प्रमाणपद्धतिः

अयोगिज्ञानप्रभेदाः

(१९) प्रमाणपद्धतिः

तद्य्वतिरिक्ता जीवा अयोगिनः । ईश्वरादन्यत्राज्ञानप्रचुरं तज्ज्ञानम् । तदपि पूर्ववद्द्विविधम् । उत्पत्तिविनाशवच्च । अयोगिनोऽपि त्रिविधाः । मुक्तियोग्या नित्यसंसारिणस्तमोयोग्याश्चेति । तत्र मुक्तियोग्यानां स्वरूपज्ञानं यथार्थमेव । नित्यसंसारिणां तु मिश्रम् । अन्येषामयथार्थमेव । बाह्यं तु त्रयाणामप्युभयविधमिति ।

जयतीर्थविजय

।। ईश्वरादन्यत्रेति । ज्ञानमयोगिज्ञानमित्युक्ते ईशज्ञानेऽतिव्याप्तिः । अतोऽज्ञानप्रचुरमिति । तावत्येवोक्ते ईश्वरविषयेऽज्ञानप्रचुरेऽतात्त्विकयोगिज्ञानेऽतिव्याप्तिः ।। अन्येषामयथार्थमेवेति । ननु तमोयोग्यानां स्वरूपज्ञानं केवलप्रमाणं न वा । आद्ये केवलप्रमाणलक्षणस्य तत्राव्याप्तिः । तस्य यथार्थत्वाभावात् । द्वितीये तस्य केवलप्रमाणविशेषरूपायोगिज्ञानविभागे निवेशानुपपत्तिरित्युभयतः पाशारज्जुरिति चेन्न । द्वितीयपक्षस्यैवाङ्गीकारात् । तर्हि तद्विभागे निवेशानुपपत्तिरिति चेन्न । केवलप्रमाणस्य मुक्तियोग्यस्वरूपज्ञानादेः सजातीयात्तमोयोग्यस्वरूपज्ञानात्केवलप्रमाणलक्षणं व्यावृत्तमिति वक्तुं तद्विभागे निवेशात् । अत एव योगिज्ञानमयोगिज्ञानमिति लक्ष्यतावच्छेदकसाक्षाद्य्वापकधर्मेण योगिज्ञानतादिरूपेणैव विभागः । अन्यथा योगियथार्थज्ञानमयोगियथार्थज्ञानमित्येवाचार्याः किमिति न व्यभजन्निति भाति ।

भावदीपः

तद्य्वतिरिक्ता योगिव्यतिरिक्ता जीवा इत्यर्थः । जीवपदं लक्ष्मीशयोर्व्यावृत्तये घटादिजडव्यावृत्तये वा । तज्ज्ञानमयोगिज्ञानम् । ज्ञानविषयादधिकविषयकाज्ञानयुक्तमित्यर्थः । ईश्वरविषयकाज्ञानायुक्तमित्यर्थः। ईश्वरविषयेऽज्ञानप्रचुरयोगिज्ञानव्यावृत्त्यर्थमीशादन्यत्रेत्युक्तिः ।। पूर्ववद्द्विविधमिति । स्वरूपं बाह्यं चेति द्विविधमित्यर्थः ।। उत्पत्तीति । स्वरूपस्य व्यक्त्यपेक्षया । बाह्यस्य प्रवाहत इति ध्येयम् । अयोगिज्ञाने याथार्थ्यनियमादि विवेक्तुं तद्विभागमाह ।। अयोगिनोऽपीति । न केवलं योगिन इत्यपेरर्थः । चशब्दानन्तरमितिशब्दो ध्येयः ।। मिश्रमिति । स्वरूपज्ञानमित्यनुषङ्गः । एवमग्रेऽपि । अन्येषां तमोयोग्यानाम् । बाह्यं तद्वृत्तिज्ञानमित्यर्थः । इति शब्दः स्वोक्तज्ञानविभागादिसमाप्तौ । केवलप्रमाणोक्तिसमाप्तौ वा ।

श्रीविजयीन्द्रतीर्थ

अयोगिज्ञानं लक्षयितुमादावयोगिनं लक्षयति ।। तद्य्वतिरिक्ता इति ।। जीवा इति । योगप्रभावलब्धातिशयज्ञानवद्भिन्ना इत्यर्थः । एतच्चेश्वरादावप्यस्तीत्यत उक्तं जीवा इति । ईश्वरेऽज्ञानप्रचुरमतात्त्विकस्यापि ज्ञानमत उक्तमीश्वरादन्यत्रेति । बाह्यमभिप्रेत्याह ।। उत्पत्तिविनाशवदिति ।। यथार्थमेवेति । अत एवैते मुक्तिस्वरूपयोग्याः । आवरणभङ्गे मुक्त्युपधानसम्भवादिति ।। संसारिणमिति । नित्यसंसारिणां स्वरूपज्ञानं यथार्थमयथार्थं च । अत एवैते नित्यसंसारिणः । स्वरूपभ्रमस्य प्रतिबन्धकत्वस्य नित्यत्वादिति ।। अन्येषामिति । तमोयोग्यानां स्वरूपज्ञानमयथार्थमेव । इदं च प्रकारांशमभिप्रेत्य । तदपि च स्वस्वरूपदुःखव्यतिरिक्तविषय एवेति बोध्यम् । स्वरूपदुःखविषयेऽप्ययथार्थत्वे तेषां दुःखात्मकत्वाभावप्रसङ्गात् । सर्वं ज्ञानं धर्मिण्यभ्रान्तमित्यनभ्युपगमाद्वेदमुक्तम् । अत एवतमोयोग्याः क्वचिद्बाह्यविषयथार्थज्ञानस्यापराधपरिपाकवदनौच्छितौ तमःप्रवेशसम्भवादिति ।। उभयरूपमिति । यथार्थमयथार्थं चेत्यर्थः । अत्र याथार्थ्यक्रमेणोत्कर्षसमत्वापकर्षः । अयथार्थ्ये चापकर्षसमत्वोत्कर्षः ।। द्रष्टव्या इति । अत्रायथार्थज्ञानस्य प्रसङ्गान्निरूपणमिति ध्येयम् ।

श्रीवेदेशभिक्षु

।। तद्य्वतिरिक्ता इति । योगिव्यतिरिक्ता इत्यर्थः । ईशलक्ष्मीनिरासाय जीवा इत्युक्तम् । योगिनिरासाय तद्य्वतिरिक्ता इत्युक्तम् ।। ईश्वरादिति । योगिज्ञाननिरासायेश्वरादन्यत्रेति । अज्ञानप्रचुरमेवेत्यन्तमल्पविषयमित्यर्थः ।। उत्पत्तिविनाशवदिति । स्वरूपज्ञानस्याभिव्यक्त्यपेक्षयोत्पत्तिविनाशवत्त्वं वृत्तिज्ञानस्य च प्रवाहापेक्षयेति द्रष्टव्यम् । सर्वेष्वयोगिज्ञानेषु याथार्थ्यादिनियमाद्येकप्रकारमिति वक्तुं तावदयोगिविभागमाह ।। अयोगिन इति ।। अन्येषामयथार्थमेवेति । प्रकारांश इत्यर्थः । उभयविधं यथार्थमयथार्थं चेत्यर्थः । अत्र यावदयथार्थज्ञानमुक्तं तावत्केवलप्रमाणलक्षणगतयथार्थपदव्यावर्त्यप्रदर्शनाय वेति ज्ञातव्यम् । अतः केवलप्रमाणविभागकथनावसरेऽयथार्थज्ञानप्रदर्शनसङ्गतमिति नाशङ्कनीयम् ।

अभिनवामृतम्

।। अज्ञानप्रचुरमिति । अल्पविषयकमित्यर्थः । एतेन यस्याज्ञानं बहुतरं तद्विरोधि चाल्पं तदुच्यते अज्ञानप्रचुरमिति । न च ज्ञानस्य ज्ञानमस्तीत्यज्ञानप्रचुरं ज्ञानमित्ययुक्तमिति परास्तम् ।। अयोगिनोऽपि त्रिविधा इति । अत्रायोगिन उत्तमाधममध्यमाश्चेति त्रिविधाः । मध्यमा अप्युत्तमा मध्यमा अधमाश्चेति त्रिविधाः । एवं चोत्तमान्मध्यमोत्तमोत्तमांश्चैकीकृत्य मुक्तियोग्या इत्युक्तम् । मध्यममध्यमा नित्यसंसारिण इत्युक्ताः । अधमान्मध्यमाधमांश्चैकीकृत्य तमोयोग्य इत्युक्तमिति द्रष्टव्यम् । अवश्यं चैतदेवं विज्ञेयम् ।

त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः ।

तत्र देवामुक्तियोग्या मानुषेषूत्तमास्तथा ।

मध्यमा मानुषा ये तु स्मृतियोग्याः सदैव हि ।

अधमा निरयायैव दानवास्तु तमोलया ।।

इति वचनात् । न हि मध्यमानां त्रैविध्यकथनाभिप्रायाभावे मानुषेषूत्तमास्तथा । अधमा निरयायैवेत्युक्त्योः प्रयोजनमस्ति । तत्र देवा मुक्तियोग्या इत्यनेन सर्वेषां मुक्तियोग्यानां दानवास्तु तमोलया इत्यनेन तत्सर्वेषां तमोयोग्यानां च गृहीतत्वात् । अन्यथा ऋषिगन्धर्वपित्रादिमुक्तियोग्यानां रक्षःपिशाचादितमोयोग्यानां सङ्ग्रहो दुर्वारः स्यात् । किञ्च

स्रक्षे हि चेतनगणान्सुखदुःखमध्य

सम्प्राप्तये तनुभृतां विहृतिं ममैच्छन् ।

मानुषा मिश्रमतयोऽपि चेत्यादिना मानुषाणां मिश्रगतित्वप्राप्तिलक्षणमोक्षः श्रूयते । तथा

ृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।

परा पूर्वेषां सख्या वृणक्तिः

इरित्यादिना पुनःपुनः संसारे परावृत्तिश्च श्रूयते । सुधायां तु मनुष्याणां सदा संसार इत्युक्तम् । न चैतद्वयं मध्यत्रैविध्यं सम्भवति । तदङ्गीकारे तु मिश्रमतिषु ये उत्तमा ये चाधमाः तेषां विमिश्रगतिप्राप्तिलक्षणमोक्षः । तत्रायं विशेषः उत्तमानां केषाञ्चित्स्वर्गे निवासः सुखमतिशयितं दुःखमल्पम् । केषाञ्चिद्भूमौ निवासः । सुखादिनियमः पूर्ववत् । तदुक्तम् । भुङ्क्ते स्वर्गफलं नित्यं निरयं नैव गच्छति । विष्णोस्तु मध्यमो भक्तो जातये मध्यमेषु चेति । मानुषेषु मनुष्यलोकेषु मुक्तो भवतीत्यर्थः। अधमानां तु निरये वासो दुःखमतिशयितं सुखमल्पम् । तदुक्तम् । अधमा निरयायैवेति । एतदुभयविषयाणि मानुषा मिश्रमतय इत्यादिवाक्यानि । मध्यममध्यममध्यमास्तु स्वर्गनरकभूलोकेषु परिवर्तमानाः । तदुक्तम् । त्रिदिवनिरयभूगोचरान्नित्यबद्धानिति । एतद्विषयाण्येव ृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमान इत्यादिवाक्यानि । सुधाऽप्येतद्विषयिणीति वक्तुं शक्यमिति ।। तत्र मुक्तियोग्यानामिति । ब्रह्मादिमनुष्योत्तमान्तसन्मुक्तियोग्यानामित्यर्थः । उपलक्षणमेतत् । मिश्रमुक्तियोग्यानां मध्यमोत्तमानां यथार्थज्ञानप्रचुरमिति बोध्यम् ।। संसारिणां त्विति । मध्यमाधमानां स्वरूपज्ञानराशिमध्ये कानिचिद्यथार्थानीत्यर्थः ।। अन्येषामिति । उपलक्षणमेतत् मध्यमाधमानामयथार्थ ज्ञानप्रचुरमित्यपि बोध्यम् । ननु तमसि पतितानामधमानां स्वरूपज्ञानं दुःखं दुःखात्मनाऽव गाहते न वा । आद्ये यथार्थत्वापत्तिः । नेति पक्षे नित्यनिरयप्राप्तेरपुरुषार्थत्वं न स्यादिति चेत् । दुःखं दुःखात्मनाऽवगाहत इति वदामः । कथं तर्ह्ययथार्थत्वमिति चेत् । इत्थम् । न तावज्ज्ञानं दुःखमित्येव गृण्हाति । किं नामानिर्वचनीयमिदं दुःखमिति । यथार्थमपि तस्य प्राप्तमिति चेत् । अस्तु । न हि किमपि ज्ञानमयथार्थमेवास्ति । किं नाम यद्यदयथार्थं तत्सर्वमपि ज्ञानं भ्रमप्रमारूपमिति ।। बाह्यं त्विति । बाह्यज्ञानराशिमध्ये कानिचिदज्ञानानि यथार्थानि कानिचिदयथार्थानीत्यर्थः ।

श्रीविट्टलभट्ट

अयोगिज्ञानं लक्षयितुमयोगिस्वरूपं तावदाह ।। तद्य्वतिरिक्ता जीवा इति । योगिभिन्ना दुःखस्पृष्टचेतना इत्यर्थः । न चायोगिप्रविष्टानामतात्त्विकयोग्यानां कदाचिद्योगित्वेन कथं योगिभिन्नभिन्नत्वमिति वाच्यम् । ब्रह्मत्वयोग्यऋजुगणस्य ब्रह्मत्वविशिष्टभिन्नत्ववन्मुक्तियोग्यसंसारिण्यमुक्तभिन्नत्ववद्योगविशिष्टाभिन्नत्वस्य तत्र सम्भवात् । जीवा इतीशलक्ष्मीव्युदासः । तद्य्वतिरिक्ता इति त्रिविधयोगानां व्यवच्छेदः । लक्षणमाह ।। ईश्वरादन्यत्रेति । विशेषणवैय्यर्थ्यादीशविषये प्रचुराज्ञानयुक्ते लक्ष्मीज्ञानेऽतिव्याप्तिवारणायेश्वरादन्यत्रेति विशेषणम् । योगज्ञानव्यवच्छेदाय प्रचुरपदम् । योगिज्ञानादयोगिज्ञानस्येश्वरादन्यत्राधिकज्ञानयुक्तत्वविशेषवद्द्वैविध्यजन्यत्व विनाशित्वराहित्यरूपविशेषोऽप्यस्तीति प्रतीतिः स्यात् । तद्वारणाय तद्विभागादिकमाह ।। तदपीति । अयोगिज्ञानमपि पूर्ववद्योगिज्ञानवत्स्वरूपं बाह्यं चेति द्वयोपेतमत एव जन्यं विनाशि चेत्यर्थः । तदुत्पत्तिविनाशकथनं दृष्टान्तदार्ष्टान्तिकयोर्बाह्यज्ञानविवक्षयेत्यवगन्तव्यम् । अयोगिज्ञानं योगिज्ञानवद्दिविधम् । जन्यत्वविनाशित्वाधिकरणं च यथा भवत्येवमयोगिस्वरूपज्ञानं योगिस्वरूपज्ञानवत्किं यथार्थमेवेति जिज्ञासायामस्त्यत्र विशेषेति वक्तुमुपोद्घात प्रक्रिययाऽयोगिविभागमाह ।। अयोगिनोऽपीति । योगिन इवायोगिनश्च त्रिविधा इत्यर्थः । विशेषमाह ।। तत्रेत्यादिना । मुक्तियोग्यानामात्मनि स्वातन्त्र्याभिमानत्वस्य देहगेहादौ ममेदमित्यभिमानस्य प्रामाण्यसंशयादेश्च मानसत्वात्तत् स्वरूपज्ञानं यथार्थमेवेति भावः । तदुक्तम् । यत्क्वचिद्य्वभिचारि स्याद्दर्शनं मानसं हि तदिति ।। नित्यसंसारिणां त्विति । स्वरूपज्ञानमित्यनुवर्तते । मिश्रं यथार्थत्वायथार्थत्वाभ्यां युक्तमित्यर्थः । नित्यसंसारिणां स्वातन्त्र्यात्तत्राभिमानादेस्वातन्त्र्यादि ज्ञानस्य च स्वरूपज्ञानात्मकत्वस्वरूपज्ञानमिश्रमिति भावः ।। अन्येषामिति । मुक्तियोग्यनित्यसंसारिव्यतिरिक्तजीवानां स्वरूपज्ञानमयथार्थमेव । प्रकारेऽयथार्थमेवेत्यर्थः । तमोयोग्यानां स्वरूपज्ञानेन साक्षिविषयत्वेन वक्ष्यमाणे आत्मादावविद्यमानस्य स्वातन्त्र्यादेर्नियमेनोल्लेखात्स्वरूपज्ञानमयथार्थमेवेति भावः । स्वरूपज्ञानवदयोगिबाह्यज्ञानमप्येवंविधमिति न मन्तव्यमित्याह ।। बाह्यं त्विति । स्वरूपज्ञानतोऽस्य विशेषद्योतनाय तुशब्दः । त्रयाणामप्ययोगिप्रविष्टमुक्तियोग्यानां नित्यसंसारिणां तमोयोग्यानां बाह्यज्ञानं तूभयविषयं यथार्थत्वायथार्थत्वलक्षणप्रकारद्वयोपेतमित्यर्थः । इति शब्दः केवलप्रमाणनिरूपणसमाप्तौ वर्तते ।