प्रमाणपद्धतिः

प्रत्यक्षशब्दार्थः

(२७) प्रमाणपद्धतिः

ननु प्रत्यक्षं करणविशेषः । करणस्य चावान्तरव्यापारेण भवितव्यम् । यथा छिदाकरणस्य परशोर्दारुसंयोगोऽवान्तरव्यापारः । सत्यम् । अत्रापीन्द्रियं करणधर्मि । तस्यार्थसन्निकर्षोऽवान्तरव्यापारः । तत्रावान्तरव्यापारप्राधान्यविवक्षयाऽर्थेन्द्रियसन्निकर्षः प्रत्यक्षमित्युच्यते । क्वचित्तु धर्मिप्राधान्यविवक्षया स्वस्वविषयसन्निकृष्टमिन्द्रियं प्रत्यक्षमित्युच्यते । स्वरूपेन्द्रियस्यापि आत्मतद्धर्मैः विशेषशक्तया सन्निकर्षः असत्येव ।

प्रत्यक्षप्रभेदः

चतुर्विधं प्रत्यक्षम् ईश्वरप्रत्यक्षं लक्ष्मीप्रत्यक्षं योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति । तत्राद्यद्वयं स्वरूपेन्द्रियात्मकमेव । उत्तरद्वयं तु द्विविधेन्द्रियात्मकम् । विषयस्तु तत्तज्ज्ञानविषयवद्विवेक्तव्यः ।

जयतीर्थविजय

।। करणविशेष इति । यज्जातीयानन्तरमित्यादिना निरुक्तसाधनविशेष इत्यर्थः । यथार्थज्ञानसाधनमनुप्रमाणमिति सामान्यलक्षणपूर्वकं त्रिविधमनुप्रमाणं प्रत्यक्षमनुमानमागम इतीत्यादिना विभागकरणात्साधनविशेषत्वं प्रत्यक्षस्येति भावः । अस्तु प्रत्यक्षं करणविशेषः । ततः किमित्यत आह ।। करणस्य चेति । प्रकृते सन्निकर्षविशिष्टस्यैवेन्द्रियस्य करणत्वेन तस्येन्द्रियार्थसन्निकर्षो नावान्तरव्यापारः । न हि तद्विशिष्टस्य स एव व्यापारो भवति । आत्माश्रयादिति शङ्कितुराशयः । प्रत्यक्षपदार्थत्वं सन्निकर्षरूपधर्मस्येन्द्रियरूपधर्मिणश्च द्वयोरप्यस्ति । साधनत्वापरपर्यायकरणत्वे धर्मिसन्निकर्षयोः समानेऽपि धर्मिण एवावान्तरव्यापार आवश्यको न धर्मस्यापि । प्रकृते च धर्मिण इन्द्रियस्यावान्तरव्यापारोऽस्तीति भावेन परिहरति ।। सत्यमित्यादिना । उक्ताभिप्रायस्फुरणायाह ।। इन्द्रियं करणधर्मीति । अन्यथा करणपदं व्यर्थं स्यादिति ज्ञातव्यम् । ननु धर्मिण इन्द्रियस्य प्रत्यक्षत्वे निर्दोषेन्द्रियार्थसन्निकर्षः प्रत्यक्षमिति पूर्वग्रन्थविरोधः । निर्दोषेन्द्रियार्थसन्निकर्षः प्रत्यक्षमिति प्रमाणलक्षणविरोधश्च । तत्परिजिहीर्षयेन्द्रियार्थसन्निकर्षस्यैव प्रत्यक्षत्वाङ्गीकारेऽदुष्टमिन्द्रियं त्वक्षमिति ब्रह्मतर्कविरोध इत्याशङ्क्योभयविधव्यवहारस्यापि गतिमाह ।। तत्रावान्तरेत्यादिना । ननु स्वरूपेन्द्रियस्य विषयीभूतात्मतद्धर्मैः सन्निकर्षो दुर्वचः । तैः साकमभिन्नत्वादित्यत आह ।। स्वरूपेन्द्रियस्येति ।। विशेषशक्त्येति । अभेदेऽपि भेदकार्यनिर्वाहकत्वाद्विशेषस्येति भावः ।। उत्तरंत्विति । द्विविधेन्द्रियात्मकं स्वरूपबाह्योभयेन्द्रियात्मकमित्यर्थः ।

अक्षाणि च स्वरूपाणि नित्यज्ञानात्मकानि च ।

विष्णोः श्रियस्तथैवोक्तान्यन्येषां द्विविधानि

त्विति ब्रह्मतर्कानुसारादिति भावः ।। तत्तज्ज्ञानविषयवदिति । तत्तदिन्द्रियजन्यज्ञानविषय एव तत्तदिन्द्रियविषय इति वक्तव्यमित्यर्थः ।

भावदीपः

निर्दोषार्थसन्निकृष्टं निर्दोषेन्द्रियं प्रत्यक्षमिति भावेन शङ्कते ।। नन्विति ।। अत्रापीति । अस्मदीये प्रत्यक्षलक्षणेऽपीत्यर्थः । करणरूपधर्मीत्यर्थः । तर्हि तथैव लक्षणं कुतो नोक्तमित्यत आह ।। तत्रेति । एवं सतीत्यर्थः ।। इत्युच्यत इति । निर्दोषेन्द्रियसंयोगः प्रत्यक्षमिति गीयत इति बृहद्भाष्योक्तब्रह्मतर्कतदनुसारि प्रमाणलक्षणे । अत्रापि ग्रन्थे चेत्यर्थः ।। क्वचित्त्विति । अदुष्टमिन्द्रियं त्वक्षमिति तत्त्वनिर्णयोक्तब्रह्मतर्कतदनुसार्यनुव्याख्यानसुधयोरित्यर्थः । ननु परमतनिरासप्रस्तावे वक्ष्यमाणदिशा प्राकृतेन्द्रियाणां स्वस्वविषयैः संयोगरूपसन्निकर्षसम्भवेऽपि साक्षिणः स्वरूपज्ञानव्यक्तीकरणे तद्विषयैरात्मतद्धर्मैः सन्निकर्षो न युक्तः साक्षिणः प्रमात्रभेदादित्याह ।। स्वरूपेन्द्रियस्यापीति ।। विशेषशक्त्येति । वस्तुसामर्थ्यबलेनेत्यर्थः । पदार्था एवाभिन्नाः सन्तोऽपि भेदकार्यनिर्वहण सामर्थ्योपेताः प्रमाणप्रमिता इति तादृशपदार्थसामर्थ्यमेव भेदकार्यकारितयाऽन्योन्यविशेषकत्वेन भेदप्रतिनिघिर्विशेषोऽस्ति । वस्तुषु प्रत्यक्षादिप्रमाणप्रमित इति शास्त्रे प्रतिपादित इति ज्ञेयम् । अत एवाह ।। अस्त्येवेति । इन्द्रियेषु निर्दोषपदव्यावर्त्यं वक्तुं तद्विभागमाह ।। चतुर्विधमिति ।। अभ्यर्हितक्रमेण निर्दिशति ।। ईश्वरेति । स्वरूपेन्द्रियात्मकमेवेत्येवकारेण प्राकृतदेहाभावादिति युक्तिं सूचयति ।। द्विविधेन्द्रियेति । स्वरूपेन्द्रियबाह्येन्द्रियात्मकमित्यर्थः ।। तत्तज्ज्ञानविषयवदिति । ईश्वरप्रत्यक्षं कृत्स्नविषयमित्यादिरूपेण ज्ञेयमित्यर्थः ।

श्रीविजयीन्द्रतीर्थ

।। सत्यमिति । विनिगमनाविरहेण सन्निकृष्टेन्द्रियसन्निकर्षयोः प्रत्यक्षपदाभिधेयत्वेऽपीन्द्रियस्यैव प्रत्यक्षपदाभिधेयस्य सव्यापारत्वनियमो न त्विन्द्रियसन्निकर्षरूपस्य प्रत्यक्षस्य तत्र प्रमायोगव्यवच्छिन्नत्वस्येव प्रत्यक्षत्वस्याभ्युपगमादिति भावः । यद्यपि सन्निकष्टेन्द्रियकरणत्वपक्षेऽपि न सन्निकर्षव्यापारः । विशिष्टस्य विशेषणजनकत्वात् । अन्यथाऽऽत्माश्रयात् । तथाऽपि सन्निकर्षस्योपलक्षणत्वमभिप्रेत्य तथोक्तमिति बोध्यम् । नन्वात्मतद्धर्मैः स्वरूपेन्द्रियस्य कः सन्निकर्षः । यः प्रत्यक्षं स्यादित्यत आह ।। स्वरूपेन्द्रियस्येति । साक्षात्कारविषयताप्रयोजिकतायाः शक्तेरेव सन्निकर्षत्वमित्यर्थः ।। स्वरूपेन्द्रियात्मकमेवेति । प्राकृतेन्द्रियस्य तत्राभावादिति भावः ।। द्विविधेन्द्रियेति । स्वरूपप्राकृतेन्द्रियेति । एतेषां विषयापेक्षायामाह ।। विषय इति । यथेश्वरज्ञानं सर्वविषयमेवं तत्प्रत्यक्षम् । ईश्वरादन्यत्रानालोचनेऽपि सर्वविषयं यथा लक्ष्मीज्ञानं तथा लक्ष्मीप्रत्यक्षम् । एवमन्यत्रापि स्वयमूह्यमिति देवासुरसम्बन्धिभिन्नमित्यर्थः ।

श्रीवेदेशभिक्षु

ननु नेन्द्रियसन्निकर्षस्य प्रत्यक्षत्वं युक्तम् । प्रत्यक्षस्य यथार्थज्ञानकारणरूपानुप्रमाणविशेषत्वेन करणत्वात् । करणस्य च व्यापारवत्तानियमात्सन्निकर्षस्य च व्यापारत्वादित्याशङ्कते ।। नन्विति ।। अत्रापीति । इन्द्रियसन्निकर्षस्य प्रत्यक्षत्वेनोक्तत्वेऽपीत्यर्थः । ननु सन्निकृष्टेन्द्रियव्यापारत्वं न तत्सन्निकर्षस्य सम्भवति । आत्माश्रयप्रसङ्गादित्यत आह ।। करणधर्मीति । तथा च धर्मीभूतमिन्द्रियमेव करणं न तु सन्निकृष्टेन्द्रियमित्यर्थः । एवं चात्रापीन्द्रियमेव करणं विवक्षितम् । तद्धर्मभूतः सन्निकर्षोऽवान्तरव्यापारत्वेन विवक्षितोऽतो नानुपपत्तिरिति भावः । ननु तर्हि सन्निकृष्टेन्द्रियं प्रत्यक्षमित्येव कस्माल्लक्षणं नोच्यते । किमुक्तलक्षणविवक्षणेनेत्यत आह ।। अत्रेति । एवं सत्यपीत्यर्थः । इत्युच्यत इत्यनन्तरं प्रमाणलक्षणादौ भगवत्पादैरिति शेषः । तथा च तदनुसारिभिरस्माभिरपि तथैव व्यवहृतम् । वस्तुतस्तु सन्निकृष्टमिन्द्रियमेव प्रत्यक्षं विवक्षितमिति भावः । ननु न व्यापारवत्त्वं करणत्वं किन्त्वविलम्बेन प्रमोत्पादकत्वम् । तच्च सन्निकर्षेऽप्यक्षतमेवेति परिहारं मनसि निधाय किं व्यापारवत्त्वरूपकरणत्वपुरस्कारेणोक्तपरिहारेणेत्यत आह ।। क्वचिदिति । अदुष्टमिन्द्रियं त्वक्षमित्यादिब्रह्मतर्कवाक्यादावित्यर्थः । तथा च ब्रह्मतर्कव्याक्यानुसारादुक्त एव परिहार इति भावः । प्रमाणलक्षणब्रह्मतर्कवाक्ययोः परस्परविरोधपरिहारार्थमुक्तम् । अत्र धर्मिप्राधान्यविवक्षयेति पूर्वं चावान्तरव्यापारप्राधान्यविवक्षयेति । तथा चास्मन्मते इन्द्रियमेव करणं सन्निकर्षोऽवान्तरव्यापारः प्राधान्यविवक्षावशाद्वैचित्र्येण व्यवहार इति न कोऽपि दोष इत्युक्तं भवति । नन्वात्मतद्धर्मैः स्वरूपेन्द्रियस्याप्यभेदात्कथं सन्निकर्षरूपव्यापारसम्भव इत्यत आह ।। स्वरूपेन्द्रियस्यापीति ।। विशेषेति । तस्याभेदेऽपि भेदकार्यकारित्वेन धर्मिग्राहकप्रमाणसिद्धत्वादिति भावः । पूर्वं प्रत्यक्षस्य सप्तविधत्वेन विभागः सूचितः । इदानीमपरमपि तद्विभागमाह ।। चतुर्विधमिति । तेषां विषयमाह ।। विषयस्त्विति । तत्र सर्वार्थविषयमीश्वरज्ञानमित्यादिना ग्रन्थेन ये ईश्वरादिज्ञानविषयाः प्रोक्तास्त एव तत्तत्प्रत्यक्षविषयत्वेनाभिमता इत्यर्थः ।

आदर्शः

।। अवान्तरप्राधान्यविवक्षयेति । मुख्यविशेष्यतया बोधतात्पर्येणेत्यर्थः । उक्तरीत्या प्रमासाधनत्वस्य प्रमाणस्यापि सन्निकर्षेऽपि सत्त्वेनोभयोः प्रमाणपदवाच्यत्वमस्तीति भावः ।

वाक्यार्थमञ्जरी

।। द्विविधेन्द्रियात्मकमिति । स्वरूपबाह्यात्मकमित्यर्थः ।

श्रीविट्टलभट्ट

ननु धर्मिण इन्द्रियस्यैव प्राधान्यात्स्वविषयसन्निकृष्टमिन्द्रियं प्रत्यक्षमित्येव वक्तव्यम् । कथं निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षमित्युक्तिरित्यत आह ।। तत्रेति । प्रत्यक्षरूपकरण इत्यर्थः । करणधर्मिणीन्द्रिये सत्यपि सन्निकर्षरूपावान्तरव्यापारात्मककरणरूपधर्मविलम्बेन कार्यविलम्बात् । धर्मस्याप्यवान्तरव्यापारस्य सन्निकर्षस्य केनचिद्रूपेण प्राधान्यात्तद्विवक्षयैवमुक्तिरिति भावः । ननु तर्हि कथं विष्णुतत्त्वनिर्णयेऽदुष्टमिन्द्रियं त्वक्षमिति ब्रह्मतर्कोक्तिरित्यत आह ।। क्वचित्त्विति । नन्वस्त्ववान्तरव्यापारस्य प्राधान्यविवक्षया स्वस्वविषयप्रतियोगिकेन्द्रियसन्निकर्षः प्रत्यक्षमित्युक्तिः क्वचिद्धर्मिणः प्राधान्यविवक्षया स्वस्वविषयैः सन्निकर्ष इन्द्रियं प्रत्यक्षमित्युक्तिस्तथाऽपि सन्निकर्षत्वस्येन्द्रियेऽभावात् । इन्द्रियत्वस्य सन्निकर्षेऽभावात् । लक्षणद्वयं परस्परमव्याप्तमिति चेन्न । स्वस्वविषयेन्द्रियसन्निकर्षस्वस्वविषयसन्निकृष्टेन्द्रिययोरन्यतरत्वस्यैव सामान्यलक्षणत्वेनाभिप्रेतत्वात्तत्प्राधान्य विवक्षानुसारेणैवमुक्तिरिति नाव्याप्तिदोष इति । ननु स्वरूपेन्द्रियस्यात्मादिना विषयेणाभेदात्सन्निकर्षा भावेन कथं प्रत्यक्षत्वमित्यत आह ।। स्वरूपेन्द्रियस्यात्मादिना विषयेणाभेदात्सन्निकर्षाभावेन कथं प्रत्यक्षत्वमित्यत आह ।। स्वरूपेन्द्रियस्यापीति । आत्मादिस्वरूपेन्द्रियस्यापि साक्षिणोऽप्यात्मधर्मैः स्वरूपसुखादिभिः सन्निकर्षोऽस्त्येवेत्यर्थः। अभिन्नेऽपि सन्निकर्षसद्भावे उपपत्तिः।। विशेषशक्त्येति । अभेदेऽपि भेदकार्यकारिविशेषस्य सामर्थ्येनेत्यर्थः । भेदकार्यकारिविशेषस्य वस्तुसामर्थ्येनेति वा । प्रत्यक्षविभागमाह ।। चतुर्विधमिति । महावैलक्षण्यद्योतनार्थोऽयं विभागः । प्राधान्यक्रमेणोद्दिशति ।। ईश्वरप्रत्यक्षमिति ।। चतुर्विधमिति । प्रत्यक्षं पूर्वोक्तद्विविधेन्द्रियात्मकमिति न मन्तव्यमित्याह ।। तत्रेति । चतुर्विधेषु प्रत्यक्षेष्वीश्वरप्रत्यक्षं लक्ष्मीप्रत्यक्षं चेति । आद्यं प्रत्यक्षद्वयं स्वरूपेन्द्रियात्मकमेव न तु प्राकृतेन्द्रियरूपमित्यर्थः । तर्हि योगिप्रत्यक्षमयोगिप्रत्यक्षं च किं प्राकृतेन्द्रियात्मकमेवेति जिज्ञासायामाह ।। उत्तरं तु द्वयमिति । योगिप्रत्यक्षमयोगिप्रत्यक्षं चेत्युत्तरं पक्षद्वयं तु स्वरूपेन्द्रियप्राकृतेन्द्रियभेदेन द्विविधेन्द्रियरूपमित्यर्थः । चतुर्विधमपि प्रत्यक्षं पूर्वोक्तेन्द्रियविषयनियमवदेवेति भ्रमवारणायाह ।। विषयस्त्विति । चतुर्विधस्यापि प्रत्यक्षस्य विषयस्तु तत्तज्ज्ञानवत्तस्य तस्य ज्ञानस्य विषयवत् । ईश्वरज्ञानस्य यावान्विषयस्तावानीश्वरप्रत्यक्षस्य विषय इत्यादिरूपेणेति यावदिति विवेक्तव्यो विलक्षणतया ज्ञातव्य इत्यर्थः । पूर्वमिन्द्रियाणां विषयनियमोक्तिरयोगीन्द्रियविवक्षयेत्यनुसन्धेयम् । अत एव प्रमाणलक्षणटीकायां तत्र योगिनां देशकालस्तु स्वभावव्यवहितार्थमपि विषयीकरोति । अयोगिनां तु यदा कालाद्यव्यवहितार्थमेवेत्युक्तम् ।