प्रमाणपद्धतिः
(६) प्रमाणपद्धतिः
आगमो द्विविधः । अपौरुषेयः पौरुषेयश्चेति । तत्रापौरुषेयो वेदः पौरुषेयोऽन्यः । वर्णाः सर्वत्र कूटस्थनित्याः । सर्वगताश्च । पदान्यपि नियतान्येव । तेषां पदार्थसम्बन्धोऽपि स्वाभाविक एव । तथाऽपि वाक्ये पदानामानुपूर्वीविशेषस्य स्वतन्त्रपुरुषपूर्वकत्वभावाभावाभ्यामयं भेदः ।
जयतीर्थविजय
।। पौरुषेय इति ।। अन्य इति । वेदादन्यः । वाक्यसङ्घ इति शेषः । आगमे पौरुषेयापौरुषेयविभागानुपपत्तिं स्वयमेवाशङ्क्य निराकरोति ।। वर्णा इत्यादिनाऽयं भेद इत्यन्तेन । तथाऽपीत्युत्तरत्र श्रवणाद्वर्णा इत्यतः प्राग्यद्यपीति शेषः । सर्वत्र वेदे लौकिकवाक्ये चेत्यर्थः । कूटस्थनित्या निर्विकारा नित्याश्चेत्यर्थः । नित्यत्वे हेतुः कूटस्थेति । तथा च वेदलौकिकवाक्ययोः कालिकक्रमवद्वर्णाघटितत्वतद्घटितत्वपौरुषेयत्वापौरुषेयत्वविभागो नोपपद्यत इति भावः । तदुभयगतवर्णानां दैशिकक्रमभावाभावाभ्यामप्ययं विभागो नोपपन्न इत्याह ।। सर्वगतश्चेति । पदे विद्यमानवर्णानामुच्चारणपौर्वापर्यभावाभावाभ्यामप्ययं भेदो नोपपद्यत इत्याह ।। पदान्यपीति ।। नियतान्येवेति । नियतोच्चारणविषयवर्णघटितान्येवेत्यर्थः । उभयगतपदानामर्थसम्बन्धस्य स्वाभाविकत्वास्वाभाविकत्वाभ्यामप्ययं भेदो न सम्भवतीत्याह ।। तेषामिति । एतत्कल्पे कलशशब्दो घटवाची । पूर्वकल्पे त्वन्यवाचीत्यत्र प्रमाणाभावादिति भावः । समाधत्ते ।। तथाऽपीति ।। स्वतन्त्रेति । अनधीततादृशसन्दर्भवत्त्वे सति तत्प्रवक्ता स्वतन्त्रपुरुषः । तादृशश्च लौकिकवाक्ये कालिदासादिः । वेदवाक्ये तादृशो नास्त्येव । प्रवाहतोऽनाद्यध्यापकपरम्परया पूर्वतनमेवेदमध्यापयाम इति वेदस्यानुसन्धीयमानत्वादिति भावः ।
भावदीपः
एवं निर्दोषं वाक्यमागम इत्युक्तवाक्यस्वरूपं तस्य यथार्थज्ञानसाधनत्वप्रकारं ज्ञातज्ञापकत्वादिदोषराहित्यं चोपपाद्य सर्वोऽप्यागमः पौरुषेय इति मतं निरसितुं विभागेन निर्दिशति ।। आगमो द्विविध इति । नन्वाशुतरविनाशिवर्णसमुदायरूपपदसमुदायात्मकवेदस्य कथमपौरुषेयतेत्यत आह ।। वर्णा इति । सर्वत्र वेदे तदन्यत्र च कूटवद्गगनवत्तिष्ठन्तीति कूटस्थाः । कूटं खं विदलं व्योमेत्युक्तेः । ते च ते नित्याश्च निर्विकारनित्याः । न प्रकृत्यादिवत्पटादिवद्वाऽनित्याः ।। पदान्यपि नियतानीति । सर्वत्रेत्यनुषङ्गः । एकजातीयानुपूर्विकाणि ।। सम्बन्धोऽपीति । वाच्यवाचकभावरूपसम्बन्धोऽपीत्यर्थः । नन्वेवं सति केन हेतुना पौरुषेयापौरुषेयविभाग इत्यत आह ।। तथाऽपीति । उक्तरीत्या सर्वसाम्येऽपीत्यर्थः । अयं भेदः पौरुषेयापौरुषेयभेद इत्यर्थः ।
श्रीविजयीन्द्रतीर्थ
ननु वर्णनित्यत्वस्य पदत्वौपयिकवर्ण इत्यस्य च लोके वेदे चाविशेषात्पदानुपूर्व्याश्चानुपयोगात्कुतोऽयं पौरुषेयत्वादिविभाग इत्यत आह ।। वर्णा इति ।। कूटस्थनित्या इति । तथा च व्यक्तेरेव नित्यत्वम् । न तु प्रवाहस्येत्यर्थः । सोऽयं गकार इत्यादिप्रत्यभिज्ञयैकैकगकारादिसिद्धेस्तारत्वादेर्जातित्वे सङ्करादनुगतव्यवहारायोगात् । सजातीयसाक्षात्कारप्रतिबन्धावच्छेदकत्वादिनाऽनुगमे प्रतिबन्धकत्वनानुगतगकारादिव्यक्तेरेव तादृशव्यवहारसम्भवे जातिवैय्यर्थ्यादुपाधिरूपस्य च तस्य कालभेदेनैकस्मिन्नपि सम्भवात् । एककाले व्यापके वर्णे प्रदेशभेदेन गमने विहङ्गतदभावयोरिव सम्भवात् । भेदकाभावेन वर्णा व्यापकाः । अत एव नित्याश्चेति भावः ।। तथाऽपीति । बुद्धागमादितुल्यतापरिहाराय ‘‘श्रुतिर्वाव नित्या अनित्या वा स्मृतयो याश्चानित्या वाच’’ इति श्रुत्या वेदस्य नित्यत्वावगतेर्वर्णनित्यत्वमात्रस्य स्मृत्यादावपि सत्त्वात् । आनुपूर्व्याश्चोच्चारणत्वघटिताया नित्यत्वायोगात् । प्रतिसर्गमनन्तानुपूर्व्यादिकल्पने च गौरवात् । नियतानुपूर्वीकत्वरूपापौरुषेयत्वसिद्धिः । स्मृत्यादौ त्वनित्यत्वोक्तेर्वर्णानित्यत्वस्य त्वयोगात्क्रमानित्यत्वस्य च वेदेऽपि सत्त्वादनियतानुपूर्वीकत्वपौरुषेयत्वसिद्धिरिति भावः ।
श्रीवेदेशभिक्षु
एवमागमसामान्यलक्षणमभिधायेदानीं तद्विभागमाह ।। आगम इति । आद्यं लक्षयति ।। तत्रेति । तयोर्मध्य इत्यर्थः । वेदत्वमेवापौरुषेयत्वमागमत्वमित्यर्थः । वेदत्वं चाप्रमितकर्तृवाक्यत्वम् ।। अन्य इति । अभिमतकर्तृकं प्रमाणवाक्यत्वमित्यर्थः । उक्तविभागापपत्तिमाशङ्क्य परिहरति ।। वर्णा इत्यादिना । अत्र यद्यपीति पूरणीयम् । सर्वत्र लोके वेदे चेत्यर्थः । एतच्च पदानि सम्बद्ध इत्यत्रापि योज्यम् । कूटस्थनित्या निर्विकारतयैव नित्याः । न तु प्रकृत्यादिवदित्यर्थः । प्रसङ्गादाह ।। सर्वगता इति । नित्यत्वसाधनाय सर्वगतत्वमिति तु मन्दम् । क्षणेषु व्यभिचारात् । नियतान्येकप्रकाराणि ।। स्वाभाविका एवेति । न तु सङ्केतापरपर्यायेश्वरेच्छारूप इत्यर्थः । तथात्वे गङ्गाशब्दात्तीरं प्रत्येत्वितीश्वरेच्छायाः सन्मात्रविषयायाः कार्यैकोन्नेयायाः सत्त्वेन गङ्गाशब्दस्य तीरेऽपि शक्तिप्रसङ्गात् । अस्माच्छब्दादयमर्थोबोद्धव्य इतीश्वरेच्छाया एव शक्तिरूपत्वेनाङ्गीकारात् । चक्षुषा घटं प्रत्येतु धूमेन वह्निं प्रत्येत्वितीश्वरेच्छयैव चक्षुर्धूमयोर्घटवह्निभ्यां सम्बन्धो न तु संयोगव्याप्ती इत्यपि स्यादिति भावः। तथा च पौरुषेयापौरुषेयागमयोर्वर्णपदपदार्थसम्बन्धानामेकरूपेण वाक्यभेदस्य चातिप्रसञ्जकत्वेनाविभाजकतयोक्तविभागो निर्निबन्धन एवेति भावः ।। आनुपूर्वीति । क्रमविशेषेत्यर्थः ।। स्वतन्त्रेति । स्वजातीयोच्चारणमनपेक्ष्योच्चारयिता पुरुषः स्वतन्त्र इत्युच्यते । यथा भारतस्य व्यासः । वैदिके तु तत्पूर्वकत्वाभावः । तत्क्रमेणैव तैर्वर्णैरित्यागमसिद्धः । तथा चोभयत्र वर्णपदपदार्थ सम्बन्धविभागा
भावेऽपि वाक्यगतक्रमविशेषे स्वतन्त्रकर्तृत्वभावाभावाभ्यामयं विभागो युक्त इति ध्येयम् । अपौरुषेयागमानङ्गीकारे च धर्मादीनां स्वर्गादिहेतुत्वासिद्धिप्रसङ्गः । एतादृशधर्माधर्मयोः स्वर्गनरकविशेषकारणत्वमित्यत्र प्रत्यक्षानुमानयोरप्रवृत्तेः । पौरुषेयागमस्य चाप्यनिश्चयेन तदनिर्णायकत्वादिति द्रष्टव्यम् ।
अभिनवामृतम्
।। अपौरुषेय इति । नन्वपौरुषेयस्यागमैकदेशत्वाभिधानमयुक्तम् । यथार्थज्ञानसाधनत्वाभावात् । तथा हि । यश्च पौरुषेयो वेदः स न तेन क्रमेण बोधकः किन्त्वन्यक्रमेण बोधकः । तत्क्रमविशिष्टश्च नापौरुषेयः । क्रमव्यत्यासादिति चेन्न । अपौरुषेयक्रमेणैव बोधकत्वाङ्गीकारात् । व्यवहितानामपि पदानां योग्यतावशादन्वयप्रतीतिजनकत्वात् । किमर्थं ह्यन्वयसन्धानमिति चेन्न । खटिति परबोधनोपायत्वात् । अवश्यं चैतदेवं विज्ञेयम् । यथाश्रुतवाक्यार्थबोधानन्तरमन्वयक्रमेण वाक्यान्तरस्य सर्वैरुन्नीयमानत्वात् । पश्यसि शिरसा भगिनीं वहसि चक्षुषा कुम्भमित्यत्र भगिनीं चक्षुषा पश्यसि कुम्भं शिरसा वहसीत्यन्वयक्रमविशिष्टवाक्यद्वयोन्नयनं न स्यात् । अबोधकस्य वाक्याभासनिश्चयस्यानुचितत्वात् । न हि कुण्डमजाजिनं पललपिण्डोऽधरोरुकमेतत्कुमार्याः स्फैय्यकृतस्य पिता प्रतिशीन इति वाक्यं दृष्ट्वा वाक्यान्तरमुन्नेतुं प्रयतन्ते । किं नामाबोधकत्वादसाधुतामेव प्रतिपद्यन्ते । तेन मन्यामहे व्यवहितपदोपेतवाक्यमेव बोधकमिति । सौकर्याय त्वन्वयक्रमविशिष्टवाक्यान्तरोन्नयनमिति ।। अनुपपद्यमानार्थदर्शनादिति । उपपादकबुद्धिरर्थापत्तिफलमित्यर्थः । एतेनार्थापत्तेरनुमानत्वं प्रतिज्ञाय फलीभूतज्ञानस्यार्थापत्तित्वकथनमयुक्तमिति परास्तम् ।
आदर्शः
।। वर्णा इति । ध्वनयो नाभसा उच्चारेणोत्पद्यन्ते । ते च वर्णव्यञ्जकास्तत्तद्वर्णव्यञ्जकाः । ध्वनयश्च विजातीया एव । अतो वर्णानां नित्यत्वेऽपि व्याप्तत्वेऽपि न सर्वदा सर्वेषां वर्णानां सर्वेषां प्रत्यक्षापत्तिः । नित्यत्वं व्याप्तत्वं च पूर्वश्रुत एवायं गकारः काश्यां श्रुता एवैते वर्णा इति प्रत्यभिज्ञानादित्यादिकं सविस्तरं तत्त्वनिर्णयादौ प्रतिपादितम् । बाधकानि चोद्धृतानि । किञ्च ध्वनीनामेव वर्णत्वे कदाचिद्ध्वनिश्रवणेऽपि वर्णाश्रवणं न स्यात् । न च ध्वनिर्वर्णरूप इति न वाच्यम् । पार्श्वस्थस्यान्यस्यापि वर्णाश्रवणप्रसङ्गात् । न च करणदोषो ध्वनिवृत्तिवैजात्यस्य गृहीतत्वात् । अन्यथा चैत्रस्यैवायं ध्वनिर्नमैत्रस्येति धीर्न स्यात् । न च कत्वादिप्रत्यक्षप्रतिबन्धकदोषः कल्प्यतेऽतो न कत्वादिप्रत्यक्षापत्तिरिति वाच्यम् । सामान्यतो वर्णत्वस्यापि प्रत्यक्षापत्तेः । ध्वनिरेव श्रुतो न वर्ण इत्यनुभवव्याकोपश्च । वर्णेषु ध्वनित्वाभावेन ध्वनित्वप्रत्यक्षाभावप्रसङ्गश्च । न च प्रत्यक्षं भ्रमः । बाधकाभावात् । न च ध्वनित्वं वर्णेष्वप्यस्ति । शब्दो द्विविधः । ध्वन्यात्मको वर्णात्मकश्चेति विभागाविरोधात् । मन्मते तु ध्वनिश्रवणेऽपि वर्णाश्रवणेन तथाऽनुभवो युज्यते । न च व्यञ्जकध्वनिश्रवणेऽपि वर्णाश्रवणे बीजाभावः । तस्य ध्वनेस्तं पुरुषं प्रत्यव्यञ्जकत्वात् । अभ्यासपाटवादिना पुरुषान्तरस्य व्यञ्जकत्वोपपत्तेः । किञ्च पक्ष्यादिध्वनिभिस्तज्जातीयानां वर्णाभिव्यक्तिस्तावदङ्गीकार्या । अन्यथा ध्वनिमात्रस्यावाचकत्वेन पक्ष्यादीनां परस्परं कथनादेरभावप्रसङ्गात् । न चेष्टापत्तिः । पुराणादिविरोधात् । पुराणादिषु भाषणादिकर्तृत्वस्य प्रतिपादनात् । न च पक्ष्यादिध्वनिषु वर्णत्वमङ्गीकर्तुं शक्यम् । बहुधा प्रयत्नेऽपि कदाऽपि तदप्रत्ययात् । तद्भाषाभिज्ञानां वर्णाभिव्यक्तेश्च । अतो ध्वनिव्यतिरिक्ता वर्णा ध्वनिव्यङ्ग्या इति सिद्धम् । अधिकमाकरे व्यक्तम् । ग्रन्थगौरवभिया नेह प्रपञ्च्यते ।
श्रीविट्टलभट्ट
सर्वोऽप्यागमः पौरुषेय इति मतं कुमतमिति ज्ञापनायागमविभागमाह ।। आगमोऽपि द्विविध इति । अपौरुषेयः पुरुषाप्रणीतः पौरुषेयस्तत्प्रणीत इति द्विविध इत्यर्थः । तौ काविति जिज्ञासायामाह ।। तत्रेति । तयोरपौरुषेयागमो वेदस्तदन्यागमः पौरुषेय इत्यर्थः । वर्णानां स्वरूपेण वैकदेशस्थत्वेन वा पुरुषकृतत्वाकृतत्वाभ्यां भेदाद्भेदात्मकस्यागमस्यायं भेदः कथ्यते । उत पदानां पुरुषकृतत्वाकृतत्वाभ्यां भेदात्तदात्मकस्यागमस्यायं भेदः । आहोस्वित्पदार्थसम्बन्धस्य पुरुषकृतत्वाकृतत्वाभ्यां भेदात्तादृशसम्बन्धवत्पदात्मकस्य वाऽयं भेद इति विकल्पं हृदि निधाय पक्षत्रयमपि न सम्भवतीत्याशयवानाह ।। वर्णा इत्यादिना । सर्वत्र सर्वस्मिन्नागमे प्रविष्टवर्णाः कूटस्थनित्या उत्पत्तिविनाशरहिताः सर्वगताः सकलदेशस्था इत्यर्थः । सर्वस्याप्यागमस्य स्वरूपेणैकदेशस्थत्वेन च पुरुषानुत्पन्नवर्णात्मकत्वात् । स्वरूपेणैकदेशस्थत्वेन वा पुरुषकृतवर्णात्मकत्वस्यागमे क्वाप्यभाववद्वर्णानां पौरुषेयत्वापौरुषेयत्वाभ्यां भेदात्तादृशवर्णात्मकस्यागमस्यायं भेद इत्ययुक्तमिति भावः । अत्र वर्णानां विनाशाभावकथनं वस्तुस्थितिप्रदर्शनार्थमिति ज्ञेयम् ।। पदान्यपीति । सर्वत्रेत्यनुवर्तते । नियतान्येव नियतक्रमाण्येव न त्वनियतक्रमाणीत्यर्थः । सर्वस्याप्यागमस्य नियतानुपूर्वीकपदात्मकत्वेन पुरुषप्रणीतपदात्मकत्वस्यागमे क्वाप्यभावात्पदानां पौरुषेयत्वापौरुषेयत्वाभ्यां भेदात्तादृशपदात्मकत्वस्यागमस्यायं भेद इत्यपि न युक्तमिति भावः ।। तैषामिति । अत्रापि सर्वत्रेत्यनुवर्तते । सर्वत्र तेषां पदानां पदार्थैर्वाच्यवाचकभावलक्षणसम्बन्धोऽपि स्वाभाविक एव पुरुषेणाकृत एवेत्यर्थः । सर्वस्याप्यागमस्यापौरुषेयपदार्थसम्बन्धवत्पदात्मकत्वेन पुरुषकृतपदार्थसम्बन्धवत्पदात्मकत्वस्यागमे क्वाप्यभावात् । पौरुषेयपदार्थसम्बन्धत्वापौरुषेयपदार्थसम्बन्धत्वाभ्यां भेदात्तादृशपदात्मकस्यायं भेद इत्यपि न युक्तमित्याशयः । नियामकसद्भावाद्युक्तोऽयमागमभेद इत्याह ।। तथाऽपीति । यद्यप्युक्तरीत्याऽयमागमभेदोऽनुपपन्नस्तथाऽपि वा वाक्यात्मकान्यागमे प्रविष्टानां पदानामपूर्वविशेषस्य क्रमविशेषः स्यात्तत्पदमात्रसम्बन्धिनी याऽनुपूर्वी तदतिरिक्तायाः सकलपदार्थसम्बन्धिन्या आनुपूर्व्या इति यावत् । स्वतन्त्रपुरुषपूर्वकत्वभावाभावाभ्यां स्वतन्त्रः पुरुषः प्राचीनानुपूर्व्यपेक्षारहितः पुरुषपूर्वभावी यस्य स तथा तस्य भावस्तत्त्वं पुरुषजन्यत्वमिति यावत् । तस्य सत्त्वासत्त्वाभ्यामयं भेदोऽपौरुषेयः पौरुषेय इत्येवंरूप आगमविषयागम इत्यर्थः । प्राचीनानुपूर्व्यनुसारेणाध्यापकैर्वेदवाक्यानुपूर्वीकरणात्स्वतन्त्रपदोपादानमिति ज्ञेयम् । यद्वाक्यापूर्वी स्वतन्त्रपुरुषाप्रणीता तद्वाक्यमपौरुषेयम् । यद्वाक्यानुपूर्वी तत्तत्प्रणीता तत्पौरुषेयमिति व्यवस्थासम्भवादुक्तागमविभागो युक्त इति भावः ।