प्रमाणपद्धतिः

विरोधप्रकाराः

(२२) प्रमाणपद्धतिः

एते च विरोधादयो द्विविधाः । समयबन्धप्रश्नस्वपक्षसाधनपरपक्ष निराकरणात्मककथारूपसाधारणा अनुमाननिष्ठाश्च । तत्रानुमाननिष्ठास्तावदुच्यन्ते । त्रिविधोऽनुमानविरोधः । प्रतिज्ञाहेतुदृष्टान्तविरोधभेदेन । तत्र प्रमाणविरोधः स्ववचनविरोध इति द्विविधः । प्रतिज्ञाविरोधः । प्रमाणविरोधोऽपि द्वेधा । प्रबलप्रमाणविरोधः समबलप्रमाणविरोधश्चेति । हीनबलस्यानेनैव बाधितस्याकिञ्चित्करत्वात् । प्राबल्यं च द्विविधम् । बहुत्वेन स्वभावेन च । स्वभावश्चोपजीव्यत्वं निरवकाशत्वमित्यादिरूपः । प्रत्यक्षादिविरोधभेदेन द्वावपि प्रत्येकं त्रिविधौ । समबलानुमानविरोधोऽपि द्वेधा । तेनैवानुमानेनानुमानान्तरेण चेति । स्ववचनविरोधोऽपि द्विविधः । अपसिद्धान्तो जातिरिति । तत्र पूर्वाचार्यैर्यत्प्रामाणिकतयाऽभ्युपगतं तद्विरुद्धाङ्गीकारोऽपसिद्धान्तः । पूर्वाचार्यवचनस्यापि स्वयमङ्गीकृतत्वेन स्ववचनत्वात् ।

जयतीर्थविजय

।। अनुमाननिष्ठास्तावदिति । उच्यन्त इति शेषः । ननु प्रमाणविरोधस्त्रेधेति वक्तव्यं हीनबलप्रमाणविरोधस्य तृतीयस्य सत्त्वादित्यत आह ।। हीनेति । वाद्युपन्यस्तहेत्वपेक्षया हीनबलस्य तेनैव बाधिततयाऽनुमित्यप्रतिबन्धकतयाऽदोषत्वात्तद्विरोधो न गणनीय इति भावः । ननु यदि प्रमाणस्य स्वभावेन प्राबल्यं तदा हीनबलस्यापि प्राबल्यापत्तिः । तदीयस्वभावस्यापि स्वभावत्वादित्यतः स्वभावशब्दार्थमाह ।। उपजीव्यत्वमित्यादिना । उपजीव्यत्वं यथा जीवेशाभेदपरवत् प्रतीयमानतत्त्वमस्यादिवाक्यं प्रति जीवेशभेदग्राहकप्रत्यक्षागमयोः । निरवकाशत्वं विषयान्तरपरतया नेतुमशक्यत्वम् । यथा तत्त्वमस्याद्यागमानामभेदपरतया योजयितुमशक्यत्वम् । आदिपदेन प्रत्यक्षजातिर्ग्राह्या ।। द्वावपीति । प्रबलप्रमाणविरोधः समबलप्रमाणविरोधश्चेत्यर्थः । प्रबलप्रत्यक्षविरोध, प्रबलानुमानविरोध, प्रबलागमविरोध, समबलप्रत्यक्षविरोध, समबलानुमानविरोध, समबलागमविरोधभेदेनेत्यर्थः । नन्वपसिद्धान्तस्य कथं स्ववचनविरोधरूपत्वं स्वकीयवचनविरोधारूपत्वादित्यत आह ।। पूर्वेति ।

भावदीपः

परोदीरितहेत्वाभासानामनुमानदोषेषु विरोधादिष्वन्तर्भावोक्त्यर्थं तद्विभागमाह ।। एतेचेति । कथारूपसाधारणाः कथास्वरूपेऽप्युद्भावनीया इत्यर्थः । कीदृशी कथेत्यतस्तां विशिनष्टि ।। समयबन्धेति । तत्तत्सिद्धान्तानुसारेणावयवादिप्रयोगः कार्य इत्यादिसमयबन्धः ।। तावदिति । निरूप्यन्त इति शेषः ।। अकिञ्चित्करत्वादिति । अतो न परिगणनीय इत्यर्थः । इत्यादिरूप इत्यादिपदेन जातिकृतप्राबल्यग्रहः ।। द्वावपीति । प्रबलसमबलप्रमाणविरोधावपीत्यर्थः ।। तेनैवेति । वादिप्रयुक्तहेतुनैवेत्यर्थः । ननूक्तरूपापसिद्धान्तस्य कथं स्ववचनविरोधितेत्यत आह ।। पूर्वाचार्यवचनस्यापीति ।

श्रीविजयीन्द्रतीर्थ

शब्ददोषत्वोपपादनाय सन्निधीत्युक्तम् । दोषविषयं विवेचयन्नुपपत्तिदोषं विभजते ।। एत इत्यादिना । हीनबलविरोधोऽपि कुतो नोक्त इत्यत आह ।। हीनेति । नन्वपसिद्धान्तस्य कथं स्ववचनविरोधित्वं तस्य पूर्वाचार्यवचनाविरोधत्वादित्यत आह ।। पूर्वेति । स्वाभ्युपगतप्रमाणाभाव वचनस्य स्ववचनत्वमिति भावः ।

श्रीवेदेशभिक्षु

परनिरूपिताशेषनिग्रहस्थानानां विरोधादिष्वेवान्तर्भावं वक्तुं विरोधादिविभागमाह ।। एत इति । अनुमाननिष्ठास्तावदित्यत्र विरोधादय इत्यनुवर्तते । सामान्यलक्षणस्य पूर्वमेवोक्तत्वादनुमान निष्ठविरोधं परोदीरिताशेषहेत्वाभासान्तर्भावकथनसौकर्याय विभजते ।। त्रिविधेति । साधारणोऽसाधारणश्च सम्भावित इति शेषः । कथं त्रैविध्यमित्यत आह ।। प्रतिज्ञेति । अत्र प्रतिज्ञापदेन पक्षोऽप्युपलक्ष्यते । हेतुपदेन लिङ्गं च । दृष्टान्तपदेनोदाहरणमपि । विरोधस्योभयदूषणत्वात् । तत्र प्रतिज्ञाविरोधः साधारणोऽन्यावसाधारणौ । तेन प्रतिज्ञाविरोधप्रभेदभूतानामपसिद्धान्तादीनां कथमनुमानमात्रदोषत्वमित्यादिदूषणमलग्नकं वेदितव्यम् । प्रतिज्ञातार्थप्रतिस्पर्धिसद्भावः प्रतिज्ञाविरोध इति प्रतिज्ञाविरोधलक्षणस्य स्फुटत्वात्तदनुक्त्वा विभागमेवाह ।। तत्रेति । यत्तु प्रमाणलक्षणटीकायां पक्षलक्षणराहित्यं प्रतिज्ञाविरोधलक्षणमुक्तम् । तदसाधारणप्रतिज्ञाविरोधाभिप्रायेणेत्यवगन्तव्यम् । हीनबलविरोधोऽपि कुतो नोक्तमत आह ।। हीनेति । प्रामाण्यातिरिक्तम् । किं प्राबल्यं नाम यद्धीनबलं नास्तीत्यत आह ।। प्राबल्यं चेति ।

अभिनवामृतम्

।। एते च विरोधादय इति । प्रतिज्ञाविरोधप्रतिज्ञाऽसङ्गति प्रतिज्ञान्यूनता प्रतिज्ञाधिक्यानि समयबन्धकथासाधारणानि हेतुदृष्टान्तविरोधादीनि केवलानुमाननिष्ठानीति विरोधादयो द्विविधा इत्यर्थः ।। अनुमाननिष्ठा इति । साधारणासाधारणनिष्ठाविरोधादयः कथ्यन्त इत्यर्थः ।। प्रतिज्ञाहेतुदृष्टान्तेति । प्रतिज्ञाहेतुदृष्टान्त विरोधादयोऽनुमानत्वाभिमतनिष्ठत्वाभावेऽप्यनुमानसामर्थ्यविघटकत्वादनुमानदोषत्वमिति बोध्यम् । अपसिद्धान्तः कथं स्ववचनविरोध इत्यत आह ।। पूर्वाचार्यवचनस्यापीति ।

आदर्शः

परोक्तदोषाणामत्रैवान्तर्भावं वक्तुं विरोधादीन्विभजति ।। विरोधादयो द्विविधा इति ।। प्रमाणविरोध इति । प्रमाणप्रयोज्यो विरोध इत्यर्थः ।। स्ववचनविरोध इति । स्ववचनप्रयोज्यो विरोध इत्यर्थः । स्वप्रतिपाद्यविपरीतप्रतिपादकस्य प्रबलप्रमाणस्य सत्त्वेऽनेनैव स्वविषयेऽसत्त्वसिद्ध्याऽसत्त्वग्राहकमानाविषयत्वाभावरूपविरोधस्तत्प्रयोज्यो भवति । समबलत्वेऽप्यहीनबलमानान्तरं भवतीति तद्विषयत्वरूपविरोधप्रयोजकत्वं सम्भवति । एवं स्ववचनस्यापि स्वसमबलप्रमाणरूपत्वेन तत्सत्तायास्तादृशमानविषयत्वरूपविरोधप्रयोजकत्वं सम्भवतीति । एवं स्ववचनस्यापि स्वसमबलप्रमाणरूपत्वेन तत्सत्तायास्तादृशमानविषयत्वरूपविरोधप्रयोजकत्वं सम्भवतीति ध्येयम् । यद्यपि सभायां प्रमाणविरोधत्वेनैवोद्भाव्यत्वम् । तथाऽपि प्रबलप्रमाणविरोधो वादिविपर्ययानुमापकः । समबलप्रमाणविरोधस्तु प्रमाजननानुकूलशक्त्यभावज्ञापकः । स्ववचनविरोधस्त्वत्यन्ताज्ञानानुमापक इति फलभेदाच्छिष्याणां तज्ज्ञापनाय विभागः कृतः ।

वाक्यार्थमञ्जरी

।। समयेति । समयबन्धः । अत्र प्रसङ्गः कार्य इति नियमनं प्रश्नश्च स्वपक्षसाधनं परपक्षनिराकरणान्येतदात्मकानि कथायाः रूपाण्यङ्गानि तत्रानुमाने च साधारणानीत्यर्थः ।। अनुमाननिष्ठाश्चेति । स्वार्थपरार्थसाधारणा इत्यर्थः ।

श्रीविट्टलभट्ट

ननु बाधकानुमाने दोषाः परिगणितास्तत्कथमित्यतस्तेषामेतेष्वन्तर्भाव इति ज्ञापनाय विरोधादिस्वरूपं विवेचयति ।। एते च विरोधादय इति । एते चानुमानदोषत्वेन सन्तीत्यर्थः । आदिपदेनासङ्गतिन्यूनाधिकानां ग्रहणम् ।। समयबन्धेति । समयबन्धप्रश्नस्वपक्षसाधनपरपक्षनिराकरणात्मकेष्वनुगता इत्यर्थः ।। अनुमाननिष्ठाश्चेति । लिङ्गतद्वचनरूपानुमानसम्बन्धिनश्चेत्यर्थः । यद्वाऽनुमीयतेऽनेनेति व्युत्पत्त्याऽनुमित्युपयुक्तमिहानुमानेनोच्यते । तथा चानुमाननिष्ठा अनुमित्युपयोगिनिष्ठाश्चेत्यर्थः । प्रमाणलक्षणटीकायां प्रतिज्ञादिभेदेन साधनांशानां त्रैविध्यादित्युक्तत्वात् प्रतिज्ञात्रयमनुमित्युपयोगीति वक्ष्यमाणविरोधादीनामनुमाननिष्ठत्वमुपपन्नमित्यनुसन्धेयम् । परोदीरितानुमानदोषाणां क्वान्तर्भाव इति जिज्ञासायामनुमाननिष्ठविरोधादिष्वित्याशयेन तत्स्वरूपं निरूपयति । तत्रानुमाननिष्ठास्तावदिति । तत्रोभयविरोधादिष्वित्यर्थः । अनुमाननिष्ठा इत्येतत्पूर्ववद्य्वाख्येयम् । विरोधादय इत्यनुवर्तते । तावद्विभागपूर्वकमुच्यन्त इति शेषः । तत्रानुमानविरोधविभागमाह ।। त्रिविध इति । कथं त्रैविध्यमित्यत आह ।। प्रतिज्ञाहेतुदृष्टान्तविरोधभेदेनेति । द्वन्द्वान्ते श्रूयमाणविरोधपदं प्रत्येकमभिसम्बध्यते । अत्र प्रतिज्ञापदेन पक्षोऽप्युपलक्ष्यते । हेतुपदेन लिङ्गं च । तथा दृष्टान्ततद्वचनं च । विरोधस्योभयदूषणत्वात् । बाधप्रतिरोधौ प्रतिज्ञाविरोधान्तर्गतावित्याशयेन प्रतिज्ञाविरोधादिविभागमाह ।। त्रिविधं तत्रेति । प्रतिज्ञाहेतुदृष्टान्तविरोधेषु प्रतिज्ञाविरोध इत्यन्वयः । प्रमाणेन विरोधः प्रमाणविरोधः स्ववचनेन विरोधः स्ववचनविरोध इत्यर्थः । तत्र क्वान्तर्भूताविति जिज्ञासायां प्रमाणविरोध इत्याशयेन तद्विभागमाह ।। प्रमाणविरोधोऽपीति । प्रतिज्ञाविरोधवत्प्रमाणविरोधः स द्विविध इत्यर्थः । ननु विविधाः प्रमाणविरोधा इति वक्तव्यम् । हीनविरोधस्यापि सत्त्वात् । कथं द्वावित्यत आह ।। हीनबलस्येति । अनेनैव प्रबलेनैव बाधितस्य पराजितस्य साधनदूषणाक्षमत्वेन कस्येति यावत् । अकिञ्चित्करत्वात्स्वबाधके ज्ञानानुत्पादकत्वसंशयापादकत्वविपर्ययापादकत्वानामन्यत मस्याकरणादित्यर्थः । दुर्बलस्याकिञ्चित्करत्वेन तद्विरोधो न वक्तव्य इति भावः । ननु प्रामाण्यातिरिक्तं किं बलवत्त्वमित्यतस्तद्विभज्य दर्शयति ।। प्राबल्यं च द्विविधमिति । किं तद्द्वैविध्यमित्यत आह ।। बहुत्वेन स्वभावेन चेति । बहुत्वेन रूपेण स्वभावेन रूपेणैव द्विविधमिति पूर्वेणान्वयः । बहुत्वरूपं स्वभावलक्षणं चेति द्विविधं प्राबल्यमिति यावत् । स्वभावशब्दार्थः । ननु तर्हि बहूनां स्वभाव लक्षणबलवतश्च विरोधे उभयोरपि प्रबलत्वेनानिर्णयः स्यादिति चेन्न । स्वभावस्य ततोऽपि वलवत्त्वाङ्गीकारेण निर्णयोपपत्तेः । तदुक्तं विष्णुतत्त्वनिर्णये । ‘‘तयोः स्वभावो बलवानुपजीव्यादिकश्च स’’ इति । ननु प्रत्यक्षादिप्रमाणत्रयविरोधः किं प्रमाणविरोधान्तर्भूतो न वा । आद्ये समबलप्रमाणविरोधान्तर्भावप्रसङ्गः । द्वितीये प्रबलप्रमाणाभावप्रसङ्ग इत्यत आह ।। प्रत्यक्षादिविरोधभेदेनेति । आदिपदेनानुमानागमौ गृह्यते । द्वावपि प्रबलप्रमाणसमबलप्रमाण विरोधावित्यर्थः । द्वावपि प्रबलप्रमाणसमबलप्रमाणविरोधावित्यर्थः । प्रत्यक्षानुमानागमविरोधानामुभयत्रान्तर्भावान्नोक्त चोद्यावकाश इति बोध्यम् । तेनैव हेतुना विरोध इति मतमसदिति ज्ञापनाय तद्विभागमाह ।। स्वचनविरोधोऽपीति । तेनैव हेतुना हेत्वन्तरेण चेत्यर्थः । विरोधेनेति शेषः । न चाद्योऽसम्भवी । एकस्मिन्पक्षे साध्याभावव्याप्ययोरिवैकस्मिह्नेतौ साध्यतदभावव्याप्त्योरभिमानतः सम्भवादिति । प्रतिज्ञाविरोध विशेषस्ववचनविरोधेऽपसिद्धान्तजात्योरन्तर्भावज्ञापनाय तद्विभागमाह ।। स्ववचनविरोधोऽपीति । अपसिद्धान्तः क इति जिज्ञासायामाह ।। तत्र पूर्वाचार्यैरिति । तवापि सिद्धान्तजात्योः पूर्वाचार्यैः सिद्धान्तप्रवर्तकैर्यत्प्रामाणिकतयाऽभ्युपगम्योक्तं तद्विरुद्धाङ्गीकारेऽपसिद्धान्त इत्यर्थः। ननु पूर्वाचार्यवचनमपि प्रमाणतया स्वाङ्गीकृतत्वेन स्ववचनमित्यपसिद्धान्तः स्ववचनविरोधभेदत्वं युक्तमिति भावः ।