प्रमाणपद्धतिः

परार्थानुमाने पञ्चावयवनियमो नास्ति

(१८) प्रमाणपद्धतिः

पुनरनुमानं द्विविधम् । स्वार्थं परार्थं चेति । तत्र परोपदेशमनपेक्ष्य यत्स्वयमेव व्याप्तिज्ञानतत्स्मरणसहितं लिङ्गज्ञानमुत्पद्यते तत्स्वार्थानुमानम् । यत्तु परोपदेशापेक्षमुत्पद्यते तत्परार्थानुमानम् । तज्जनकत्वात्परोपदेशोऽपि परार्थानुमितिं क्वचिदुपचर्यते । परोपदेशस्तु पञ्चावयववाक्यानीति नैयायिकादयः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । एत एव वैशेषिकैः प्रतिज्ञोपदेशनिदर्शनानुसन्धानप्रत्याम्नाया इत्युच्यन्ते । तत्र पक्षवचनं प्रतिज्ञा । यथा पर्वतोऽग्निमानिति । तत्र धर्मिणमुद्दिश्य पश्चाद्धर्मो विधातव्यः । साधनत्वख्यापकविभक्त्यन्तं लिङ्गवचनं हेतुः । यथा धूमवत्त्वादिति । व्याप्तिग्रहणस्थलं दृष्टान्तः । स द्विविधः । साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्चेति । तत्रान्वयव्याप्तिग्रहणस्थलं साधर्म्यदृष्टान्तः । यथा धूमानुमाने महानसः । व्यतिरेकव्याप्तिग्रहणस्थलं वैधर्म्यदृष्टान्तः । यथा तत्रैव महाह्रद इति । सम्यग्व्याप्तिप्रदर्शनपूर्वकं दृष्टान्ताभिधानमुदाहरणम् । तद्द्विविधम् । साधर्म्योदाहरणं वैधर्म्योदाहरणं चेति । अन्वयव्याप्तिप्रदर्शनपूर्वकं साधर्म्यदृष्टान्ताभिधानं साधर्म्योदाहरणम् । यथा यो यो धूमवान्स सोऽग्निमान्यथा महानस इति । व्यतिरेकव्याप्तिप्रदर्शनपूर्वकं वैधर्म्यदृष्टान्ताभिधानं वैधर्म्योदाहरणम् । यथा योऽग्निमान्न भवति स धूमवान्न भवति । यथा महाह्रद इति । दृष्टान्ते प्रसिद्धाविनाभावस्य लिङ्गस्य पक्षे व्याप्तिरव्यापकं वचनमुपनयः । सोऽपि दृष्टान्तानुसारेण द्विविधः । तत्र महानस इव पर्वतो धूमवानिति साधर्म्योपनयः । न च ह्रद इवायं निर्धूमः पर्वत इति वैधर्म्योपनयः । पुनः सहेतुकं पक्षवचनं निगमनम् । यथा तस्मात्पर्वतोऽग्निमानिति ।

जयतीर्थविजय

।। तत्रेति । स्वयमित्यस्य विवरणं परोपदेशमनपेक्ष्येति ।। व्याप्तिज्ञानतत्स्मरणसहितं लिङ्गज्ञानमिति । व्याप्तिज्ञानं व्याप्त्यनुभवः । लिङ्गज्ञानमित्युभयत्रापि सम्बद्ध्यते । व्याप्त्यनुभवरूपलिङ्गज्ञानं व्याप्तिस्मरणरूपं वा लिङ्गज्ञानमित्यर्थः । व्याप्त्यनुभवजनितप्रबलतरसंस्कारसदसद्भावदशाभेदे व्याप्त्यनुभवतत्स्मरणे व्यवस्थिते न तु युगपदिति नासम्भवः । तत्स्वार्थानुमानमिति । स्वस्यार्थः प्रयोजनं वह्न्यादिलाभरूपं यस्मादिति व्युत्पत्त्या स्वप्रयोजनसाधनज्ञानजनकलिङ्गज्ञानत्वं स्वार्थानुमानलक्षणं द्रष्टव्यम् । न चोदासीनलिङ्गज्ञानेऽव्याप्तिः । तस्यापि पुरुषविशेषापेक्षया स्वप्रयोजनसाधनज्ञानोत्पादनयोग्यत्वात् । योग्यताया एव प्रकृते विवक्षितत्वात् ।। यत्त्विति । व्याप्त्यवगाहिलिङ्गज्ञानमित्यर्थः ।। तत्परार्थानुमानमिति । अत्रापि परस्यार्थः प्रयोजनं यस्मादिति व्युत्पत्त्या परप्रयोजनोत्पादनयोग्यज्ञानसाधनयथार्थलिङ्गज्ञानत्वं परार्थानुमानलक्षणं बोध्यम् । ननु प्रतिज्ञाहेतूदाहरणादिरूपे परोपदेशे लिङ्गज्ञानत्वरूपकारणाभावात्कथं तत्र परार्थानुमानव्यवहार इत्याशङ्क्य परोपदेशे प्रायस्तादृशव्यवहारो नास्त्येव । क्वाचित्कोऽपि व्यवहार औपचारिक इत्याह ।। तज्जनकत्वादिति । व्याप्त्यवगाहिपरकीयलिङ्गज्ञानजनकत्वादित्यर्थः । प्रसङ्गादाह ।। परोपदेशशस्त्वित्यादिना ।। नैयायिकादय इति । नवीननैयायिकादय इत्यर्थः । जरन्नैयायिकैर्जिज्ञासासंशयशक्यप्राप्तिप्रयोजनसंशयनिरासैः सह प्रतिज्ञादिदशावयवस्वीकारादिति द्रष्टव्यम् । जिज्ञासादिपञ्चकस्या शब्दरूपत्वस्य स्फुटत्वेनानवयवत्त्वात्तत्पक्षो न क्षोदक्षम इति नवीननैयायिकैरुपेक्षितः । के ते पञ्चावयवा इत्याकाङ्क्षायां न्यायसूत्रं प्रमाणयति ।। प्रतिज्ञेति । अयं भावः । यावता व्याप्तिविशिष्टलिङ्गधीस्तावदाकाङ्क्षाक्रमेणाभिधेयम् । अन्यथा न्यूनत्वापत्तेः । तत्र साध्यानुपस्थितौ हेत्वाकाङ्क्षैव नोदेतीति तदुपस्थित्यर्थं प्रतिज्ञा । ततः कस्मात्प्रमाणादिदं ज्ञेयमित्याकाङ्क्षायां स्वरूपमात्रप्रतिपादकं धूमादिति हेतुवचनम् । ततोऽस्य सामर्थ्यजिज्ञासायां प्रथमं व्याप्तिदर्शनार्थमुदाहरणम् । पश्चात्पक्षधर्मता प्रदर्शनार्थमग्निव्याप्तधूमवांश्चायमित्युपनयः । ततः सर्वस्यैकबुद्ध्यारोहायैकवाक्यतामापादयितुं निगमनमिति पञ्चाप्यवयवा आवश्यका इति ।।

वैशेषिकैरिति । नैयायिकैकदेशिभिरित्यर्थः ।। तत्रेति । पक्षवचनमिति । साध्यविशिष्टधर्मिवचनमित्यर्थः ।। तत्रेति । धर्मिसाध्ययोर्मध्य इत्यर्थः । यद्वा प्रतिज्ञावाक्य इत्यर्थः ।।  पश्चादिति । पूर्वं बुद्ध्यनुपारूढधर्मिणि कस्यापि धर्मस्य विधातुं निषेद्धुं वाऽशक्यत्वादित्यर्थः । सिद्धं धर्मिणमुद्दिश्य साध्यधर्मो विधीयत इति ।। साधनत्वेति । कारणत्वाभिधायिनी या विभक्तिस्तृतीया पञ्चमी वा तदन्तमित्यर्थः । अत्र लिङ्गवचनं हेतुरित्येवोक्ते धूमवान्पर्वतो वह्निमानिति वाक्येऽतिव्याप्तिः । अतः साधनत्वख्यापकेति । साधनत्वेत्यादिपूर्वविशेषणमात्रोपादाने तु पर्वतो वह्निमान्पर्वतत्वादिति वाक्येऽतिव्याप्तिः । अतो लिङ्गवचनमिति । उदाहरणलक्षणं वक्तुं तद्घटकं दृष्टान्तं निरूपयति । व्याप्तीति । व्याप्तिस्थलं दृष्टान्त इत्युक्ते पक्षे गतम् । अतो ग्रहणेति ।। तत्रान्वयेति । व्याप्तिग्रहणस्थलं साधर्म्यदृष्टान्त इत्येवोक्ते वैधर्म्यदृष्टान्ते गतम् । अतोऽन्वयेति । ग्रहणपदव्यावर्त्यं पूर्ववत् । व्यतिरेकेति । अत्र ग्रहणपदं पक्षातिरिक्ते वस्तुतः साध्यारहिते यस्मिन्साध्यसंशयस्तत्रातिव्याप्तिवारणायेति ज्ञेयम् । यदर्थं दृष्टान्तो निरूपितस्तदाह ।। सम्यगिति । अत्र दृष्टान्तवचनमुदाहरणमित्येवोक्ते कृतकत्वेन शब्दानित्यत्वे साध्येऽनुपदर्शितव्याप्तिके घटवदिति दृष्टान्तमात्रे गतम् । अतो व्याप्तिप्रदर्शनपूर्वकमिति । सम्यगित्यनेन तत्रैवानुमाने वैपरीत्योपदर्शितव्याप्तिकस्य यदनित्यं तत्कृतकं यथा घट इति वाक्यस्य निरासः ।। दृष्टान्ते प्रसिद्धाविनाभावस्येति । उदाहरणोपदर्शितव्याप्तिकस्येत्यर्थः । पक्षे धर्मिणि । व्याप्तिख्यापकं सत्त्वप्रतिपादकम् । व्याप्तिख्यापकवचनमित्येवोक्ते महानसे धूम इति वाक्ये गतम् । अतः पक्ष इति । तावत्येवोक्ते महानसो वह्निमानिति वाक्ये गतम् । अतो लिङ्गस्येति । लिङ्गस्य पक्षे व्याप्तिख्यापकं वचनमुपनय इत्येवोक्ते धूमत्वादिति हेतुवचने गतम् । अतो दृष्टान्त इत्यादि ।। दृष्टान्तानुसारेणेति । दृष्टान्तस्य द्विविधत्वात्तदुपपादक उपनयोऽपि द्विविध इति भावः ।। पुनरिति । प्रतिज्ञावाक्येन पक्षवचनेऽपीत्यर्थः । सहेतुकमिति क्रियाविशेषणम् । पक्षवचनं धर्मिणि साध्योक्तिरित्यर्थः । पक्षवचनं निगमनमित्येवोक्ते प्रतिज्ञायां गतम् । अतः सहेतुकमिति । पुनरित्युपसंहाररूपत्वमस्य दर्शयितुम् ।

भावदीपः

।। यदिति । भूयोदर्शनादिरूपप्रागुक्तसामग्रीत इत्यर्थः ।। यत्तु परोपदेशापेक्षमिति । व्याप्तिज्ञानमित्यादेरनुषङ्गः ।। क्वचिदिति । युक्तिः प्रतिज्ञारूपा च हेतुदृष्टान्तरूपिका । तथोपनयरूपा च परा निगमनात्मिकेत्यादि ब्रह्मतर्कवाक्यादावित्यर्थः । वैशेषिकोक्तानामन्यत्वशङ्कानिरासायाह ।। एत एवेति । क्रमेणावयवानां स्वरूपमाह ।। तत्रेति । तेषु मध्ये ।। पक्षवचनमिति । पक्षस्वरूपं प्रागुक्तम् ।। पश्चाद्धर्म इति । अग्निमान्पर्वत इति न वाच्यमिति भावः ।। धूमेति । प्रातिपदिकमात्रोक्तेरहेतुत्वायोक्तं विभक्त्यन्तं लिङ्गवचनमिति । धूमोऽस्तीत्यादेरहेतुत्वायोक्तं साधनत्वख्यापकविभक्त्यन्तमिति । सा च विभक्तिः पञ्चमीति भावः । उदाहरणलक्षणं वक्तुं दृष्टान्तस्वरूपमाह ।। व्याप्तिग्रहणेति ।। तत्रैवेति । धूमानुमाने ।। सम्यग्व्याप्तीति । यो यो धूमवानसावसावित्येव न तु वैपरीत्येनेति सम्यक् शब्दार्थः ।। प्रसिद्धेति । निश्चितव्याप्तिकस्य लिङ्गस्य व्याप्त्या वर्तमानत्वख्यापकवचनमित्यर्थः । तत्र तयोर्मध्ये ।

श्रीविजयीन्द्रतीर्थ

मतान्तरनिरासचिकीर्षयाऽनुमानविभागान्तरमाह ।। पुनरिति । ननु स्वार्थं स्वेष्टसाधनं परार्थं परेष्टसाधनमिति पदार्थः प्रतीयते । स चासम्भवी । स्वार्थानुमितेरपि सर्वस्य इष्टत्वाभावात् । परार्थानुमितेरपि वादजन्यायाः स्वेष्टत्वात् । उपेक्षानुमितेरपि सम्भवे तत्र तत्र स्वार्थत्वादेरसम्भव इत्यत आह ।। तत्रेति । परोपदेशे त्वनुमितिपदमौपचारिकमित्याह ।। तत्रेति । परोपदेशे त्वनुमितिपदमौपचारिकमित्याह ।। तदिति । जनकत्वं प्रयोजकत्वम् । मतान्तरसिद्धमवयवनियमं निराकर्तुं तार्किकसिद्धमवयवं तावदाह ।। परेति । उपदेशो न्यायः । स च तन्मतेऽनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकं वाक्यम् । अत्रोपनयेति चतुरवयवे महावाक्येऽतिप्रसङ्गपरिहाराय चरमकारणेति । तस्यानुमितिकारणलिङ्गापरामर्शप्रयोजकशाब्दज्ञानेन मनसा ज्ञानद्वाराऽनुमितिचरमकारणपरामर्शजननान्नासम्भवः । शाब्दपदेन कण्टकोद्धारवाक्यस्य नायमसिद्ध इत्यादेर्निरासः । तस्यानुमितिचरमकारणपरामर्शप्रयोजकज्ञानजनकत्वात् । कण्टकोद्धारजन्यज्ञानस्य योग्यताज्ञानत्वेनोपयोगात्तत्रापि व्याप्तिसम्भवात् । न शाब्दपदज्ञानेऽपि दोषतादवस्थ्यम् । तज्जन्ययोग्यताज्ञानस्याशाब्दत्वादिति वाच्यम् । शाब्दज्ञानत्वेन जनकत्वस्य विवक्षितत्वात् । तस्य शाब्दज्ञानस्यापि योग्यताज्ञानत्वेन जनकत्वात् । वाक्यपदेन कालादिव्युदासः । वाक्यत्वं वाक्यान्तरघटकवाक्यत्वम् । तेन न्यायैकदेशेऽतिव्याप्तिरेकदेशस्यापि वाक्यत्वादिति निरस्तम् । नैयायिकवैशेषिकभेदेनावयवानां संज्ञाभेदमाह ।। प्रतिज्ञेति । प्रतिज्ञालक्षणमाह ।। तत्रेति । पक्षतावच्छेदकावच्छेदेन साध्यविधायकन्यायावयव इत्यर्थः । निगमनं चानुवादः । अत एव वक्ष्यति ।। पुनः सहेतुकं पक्षवचनमिति । अत्रैव प्रतिज्ञाप्रयोजनकथने विधातव्य इति चोक्तम् । हेत्ववयवस्य लक्षणमाह ।। साधनत्वेति । लिङ्गवचनं न्यायावयवः । तेन न्यायबहिर्भूते निगमनैकदेशे च नातिप्रसङ्गः । उदाहरणं लक्षयितुं दृष्टान्तं लक्षयति । व्याप्तीति । व्यभिचारज्ञानविरोधिव्याप्तिग्रहणस्थलमित्यर्थः । तेन दृष्टान्तद्वयसङ्ग्रहः । व्यतिरेकव्याप्तिग्रहस्यापि साधने साध्यव्यभिचारज्ञानविरोधित्वात् ।।

अन्वयेति । साधने साध्यसम्बन्धबोधस्थलमित्यर्थः । एवं व्यतिरेकीत्यत्रापि साध्याभावे साधनाभावसम्बन्धेत्यादि द्रष्टव्यम् । दृष्टान्तलक्षणमुक्त्वोदाहरणलक्षणमाह ।। सम्यगिति । दृष्टान्तविषयकत्वनियताभिन्नसम्यग्व्याप्तिदर्शकं वचनमित्यर्थः । तेन दृष्टान्तस्य सामर्पिकतया तद्रहितोदाहरणाव्याप्तिः परिहृता । विपरीतोपदर्शितानुपदर्शितव्याप्तिकोदाहरणाभासवारणाय सम्यगित्यादिपदम् । वह्निव्याप्यधूमवानयमित्युपनयेऽतिप्रसङ्गपरिहाराय दृष्टान्तेति । एवमन्वयेत्यादावपि द्रष्टव्यम् । उपनयलक्षणमाह ।। दृष्टान्त इति । एतत्स्वरूपकथनं पक्षतावच्छेदकावच्छिन्ने लिङ्गसम्बन्धबोधकन्यायावयवोऽथवा तद्विधायकं वचनमित्यर्थः । तेन निगमनैकदेशे तस्मादित्यत्र नातिप्रसङ्गः । निगमनलक्षणमाह ।। पुनरिति । पुनरित्यनुवादकत्वकथनाय लक्षणं तु सहेतुकमित्यादि । हेतुमत्त्वपुरस्कारेण साध्यविशिष्टपक्षबोधकन्यायावयवेति तदर्थः । तेन प्रतिज्ञोदासीनयोः परिग्रहः ।

श्रीवेदेशभिक्षु

।। परोपदेश इति । ससामर्थ्यलिङ्गप्रतिपादकं वाक्यमित्यर्थः ।। पक्षवचनमिति । परं प्रति प्रतिपादयितुमिति शेषः । दृष्टान्तघटिततयोदाहरणं लक्षयितुं दृष्टान्तलक्षणमाह ।। व्याप्तीति । तद्द्वैविध्यं वक्तुं दृष्टान्तद्वैविध्यमाह ।। स इति ।। सम्यग्व्याप्तीति । विपरीतव्याप्त्यभिधानेऽनुपदर्शित व्याप्तिके दृष्टान्तानभिधाने चोदाहरणाभासेऽतिव्याप्तिवारणाय क्रमेण विशेषणानि । प्रतिज्ञाव्यावृत्त्यर्थं सहेतुकमित्युक्तम् ।

अभिनवामृतम्

।। पक्षवचनमिति । साध्यविशिष्टतया पक्षवचनमित्यर्थः । उदाहरणं लक्षयितुं दृष्टान्तं लक्षयति ।। व्याप्तिग्रहणेति ।।

आदर्शः

।। पक्षवचनं प्रतिज्ञेति । वह्निमत्पर्वतादिरूपविशिष्टप्रतिपादकमित्यर्थः ।

श्रीविट्टलभट्ट

।। यस्त्वयमेवेति । व्याप्त्यनुभवादिरूपं यत्परोपदेशमनपेक्ष्य स्वसामग्रीत एवोत्पद्यते तत्स्वार्थानुमानमित्यर्थः ।। यत्त्विति । व्याप्तिज्ञानतत्स्मरणलिङ्गज्ञानरूपं यत्तु परोपदेशमपेक्ष्योत्पद्यते तत्परार्थानुमानमित्यर्थः ।। परोपदेशस्त्विति । स्वसामर्थ्यलिङ्गोपस्थापकवाक्यं त्वित्यर्थः । पञ्चावयवोपेतं वाक्यं परोपदेश इत्युक्तम् । के ते पञ्चावयवा इति जिज्ञासायामाह ।। तत्रेति ।। यथा पर्वतोऽग्निमानितीति । वचनमिति शेषः । सिद्धं धर्मिणमुद्दिश्य साध्यधर्मो विधीयत इत्यभिप्रेत्याह ।। तत्रेति । प्रतिज्ञायामित्यर्थः । साधनत्वख्यापकेति करणत्वप्रतिपादिका विभक्तिः पञ्चमीविभक्तिस्तदन्तमित्यर्थः ।। धूमवत्त्वादिति । वचनमिति शेषः ।। सम्यग्व्याप्तिप्रदर्शनपूर्वकमिति । व्याप्यस्य वचनं पूर्वं व्यापकस्य ततःपरमित्युक्तरीत्या व्याप्तिप्रदर्शनपूर्वकमित्यर्थः ।। यथा महानस इतीति । वचनमिति शेषः । एवं यथा महानस इतीत्यनन्तरमयं पर्वतोऽग्निमानित्यनन्तरं निर्धूमः पर्वत इतीत्यनन्तरं तस्मात्पर्वतोऽग्निमानित्यनन्तरं शेषो द्रष्टव्यः ।