारक इत्यर्थः ।। अन्यतरकोटिप्रधान इति । उत्कटैककोटिक इत्यर्थः ।

श्रीविट्टलभट्ट

अनध्यवसायस्यायथार्थज्ञानान्तरत्वनिषेधाय तत्स्वरूपं निरूपयति ।। किंसंज्ञकोऽयं वृक्ष इतीति । ज्ञानमिति शेषः । तस्यायथार्थज्ञानान्तरत्वं प्रतिषेधति ।। स त्विति । स्वप्नादस्य विशेषज्ञापनाय तुशब्दः । अनिर्दिष्टकोटिकोऽसाधारणशब्देनानुक्तिकोटिकः संशय एव न तु ततोऽतिरिक्तायथार्थज्ञानान्तरमित्यर्थः । वाचकशब्दानुक्तबहुकोटिकानवधाणज्ञानत्वादस्येति भावः । ननु घटादिव्यावृत्तिं पश्यतस्तत्संशयानुदयात्तस्य च किंसंज्ञकोऽयं वृक्ष इति जायमाना वृत्तिः कथं संशयः स्यादित्यत आह ।। वटादिव्यावृत्तिं पश्यतोऽपीति । किंसंज्ञकोऽयं वृक्ष इत्याकारं वृत्तिरूपं यदुत्पद्यते तज्ज्ञानमेव न भवति । यथार्थज्ञानान्तरं सुतरां न भवतीत्यर्थः । तर्हि तत्किमिति पृच्छति ।। किन्त्विति । उत्तरमाह ।। संज्ञाविषयं जिज्ञासामात्रमिति । वाचकशब्दविषया जिज्ञासैव न ततोऽतिरिक्तं ज्ञानमित्यर्थः । अयथार्थज्ञानान्तरं स्वप्न इति वदता परेणायथार्थज्ञानान्तरमेवोक्तम् । किं स्वप्ने प्रतीयमानगजादेर्दर्शनमुत तेषु यद्बाह्यत्वज्ञानं तदिति विकल्पं मनसि निधायाद्यपक्षमपाकरोति ।। स्वप्नेऽपीति । चेच्छ्ब्दो यद्यर्थे । अनध्यवसायवदयथार्थज्ञानान्तरत्वेनोक्ते स्वप्नेऽपि स्वप्नरूपज्ञानेऽपि गजादिदर्शनं चेद्यदि गजतुरगवनितादिपदार्थदर्शनं तर्हि यथार्थमेव नायथार्थम् । अपदार्थज्ञानान्तरं सुतरां न भवतीत्यर्थः । बाधकाभावादिति शेषः । इदमत्राकूतम् । अयथार्थज्ञानान्तरं स्वप्नं वदन् प्रष्टव्यः। अयं गज इति स्वप्नः किमगजे गजता चात्मोल्लेखीत्ययथार्थः । किंवा गजे गजत्वसंसर्गोल्लेखीत्ययथार्थः । यद्वा गज एवासन्निकृष्टे सन्निकृष्टत्वोल्लेखीत्ययथार्थः । पक्षद्वयेऽपि शुक्त्यादाविदं रजतमिति ज्ञानान्तरमिदमिति दृष्टमिदं रजतं नास्त्येव किन्त्विदम्पदार्थः शुक्तिरेवास्तीतिवदयं गज इति स्वप्नदृष्टो गजो नास्त्येव किन्त्विदम्पदार्थोऽत्र एवास्तीति बाधकः स्यात् । न चैवं कस्यापि बाधोऽस्ति । न च निरधिष्ठानः कश्चिद्भ्रमोऽपि । अनुभवविरोधात् । तथा च बाधकाभावादयं गज इति स्वप्नो न भ्रमः । अन्यथा जागरेऽप्ययं गज इति प्रत्ययः सर्वोऽपि भ्रम इत्यापातात् । तृतीयेऽपि नायं पर्वतः सन्निकृष्टः किं नाम विप्रकृष्ट एवेति बाधकान्नायं गजः सन्निकृष्टः किं नाम दूरस्थ एवेति बाधो भवेत् । न च तथा कस्यचिद्बाधो भवति । तेन यत्र राजमन्दिरादौ गजः स्वप्ने प्रतीयते तत्रैव राजमन्दिरादौ नास्त्येव गज इति बाधोऽनुभूयत इति निरस्तम् । अधिष्ठानविषयकस्यात्र गजो नास्तीति प्रत्ययस्यात्रास्त्ययं गज इति स्वप्नबाधकाभावात् । राजमन्दिरमेवास्त्वधिष्ठानमितिवन्न स्वप्न एव गजभिन्नतया गजत्वरहितत्वेन च प्रतीयमानस्य राजमन्दिरादेर्गजतादात्म्यागजत्वसंसार्गाच्चोपाधिमत्त्वायोगात् । एतेन गजसंसर्गस्तत्राध्यस्तो न गज इत्यपि निरस्तम् । तावता स्वप्नदृष्टराजादिपदार्थानामारोपितत्वासिद्धेः । किञ्च जागरे दूरस्थस्यैव गजस्य निकट एवायं गजोऽस्तीति भ्रमः स्यान्नास्त्ययं गजः किन्तु दूरेऽस्तीति बाधः स्यात् । न चैवमस्ति कस्यचिद्बाधः । वस्तुतस्तु स्वप्नावस्थायां चक्षुरादिबाह्येन्द्रियाणामुपरतत्वेनास्त्ययं गज इति स्वप्नस्य चाक्षुषत्वाद्यसम्भवाद्रूपादिमत्यर्ये साक्षिणः स्वातन्त्र्याभावेनास्य साक्षिरूपात्वासम्भवात् । लिङ्गशब्दानुसन्धानव्यतिरेकेणापि जायमानस्यास्त्ययं गज इति स्वप्नस्य लैङ्गित्वाद्यसम्भवाच्च मानसत्वमेवाभ्युपेयम् । यथा च मनसो बहिरस्वातन्त्र्यात्प्रमाणान्तरप्रवृत्त्यभावेऽपि मनसा जायमानस्यात्रायं गज इति स्वप्नस्य बाह्यराजमन्दिरगजाद्यर्थगोचरत्वस्यैवाभावात् । विप्रकृष्टस्यैव बाह्यराजमन्दिरादिना मनसः सन्निकर्षाभावेनाधिष्ठानेन्द्रियसन्निकर्षव्यतिरेकेण भ्रमासम्भवाच्च । न ह्यराजमन्दिरादेरधिष्ठानत्वम् । न वा बाह्यराजमन्दिरादौ स्वप्नदृष्टगजाद्यभावाज्ज्ञानस्य बाधत्वमिति यत्किञ्चिदेतत् । एतेनात्रैव स्वाप्नगजाद्यारोपाधिष्ठानमिति मायावादिनां जल्पनमप्यपास्तम् । स्वप्नस्य गजतादात्म्यगजत्वसंसर्गारोपत्वे वा गजसंसर्गारोपत्वे वा गजसम्बन्धारोपत्वे वा स्वप्ने इह गज इति वा मयि गज इति वाऽऽत्मनः प्रतीत्यापातात् । प्रत्युत नाहं गजो मयि वा नास्ति गज इत्येव प्रतीतेश्च । न हि गजादिभिन्नतया गजाद्यनाधारतया च प्रतीयमान आत्मा गजतुरगादितादात्म्यारोपाधिष्ठानं वा गजत्वसंसर्गारोपाधिष्ठानं वा गजतुरगादिसंसर्गारोपाधिष्ठानं चेति सम्भवति । अतिप्रसङ्गात् । तस्माद्बाधकशून्यत्वात्स्वप्ने गजादिदर्शनं यथार्थमेवेति दर्शनं चानुभवो विवक्षितः । तेन स्वप्नः स्मृतिरूप एवेति मतं निरस्तं वेदितव्यम् । तदुक्तं सुधायाम् । दर्शनं चानुभावो विवक्षितः । एतेन स्मरणमेवैतदिति मतं निरस्तं भवति । स्मरणं खल्वस्य तच्चिन्हस्य तदित्युल्लेखस्य सद्भावाद्वा कल्प्यते । असन्निहितगोचरत्वाद्वासंस्कारप्रभवत्वाद्वा । नाद्यः । इदमित्युल्लेखेन तदभावात् । अत एव स्मृतिविपर्यासोऽयमिति चेन्न । स्मृतित्वस्यैवासिद्धेः । न द्वितीयः । विषयसान्निध्यस्योपपादितत्वात् । न तृतीयः। पदार्थजन्मनि संस्कारस्यापक्षीणत्वेनासिद्धेः । तस्माद्यथा मनोरथध्याने वा संस्कारयोनीनर्थान्मनसाऽनुभवत्येवं स्वप्नेऽपीति किमनुपपन्नम् । इयांस्तु विशेषः । मनोरथाद्यैः प्रयत्नपूर्विका पदार्थसृष्टिः स्वप्ने पुनरीश्वरेच्छाधीनैवेति । ननु स्वप्ने गजादिदर्शनामिति यदुक्तं तदयुक्तम् । तद्विषयाणां करितुरगादीनामसत्त्वात् । तथा हि । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्यं चोपलम्भप्रसङ्गात् । न हि चक्षुरादियोग्याः करितुरगवनितादयो विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते । उपलभ्यन्ते चोपरतेषु तेष्विति सम्भवति । न चान्यत्र गता अन्यैरप्यनुपलम्भान्मध्यमपरिमाणाश्चैते दृश्यन्ते । न च तथाविधमनादिनित्यं किमपि दृष्टम् । नाप्युत्पत्तिनाशवन्तः । तथात्वे प्रागूर्ध्वमुपलम्भप्रसङ्गात् । न च तेषां विद्युदादिवत्तदैवोत्पत्तिर्नाशश्चेति । इत्थम्भावे प्रमाणाभावात् । स्वप्नदृष्टघटादेस्तदैवोत्पत्तिनाशवत्त्वे प्राङ्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च । तस्मात्स्वप्नप्रतीतकरितुरगराजमन्दिरघटादीनामनादित्वाद्यसम्भवेनासत्यत्वात्तद्दर्शनमयथार्थमित्यत आह ।। मानसवासनाजन्यत्वाद्गजादीनामिति । स्वप्नदृष्टानामिति शेषः । स्वप्नदृष्टकरितुरगादीनां मनोविकारसंस्कारोत्पादकत्वादित्यर्थः । आरोपितमत्यन्तासदित्युक्तत्वादारोपितस्योत्पत्त्ययोगादुत्पत्तिमतां स्वप्नपदार्थानां सत्यत्वमेवेति न तज्ज्ञानमयथार्थमिति भावः । यद्यपि जन्यत्वमेवानारोपितत्वसाधनायालं तथाऽपि जन्यत्वे उपादानत्वं वाच्यम् । तच्च स्वाप्नकरितुरगघटादीनां नास्तीति चोद्यपरिहारायोपादानोक्तिः । स्वाप्नघटादीनामुत्पत्तिविनाशवत्त्वे स्वप्नावस्थातः प्रागूर्ध्वं च तदुपादानस्य कपालादेरुपलम्भप्रसङ्ग इति शङ्कावारणाय त्र्यणुकोपादानस्य द्य्वणुकस्येवास्य दर्शनं युक्तमिति ज्ञापयितुमतीन्द्रियसंस्कारस्योपादनत्वकीर्तनम् । गुणत्वात्संस्कारस्योपादानमिति । न चासौ हेतुरसिद्धः । न तत्र रथा न रथयोगाः पन्थानो भवन्ति । अथ रथान्रथयोगान्पथश्च सृजते । य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्ममाण इत्यादिश्रुतिभिः सन्ध्ये सृष्टिराह हीत्यादिसूत्रेण च

मनोगतांश्च संस्कारान्स्वेच्छया परमेश्वरः ।

प्रदर्शयति जीवाय स स्वप्न इति गीयत ।।

इति स्मृत्या चोक्तश्रुतिसूत्रस्मृत्यनुसारीत्युक्त्या च तत्सिद्धेः । अत एव स्वाप्नकरितुरगवनितादीनां प्रागूर्ध्वमुपलम्भप्रसङ्ग इति चोद्यं निरस्तम् । उदाहृतश्रुतिभिस्तदनुसारियुक्त्या च विद्युदादिवत्तात्कालिकत्वाभ्युपगमात् । एतेनासन्निकृष्टकरितुरगवनितादीनामनुभवः कथं मनसा स्याद्यथार्थश्च कथं भवेदित्यपि चोद्यं निरस्तम् । स्वप्नोऽनुभव इत्यङ्गीकृत्यापि वा स करितुरगवनिताराजमन्दिरगोचर एवेति मते उक्तदोषषसद्भावेऽपि संस्कारोपादानकगजादिस्वप्नपदार्थानामन्तःपदार्थत्वेन मनःसन्निकृष्टत्वसम्भवादत एव विषयसन्निकृष्टमनःप्रभवत्वात्स्वप्नस्य प्रमितत्वोपपत्तेश्च । तदुक्तं सुधायाम् । अपरे तु भवत्येवायमनुभवः किन्तु जागरानुभूतस्मर्तव्यार्थ एवेति मन्यन्ते । तदप्यसत् । तथा हि । किमनुभवो यथार्थोऽयथार्थो वा । नाद्यः । बाह्यार्थानां देशकालविप्रकृष्टत्वेन तदनुपपत्तेः । द्वितीये वक्तव्यम् । किमगजे गजत्वोल्लाखीत्ययथार्थः । किंवा गज एवासन्निकृष्टे सन्निकृष्टत्वोल्लेखीत्ययथार्थः । आद्ये नायं गजः किन्तु गवय एवेति बाधोदयः स्यात् । द्वितीये नायं सन्निकृष्टः किं नाम विप्रकृष्ट इति बाधो भवेत् । न चैतदस्ति । तस्मात्संस्कारप्रभवसन्निकृष्टसत्यार्थप्रमितिरेवायमिति । द्वितीयपक्षं निराकरोति ।। तेषु यद्बाह्यत्वज्ञानमिति । तेषु मानसवासनोपादानकेषु करितुरगराजमन्दिरघटपटादिषु यद्बाह्यत्वज्ञानं तर्हि देशस्थत्वस्य बाह्योपादाननिमित्तत्वादेश्च ज्ञानं यत्स विपर्यय एव न तदतिरिक्तायथार्थज्ञानमित्यर्थः । शैत्यं हि यत्सा प्रकृतिर्जलस्येतिवत्स इति पुल्लिङ्गनिर्देशो युक्तः । एतेन स्वप्ने गजादिदर्शनं चेद्भागवतादावविद्यमानो ह्यवभाति हि द्वयोर्ध्यातुर्धियास्वप्नमनोरथो यथेत्यादेर्वचनस्य का गतिरिति चोद्यं निरस्तम् । तस्य स्वाप्नगजादिषु यद्बाह्यत्वज्ञानं तद्विषयत्वात् । बाह्यत्वस्यापि संस्कारोऽस्त्येवेति सोपादानत्वसम्भवात्कथं प्रतीतिर्भ्रान्तिरित्युच्यते । अन्यथा करितुरगाद्यर्थप्रतीतिरपि भ्रान्तिः स्यात् । अविशेषादिति चेन्मैवम् । न हि वयं कारणसामग्रीसम्पादनसम्भवमात्रेणार्थानां सत्यतां ब्रूमः । किं नाम बाधकाभावेनैवेति ब्रूमः । अयं गजोऽयं घट इत्यादिस्वप्नानुभूतगजाद्यर्थानां बाधकाभावश्चोपपादित एव । किं नाम सामग्य्रभावेनार्थानामसत्त्वं ब्रुवाणं प्रति तु मानसवासनाजन्यत्वादित्यनेन तदसिद्धिरावेदिता । तदुक्तं सुधायाम् । न हि वयं कारणसम्पादनसम्भवमात्रेणार्थानां सत्यतामातिष्ठामहे । किं नाम बाधाभावेनैव वक्ष्यामः । सामग्य्रभावेनासत्यं ब्रुवाणं प्रति तु तदसिद्धिरावेदितेति । अस्ति च स्वप्नदृष्टगजाद्यर्थानां बाह्यत्वप्रतीतेर्बाधः । स्वप्नोत्थितस्य स्वप्ने हि मया दृष्टो राजमन्दिरगजतुरगवनितादिप्रपञ्चो बहिर्देशस्थो न भवत्येव । स्वप्ने ममेयं माताऽयं पिता ममायमश्व इति मात्राद्यात्मनाऽनुभूता ये पदार्थास्ते न मम मात्रादयो भवन्ति । स्वप्ने तन्त्वादिजन्यतया कुविन्दादिजन्यतया घटादयोऽर्था दृष्टास्ते तन्त्वादिजन्या न भवन्त्येवेति बाधोदयात् । तस्मादयं गज एव न स्वप्न इत्यादिस्वप्नस्य नायं गजः किन्त्वश्व एवेत्यादिस्वप्नदृष्टस्य गजतुरगाद्यर्थस्य सत्त्वसिद्धेः । प्रमितिजन्यत्वे निर्वाहाय संस्कारोपादानकेऽन्तस्थे गजतुरगराजमन्दिरादौ प्रतीतिबाह्यत्वस्य बाधितत्वात्तस्य संस्कारोपादानकत्वं नाङ्गीकार्यमिति तत्प्रतीतिविपर्यय एवेत्यनुसन्धेयम् । सम्भावनारूपमयथार्थज्ञानान्तरमस्तीत्याशङ्क्य तस्यापि संशयेऽन्तर्भावमाह ।। बाह्यालीप्रदेश इति । बाह्यवीथीप्रदेश इत्यर्थः । ऊहा नामायथार्थज्ञानान्तरमिति संशयवारणायाह ।। ऊहापरनामकमिति । अन्यतरप्रापकप्राचुर्यनिमित्तोऽन्यतरकोटिज्ञापकबाहुल्यज्ञानकारणक इत्यर्थः । अन्यतरकोटिप्रधानोऽन्यतरकोट्युक्त इत्यर्थः ।