प्रमाणपद्धतिः
(१४) प्रमाणपद्धतिः
मीमांसकमतनिरासः
तर्कोऽनुमानमेवेति वक्ष्यामः । स्मृतावतिव्यापकं प्रमाणलक्षणमिति चेन्न । तस्या अपि प्रमाणत्वेन लोकवेदयोः संव्यवहारात् ।
अनुभूतिः प्रमाणम् । स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति प्राभाकराणां लक्षणम् । संशयविपर्ययव्यापकत्वात् स्मृतौ वेदादिषु च यथार्थज्ञानसाधनेष्वव्यापकत्वाच्चायुक्तम् । ज्ञातताप्राकठ्यापरपर्यायवाच्यस्य प्रमेयाश्रितस्य प्रकाशविशेषस्य साधनं क्रियाज्ञानं प्रमाणमिति भाट्टानां लक्षणमप्ययुक्तम् । ज्ञानव्यतिरिक्तायां ज्ञाततायां प्रमाणाभावेनासम्भावित्वात् । अतीतादिविषयज्ञानानामाश्रयाभावेन तज्जनकत्वायोगाच्च । वेदादिष्वव्याप्तेश्च । अनधिगततथाभूतार्थज्ञानं प्रमाणमिति तेषामेव लक्षणान्तरमप्ययुक्तम् । स्मृतौ वेदादिषु चाव्याप्तेः ।
जयतीर्थविजय
।। तस्या अपीति । गेहे पूर्वं घटोऽभूदित्यत्र किं प्रमाणमिति प्रश्ने मम स्मृतिरेव प्रमाणमिति लोके स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयमिति वेदे च प्रमाणत्वेन संव्यवहारात्स्मृतिर्न व्यावर्तनीयेत्यर्थः । न सर्वलोकसिद्धस्य लक्षणेन निवर्तनमिति नैयायिकैरप्युक्तेरिति भावः ।। संशयविपर्ययव्यापकत्वादिति । संशयविपर्यययोरतिव्यापकत्वादित्यर्थः । यद्यपि प्राभाकरमते संशयविपर्यययोग्रहणस्मरणात्मकज्ञानद्वयात्मकत्वेन विशिष्टज्ञानात्मकत्वाभावादतिव्याप्तिकथनमसङ्गतम् । तथाऽप्ययथार्थं ज्ञानमेव नास्तीति प्राभाकरादयः । तन्न । अनुभवसिद्धत्वादित्यादिपूर्वग्रन्थे संशयविपर्ययरूपविशिष्टज्ञानस्य समर्थितत्वादिदमतिव्याप्तिकथनमिति द्रष्टव्यम् ।। स्मृतौ वेदादिषु चेति । स्मृतिज्ञानप्रामाण्यं तस्या अपि प्रमाणत्वेनेति पूर्वग्रन्थे समर्थितत्वादिति भावः । स्मृतौ स्मृतिव्यतिरिक्तत्वाभावेन वेदादिषु ज्ञानत्वरूपविशेष्यस्याभावेनेत्यर्थः ।। ज्ञाततेति । यथार्थज्ञाने दीपादिप्रकाशसाधनत्वाभावेनासम्भववारणाय विशेषपदम् । ननु भट्टमते ज्ञातता प्रकाशविशेष इति पर्यायः । तथा च ज्ञाततासाधनमिति वा प्रकाशविशेषसाधनमिति वा लक्षणेनालम् । किमितरपदैरिति चेदुच्यते । ननु ज्ञाततासाधनत्वं प्रमाणलक्षणमित्युक्तं तदयुक्तम् । ज्ञाततायामेव प्रमाणाभावादित्याशङ्क्य प्रत्यक्षं प्रमाणयति ।। ज्ञातताप्राकट्येति । तथा च ज्ञातो घटः प्रकटो घट इति प्रत्यक्षं ज्ञाततायां मानमित्यर्थः । किञ्च ज्ञानं स्वकर्माणि किञ्चित्करोति क्रियात्वाद्गमनक्रियावदित्यनुमानमपि तत्र मानमिति मनसि निधाय तत्र साध्यमाह ।। प्रमेयाश्रितस्येति । हेतुं दर्शयति ।। क्रियेति । ज्ञाततायां न प्रत्यक्षं प्रमाणमिति दूषयति ।। ज्ञाततायामिति । तर्हि ज्ञातो घट इत्यादिव्यवहारस्य का गतिरित्यत आह ।। ज्ञानव्यतिरिक्तायामिति । तथा च ज्ञातो घट इत्यादिव्यवहारस्य ज्ञानविषयो घट इत्येवार्थो न ज्ञातताविशिष्ट इतीति भावः । तर्ह्यनुमानं मानं भवत्वित्याशङ्क्यांशतो बाधेन दूषयति ।। अतीतादीति ।। आश्रयाभावेनेति । ज्ञातताया इति शेषः । अतीतादिविषयज्ञानानां तज्जनकत्वायोगाच्चेत्यन्वयः । असति धर्मिणि धर्मजननायोगादिति भावः ।। तथाभूतेति । ज्ञानं यथाऽवगाहते तथा स्थितेत्यर्थः ।। स्मृतौ वेदादिषु चेति । स्मृतावनधिगतत्वांशाभावेन वेदादौ च ज्ञानत्वाभावेनेत्यर्थः ।
भावदीपः
व्याप्यारोपेण व्यापकारोपस्तर्कः । कुतो न व्यावर्त्य इत्यत आह ।। तर्क इति । वक्ष्यामोऽनुमानपरिच्छेद इति भावः । विशिष्टस्यापि प्रमाणलक्षणस्यातिव्याप्तिमाशङ्क्य निराह ।। स्मृताविति । लोकवेदयोर्ब्रह्मतर्कादिस्मृतौ । तथा स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयमित्यादिवेदे चेत्यर्थः । इदानीं परोक्तप्रमाणलक्षणान्यनूद्य निराह ।। अनुभूतिरिति । लक्षणमयुक्तमित्यन्वयः । क्वचिज्ज्ञाततासाधनमिति क्वचित्प्राकट्यसाधनमित्यादिव्यवहारादनेकलक्षणत्वभ्रमनिरासायोक्तं ज्ञातताप्राकट्यापरपर्यायवाच्यस्येति । ज्ञाततेति प्राकट्येत्यपराभ्यां पर्यायेण क्रमेण वाच्यस्येत्यर्थः । भ्रमविषयगतज्ञातताव्यावृत्तये प्रकाशविशेषस्येति विशेषग्रहणम् । क्रियाज्ञानम् । ज्ञा अवबोधन इति शुद्धधात्वर्थः । क्रिया तदात्मकं ज्ञानमित्यर्थः । प्रकाशविशेषसाधनमित्युक्त्या ज्ञानपदं करणसाधनमिति भ्रमनिरासाय क्रियेति विशेषणम् ।। ज्ञानव्यतिरिक्तेति । ज्ञानविषयत्वव्यतिरिक्तेत्यर्थः । ज्ञातो घट इत्यादिव्यवहारस्य ज्ञानविषयत्वेनैवोपपत्तेरिति भावः । तद्रीत्याऽप्यव्याप्तिदोष इति भावेनाह ।। अतीतादीति ।। तज्जनकत्वेति । ज्ञातताजनकत्वायोगच्चेत्यर्थः । तत्र हेतुराश्रयाभावेनेति । प्रमेयाश्रितस्येति त्वयोक्तेरिति भावः । अतीतादिज्ञानेष्विति शेषः । अव्याप्तेश्चेति वक्ष्यमाणेनान्वयः । वेदादिषु चेत्यत्रापि चशब्दान्वयः । आदिपदेन चक्षुरादिग्रहः । तत्र क्रियाज्ञानत्वाभावादिति भावः ।। अनधिगतेति । अज्ञातयथावस्थितार्थविषयकं ज्ञानमित्यर्थः । ज्ञातार्थज्ञाने संशयादौ चानतिव्याप्तये क्रमादनधिगतेति तथाभूतार्थेति च विशेषणद्वयम् ।। स्मृतावित्यादि । स्मृतेरधिगतार्थविषयकत्वात् । वेदादिषु ज्ञानत्वाभावादिति भावः ।
श्रीविजयीन्द्रतीर्थ
।। तर्कोऽनुमानमेवेति । तथा च यथार्थत्वे सङ्ग्राह्यमेव । अयथार्थत्वे भ्रमानुमितिवद्विषयत्वेन सङ्ग्रह एवेति भावः । स्मृतावित्युपलक्षणम् । स्मृतिसाधने चेत्यपि द्रष्टव्यम् । एवमग्रेऽपि ।। तस्या अपीति । सङ्ग्राह्यत्वान्नातिव्याप्तिरित्यर्थः । यद्यपि परैस्तत्र व्यवहारो नास्तीत्येवोच्यते । तथाऽपि यथार्थानुभवत्वापेक्षया यथार्थज्ञानस्य प्रमापदप्रवृत्तिनिमित्तत्वे लाघवेन परवचनस्य निरुपपत्तिकत्वादिति भावः । परमतखण्डनं विना न स्वमतसिद्धिरिति तत्खण्डयितुमुपक्रमते । प्राभाकराणामित्येतदग्रेतनेनायुक्तमित्यनेन सम्बध्यते । न च प्राभाकरेण तयोरनभ्युपगमान्नातिव्याप्तिः । अनुभवेन प्रवृत्त्यन्यथाऽनुपपत्त्या चानीयमानयोरनभ्युपगममात्रेणापलपितुमशक्यत्वादिति भावः । यद्वैतदस्वरसादाह ।। स्मृताविति । तस्यानुपदमेव प्रमाणत्वव्यवस्थापनादिति भावः । यद्वैतदस्वरसादेवाह ।। वेदादिष्विति । वेदे प्रमाणपदस्य नियमतः प्रयोगाद्वेदस्य प्रधानत्वमपेक्ष्येदं द्रष्टव्यम् । न च प्रमाणपदं प्रमातत्साधनयोर्भिन्नप्रवृत्तिनिमित्तकमेवेति वाच्यम् । एकप्रवृत्तिनिमित्तकत्वे सम्भवति भिन्नप्रवृत्तिनिमित्तकत्वकल्पनायां गौरवादिति भावः ।। प्रकाशविशेषस्येति । स्वविषयकविशेषस्येत्यर्थः । क्रियेत्यस्यैव व्याख्यानं ज्ञानमिति । अत्र ज्ञाततासाधनं ज्ञानप्रमाणमित्येव लक्षणम् । इतस्तु तत्परिचायकतयोक्तमित्यवधेयम् । अत एव तावदेव निष्कृत्य दूषयति ।। ज्ञानव्यतिरिक्तायामिति । न च ज्ञानस्य
घटीयत्वानुपपत्तिरेव घटनिष्ठज्ञातताजनकत्वे मानम् । स्वभावादेव ज्ञानस्य घटीयत्वात् । अन्यथा ज्ञानस्य नियमतो घटनिष्ठज्ञातताजनकत्वमित्यपि न स्यान्नियामकाभावादिति भावः । एतदस्वरसादाह ।। अतीतादीति । ननु ज्ञातताजननयोग्यत्वमर्थः । तथा चातीतविषयकज्ञानस्याश्रयरूपसहकारिविरहादजनकत्वेऽपि योग्यत्वसत्त्वादित्यत आह ।। वेदादिष्विति ।। तथाभूतेति । ज्ञानप्रकारीभूतधर्मवदित्यर्थः । तेषामेव भाट्टानामेव ।। स्मृताविति । यथा चैतत्तथोपपादितमधस्तात् । इदमुपलक्षणम् । धारावाहिकज्ञाने चेत्यपि द्रष्टव्यम् । यथार्थज्ञानेति तस्यापि प्रमाणपदप्रयोगविषयत्वेन लक्ष्यत्वादिति भावः ।
श्रीवेदेशभिक्षु
नन्वथापि तर्करूपमयथार्थज्ञानान्तरमस्ति व्यावर्त्यमित्यत आह ।। तर्क इति । तथा च तल्लक्ष्यमेव न व्यावर्त्यमिति भावः । एवमयथार्थज्ञानान्तराभावात्संशयविपर्ययतत्साधनान्येव यथा शब्दार्थग्रहणेन व्यावर्त्यानीत्युक्तम् । इदानीं विशिष्टस्यापि लक्षणस्यातिव्याप्तिमाशङ्कय निराकरोति ।। स्मृताविति । सर्वपरीक्षकैरपि स्मृतेरप्रामाण्याङ्गीकारादिति भावः ।। लोकवेदयोरिति । तस्मिन्नर्थे मत्स्मृतिरेव प्रमाणमिति व्यवहारात् ।
स्मतिः प्रत्यक्षमैतिह्यमनुमानचतुष्टयम् ।
प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभिरिति
च वेदे व्यवहारात् । तथा चैतद्विरुद्धवादिनो न परीक्षका इति भावः । एवं प्रमाणसामान्यलक्षणं निरूप्य स्वोक्तलक्षणदृढीकरणाय वाद्यन्तरोक्तलक्षणानि निराकुर्वंस्तावत्प्राभाकराणां सामान्यलक्षणं दूषयितुमनुवदति ।। अनुभूतिमिति । ननु ज्ञानं प्रमाणमित्यनुक्त्वाऽनुभूतिग्रहणं किमर्थमित्यतः स्मृतावतिव्याप्तिपरिहारार्थमिति भावेनानुभूतिस्वरूपमाह ।। स्मृतिव्यतिरिक्तमिति । स्मृतिनिरासाय स्मृतिव्यतिरिक्तमिति । घटादिनिरासाय ज्ञानमिति । लक्षणमयुक्तमित्यन्वयः ।। संशयेति । अयथार्थज्ञानस्य तं प्रति साधितत्वादिति भावः । स्मृतावित्यादिलोके स्मृतिः प्रत्यक्षमैतिह्यमित्यादिवेदे च स्मृतेर्वेदादिकरणप्रामाण्यस्य सिद्धतया तदलक्ष्यत्वस्य वक्तुमशक्यत्वादिति भावः । अनुप्रमाणत्रये वेदस्यैव मुख्यत्वविवक्षया वेदस्य स्वशब्देनोपादानम् । भाट्टानां लक्षणमनूद्य दूषयति ।। ज्ञाततेति । अत्र प्रकाशविशेषस्य साधनं प्रमाणमित्येव लक्षणवाक्यम् । भ्रमेऽतिव्याप्तिपरिहाराय विशेषस्येति । ज्ञाते पुनर्ज्ञातताऽनुदयेन न स्मृतौ प्रसङ्गः । अन्यत्तदुपयुक्तं कथितम् । यदि प्रकाशविशेषो ज्ञानं तदा ज्ञानस्य ज्ञानं साधनमित्यापन्नमित्यत उक्तं ज्ञाततेति । तदीयग्रन्थेषु प्राकट्यसाधनं ज्ञानं प्रमाणमिति व्याहतमतोऽसदनुवादोऽयमिति शङ्कनिरासाय प्राकट्येत्युक्तम् । ज्ञाततेत्यस्यापीदमेव प्रयोजनम् । प्रकाशविशेषसद्भावे प्रमाणाभावादसम्भवीदं लक्षणमित्याशङ्कायां तत्र प्रमाणसूचनाय प्रमेयाश्रितस्येति क्रियेति ज्ञानमिति चोक्तम् । क्रियारूपं ज्ञानमित्यर्थः । ज्ञानस्यापि धात्वर्थक्रियारूपत्वात् । अनेन ज्ञानं स्वकर्मणि किञ्चिज्जनयति क्रियात्वाच्छिदिक्रियावदिति परोक्तानुमानं सूचितं भवति । प्रमेयाश्रितस्येत्यनेन ज्ञातो घट इत्यादिप्रत्यक्षमपि तत्र प्रमाणं सूचयति । तत्र तावत्तदभिप्रेतं प्रत्यक्षमन्यथासिद्धमिति न तत्र प्रमाणमित्याह ।। ज्ञानव्यतिरिक्तायामिति । तथा च ज्ञातो घट इत्यत्र ज्ञात्राश्रितं ज्ञानमेव कर्मप्रधान्यविवक्षया प्रमेयाश्रितत्वेन प्रतीयते न त्वतिरिक्ता ज्ञातता । अन्यथेष्टो घट इति प्रतीत्येष्टताऽपीच्छातिरिक्ता प्रमेयाश्रिता स्वीकार्या स्यादिति भावः । अनुमानमपि दूषयति ।। अतीतादीति । तथा चातीतानागतज्ञानानां ज्ञातताऽजनकत्वेन स्वकर्मणि किञ्चित्कारित्वाभावे क्रियात्वं न स्यात् । यदि तत्र व्यवहारादिजनकत्वमात्रेण क्रियात्वं तर्हि वर्तमानज्ञानानामपि तथात्वमस्त्विति व्यभिचारोऽन्यथासिद्धिर्वेति भावः । एतेन ज्ञानविषयतानियामकत्वेनैव ज्ञातताऽङ्गीकार्येति तदीयं साधकान्तरमप्यपास्तम् । अतीतादौ ज्ञातताभावेन ज्ञानविषयत्वाभावापातात् । तत्र करणसन्निकर्षेण विषयतानियमेऽन्यत्रापि तथाऽस्त्विति किं ज्ञाततयेति । विस्तरस्तु सुधायां द्रष्टव्यः । अनेन ज्ञाततास्वीकारेऽप्यतीतादिज्ञानेष्वव्याप्तिरप्युक्ता द्रष्टव्या । तत्राश्रयाभावेन ज्ञाततोत्पत्तेस्तेनाप्यस्वीकारात् । करणेष्वव्याप्तिमाह ।। वेदादिष्विति । आदिपदेन स्मृतेरपि सङ्ग्रहः ।। अनधिगतेति । स्मृतिव्यवच्छेदायानधिगतेति । भ्रमनिरासाय तथाभूतेति । ज्ञानमिति च प्रमेयव्युदासार्थम् । स्मृतावित्युपलक्षणम् । धारावाहिकज्ञाने चेत्यपि द्रष्टव्यम् ।
अभिनवामृतम्
यद्यपि भगवत्पादैरेवेत्यनेन सूचितं तथाऽपि परोक्तानामलक्षणत्वं व्यक्तीकर्तुमनुवदति ।। अनुभूतिरिति ।। ज्ञातताप्राकट्येति । प्रकाशविशेषस्य साधनं क्रियाज्ञानमित्येव लक्षणवाक्यम् । ज्ञातताप्राकट्यापरपर्यायवाच्यस्य प्रमेयाश्रितस्येत्यन्तं प्रकाशविषयेत्यस्य व्याख्यानम् । तत्रापि ज्ञातताप्राकट्यापरपर्यायवाच्यस्यैतज्ज्ञातताया अध्यक्षप्रमाणमिति सूचनार्थः । तदुक्तम् । ज्ञातो घटः प्रकटो घट इति साक्ष्यध्यक्षमीक्ष्यत इति । क्रियेति पदं ज्ञानं स्वकर्मणि किञ्चित्करोति क्रियात्वाच्छिदिक्रियावदित्यनुमानसूचनाय । उक्तं च । ज्ञानं स्वकर्मणि किञ्चित्करोति क्रियात्वाद्गमनवदित्यनुमानेन सिद्धिरिति । क्रियात्वमिह सकर्मकत्वं विवक्षितमतो नासिद्धिः । नाप्यकर्मकक्रियायां व्यभिचारः । अयथार्थज्ञानविषयनिष्ठायास्तु प्रकाशत्वेऽपि प्रकाशविशेषगुणत्वाभावान्न तत्साधनेऽतिव्याप्तिः । परोक्तं प्रत्यक्षं तावन्निराकरोति ।। ज्ञानव्यतिरिक्तायामिति । ज्ञातो घट इति प्रतीतौ ज्ञानमेवार्थविशेषणतया भासते । ततश्च प्रत्यक्षेण ज्ञाततासिद्धेरभावाल्लक्षणस्यासम्भव इत्यर्थः । माभूत्प्रत्यक्षेण ज्ञाततासिद्धिः । तथाऽपि प्रागुक्तानुमानेन तत्सिद्धिः स्यादित्यत आह ।। अतीतादिविषयज्ञानानामिति । बाधितविषयमनुमानमिति भावः ।
आदर्शः
।। तस्या अपीति । अयमाशयः । प्रमाणलक्षणं न व्यसनितयोच्यते । किन्तु निखिलापेक्षितमोक्षस्येश्वरापरोक्षज्ञानसाध्यत्वात्साक्षात्कारस्य तत्परोक्षज्ञानसाध्यत्वात्तस्य सर्वोत्तमत्वजगत् कारणत्वादिप्रकारकस्य जगत्सिद्धिसापेक्षत्वात्तज्ज्ञानस्य प्रमाणधीनत्वात्प्रमाणानां च यथावद्विदितानामेव प्रमेयसिद्ध्युपयुक्ततेति प्रमाणानां निरूपणं कर्तव्यम् । एवं च प्रमेयसाधकानि यावन्ति तावतां लक्षणं वक्तव्यम् । तथा च स्मृतेरप्यर्थसाधकत्वाल्लक्ष्यत्वमेवार्थसाधकत्वं चात्रार्थे स्मृतिः प्रमाणमिति व्यवहारात्स्मृतिः । तत्साधारणमेव लक्षणं वक्तव्यं न तु तद्य्वावृत्तम् । न च प्रमाणमित्यस्यानुमानरूपप्रमाणमित्यर्थ इति वाच्यम् । अनुभवे लिङ्गत्वेऽप्यर्थे लिङ्गत्वायोगात्साक्षादर्थविषयकत्वे सम्भवति अनुभवद्वाराऽर्थसाधकत्वाङ्गीकारायोगात् । सत्त्वेन साक्षादर्थविषयकत्वं सदिति व्यवहारप्रयोजकत्वमर्थविशेषविषयकेच्छादिजनकत्वं च स्मृतावनुभवसिद्धम् । अर्थसाधकत्वं च तत्र सत्त्वावगाहित्वं तद्विषयताया विधिरूपत्वमेव तत्सत्त्वेऽपि न प्रमाणं तर्ह्यनुभवस्यापि प्रमाणत्वाभावप्रसङ्ग इति तस्मात्स्मृतिः प्रमाणमेवेति ।। संशयेति । प्राभाकरमते संशयाद्यभावेऽपि तं प्रति साध्यत्वात्तत्रातिव्याप्तिरिति भावः ।। वेदादिषु च यथार्थज्ञानसाधनेष्विति । उक्तरीत्या प्रमेयसाधकानां सर्वेषां प्रमाणपदवाच्यानां लक्ष्यत्वमेवेति भावः ।
क्रियाज्ञानमिति । क्रियारूपज्ञानमित्यर्थः । ज्ञातताया अपि ज्ञानपदवाच्यत्वात्तद्वारणाय क्रियारूपमित्युक्तम् । यद्वा करणसाधनल्युडन्तज्ञानपदवाच्यत्वं तत्साधनेष्वस्तीति तद्वारणाय क्रियारूपमित्युक्तम् ।। अनधिगतेति । अज्ञातेत्यर्थः ।। तथाभूतेति । यथावस्थितेत्यर्थः । स्मृतिवारणायानधिगतेति । स्मृतिविषयस्य नियमेनानुभूतत्वात्तद्वारणं बोध्यम् । विपर्ययवारणाय तथाभूतेति । संशयवारणाय ज्ञानेति । निश्चय इत्यर्थः । न त्विच्छादिवारणाय ज्ञानपदम् । इच्छादिविषयस्याधिगतत्वनियमात् । सर्वथाऽज्ञाते इच्छादेरयोगात् । अथवाऽनधिगतेत्यस्य स्वसमानविषयकत्वपूर्ववृत्तिज्ञानाविषयीभूतयथार्थविषयकज्ञानमित्यर्थः । अन्यथा सामान्याकारेण सर्वस्यापि प्रमेयस्य सर्वैः पुरुषैर्ज्ञातत्वेनोक्तलक्षणाप्रसिध्द्यापत्तेः । इत्थं च सामान्यधर्मप्रकारकज्ञानजन्यविशेषविषयकजिज्ञासायामतिव्याप्तिवारणाय ज्ञानपदम् ।। स्मृताविति । अनुभूतार्थविषयकत्वादिति भावः । याज्ञवल्क्यादिकृतस्मृताविति वाऽर्थः । अननुभूततत्तावगाहित्वेन धारावाहिकज्ञानप्रमाण्योपपत्तिरित्यनुशयेनाह ।। वेदादिष्विति ।
वाक्यार्थमञ्जरी
।। वक्ष्याम इति । अनुमानप्रकरणे दूषणानुमानमपि द्वेधा दुष्टप्रमितिसाधनं तर्कश्चेति वक्ष्याम इत्यर्थः ।। संव्यवहारादि । सम्यग्व्यवहारादीत्यर्थः ।। स्मृतिव्यतिरिक्तेति । स्मृतित्वानधिकरणेत्यर्थः ।। प्राभाकाराणां लक्षणमिति । अयुक्तमिति वक्ष्यमाणेनेत्यर्थः ।
श्रीविट्टलभट्ट
।। ननु तर्कस्याप्रमाणत्वात्तद्य्वावृत्तिरपि वक्तव्या । तथाऽपि कुतो नोक्त इत्यत आह ।। तर्कोऽनुमानमेवेति ।। वक्ष्याम इति । पुनर्द्विविधं साधनानुमानं दूषणानुमानं चेत्यनुमानविभागप्रस्तावे वक्ष्याम इत्यर्थः । असत्तर्कव्यावृत्तेः संशयविपर्ययतत्साधनव्यावृत्तिकथनपरत्वेनैवोक्तत्वात्सत्तर्कस्यानुमानतयाऽवश्यत्वात्तद्य्वावृत्तिर्न वाच्येति भावः । प्रमाणलक्षणस्यातिव्याप्तिमाशङ्कते ।। स्मृताविति । अतिव्यापकमिति । अतिव्याप्तमित्यर्थः । यदि स्मृतियाथार्थ्ये वादिविप्रतिपत्तेस्तत्र याथार्थ्यमनिश्चितमिति कथमतिव्याप्तिस्तथाऽपि तद्याथार्थ्यस्य वक्ष्यमाणत्वात्तत्रातिव्याप्तिर्दुर्वारेति बोध्यम् । स्मृतेरपि लक्षितत्वात्तत्र लक्षणसत्त्वं न दोष इति भावेन परिहरति ।। नेति । तस्या अपि केवलमनुभूतेः किन्तु स्मृतेरप्यतीतकालसम्बन्धादौ प्रमाणत्वेन लोके व्यवहारात् ।
स्मृतिःप्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।
प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभिरिति
वेदे च प्रमाणत्वेन व्यवहारादित्यर्थः । न चात्र स्मृतिपदं मन्वादिस्मृतिपरम् । आगमोपलक्षकैतिह्यपदेनैव तत्सङ्ग्रहात् । अन्यथा श्रुतिपुराणमीमांसादेः पृथग्ग्रहणप्रसङ्गात् । स्मृतिपदस्य श्रुतिमूलत्वेन स्मृतिशब्दार्थभूतमन्वादिस्मृतिपरत्वे मुख्यार्थत्यागप्रसङ्गाच्च । ननु तथाऽपि गत्यादावतिव्यापकं प्रमाणलक्षणम् । गत्यर्थविषयीकारित्वमेव नेति वाच्यम् । सकर्मकक्रियामात्रे तस्य सद्भावात् । अन्यथा ज्ञानरूपक्रियाया अपि तन्न स्यात् । न च तद्य्वावृत्त्यर्थमेवार्थशब्दो ज्ञेयवाच्युक्तमिति वाच्यम् । तथाऽप्यतिव्याप्त्यनिस्तारात् । गत्यादिविषयस्य ग्रामादेरपि ज्ञेयत्वात् । अन्यथा तदत्यन्ताभावाप्रसङ्गादिति चेन्न । ज्ञेयशब्दस्य ज्ञेयपरत्वेन गत्यादौ लक्षणाभावात् । तथा हि सम्बन्धिकशब्दत्वात्पितुर्धनं पुत्रो गृण्हीयादित्यादौ पितृशब्दस्य स्वपितर्येव पर्यवसानम् । अन्यथा बहुविप्लवप्रसङ्गात् । तथा ज्ञेयशब्दोऽपि ससम्बन्धिकशब्दत्वात्स्वज्ञेये पर्यवस्यति । तथा च यथावस्थितं ज्ञेयविषयीकारि प्रमाणमित्युक्तं भवतीति न गत्यादावतिव्याप्तिः । गमनसाधनाभ्यां ग्रामस्य गम्यत्ववज्ज्ञेयत्वाभावत् स्वज्ञेयविषयीकारित्वस्य तत्राभावादिति स्वोक्तप्रमाणस्थिरीकरणाय परोक्तप्रमाणलक्षणान्यनूद्य दूषयति । अनुभूतिः प्रमाणमित्यादिना यथार्थज्ञानेष्वव्यापकत्वाच्चेत्यन्तेन । अनुभूतिशब्दार्थमाह ।। स्मृतिव्यतिरिक्तमिति । स्मृतित्वरहिता स्मृतित्वावच्छिन्नभिन्ना वा । संविदनुभूतिरिति प्राभाकरोक्तं लक्षणं प्रमाणलक्षणमयुक्तमसमीचीनमित्यर्थः । संशयविपर्ययव्यापकत्वात् । संशयविपर्ययोर्व्याप्नोति सम्बध्नातीति संशयविपर्ययव्यापकं तस्य भावस्तत्त्वम् । तस्मात्संशयविपर्ययवृत्तित्वादिति यावत् । यद्यपि प्राभाकरमतेऽयथार्थ इति ज्ञानाभावात्तत्रनातिव्याप्तिस्तथाऽप्ययथार्थज्ञानस्य साधितत्वात्तत्रातिव्याप्तिर्युक्तेति बोध्यम् । यथार्थज्ञानजनकेषु यथार्थज्ञानसाधनेषु वेदादिष्वित्यन्वयः । एतच्च विशेषणं तेषां प्रामाण्योपपादनाय लक्षणसत्त्वाभावोपपादनाय चेति ज्ञातव्यम् । आदिपदेन प्रत्यक्षानुमानागमवाक्यान्युच्यन्ते ।। ज्ञातताप्राकट्यापरपर्यायवाच्यस्येति । ज्ञातता ज्ञातताशब्दः प्राकट्यमित्यपरः पर्याय एकप्रवृत्तिनिमित्तकः शब्दस्ताभ्यां वाच्यस्येत्यर्थः । अत्र प्रकाशविशेषस्य साधनं प्रमाणमित्येव लक्षणवाक्यं प्रकाशविशेषश्च क इति जिज्ञासायां तन्निरासार्थमुक्तं विशेषणद्वयं क्रियाज्ञानं धात्वर्थभूतक्रियारूपं ज्ञानमित्यर्थः । एतच्च लक्ष्यस्वरूपनिरूपणपरं प्रमाणमिति भट्टोक्तम् । भट्टानां लक्षणमपि प्रमाणलक्षणं चायुक्तमित्यर्थः । अतिरिक्तत्वमुपपादयति ।। ज्ञानव्यतिरिक्तायामिति । क्रियारूपज्ञानव्यतिरिक्तायां प्रमेयाश्रितज्ञानरूपज्ञाततायामित्यर्थः । इष्टो घटो द्विष्टो घटः कृतो घट इति प्रत्ययस्येच्छाद्वेषकृतिविषयत्वविषयकतया क्रियारूपज्ञानव्यतिरिक्तायां घटाश्रितेच्छापेक्षतायां क्रियारूप रूपद्वेषव्यतिरिक्तायां प्रमेयाश्रितरूपकृततायां च प्रामाण्याभावाज्ज्ञातो घट इति प्रत्ययस्यापि क्रियारूप ज्ञानविषयत्वविषयकतया क्रियारूपज्ञानव्यतिरिक्तायां प्रमेयाश्रितज्ञानरूपायां ज्ञाततायां प्रमाणत्वाभावेन प्रमेयाश्रितज्ञानसाधनत्वं प्रमाणलक्षणमसम्भवीति भावः । अस्तु वा ज्ञातता नेदं लक्षणं युक्तमित्याह ।। अतीतादिविषयज्ञानानामिति । अतीतानागतविषयकज्ञानानामाश्रयाभावेन ज्ञाततारूपप्रकाशाधारस्याभावेन तत्र ज्ञाततारूपप्रकाशजनकत्वासम्भवादित्यर्थः । लक्षणाभावात्तेष्वव्याप्तिरिति भावः । वेदादिष्वित्यादिपदेन प्रत्यक्षानुमानपौरुषेयागमा गृह्यन्ते । तेषां क्रियारूपज्ञानसाधनत्वेऽपि विषयाश्रितज्ञाततारूपज्ञानसाधनत्वादव्याप्तिरिति भावः ।। अनधिगततथाभूतार्थज्ञानमिति । अज्ञातयथावस्थितस्य ज्ञानं प्रमाणमिति भट्टोक्तमित्यर्थः । तेषामेव भट्टानामेव लक्षणान्तरं प्रमाणलक्षणान्तरं चेत्यर्थः ।। स्मृतौ वेदादिषु चाव्याप्तेरिति । आदिपदेन प्रत्यक्षानुमानवाक्यानि गृह्यन्ते । ननु स्मृतेरननुभूतत्वविषयकत्वस्यापि सत्त्वात्तत्राव्याप्तिर्नास्तीति चेत् । तर्ह्यनधिगतपदवैय्यर्थ्यात् । तत्सार्थक्यार्थं स्मृतेरधिगतार्थमात्रविषयत्वङ्गीकारवादे तु तत्राव्याप्तेरेवैतत्प्रामाण्यस्योपपादितत्वं न लक्ष्यत्वादित्यनुसन्धेयम् ।