प्रमाणपद्धतिः
(३६) प्रमाणपद्धतिः
।। १२ ।। अधिकम् । अन्वितोपयुक्तापुनरुक्त कृतकार्यप्रयोगोऽधिकम् । यथा पर्वतोऽग्निमान्धूमवत्त्वात्प्रकाशविशेषवत्त्वाच्चेत्यादि । एतदधिकमेव ।
जयतीर्थविजय
।। अन्वितेति । एतदेवोक्तं वरदराजेन ।
अन्वितस्योपयुक्तस्य पुनरुक्तेतरस्य च ।
कृतकार्यकरस्योक्तिरधिकं तत्प्रचक्षत ।। इति ।
अत्रान्वितेत्यपार्थकस्य निरासः । उपयुक्तेत्यर्थान्तरस्य । पुनरुक्तेतरस्येति पुनरुक्तस्य । कृतकार्येति स्वरूपकथनार्थम् । अधिकविधानार्थं यत्रानुवादस्तद्य्वावृत्त्यर्थं वा ।
भावदीपः
।। अन्वितेति । अपार्थकेऽर्थान्तरे पुनरुक्तेऽसाधुप्रयोगे चानतिव्याप्तये क्रमाद्विशेषणानि ।
श्रीविजयीन्द्रतीर्थ
।। अन्वितेति । अपार्थकार्थान्तरपुनरुक्तपरिहाराय विशेषणानि । कृतकार्यत्वमन्येन कृतकार्यत्वम् । तदधिकत्वोपपादनायोक्तम् ।
श्रीवेदेशभिक्षु
।। अन्वितेति । अत्रापार्थकार्थान्तरपुनरुक्ति सदुक्तिपरिहाराय क्रमेण विशेषणानि ।
अभिनवामृतम्
।। एतदधिकमेवेति । एतदधिकलक्षणेऽपुनरुक्तपदस्यानुपादयेत्वात्पुनरुक्तमधिकान्तर्भूतमेवेत्यर्थः । एतेनाधिकलक्षणेऽपुनरुक्तेति विशेषणस्य प्रविष्टत्वात्पुनरुक्तमधिकमिति व्याहतमिति परास्तम् ।
श्रीविट्टलभट्ट
।। अन्वितेति । अन्येन कृतकार्यमनुमित्युपयोगिपक्षादिज्ञानरूपकार्यं यस्य तत्तथा । यस्य कृतकार्यस्य वाक्यस्य प्रयोगोऽधिकमित्युक्ते धूमवत्त्वादिति पुनरुक्तेऽतिव्याप्तिस्तद्वारणाय अपुनरुक्तेति विशेषणम् । अपुनरुक्तस्य कृतकार्यस्य प्रयोगोऽधिकमित्युक्ते प्रकृतानुपयुक्तस्यापुनरुक्तस्य कृतकार्यस्य वर्णात्मकः शब्दोऽनित्यः स च चक्षुरिन्द्रियग्राह्य इति वाक्यस्य प्रयोगोऽर्थान्तरेऽति व्याप्तिस्तन्निवृत्त्यर्थमुपयुक्तेति विशेषणम् । उपयुक्तापुनरुक्तकृतकार्यप्रयोगोऽधिकमित्युक्तौ देवदत्तो ग्रामं गत्वा सरसि स्नात्वौदनमत्ति देवदत्त ओदनं स्नातो ग्रामं सरसि गत्वाऽश्नातीत्यनन्वितपदप्रतिज्ञा प्रयोगेऽपार्थकेऽतिव्याप्तिः । न चेदं पुनरुक्तमपार्थकलक्षणस्यात्रातिव्याप्त्यापातात् । अत उक्तापार्थकेऽतिव्याप्तिस्तद्वारणायान्वितपदोपादानम् । समीचीनप्रयोगेऽतिव्याप्तिवारणाय कृतकार्यपदोपादानम् ।। इत्यादीति । धूमवत्त्वादित्यादिरादिशब्दार्थः ।। एतदधिकमेवेति । अन्वितोपयुक्तापुनरुक्तकृतकार्यप्रयोगरूपाधिकमस्मदुक्तकृतकार्यवचनरूपाधिकमेवेत्यर्थः ।