प्रमाणपद्धतिः
(५) प्रमाणपद्धतिः
तत्त्रिविधम् । असम्भवि यल्लक्ष्ये सर्वथा न वर्तते । यथा गोरेकशफत्वम् । अव्यापकं यल्लक्ष्यैकदेशे वर्तमानमपि तदेकदेशान्तरे न वर्तते । यथा गोः शबलत्वम् । अतिव्यापकं यल्लक्ष्यादन्यत्रापि वर्तते । यथा विषाणित्वम् । सजातीयविजातीयव्यावृत्ततया लक्ष्यावधारणं लक्षणज्ञानस्य प्रयोजनम् । अस्मिन्ग्रामे देवदत्तगृहमिति वार्तां श्रुतवतो हि तद्ग्रामस्थेषु सर्वेष्वपि गृहेषु देवदत्तबुद्धिः प्रसक्ता । ततो यत्रपताका तद्देवदत्तगृहमिति तल्लक्षणज्ञाने सतीदमेव नान्यदित्यवधारणं जायते । शब्दव्यवहारो वा लक्षणज्ञानस्य प्रयोजनम् । सास्नादिमान्गौरिति लक्षणज्ञाने सति यं यं सास्नादिमन्तं पिण्डं पश्यति तं तं गोशब्दवाच्यं प्रत्येति । यावदन्यतो व्यावर्तनीयं यावति चैकः शब्दो व्युत्पादनीयस्तदुच्यते लक्ष्यमिति ।
जयतीर्थविजय
तमेव विशेषं वक्तुं तद्विभागमाह ।। तत्त्रिविधमिति । लक्षणत्वज्ञान प्रतिबन्धकतातारतम्येनोद्दिशति ।। असम्भवीत्यादिना ।। यल्लक्ष्य इति । अत्र तदिति शेषः ।। सर्वथेति । सर्वत्रेत्यर्थः । इदमव्यापके शबलत्वादावतिव्याप्तिवारणाय ।। लक्ष्यैकदेशे वर्तमानमपीति । इदमसम्भव वारणाय । अतिव्यापकविषाणित्वादिवारणाय तदेकदेशान्तरे न वर्तत इति ।। यल्लक्ष्यादन्यत्रापीति । अपिशब्दाल्लक्ष्येऽपीत्यर्थः । इदं गोलक्षणे सास्नादिमत्त्वादावतिव्याप्तिवारणाय । असम्भव्येकशफत्वादिवारणायापीति । ननु लक्षणज्ञानस्य किं प्रयोजनम् । न च लक्ष्यरूपवस्तुसिद्धिरेव प्रयोजनमिति वाच्यम् । प्रकृते हि लक्ष्यं प्रमाणम् । तच्च द्विविधम् । प्रमितिलक्षणं फलं तत्साधनं चेति । तत्र न कस्यापि सिद्धये प्रमाणलक्षणं निरूपणीयम् । तथा हि । नीलो घटोऽस्तीत्यादिव्यवहारो व्यवह्रियमाणप्रमितिपूर्वकः । अबाधितप्रेक्षावव्द्यवहारत्वात् । सम्मतवदित्यनुमानेन प्रमितिलक्षणप्रमाणस्य तथा रूपादिप्रमितिः सकरणिका क्रियाजन्यत्वात् । छिदिक्रियावदित्यनुमानेन साधनस्य च सिद्धिसम्भवादित्यत आह ।। सजातीयेति । तथा च प्रमितत्वसाधनत्वादिरूपेण प्रमाणसिद्धेरनुमानेन सम्भवेऽपि सजातीयविजातीयव्यावृत्तत्वेन रूपेण प्रमाणसिद्धिर्न सम्भवतीति तदर्थं प्रमाणलक्षणनिरूपणं सार्थकमिति भावः । अत्र सजातीयत्वं लक्ष्यतावच्छेदकसाक्षाद्य्वापकधर्मेण विजातीयत्वं च तादृशधर्मराहित्येनेति बोध्यम् । तेन प्रमेयत्वेन रूपेण सर्वस्यापि सजातीयतया विजातीयाप्रसिद्धिरिति शङ्का निरस्ता । लक्ष्यातावच्छेदकसाक्षाद्य्वापकत्वं नाम लक्ष्यतावच्छेदकव्यापकाव्यापकत्वे सति लक्ष्यतावच्छेदकव्यापकत्वम् । लक्ष्यतावच्छेदकव्यापकधर्माणां मध्ये यन्न्यूनदेशवृत्ति तेन रूपेण साजात्यमिति यावत् । तथा हि । गोलक्षणकथनदशायां लक्ष्यतावच्छेदकं गोत्वम् । तद्य्वापकाः द्रव्यत्वप्रमेयत्वादयस्तदव्यापकत्वे सति यद्गोत्वस्य व्यापकं पशुत्वं तद्वन्तो महिषादयो गोसजातीयाः । तद्रहिता घटादयस्तद्विजातीया इति ।। देवदत्तगृहबुद्धिरिति । इदं वा देवदत्तगृहमदो वा देवदत्तगृहमिति सन्देहरूपा बुद्धिः प्रसक्तेत्यर्थः । तल्लक्षणज्ञाने सतीत्यतः प्रागाप्तवाक्यादिति शेषः । सम्मतं चैतन्नैयायिकानामपि ।
सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् ।
पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वेति ।। वदताम् ।
विषयव्याप्त्यर्थं प्रयोजनान्तरमाह ।। शब्देति । अत्र शब्दव्यवहारपदं शब्दो व्यवह्रियतेऽनेनेति इति भावव्युत्पत्त्याऽभिलपनलक्षणव्यवहारपरम् । प्रत्येतीत्यनन्तरं व्यवहरति चेति शेषः । ननु यो धर्मो लक्ष्ये वर्तत इत्यादिना लक्षणं लक्ष्यघटितम् । लक्ष्यं च लक्षयितुं योग्यमिति व्युत्पत्त्या लक्षणघटितमित्यन्योन्याश्रय इत्यतो लक्षणाघटिततयैव लक्ष्यस्वरूपमाह ।। यावदिति । विषयव्याप्त्यर्थं लक्षणान्तरमाह ।। यावति चेति । लक्ष्यं लक्ष्यमिति पुनरुक्तिपरिहाराय ।। तदुच्यते लक्ष्यमितीति । तथा च यावदन्यतो व्यावर्तनीयं यावति चैकः शब्दो व्युत्पानदीयस्तल्लक्ष्यशब्दवाच्यमित्यर्थः । अतो न पौनरुक्त्यमिति भावः । एवं चान्यतो व्यावर्तनीयत्वं वैकशब्दव्यवहारविशेष्यत्वं वा लक्ष्यस्य लक्षणमित्युक्तं भवति ।
भावदीपः
तदसम्भवीति तच्छब्दाध्याहारेण यलक्ष्य इति यच्छब्दान्वयः । एवमग्रेऽपि ।। एकशफत्वमिति । गोरिति । अलक्षणमित्यनुषङ्गोऽत्रोत्तरत्र च । एकशफत्वादिव्यावृत्त्यर्थं लक्ष्ये वर्तत इत्यादि विशेषणत्रयमुपात्तमित्यदोषः । लक्षणज्ञानफलमाह ।। सजातीयेति । व्यावृत्ततयाऽभिन्नतयेत्यर्थः । लक्ष्यतावच्छेदकसाक्षाद्य्वापकधर्मेण साजात्यवैजात्ये ज्ञेये । यथा गोः पशुत्वेन । तद्य्वुत्पाद्य दर्शयति ।। अस्मिन्ग्राम इति । गृहत्वेन विजातीयपाषाणादिव्यावृत्तिबुद्धेः सिद्धत्वात्तत्सजातीय व्यावृत्त्यवधारण प्रकार एव दर्शितः ।। शब्दव्यवहारो वेति । व्यवह्रियतेऽनेनेति व्यवहारः शक्तिज्ञानम् । शब्दस्य वाच्यवाचकभावसम्बन्धरूपशक्तिज्ञानरूपा व्युत्पत्तिरित्यर्थः । व्युत्पत्तेरप्यभिलपनरूपव्यवहारः फलमिति वक्तुं व्यवहारपदेन शक्तिज्ञानकीर्तनं कृतम् । अत एवाग्रे गोशब्दवाच्यं प्रत्येतीत्येव विवरणम् । पूर्वं लक्ष्ये व्याप्त्येति लक्ष्यं प्रसक्तम् । तत्स्वरूपं द्वेधा निर्धारयति । यावदिति । व्यावर्तनीयं तदुच्यते लक्ष्यमित्यत्राप्याकृष्यते । यावति चैकः शब्दो व्युत्पादनीयो वाचकत्वेन बोधनीयस्तदुच्यते लक्ष्यमित्यर्थः ।
श्रीविजयीन्द्रतीर्थ
सङ्गमयति ।। असम्भवीत्यादिना । लक्षणप्रयोजनमाह ।। सजातीयेति । किञ्चिद्धर्मनिष्ठसादृश्यप्रतियोगिमत्सजातीयं किञ्चिद्धर्मनिष्ठवैदृश्यप्रतियोगिमद्विजातीयमित्यर्थः । तस्यैव ज्ञानस्य प्रयोजनान्तरमाह ।। शब्दव्यवहारो वेति । शब्दो व्यवह्रियतेऽनेनेति वाच्यवाचकभावपरिच्छेद इत्यर्थः ।। लक्षणप्रयोजनमिति । ज्ञानलक्षणप्रयोजनमित्यर्थः । तज्ज्ञानप्रयोजनमिति वा । वाच्यवाचकभावज्ञानहेतुतां लक्षणज्ञानस्योपपादयति ।। सास्नादिमान्गौरिति ।। यावदिति । लक्षणज्ञानव्यतिरेकप्रयुक्तव्यतिरेक प्रतियोगिज्ञानविषयव्यावृत्त्यधिकरणतावच्छेदकावच्छिन्नमित्यर्थः ।। यावति चेति । लक्षणज्ञानसाध्यशब्दवाच्यत्वज्ञानविषयतावच्छेदकावच्छिन्नमित्यर्थः ।। शब्दानुगममात्रमिति । लक्ष्यलक्षणयोस्तत्प्रवेशनिर्बन्धान्योन्याश्रयादिनेति बोध्यम् । तत्र प्रमाणतदितरसमुदायपदोपयुक्ते निरूपित इति शेषः ।
श्रीवेदेशभिक्षु
तद्विभागमाह ।। तत्त्रिविधमिति । इदं तु पररीत्यैव । सुधायामव्यापकस्यापि लक्षणत्वेन समर्थितत्वात् । यद्वा । लक्षणसामाज्ञानं विना तद्विशेषज्ञानासम्भवाल्लक्षणसामान्यलक्षणमुक्त्वा तद्गतविशेषणत्रयसार्थक्यायालक्षणस्वरूपं सप्रभेदमाह ।। अन्यथेति । अलक्षणं त्वित्यन्वयः । उक्तिलाघवायोद्दिश्य लक्षणमाह ।। असम्भवीत्यादिना । अव्याप्तेऽतिप्रसङ्गवारणाय सर्वथेत्युक्तम् । असम्भविव्यावृत्त्यै लक्ष्यैकदेशे वर्तमानमपीत्युक्तम् । अतिव्याप्तिव्यवच्छेदाय देशान्तरे न वर्तत इत्युक्तम् ।। लक्ष्यादन्यत्रापीति । लक्ष्येवर्तमानत्वसमुच्चयार्थोऽपिशब्दः । तेनासम्भविनिरासः । अव्याप्तनिरासाय लक्ष्यादन्यत्रेत्युक्तम् । तस्य च लक्ष्यैकवृत्तिः सङ्कुचितेति भावः । तथा चैवं विधालक्षणत्रयनिरासाय लक्षणलक्षणे विशेषणत्रयोपादानमिति भावः । अत्र कश्चिदनुगतधर्माभ्युपगमे नैकस्य धर्मस्य सर्वलक्ष्यवृत्तित्वाभावरूपाव्याप्त्यसम्भवादेकस्य धर्मस्य लक्ष्येऽन्ये च वर्तमानत्वरूपातिव्याप्त्यसम्भवाच्च तद्वारकं विशेषणवैय्यर्थ्यं लक्षणलक्षणमित्याह । तत्तुच्छम् । अव्याप्त्यतिव्याप्तिलक्षणयोरेकस्य धर्मस्येत्यस्याविवक्षितत्वात् । प्रातिस्विकमपि शबलत्वं सामान्याकारेण तत्र तत्र सर्वत्र लक्ष्येऽवर्तमानमित्यतिव्याप्तम् । एवं प्रातिस्विकमपि विषाणित्वं सामान्याकारेणालक्ष्येऽपि गतमित्यतिव्याप्तमित्यत्रोच्यते । एवं च तदीयवैय्यर्थ्यचोदनं व्यधिकरणमेवेति । अन्ये तु । अनुगतधर्मानङ्गीकारेऽपि लक्षणजातीयस्य लक्ष्यजातीयेऽवृत्तिरव्याप्तिस्तस्यालक्ष्येऽपि वृत्तिरतिव्याप्तिरिति विवक्षितत्वान्नानुपपत्तिरित्याहुः । लक्षणज्ञानप्रयोजनमाह ।। सजातीयेति । सदृशजात्याश्रयत्वतदनाश्रयत्वरूपे अत्र साजात्यवैजात्ये विवक्षिते इति न कश्चित्क्षुद्रोपद्रवः । नन्वत्र साजात्यं प्रमाणत्वेनोत रूपान्तरेण । नाद्यः । लक्ष्यस्यापि व्यावृत्त्यत्वापत्तेः । न द्वितीयः । विजातीयपदोपादानवैय्यर्थ्यापत्तेः । अस्ति हि प्रमेयत्वादिना सर्वसाजात्यमिति चेन्न । पौरुषेयवचसां पुरुषविवक्षाधीनत्वेन नियन्तुमशक्यत्वात् । लक्ष्यातिरिक्तं हि सजातीयविजातीयतया द्वैराश्येन विवक्षिते यथा यथार्थज्ञानतत्साधनस्य प्रमाणस्य ज्ञानं तत्साधनं च सजातीयम् । यत्तु न ज्ञानं नापि साधनं तद्विजातीयम् । एवमन्यत्रापि विवेक्तव्यमिति । एतदेवोदाहरणमुखेन दर्शयति ।। अस्मिन्निति । प्रयोजनान्तरमाह ।। शब्दव्यवहार इति । शक्तिग्रह इत्यर्थः । तदेव दर्शयति ।। सास्नादिमानिति । सास्नादिमान्गौरिति लक्षणवाक्यं हि यः सास्नादिमान्स गोशब्दवाच्य इति व्याप्तिज्ञापनाय वक्त्रा प्रयुज्यते । श्रोतुः सार्वत्रिकव्युत्पत्तिकामत्वात् । उपदेशानन्त्यादेरानन्त्यादिना कर्तुमशक्यत्वात् । ज्ञातव्याप्तिश्च यं यं सास्नादिमन्तं पिण्डं पश्यति तं तं गोशब्दवाच्यमनुमिनोतीति भावः । लक्ष्यानिरूपणे तद्धटितलक्षणादिज्ञानं न सम्भवतीति लक्ष्यं लक्ष्यति ।। यावदिति । यावदित्यादि जात्येकवचनम् । एवं यावन्तीत्यादि द्रष्टव्यम् । लक्षणज्ञानस्योक्तप्रयोजनानुसारेणेदं लक्षणद्वयम् ।
अभिनवामृतम्
ननु मन्दानां सुखेन प्रमाणलक्षणज्ञानायेदमारभ्यत इत्युक्तम् । लक्षणज्ञानस्य व्यर्थत्वादित्यत आह ।। सजातीयेति ।। सर्वेष्वपि गृहेष्विति । नन्विदमत्रायुक्तं वर्तते । किमत्रायुक्तं वर्तते । सर्वेष्वपि गृहेषु देवदत्तगृहबुद्धिः प्रसक्तेत्ययुक्तं वर्तते । तथा हि । प्राक् सजातीय विजातीयव्यावृत्ततया लक्ष्यावधारणं लक्षणज्ञानस्य प्रयोजनमित्युक्तम् । अतो देवदत्तगृह एव सजातीयविजातीययोरेव लक्ष्यव्यावृत्ततयाऽवधारणं लक्षणज्ञानस्य फलमित्यापातात् । अत एवेदमेव नान्यदित्यवधारणं जायत इत्यप्ययुक्तम् । सजातीयविजातीय व्यावृत्ततया लक्ष्यावधारणत्वाभावात् । न हीदं सजातीयविजातीयव्यावृत्ततया लक्ष्यावधारणमपि तु लक्ष्यव्यावृत्ततया सजातीयविजातीययोरवधारणमिति स्यादयं दोषः । यदीदं वाक्यं प्रागुक्तप्रयोजनव्युत्पादनपरमिति ब्रूमः । न चैवम् । किं नाम सजातीयविजातीय व्यावृत्ततया लक्ष्यावधारणमिव लक्ष्यव्यावृत्ततया सजातीयविजातीययोरवधारणमपि लक्षणज्ञानप्रयोजनमिति प्रयोजनान्तरप्रदर्शनपरमिति ब्रूमः । अन्यथा यथा गोः सास्नादिमत्त्वमित्युक्तिवद्यथाऽस्मिन्ग्रामे देवदत्तगृहमित्यवक्ष्यत् । यद्यपीदमेव देवदत्तगृहमिति ज्ञानमलक्ष्यस्येव लक्ष्यस्याप्यवधारणम् । तथाऽपि न लक्ष्यस्य सज्जातीयविजायव्यावृत्ततयाऽवधारणमपि त्वलक्ष्यस्यैव लक्ष्यव्यावृत्ततयाऽवधारणम् । ननु सर्वेषु गृहेषु देवदत्तबुद्धिः प्रसक्तेति किं सर्वेषु गृहेषु देवदत्तगृहत्वप्रकारकभ्रम उच्यत उत संशयः । नाद्यः । मूले लक्षणफलस्यावधारणत्वोक्त्या प्राक्तनस्य संशयत्वस्य लाभात् । अस्मिन्ग्रामे एकमेव देवदत्तगृहमिति जानतः सर्वगृहेषु देवदत्तत्वप्रकारकभ्रमायोगाच्च । न द्वितीयः । एकस्मिन्धर्मिणि विरुद्धनानाकोटिकज्ञानस्य संशयत्वेनानेकधर्मिकैककोटिकज्ञानस्य संशयत्वायोगादिति चेत् । स्यादयं दोषो यद्येकप्रकार एव संशयः स्यात् । न चैवम् । किं नामैकधर्मिकोऽनेककोटिकः । तथाऽनेकधर्मिक एककोटिकस्तथाऽनेकधर्मिकानेककोटिकस्तथैकधर्मिक एककोटिकश्चेत्येवमनेकप्रकारः । तत्र किमयं स्थाणुः पुरुषो वेत्याद्यः । किमयं ब्राह्मण उत स ब्राह्मण इति द्वितीयः ।
कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
इति ते संशयो मा भूद्राजा कालस्य कारणमित्यत्रोक्तस्तृतीयः ।
प्रादेशमात्रपरिमितश्चन्द्रमा इत्यादिश्चतुर्थः । न चैकाकारनियतत्वान्नायं संशय इति वाच्यम् । एकाकारनियतत्वेऽप्यस्यानवधारणत्वेन संशयत्वस्यावश्यं वक्तव्यत्वात् । तदुक्तम् । द्विविधं ज्ञानम् । एकाकारनियतं दोलायमानम् । तत्र द्वितीयं सन्देहसंज्ञां लभते । आद्यमपि द्विविधम् । किञ्चित् स्वार्थस्य निश्चायकम् । यथाऽयं स्तम्भोऽयं भवत्येवेति । किञ्चित्स्वार्थमुल्लिखदपि न तस्य निश्चायकम् । यथा सवितृसुषिरविषयमिति । एकाकारविषयतया जायमानमप्यनिश्चाययदेव बाधितप्रायं जायत इति च । इयांस्तु विशेषः । पूर्वोक्तास्त्रयः संशया अयथार्थरूपा एव । अयं तु संशयोऽनभ्यासदशापन्ने जलादिमतीदं जलमित्यादिरूपः प्रमा तिक्तो गुड इत्यादिस्त्वयथार्थः । अयं चैककोटिकत्वान्निश्चयसंज्ञां वादविशेषो जल्पसंज्ञामिव लभते । अत एव तिक्तो गुड इत्यादिज्ञानमयथार्थत्वे सति निश्चयसंज्ञत्वादाहार्यारोप इति व्यवहरन्ति । अवश्यं च तिक्तो गुड इत्यादिज्ञानम् आहार्यसंशय एव इत्यभ्युपगन्तव्यम् । कदाऽप्यनास्वादितरसस्य ज्वरितस्य जायमानात् अवधारणरूपात् तिक्तो गुड इत्यादिज्ञानादनवधारणत्वरूपस्य वैलक्षण्यस्यानुभवसिद्धत्वात् । एवं पीतः शङ्ख इत्यादिसर्वमपि विशेषदर्शनप्रतिबद्धं ज्ञानमाहार्यसंशय एवानिश्चयसंज्ञासद्भावादाहार्यविभ्रम इति च गीयते । अयं च सन्देहो निश्चयवदेव द्विकोटिकसंशयविरोधी । अस्मिंश्च संशये प्रामाण्यसन्देह आहितो द्विकोटिकसंशयो भवतीति द्रष्टव्यम् । स्तम्भोऽयं भवत्येवेत्यादिरूपेण ज्ञानेष्वर्थस्य निश्चितत्वेन प्रामाण्यसंशयस्य कथमप्ययोगादिति । उक्तं च तत्त्वविवेके नरसिंहाश्रमेण । यद्यपि प्रथमं निर्विशेषब्रह्मसाक्षात्कारः शब्दनिष्पन्नस्तथाऽपि सोऽनवधारण एव । अग्रे संशयादिदर्शनादिति । तस्माद्यत्सज्ज्ञानं यत्संशयनिवृत्त्यनुकूलस्वरूप विशेषविशेषवत्तानिश्चय इतीतरत्र तथेत्येककोटिकमपि किञ्चित्पुरुषदोषानवधारणं किञ्चित्तर्कादिकारणमहिम्ना तदनतिरिक्तविषयमपि निश्चय इत्यनवद्यमिति च । गूढाभिसन्धिः प्रयोजनान्तरमाह ।। शब्दव्यवहारो वेति । ननु शब्दव्यवहारस्य सङ्केतग्रहसाध्यत्वाल्लक्षणज्ञान साध्यत्वकथनमनुपपन्नमित्यतः स्वाभिसन्धिभुद्धाटयति ।। सास्नादिमान् गौरितीति । वाच्यवाचकज्ञानसम्बन्धमेव लक्षणप्रयोजनं तत्साध्यत्वाद्य्ववहारस्य लक्षणज्ञानप्रयोजनत्वमुपचारेणोक्तमिति भावः । एतेन लक्षणज्ञानस्य व्यवहारः प्रयोजनमिति प्रतिज्ञाय गोशब्दवाच्यं प्रत्येतीति ज्ञानफलकत्वकथनमनुपपन्नमिति परास्तम् । लक्ष्यस्य लक्षणद्वयमाह ।। यावदन्यत इति । यावदन्यतो व्यावर्तनीयं तल्लक्ष्यमित्येकम् । यावति चैकः शब्दो व्युत्पादनीयस्तदुच्यते लक्ष्यमित्यपरम् । आद्यलक्षणे सजातीयविजातीययोरपि लक्ष्यव्यावर्तनीयत्वेनातिव्याप्तिवारणाय साक्षादिति विशेषणं बोध्यम् ।
आदर्शः
ननु लक्षणोक्तेर्नेतरभेदानुमितिः फलम् । लक्ष्येतरत्वस्यान्यत्र ज्ञानकाले लक्ष्येऽपि तदितरत्वं समानसामग्रीकज्ञानत्वेन ज्ञातमेवेति सिद्धसाधनत्वमेव लक्षणोक्तेरित्यत आह ।। सजातीयविजातीयेति । इदं देवदत्तगृहमेव नान्यदिति योजना । वस्तुतो देवदत्तगृहादन्यन्नेत्यर्थः । तेन लक्ष्ये लक्ष्येतरज्ञानमेव प्रदर्शितं भवतीति ज्ञातव्यम् । न चालक्ष्येषु देवदत्तीयत्वाभावबुद्धिः कथमिति चेत् । लक्षणस्य लक्ष्यतावच्छेदकीभूतधर्मव्यापकत्वग्रहदशायां व्यापकाभावरूपहेतुज्ञानेन न चेत्कारणान्तरेण तदुभयाभावेन जायत एवेति गृहाण । अयं भावः । लक्षणज्ञानेन लक्ष्येतरभिन्नं लक्ष्यमित्याकारानुमितिर्नोच्यते । येन सिद्धसाधनता स्यात् । किन्तु लक्ष्यभिन्नानि कानिचित् सजातीयानि कानिचिद्विजातीयानि । तत्र येन रूपेण सजातीयत्वेन गृहीतानि यानि तत्प्रतियोगिकत्वेन भेदोऽनुमीयते । तत्तत्प्रतियोगिकस्य भेदस्य पूर्वमज्ञातत्वाल्लक्षणोक्तेः सफलत्वम् । सजातीयत्वे गृहीतेषु गृहेषु गृहत्वरूपसाधारणधर्मज्ञानस्य सत्त्वान्निर्णायकाभावे संशयस्यैव युक्तत्वात् । लक्षणज्ञाने सत्यन्यतरकोटिनिर्णायकसत्त्वादिदं देवदत्तगृहं न वेति संशयनिवृत्तेर्जायमानत्वात् । तर्हि विजातीयभेदस्य पूर्वं ज्ञातत्वादंशे सिद्धसाधनत्वमिति वाच्यम् । सिद्धसाधनतायाः स्वातन्त्र्येणादोषत्वात् । किन्त्वसङ्गतित्वेन । यथा पर्वतमहानसौ वन्हिमन्तावित्यनुमानेंऽशतः सिद्धसाधनतादोषः । तत्र महानसे वह्निजिज्ञासाया अभावेन तन्निवर्तकमहानस पदोच्चारणस्यासङ्गतत्वात्तज्ज्ञानद्वारा दोषत्वं न तु स्वातन्त्र्येणानुमिति प्रतिबन्धकत्वम् । तथा च विजातीयज्ञातपदार्थव्यावृत्तिबुद्ध्यर्थं न पृथक् प्रयत्नः क्रियते । किं सजातीयव्यावृत्तिज्ञानार्थं लक्षणे उक्ते तत्र तदानीं यद्यद्भेदव्याप्यत्वं प्रतीयते ते ते भेदाः सामग्रीबलात्प्रतीयन्तेऽतो न दोषः । सजातीयत्वं विजातीयत्वं च कालभेदात्प्रतिपत्तृभेदादेकस्यैव सम्भवति । तथा चैकेन विजातीयत्वेन ज्ञातपदार्थप्रतियोगिकभेदज्ञानस्य तं प्रति फलत्वाभावेऽपि येन पुरुषेण तदेव वस्तु सजातीयत्वेन गृहीतं तं पुरुषं प्रति तद्भेदज्ञानमपि प्रयोजनं भवतीति ज्ञापनायोभयोपादानम् । तथा ज्ञातपदार्थव्यावृत्ततयेति व्याख्यातव्यम् ।
वाक्यार्थमञ्जरी
।। यदिति । यज्जातीयमित्यर्थः । एवमग्रेऽपि ।। सर्वथेति । क्वापीत्यर्थः । अत्र यदिति श्रवणात्तदित्यावर्तनीयम् । एवमग्रेऽपि ।। सजातीयविजातीयव्यावृत्ततयेति । उपलक्षणमेतत् । सजातीयविजातीयनिष्ठव्यावृत्तिप्रतियोगितयेत्यपि द्रष्टव्यम् । तथा चालक्ष्यनिष्ठव्यावृत्तिप्रतियोगित्वेन लक्ष्यावधारणम् । अलक्ष्यप्रतियोगिकव्यावृत्तिमत्तयाऽत्र लक्ष्यावधारणमिति प्रयोजनद्वयमुक्तं भवति । तत्राद्यस्यास्ति गौर्नामार्थ इति विदितमतो यत्र तत्र गवि घटादौ अश्वादौ च गोबुद्धौ प्रसक्तायां गोस्वरूपावधारणमुखेनेतरव्यवच्छेदं कुर्वत्सास्नादिमानेन गौर्न तद्विरही घटादिर्वेति वाक्यं प्रयुज्यत इति सुधोक्तोदाहारणे सत्येवोदाहरणान्तरमाह ।। अस्मिन्निति ।। देवदत्तगृहबुद्धिरिति । देवदत्तगृहत्वं किमेतन्निष्ठमुत तन्निष्ठमिति संशयो ज्ञात इत्यर्थः । अभिधेयत्वं शब्दवति न वेति संशयस्याभिधेयत्वसंशयवदस्यापि संशयस्य देवदत्तगृहसंशयत्वमक्षतमिति भावः । उपलक्षणमेतत् । सास्नादिमान्गौरिति विदितलक्ष्यलक्षणसम्बन्धो हि यं सास्नादिमन्तं पिण्डं पश्यति तं गौरेवायं नाश्वादिर्नापि घटादिरिति प्रतिपद्यत इति सुधोक्तं द्वितीयस्याप्युदाहरणं द्रष्टव्यम् । ।। अन्यतो व्यावर्तनीयमिति । साक्षादिति शेषः । अतो लक्ष्यस्वरूपावधारणद्वारा तद्व्यावर्तनीयालक्ष्ये नातिव्याप्तिः ।
श्रीविट्टलभट्ट
एतच्चालक्षणत्वं परोक्तलक्षणानामसम्भावित्वादिप्रकारत्रयेण ज्ञातव्यमित्याशयेनालक्षणविभागमाह ।। तत्त्रिविधमिति । तदलक्षणं प्रकारत्रयोपेतमित्यर्थः । तानि क्रमेणोद्दिश्य तेषां लक्षणानि कथयति ।। असम्भवीत्यादिना । असम्भवित्वस्य लक्ष्यमात्रे लक्षणसत्त्वविरोधित्वादसम्भविनः प्रथममुद्देशो यल्लक्ष्ये सर्वथा न वर्तत इति लक्षणोक्तिः । यच्छब्दश्रवणात्तदिति पूरणीयम् । असम्भवीत्यनुवर्तते । यल्लक्ष्ये सर्वथा क्वापि न वर्तते । वृत्तिरहितं सम्बन्धशून्यमिति यावत् । तदसम्भवीत्यर्थः । एतेन प्रामाणिकस्यात्यन्ताभावप्रतियोगित्वात् प्रामाणिकैकशफत्वादसम्भविन्यस्याभावाल्लक्ष्य इत्युक्तम् । द्वितीयमुद्दिशति ।। अव्यापकमिति । लक्ष्यलक्षणसत्त्वविरोधित्वादव्यापकत्वस्यासम्भव्यनन्तरमव्यापकस्योद्देशः । लक्ष्यैकदेशे वर्तमानमपि तथैकदेशान्तरे न वर्तत इति लक्षणोक्तिः । अत्रापि यच्छब्दश्रवणात्तदिति संयोज्यम् । विशेषणसमुच्चयार्थोऽपि शब्दः । अव्यापकमित्यनुवर्तनीयम् ।यद्यज्जातीयं लक्ष्यैकदेशे वर्तमानत्वे सति तस्य लक्ष्यस्यान्यस्मिन्देशे वृत्तिरहितम् । अनुगतधर्मवाद इवाननुगतधर्मवादेऽपि सास्नादिसजातीयस्य सकललक्षणव्यक्तिषु सम्भवात् । असम्भवीत्येकशफत्वादावतिव्याप्तिपरिहारार्थम् । द्रव्यत्वादावतिव्यापकेऽतिव्याप्तिवारणाय तदेकदेशे न वर्तत इत्युक्तम् । तृतीयमुद्दिशति ।। अतिव्यापकमिति । यल्लक्ष्यादन्यत्रापि वर्तत इति तल्लक्षणोक्तिः । अत्रापि यच्छब्दश्रवणात्तदिति पूरणीयम् । अतिव्यापकमित्यनुवर्तते । विशेषसमुच्चयार्थोऽपि शब्दः । यज्जातीयं लक्ष्यवृत्तित्वे सति लक्ष्यादन्यत्रालक्ष्येऽपि वर्तते तदतिव्यापकमित्यर्थः । एतेनाननुगतधर्मवादे विषाणित्वादेरतिव्यापकस्य लक्ष्यालक्ष्योभयवृत्तित्वाभावादसम्भवीदं लक्षणमिति शङ्का निरस्ता । अनुगतधर्मवाद इवाननुगतधर्मवादेऽपि विषाणादिजातीयस्य लक्षणलक्ष्योभयवृत्तित्वादव्यापकत्त्वे गोत्वादिव्यावृत्त्यर्थं लक्षणादन्यत्रेत्युक्तम् । असम्भविन्येकशफत्वादावतिव्याप्तिपरिहाराय लक्ष्यवृत्तित्वे सतीत्युक्तम् । ननु प्रमाणपद्धतिं कुर्म इत्यनेन प्रमाणलक्षणाभिधानं प्रतिज्ञातम् । लक्षणोक्त्या च लक्ष्यज्ञानं सम्भवति । तच्च न स्वतः प्रयोजनम् । सुखदुःखाभावेतरत्वात् । तथा च लक्षणोक्तेरेव निष्प्रयोजनत्वात्प्रमाणलक्षणोक्तिरपि निष्फलेत्याशङ्कमानं प्रति लक्षणोक्तेः सफलत्वं च ज्ञापयितुं लक्षणज्ञानफलमाह ।। सजातीयविजातीयव्यावृत्ततयेति । देवदत्तगृहादिरूपलक्ष्यावधारणस्यार्थनिश्चयत्वेन प्रवृत्त्यादिहेतुतया सफलत्वात्प्रमाणरूपलक्ष्यावधारणस्य तु तदेवं भूतैः प्रमाणैः पदार्थानां नित्यानित्यत्वादिकं निश्चित्य विषयेषु विरक्तस्य शमादिसम्पत्तिमतो वासुदेवैकशरणस्य तद्विषयाणि श्रवणमनननिदिध्यासनान्यादरनैरन्तर्याभ्यां बहुकालमनुष्ठितवतो भगवत्साक्षात्कारे सत्युद्रिक्तया भक्त्या भगवत्प्रसादादशेषानिष्टनिवृत्तिविशिष्टानन्दादिस्वरूपाविर्भावलक्षणा मुक्तिर्भवतीति प्रकरणान्ते वक्ष्यमाणरीत्या मुक्त्युपयोगित्वाल्लक्षणज्ञानस्य फलत्वमिति भावः । ननु लक्ष्यतावच्छेदकधर्मेण वा तत्समनियतधर्मेण वा लक्ष्यसाजात्यमलक्ष्ये क्वापि नास्ति । लक्ष्यतावच्छेदकाधिकवृत्तिधर्मेण तत्साजात्यमलक्ष्ये सर्वत्रास्ति । प्रमेयत्वादिना लक्ष्यसाजात्यस्यालक्ष्ये सर्वत्र सत्त्वात् । तथा चालक्ष्यस्य सर्वस्यापि लक्ष्यतावच्छेदकाधिकवृत्तिधर्मवत्तया लक्ष्यसजातीयत्वमेव न तु तद्विजातीयत्वमिति चेन्न । लक्ष्यतावच्छेदकाधिकवृत्तिधर्मेषु यन्न्यूनवृत्ति तत्समानधर्मवल्लक्ष्यसजातीयं तद्रहितं विजातीयमित्यत्र विवक्षितत्वेनालक्ष्यत्वे लक्ष्यविजातीयस्याप्युपपत्तेः । ननु प्रमितितत्साधनान्यतरत्व रूपलक्ष्यतावच्छेदकाधिकवृत्तिधर्मेषु न्यूनवृत्तिना ज्ञानतत्साधनान्यतरत्वेन सजातीयात्प्रमाणाभासात्तद्रहिताद्घटादेर्विजातीय तद्व्यावृत्ततया भिन्नतया लक्ष्यावधारणं लक्षणज्ञानफलमिति वक्तव्यम् । तच्चायुक्तम् । अनुप्रमाणस्य साक्षिणः केवलप्रमाणस्य स्वरूपज्ञानस्य चालक्ष्यमात्रभिन्नतया प्रमाणलक्षणज्ञानेन लक्ष्यप्रमातृभिन्नतया प्रमाणरूपलक्ष्यावधारणायोगादिति चेन्न । व्यावृत्तपदस्य भेदप्रतिनिधिविशेषवत्परत्वस्यात्र स्वीकारात् । भेदनिमित्तकशब्दानां भेदकार्यकारिविशेषनिमित्तकस्यापि सत्वात् । तदुक्तमनुव्याख्याने ।
भेदशब्दा विशेषं तु हरावन्यत्र भिन्नताम् ।
ब्रूयुर्हरेर्जीवजडैरपि भेदं तु मुख्यतः ।
ब्रह्मतर्कवचोऽप्येवमिति ।
उक्तं च सुधायाम् । विशेषो भेदकार्यं व्यवहारादिकं निर्वहतीति । पूर्वमेवोक्तं विशेषनिष्ठमागमं चाह । भेदशब्दा इति । भेदनिमित्ता अन्यादिशब्दा भेदशब्दाः । हरौ विशेषं ब्रूयुरित्यस्यापवादमाह । हरेरिति । एवमन्यत्र भिन्नतामित्यस्यापि क्वचिदपवादो द्रष्टव्यः । ब्रह्मतर्कवचोऽप्येवमावेदयतीत्यपेरर्थ इति । तथा च यथा खलु विद्यमानस्य भेदस्य ज्ञापको नैव कारकः । उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः । ज्ञापको विद्यमानस्येति । तत्त्वप्रकाशिकाव्याख्यानावसरे । यदाऽऽकाशभेदो नास्तीति सिद्धान्तः । अन्तरशब्दो विशेषवचनः । ततस्तत्प्राग्विद्यमानस्य देशविशेषस्य ज्ञापक एव । स उपाधिरित्यङ्गीक्रियते । न तु भेदस्य कारक इति । नायं दृष्टान्त इत्यनेनाकाशे प्रदेशो नास्तीति स्वमतेऽन्तरशब्दस्य भेदकार्यकारिविशेषार्थकत्वमुक्त्वा घटमठाद्याकारभेदाभ्युपगमस्तदाऽपि घटमठाद्युपाधिः प्राग्विद्यमानस्यैव देशभेदस्य ज्ञापक एव न तु भेदस्य कारक इत्यनेन तद्देशेऽस्तीत्यभ्युपगवादेऽन्तरशब्दस्य भेदार्थकत्वं चाभिहितम् । एवमपि व्यावृत्तपदं भेदवत्परम् । भेदप्रतिनिधिविशेषवत्परं चेत्यभ्युपेयम् । लक्ष्यालक्ष्ययोः प्रायेण भेदस्य सत्त्वात्तत्र भेदकार्यनिर्वाहायात्र व्यावृत्तपदस्य भेदवत्परत्वस्य क्वचिद्भेदाभावेन तत्र भेदज्ञानस्य लक्षणज्ञानफलत्वायोगात्तत्र तत्र प्रमितभेदकार्यनिर्वाहाय भेदप्रतिनिधिविशेषवत्त्वपरत्वस्य चावश्यकत्वात् । तथा च सजातीयविजातीयाभ्यामलक्ष्याभ्यां भेदकार्यविशेषयोरन्यतरवत्तया लक्ष्यावधारणं लक्षणज्ञानफलमित्यर्थाङ्गीकाराद्भेदवत्तया लक्ष्यावधारणस्योक्तस्थलेऽसम्भवेऽपि भेदकार्यकारिविशेषवत्तया लक्ष्यावधारणसम्भवान्नोक्ताशङ्कावकाश इति बोध्यम् । केचित्तु । अपर्यायशब्दान्तरद्विवचनबहुवचन प्रयोगान्यतरापरिशेषाधाराधेयभाव ज्ञातत्वाज्ञातत्वादिरूपव्यवस्था नियामकवत्तया लक्ष्यावधारणं लक्षणज्ञानफलमित्यस्यार्थः । तन्नियामकस्य प्रायेण भेदः क्वचिद्भेदप्रतिनिधिविशेषश्च भवतीति नोक्तचोद्यावकाश इत्याहुः । एतेन लक्ष्यभिन्नस्य कथं न लक्ष्यत्वं कथं च तद्विजातीयत्वं चेति चोद्यमपास्तम् । ज्ञातत्वाज्ञातत्वादिद्विवचन बहुवचनप्रयोगाधाराधेयभावलक्ष्यत्वादिरूपव्यवस्थायां भेदस्येव भेदप्रतिनिधिविशेषस्यापि तन्त्रत्वात् । अत एव खलु न्यायमते घटपटयोर्विकल्पविषयत्वेऽपि तदभिन्नस्य विशेषणविशेष्यभावस्याधाराधेयत्वभावस्य भेदप्रतियोगिकभेदस्य प्रतियोगिकत्वादेश्च तदविषयत्वम् । घटरूपयोर्घट इति शब्दजन्यज्ञानविषयत्वेऽपि तदभिन्नस्य विशेषणविशेष्यभावस्याधाराधेयभावस्य च तत्संसर्गस्य तदविषयत्वम् । घटपटयोर्घटरूपयोश्च स्वावृत्तित्वेऽपि तदभिन्नस्य विशेषणत्वविशेष्यत्वाधाराधेयत्वप्रतियोगित्वविषयभेदप्रतियोगित्वविषयभेदप्रतियोगिकभेदादेस्तद् वृत्तित्वम् । निर्विकल्पकस्य घटत्वमात्रं विषयः । विशिष्टज्ञानस्य तु घटत्वविशेषणयोर्द्विवचनप्रयोगः । नीलोत्पलयोरभेद इति द्विवचनप्रयोगः । रूपघटाविति शब्दजन्यज्ञानस्य रूपघटावेव विषयौ न तु तयोर्विशेषत्वाधारत्वाधेयत्वप्रतियोगित्वादयो विषयाः । रूपवान्घट इत्यादिज्ञानस्य तु रूपादिविशेषणत्वविशेष्यत्वाधारत्वादयो विषया इत्यभेदेऽपि बहुवचनप्रयोगः । गुणगुणिनोः क्रियातद्वतोर्जातिव्यक्त्योश्चाधाराधेयत्व विशेषणत्वविशेष्यत्वभेदप्रतियोगिकभेदविषयत्वप्रतियोगित्वादयो धर्माः सन्तीति बहुवचनप्रयोगः । रूपलक्षणस्य चक्षुर्ग्राह्यत्वे सति गुणत्वादेस्तदभिन्नाधारत्वाधेयत्वादावसत्त्वं घटस्य प्रत्यक्षत्वेऽपि तदभिन्नस्यातीन्द्रियगुरुत्वसंसर्गस्याधारत्वस्यातीन्द्रियत्वम् । स्पर्शस्य स्पर्शवत्त्वेऽपि तदभिन्नस्य वायुनिरूपितस्याधेयस्य त्वतीन्द्रियत्वमस्पर्शनं चेत्यादिरूपा व्यवस्थोपपद्यते । गुणगुणिनोः क्रियातद्वतोर्जातिव्यक्त्योश्चाधारत्वविशेषत्वाविशेष्यत्वप्रतियोगिभेदप्रतियोगिकभेदादयो धर्मा न सन्त्येवेति तावत्सम्भवति । तयोर्विशेषणविशेष्यभावाभ्युपगमो निर्विकल्पकसमूहालम्बनात्मकरूपघटाविति शब्दजन्यज्ञाने च स्वरूपवान्घट इत्यादिविशिष्टज्ञानस्य विषयकृतविशेषाभावप्रसङ्गाच्च । गुणगुण्यादेर्विषयत्वाभावे च रूपी घट इत्यादिज्ञानस्य निर्विषयतापाताच्च । गुणगुण्यादेः स्वप्रतियोगित्वरहितत्वे तदभावस्य निष्प्रतियोगिकत्वप्रसङ्गाच्च । गुणगुणिभेदप्रतियोगिकभेदस्य गुणगुण्यवृत्तित्वे गुणगुणिभेदस्य गुणगुणिरूपत्वगुणगुण्यावृत्तित्वयोरापाताच्च । नाप्याधारत्वादयो धर्माः स्वाश्रयभिन्नाः । समवायाभावपक्षे गुणगुणिनोः क्रियातद्वतोर्जातिव्यक्त्योश्च सम्बन्धिभिन्नसम्बन्धाभावेनाधाराधेयभावादेतत्सम्बन्धस्य खाश्रयभिन्नत्वासम्भवात् । समवायसद्भावपक्षेऽपि तयोः समवायातिरिक्तसम्बन्धाभावाधाराधेयभावादेस्तत्सम्बन्धस्यासम्बन्धिभिन्नत्वायोगाच्च । पक्षद्वयेऽपि गुणगुण्यादेराधारत्वाधेयत्वविशेषणत्वविशेष्यत्वप्रतियोगित्वप्रतियोगिकभेदादेः स्वाश्रयभिन्नत्वेऽनवस्थापाताच्च । न च भिन्नानन्तबीजाङ्कुरपरम्परावद्भिन्नानन्ताधारत्वाधेयत्वप्रतियोगित्वभेदादिपरम्परा प्रामाणिकी । घटरूपयोर्भिन्ननन्ताधारत्वादिपरम्पराया अनुपलब्धेरप्रामाणिकत्वात् । अन्यथा युतसिद्धयोर्दण्डदेवदत्तयोरयुतसिद्धयोर्गुणगुणिनोः क्रियातद्वतोर्जातिव्यक्त्योश्च भिन्नानन्तसम्बन्धपरम्परया भेदधर्मिकभेदप्रतियोगिकभेदपरम्परयाऽऽद्यन्ताभावधर्मिकात्यन्ताभावप्रतियोगिकात्यन्ताभावपरम्परायाः प्रागभावप्रतियोगिकनिवृत्तिः । निवृत्तिप्रतियोगिकप्रागभावपरम्परायाश्चाभ्युपगमप्रसङ्गात् । तस्मात्सन्त्येव गुणगुण्यादौ प्रतियोगित्वाधारत्वाधेयत्वादयो धर्माः स्वाश्रयभिन्नाश्चेति सर्वैरपि वादिभिरवश्यमभ्युपेयम् । न च रूपलक्षणं रूपाभिन्ने प्रतियोगित्वादावस्तीति रूपलक्षणज्ञानफलस्य रूपमिति व्यवहारस्य रूप इव तद्गतप्रतियोगित्वादावप्यापातात् । न चेष्टापत्तिः । रूपगतरूपत्वगुणत्वादाविव तद्गते प्रतियोगित्वाधारत्वाधेयत्वादौ रूपमिति व्यवहारस्य कस्याप्यभावात् । न हि प्रतियोगित्वादिकं रूपमिति कश्चिद्य्ववहरति । अन्यथा रूपे प्रतियोगित्वमस्तीति बहुत्वमस्तीति व्यवहारयोरप्रसङ्गात् । न च स्पर्शगतं वायुनिरूपिताधेयत्वं स्पर्शवत्प्रत्यक्षं स्पर्शनं चेति प्रत्यक्षाप्रत्यक्षनिरूप्यसंस्पर्शस्य वायुस्पर्शयोराधाराधेयभावस्याप्रत्यक्षस्पर्शनत्वयोरयोगात् । नापि घटाद्यभिन्नमपि प्रतियोगित्वादिकं तावन्मात्रशब्दोक्तनिर्विशेषाभिन्नम् । पदवाच्यव्यक्तेर्भूतलवृत्तित्वेन प्रतियोगित्वाधाराधेयत्वादेरपि भूतलवृत्तित्वापातात् । त्वप्रत्ययवैय्यर्थ्याच्च । प्रतियोगित्वाधारत्वाधेयत्वविशेषणत्वविशेष्यत्वविषयत्वघटादिपदानां पर्यायतापाताच्च । घटपदार्थव्यक्तेर्घटव्यक्त्यवृत्तित्ववत्तदभिन्नप्रतियोगित्वादेस्तत्रावृत्तिसङ्गाच्च । घटापदार्थव्यक्तेर्निविकल्पकसमूहालम्बनविषयत्ववत्तदभिन्नविशेषणविशेष्यभावादेस्तद्विषयत्वापत्तेरित्याद्यतिप्रसङ्गाच्च । किन्तु तन्मात्रस्वरूपयोर्निर्विशेषाभेदस्तद्रहितं सविशेषाभिन्नमित्येव सर्वैरभ्युपेयम् । प्रतियोगित्वादेः । स्वाश्रयभेदाभावेन भेदप्रतिनिधिना विशेषणोक्तव्यवस्थाया निर्वाह्यत्वात् । तथा च घटो भिन्नमप्यपर्यायपदाभिधेयं प्रतियोगित्वादिकं सविशेषाभिन्नमेव । ननु घटपदार्थव्यक्तिमात्रमित्येवार्थः सर्वैरपि वादिभिः शिरसा धारणीयः । तथोक्तं मायावादखण्डनटीकायाम् । यतो रूपं घटाभिन्नमपि तद्विषयतयाऽङ्गिक्रियते न तु तन्मात्रमिति । तद्विशेषतया घटाभिन्नं विशेषः स्वरूपविशेषस्तस्य भावस्तत्ता तया घटाभिन्नस्वरूपविशेषतया सविशेषाभिन्नघटधर्मतयेति यावत् । यद्वा घटाद्विशेषो यस्य तत्तथा तस्य भावस्तत्ता तया सविशेषतयेति यावत् । घटाभिन्नमित्यनुवर्तते । सविशेषतया घटाभिन्नमङ्गीक्रियत इत्यर्थः । ननु तन्मात्रं घटपदाभिधेयं घटस्वरूपं यत्तदेव तत्तन्निर्विशेषाभिन्नो नेत्यर्थः । अतो रूपपदं यावद्द्रव्यभाविरूपपरमिति ज्ञातव्यम् । उक्तं च तत्त्वसङ्ख्यानटीकायाम् । स्वरूपेण भावाभावौ विधिनिषेधात्मानौ रूपान्तरेण विधिनिषेधरूपौ तत्र प्रथमजायां संविदि स्वरूपमवभासते । द्वितीयादिप्रतीतौ रूपान्तरमिति स्वरूपेण निर्विशेषं यद्धि धर्मिरूपं तेनेत्यर्थः । रूपान्तरेण निर्विशेषाभेदरहितं वा सविशेषाभिन्नं वा यद्धर्मरूपं तद्रूपान्तरं तेनेत्यर्थः । उक्तं च तत्त्वप्रकाशिकाटीकायाम् । न निर्विशेषवस्तुमात्रं भेदः । तथा सति वस्तुमात्रस्य परेणाङ्गीकृतत्वाद्विवादानुपपत्तेः किं नामान्योन्याभाव एव । स च रूपादिमद्वस्तु नाऽभिन्न इत्येव स्वरूपं भेद इत्यस्यार्थ इति । तस्माद्यथावदस्यार्थोपस्थापकतया रूढेरुत्सर्गतस्तन्त्रत्वं रूढ्यभावे तु तत्प्रतिनिधेरमुख्यवृत्तेस्तन्त्रत्वमेवमुक्तव्यवस्थायामुत्सर्गभेदस्य प्रयोजकत्वम् । भेदाभावे भेदप्रयोज्योक्तव्यवस्थायां च सत्यां भेदप्रतिनिधेः कस्यचिदाधाराधेयभावज्ञातत्वाज्ञातत्वादिरूपप्रयोज्यसमानाधिकरणस्य प्रयोजकत्वं सर्वैर्वादिभिरभ्युपेयम् । प्रयोजकव्यतिरेकेण प्रयोज्यासम्भवात् । स एवास्माभिर्विशेषशब्देन कथ्यते । तदुक्तम् ।
भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषत इति ।
तथा च भूतलवृत्तिघटाभिन्नमपि प्रतियोगित्वाधेयत्वादिकं भूतलावृत्तीतिवत्प्रत्यक्षं स्पर्शाभिन्नमपि वायुनिरूपिताधेयत्वमप्रत्यक्षमस्पर्शनं चेतिवच्च प्रमाणभिन्नमपि प्रमात्वादिकं विशेषबलादलक्ष्यं लक्ष्यविजातीयं च भविष्यतीति न काऽप्यनुपपत्तिरिति । अलक्ष्यव्यावृत्तितया लक्ष्यावधारणं कथं लक्षणफलमिति जिज्ञासायामाह ।। अस्मिन्ग्रामे देवदत्तगृहमिति । गृहमित्यनन्तरमस्तीति शेषः । सर्वेष्वपि गृहेषु देवदत्तगृहबुद्धिः प्रसक्ता । तद्देवदत्तगृहमिदं न देवदत्तगृहमिति सन्देहरूपा बुद्धिः प्राप्तेत्यर्थः ।। ततो यत्र पताकेति । ततस्तदुक्तसन्देहानन्तरं यत्र यस्मिन्गृह इत्यर्थः । तद्ग्रामस्थगृहेष्वित्यनुवर्तते । तद्देवदत्तगृहमस्तीत्यत्रेतिशब्दो लक्षणाकारप्रदर्शकः । यद्वा । इतिशब्दानन्तरं वाक्यादपि पूरणीयम् । लक्षणज्ञाने सति तस्य देवदत्तस्य गृहस्यैतद्ग्रामस्थगृहवर्तिपताकारूपलक्षणज्ञाने जात इत्यर्थः ।। इदमेवेति । देवदत्तगृहमित्यनुवर्तते । लक्षणज्ञानस्य प्रयोजनान्तरमाह ।। शब्दव्यवहारो वेति । शब्दो व्यवह्रियतेऽनेनेति व्युत्पत्त्या शब्दवाच्यत्वज्ञानमित्यर्थः । वाच्यत्वज्ञानस्य लक्षणज्ञानफलत्वमुपपादयति ।। सास्नादिमान्गौरिति । यं यं सास्नादिमन्तं पिण्डं पश्यति यावन्तमर्थं सास्नादिमत्त्वरूपलक्षणविशिष्टं प्रत्येति । तं तं तावन्तं सर्वं गोशब्दवाच्यं जानातीत्यर्थः । ननु यस्य लक्षणमुच्यते तल्लक्ष्यमिति लक्ष्यज्ञानं लक्षणज्ञानाधीनम् । लक्षणस्यापि लक्ष्यघटितत्वेन लक्षणज्ञानं लक्ष्यज्ञानाधीनमित्यन्योन्याश्रय इत्यत आह ।। यावदन्यतो व्यावर्तनीयमिति । तदुच्यते लक्ष्यमिति वक्ष्यमाणमत्रापि सम्बध्यते । यावद्यज्जातीयं सर्वमन्यतस्तज्जातिरहितात् तज्जातीयाच्च व्यावर्तनीयम् । अपर्यायादिशब्दवाच्यत्वादिनियामकवत्तया ज्ञातव्यं तल्लक्ष्यमित्यर्थः । प्रकारान्तरेण लक्ष्यरूपं कथयति । यावतीति । यज्जातीये सर्वस्मिन्नित्यर्थव्युत्पादनीयो वाचकत्वेन ज्ञापनीय इत्यर्थः ।