प्रमाणपद्धतिः
(७) प्रमाणपद्धतिः
आगमोऽनुमान एवान्तर्भवतीति वैशेषिकादयः । तदसत् । व्याप्त्याद्यननुसन्धान एव वाक्यार्थप्रतीतेरनुभवात् । अपौरुषेयः पृथक् प्रमाणम् । पौरुषेयस्त्वनुमानमिति प्राभाकराः । तदप्यसत् । उभयत्र सामग्रीसाम्येऽपि विशेषकल्पकाभावात् । तदेतानि त्रीण्येव प्रमाणानि ।
जयतीर्थविजय
।। आगम इति । द्विविधोऽपीत्यर्थः ।। अनुमान एवेति । तथा च त्रिविधमनुप्रमाणमिति पूर्वो विभागोऽनुपपन्न इति भावः । ज्योतिष्टोमेन स्वर्गकामो यजेतेति प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धा अनुमिमते । इमानि पदानि स्वस्मारितपदार्थसंसर्गज्ञानपूर्वकाणि । आकाङ्क्षादिमत्पदकदम्बकत्वात् । गामानयेति पदकदम्बकवदिति । तथा चानुमानविधयैव प्रमाणमिति भावः ।। व्याप्तीति । अनुमानविधया बोधकत्वपक्षेऽवश्यं व्याप्त्याद्यनुसन्धानपुरस्सरमेव वाक्यार्थप्रतीतिः स्यादिति भावः ।। उभयत्रेति ।। सामग्रीति । आकाङ्क्षादिसामग्रीसाम्य इति भावः । एवमागमस्य पृथक् प्रामाण्यं प्रसाध्यानुप्रमाणत्रैविध्यमुपसंहरति ।। तदिति ।। प्रमाणानीति । अनुप्रमाणानीत्यर्थः ।
भावदीपः
पूर्वं त्रिविधमनुप्रमाणमित्युक्तत्रयाणां लक्षणोदाहरणादिना स्वरूपं प्रतिपाद्याधुना विभागोऽयं न्यूनाधिकसङ्ख्याव्यवच्छेदायान्यतमस्यान्यतमेऽन्तर्भावनिरासायाधिकप्रमाणानां त्रिष्वेवान्तर्भावसूचनाय चेति भावेन त्रैविध्यं साधयितुमितःपरमुक्तेष्वेवान्तर्भाव्यानीत्यन्त उत्तरो ग्रन्थः । तत्रान्तर्भावमतं तावदनूद्य निराह ।। आगम इति । व्याप्त्यादीति । लिङ्गमादिपदार्थः ।। सामग्रीसाम्येऽपीति । आकाङ्क्षादिमत्पदकदम्बश्रवणसङ्केतस्मरणशब्दन्यायोपक्रमाद्यनुसन्धानरूपाया वाक्यार्थबोधसामग्य्राः साम्य इत्यर्थः । एतन्मतनिरासेनागमद्वैविध्यमपि दृढीकृतं भवति ।। तदिति । तस्मादागमोऽनुमानेऽन्तर्भूत इत्यस्यायुक्तत्वादेतानीयता ग्रन्थेन प्रपञ्चितानि प्रत्यक्षादीनीत्यर्थः ।
श्रीविजयीन्द्रतीर्थ
नन्वागमस्य पृथक् लक्षणाद्युक्तिरनर्थिका । तस्यास्तु तयैव प्रमाणत्वादिन्यूनत्वशङ्कां परिहर्तुमाह ।। आगम इति । शब्दो लिङ्गतयैवार्थबोधक इत्यर्थः । एतानि पदानि तात्पर्यविषयस्वस्मारितार्थमिथःसंसर्गज्ञानपूर्वकाण्याकाङ्क्षादिमत्त्वादिति वा । एते पदार्थास्तात्पर्यविषयपरस्परसंसर्गवन्तस्तादृक्पदस्मारितत्त्वादिति वाऽनुमानम् । पूर्वत्र पदज्ञानस्योत्तरत्र पदार्थज्ञानस्य पक्षज्ञानत्वोपयोगः । आकाङ्क्षादेर्लिङ्गविशेषणतया तज्ज्ञानोपाय इति । शाब्दज्ञानोपयुक्तत्वाभिमतोपयोगतौल्ये ज्ञानावच्छेदकतया संसर्गभानाभ्युपगमादन्वयबोधस्य शब्दप्रयोज्यत्वे सति तादृक्पदानां वक्तृज्ञानव्याप्तिप्रतिसन्धानं विनाऽन्वयबोधाभावः परस्याभिमतः । क्लृप्तप्रमाणविधयैवान्वयबोधनिर्वाहादिति । तदेतद्दूषयति ।। तदिति । न च क्लृप्तप्रमाणविधयैव तत्सम्भवे व्याप्त्यप्रतिसन्धाने वाक्यार्थे प्रतीतेरसिद्धिः । तथा सति पदार्थोपस्थितौ मानससंसर्गबोध इत्येवोक्त्या तत्सम्भवादनुभवविरुद्धव्याप्त्यादिरिति सन्धानकल्पनानुपपत्तेः । साक्षात्त्वाननुभवात्तु मानसत्वत्यागेऽनुमितित्वाननुभवादपि तथा । तवानुमितेर्व्यापकावच्छेदकप्रकारकतया तात्पर्यविषयत्वेन संसर्गभानेऽपि घटकर्मत्वान्वयस्यानयने कर्मभूतघटान्वयस्य बोधसिद्धेश्च । चैत्रो दण्डीत्यादौ दण्डादेर्विशेषणविशेष्यभावेन भानादनुमानेन च तादृशबोधासम्भवात् । तत्र पदार्थविशिष्टसंसर्गस्यैव भानात् । पदानामन्वितशक्ततया पदार्थोपस्थापकत्वाभ्युपगमे वाक्यार्थबोधकत्वस्यासम्भवाच्चेति भावः । लोके वक्तृज्ञानसम्भवादनुमानेन संसर्गबोधता वेदे तु तदसम्भवाच्छब्दविधयैव बोधकत्वमिति । गुरुमतमाह ।। अपौरुषेय इति ।। उभयत्रेति । वेदे क्लृप्तायाः शाब्दबोधसामग्य्रा लोके सम्भृतत्वे व्याप्तिप्रतिसन्धानविलम्बेनाबोधकत्वमयुक्तमित्यर्थः । प्रमाणाधिक्यं परिहर्तुमाह ।। तदेतानीति । कल्पनीयत्वाभिमतव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिज्ञानं करणम् । तस्मात्कल्पनीयत्वाभिमतज्ञानं फलं तदनुमानमेवेत्यर्थः ।
श्रीवेदेशभिक्षु
नन्वागमस्य न पृथग्लक्षणाद्युक्तिर्युक्ता । तस्यानुमान एवान्तर्भावात् । तथाहि । यो यानि पदानि प्रयुङ्क्ते स तत्पदार्थसंसर्गज्ञानवानिति सामान्येन स्वात्मनि नियमेन प्रतीतेः पश्चात्पदसमूहज्ञाने तेन वक्तुस्तत्पदार्थसंसर्गज्ञानानुमाने तदवच्छेदकतया वाक्यार्थसिद्धिसम्भवादिति मन्यमानानां मतमुपन्यस्य दूषयति ।। आगम इति ।। व्याप्त्यादीति । अयमाशयः । पदसमुदायमात्रस्य व्यभिचारितया लिङ्गत्वेनाकाङ्क्षादिमत्पदकदम्बकस्यैव लिङ्गत्वे वाच्ये तादृशपदकदम्बकज्ञानमात्रेणैव व्युत्पन्नस्य वाक्यार्थावगतौ वक्तृज्ञानाविनाभावप्रतीत्यादिकल्पने गौरवम् । तदननुसन्धानेऽपि वाक्यार्थप्रतीतेरनुभवसिद्धत्वादिति ।। पृथगिति । वक्तुरभावेन तज्ज्ञानावच्छेदकतया संसर्गसिद्ध्यसम्भवादिति भावः ।। अनुमानमिति । उक्तरीत्या वक्तृज्ञानावच्छेदकतया संसर्गानुमानसम्भवादिति भावः ।। सामग्रीति । यथा वेदे आकाङ्क्षादिमत्पदसमूहज्ञानमात्रेण वाक्यार्थप्रतीतौ न व्याप्त्यादिप्रतिसाधनविलम्बेन विलम्बस्तथा लोकेऽपि तादृशपदसमूहज्ञानस्यावश्यकतयाऽनेनैव वाक्यार्थावगमसम्भवेऽतिरिक्तव्याप्त्यादिज्ञानरूपकारणविशेषकल्पने मानाभावादिति भावः । प्रमाणाधिक्यमतनिरासप्रस्तावनायोक्तमुपसंहरति ।। तदेतानीति ।
आदर्शः
।। आगमोऽनुमान एवान्तर्भवतीति । विमतानि पदानि स्वस्मारितार्थसंसर्गज्ञानपूर्वकाण्याकाङ्क्षादिमत्पदकदम्बकत्वान्मदुच्चरितपदकदम्बवदिति प्रयोगो द्रष्टव्यः ।। व्याप्त्यानुसन्धान एवेति । उपलक्षणमेतत् । दोषान्तराण्यपि द्रष्टव्यानि । तथा हि । शुकोच्चरितवाक्ये संसर्गज्ञानपूर्वकत्वाभावेऽप्युक्तहेतुसत्त्वाद्य्वभिचारः । न च शुकस्योपदेष्टुस्तत्संसर्गज्ञानपूर्वकत्वं वर्तत एवेति वाच्यम् । दैवात्केनाप्यनुपदिष्टपदक्रमोच्चारणसम्भवे तत्र व्यभिचारस्य दुर्वारत्वात् । यादृच्छिकपिपीलिकालिप्या स्मृतपदकदम्बेषु व्यभिचारश्च । किञ्च केयमाकाङ्क्षा । यदि नैयायिकरीत्या पदानां समभिव्याहारो गौरश्वः पुरुषो हस्तीति मूर्खाद्युच्चरितपदेषु व्यभिचारः । यादृशसमभिव्याहाराद्बोधोऽसिद्धस्तादृशसमभिव्याहारश्च वाक्याच्छब्दबोधं विना दुर्ज्ञेय इति हेतोरज्ञानासिद्धिः । यदि च तदर्थान्वितस्वार्थबोधकत्वप्रकारकज्ञानविषयत्वं तर्हि बोधकत्वाभावेन विशेषणासिद्धिः । भ्रमसाधारणज्ञाननिवेशे वर्णमालायां व्यभिचारः । न चानुमितिमादायाकाङ्क्षोपपादनीया । प्रथमतो हेतुज्ञानाभावेनानुमितेरेवासम्भवादित्यादिदोषा द्रष्टव्या इत्यलम् ।। अपौरुषेयः पृथक् प्रमाणमिति । तत्र संसर्गज्ञानपूर्वकत्वस्य बाधितत्वादिति भावः ।
श्रीविट्टलभट्ट
त्रिविधमनुप्रमाणं प्रत्यक्षानुमानागमाश्चेत्युक्तम् । तत्रागमस्यानुमानान्तर्भावात् । अनुप्रमाणत्रैविध्यमयुक्तमिति शङ्कावारणायागमस्यानुमानान्तर्भाववादिनां मतं दूषयितुमनुवदति ।। वैशेषिकादय इति । आहुरिति शेषः । आदिपदेन सौगता उच्यन्ते । दूषयति ।। तदसदिति । तदनुमानान्तर्भूत आगम इति मतमसत् । दुष्टमित्यर्थः । तत्र हेतुमाह ।। व्याप्त्यादीति । व्याप्तिसमुचितदेशवृत्तित्वपक्षज्ञानाभावदशायामेव वाक्यार्थस्यासंसर्गे विशेषस्यानुभवात्प्रतीतेरित्यर्थः । व्याप्तिज्ञानं समुचितदेशवृत्तित्वज्ञानं पक्षज्ञानं चानुमितिसामग्री तदभावेऽपि वाक्याज्जायमानवाक्यप्रतीतिः । अतस्तत्करणं वाक्यं नानुमानान्तर्भूतमिति भावः । पौरुषेयागमस्यानुमानान्तर्भूतत्वादागमद्वैविध्यमयुक्तमिति शङ्कावारणायानुमानान्तर्भावं वदतो मतं दूषयितुमनुवदति ।। अपौरुषेय इति । अपौरुषेयागमः पृथक् प्रमाणमनुमानातिरिक्तं प्रमाणमित्यर्थः । प्राभाकरा आहुरिति शेषः ।। उभयत्रेति । पौरुषेयवाक्यापौरुषेयवाक्यद्वयप्रतीत्योः सामग्य्रोः कारणचक्रस्य साम्ये एकविधत्वमेवेति । विषयस्य वाक्यफलत्वानुमानफलत्वरूपवैरूप्यस्य कल्पकाभावादित्यर्थः । यत्प्रतीतिसामग्य्रेकरूपा तज्ज्ञानकरणं प्रमाणमप्येकरूपमेवेति भावः । प्रमाणमुपसंहरति ।। तदेतानीति । तस्मात्प्रत्यक्षानुमानेष्वेकस्यान्यत्रानन्तर्भावादेतानि प्रत्यक्षादीनि त्रीण्येव न्यूनाधिकसङ्ख्यारहितानि त्रीण्यनुप्रमाणानीत्यर्थः ।