साधर्म्यसमः

(४६) प्रमाणपद्धतिः

।। २० ।। (२) (१) साधर्म्यसमः । तत्र व्याप्तिहीनेनानुमानेन यत्प्रतिपक्षचोदनं तद् द्विविधम् । साधर्म्येण वैधर्म्येण च । तत्र साधर्म्येण प्रत्यवस्थानं साधर्म्यसमः प्रतिषेधः । यथा यदि महानससाधर्म्याद्धूमवत्त्वादग्निमान्पर्वत इष्यते तर्हि ह्रदसाधर्म्याद् द्रव्यत्वादनग्निरपि किं नेष्यत इति ।

जयतीर्थविजय

नन्वत्र साधर्म्यसमादिशब्दानां जातिपरत्वात्कथं पुल्लिङ्गत्वमित्याशङ्क्य प्रतिषेधपदं विशेष्यमध्याहृत्य तदपेक्षया पुल्लिङ्गत्वमिति प्राग्घृदि निहितमधुनोद्घोषयति ।। साधर्म्यसमः प्रतिषेध इति । तमुदाहृत्य दर्शयति ।। यथेत्यादिनाऽनग्निः किं नेष्यत इत्यन्तेन । अत्राजातिनिरूपणसमाप्ति यथेत्यादि तत्तज्जात्युदाहरणात्प्राग्वादिना स्थापनाहेतौ प्रत्युक्तमिति प्रायेणानुवर्तते ।

भावदीपः

जातेर्विशेष्यत्वेन साधर्म्यसमेति वाच्ये कथं पुल्लिङ्गप्रयोग इत्यत उक्तम् ।। प्रतिषेध इति । जातिपर्यायः प्रतिषेधशब्दः । साधर्म्यसमरूपः परहेतुप्रतिषेध इत्यर्थः । इतीतिपदस्य तथा च त्वदीयं धूमवत्त्वानुमानमसाधकं द्रव्यत्वेन सत्प्रतिपक्षत्वादिति शेषपूरणं कृत्वेति प्रतिषेध इति पूर्वेणान्वयो बोध्यः ।

अभिनवामृतम्

ननु साधर्म्यवैधर्म्येति परिगणनमयुक्तम् । प्रतिधर्मसमजातेः परित्यागादित्यतः साधर्म्य वैधर्म्ययोस्तदवान्तरत्वादनयोः सङ्ग्रहेण तत्सङ्ग्रहः कृतप्राय इति तल्लक्षणाभिधानपूर्वकमनयोस्तदेकदेशत्वमाह ।। तत्रेत्यादिना । इदं रजतं न भवति कालात्ययापदिष्टत्वादित्यनुमानेऽभिहितेऽबाधितत्वं न प्रत्यक्षाङ्गमित्यङ्गीकृत्येदं रजतमिति प्रत्यक्षाभासेन बाधचोदनं प्रत्यक्षाभासोदाहरणमनाप्तवाक्येन बाधचोदनमागमाभासोदाहरणमिति बोध्यम् ।। साधर्म्येति । प्रतिषेधशब्दोऽत्र जातिशब्दपर्यायः । ततश्च साधर्म्येण प्रतिपक्षवचनं साधर्म्यसमजातिरित्यर्थः । यथा यदि महानससाधर्म्यादिति । नन्विदं साधनमुतापादनम् । नाद्यः । यदितर्हिशब्दवैय्यर्थ्यात् । इष्यत इति पदद्वयस्य किंशब्दस्य नञश्च वैय्यर्थ्यापातात् । न द्वितीयः । व्याघातेन विपर्यये व्याघातात् । न चानेन तर्केण पर्वतस्याग्निमत्त्वं दूष्यते येनोक्तदोषः स्यात् । किं नाम महानससाधर्म्यस्याग्निसाधनत्वं दूष्यते । यदि महानससाधर्म्यमग्निमत्त्वनिर्णायकं स्यात्तर्हि ह्रदसाधर्म्यं निरग्निकत्वनिश्चायकं स्यादविशेषादिति । न चैवं सति विपर्ययपर्यवसाने व्याघातो भवति । न च ह्रदसाधर्म्यं निरग्निकत्वनिश्चायकं तस्मान्महानससाधर्म्यमपि नाग्निमत्वसाधकमिति विपर्ययपर्यवसानस्याविरुद्धत्वादिति वाच्यम् । पर्वतस्याग्निमत्वसाधन दूषणयोः समयबन्धात्पर्वतस्याग्निमत्त्वमदूषयित्वा महानससाधर्म्यस्याग्निसाधकत्वनिराकरणत्वा योगात् । प्रतिपक्षादिदूषणमनभिधाय साधकत्वनिराकरणायोगाच्च । प्रतिप्रमाणेन प्रतिपक्षोद्भावनमिति लक्षणविरोधाच्च । यदि महानससाधर्म्यमग्निमत्वनिर्णायकं स्यात्तर्हि ह्रदसाधर्म्यमग्निमत्त्वसाधकं स्यात् । अविशेषादित्युक्तप्रसङ्गादिति चेन्मैवम् । न ब्रूमो वयमिदमनुमानमिति येन यद्यादिशब्दवैयर्थ्यं स्यात् । नापि तर्क इति ब्रूमः । येन विपर्ययपर्यवसाने व्याघातः स्यात् । किन्नामानया वचोभङ्ग्या वादिप्रतिवादिनोरनुमानं सूच्यत इति । तथाहि । यदि महानससाधर्म्याद्धूमवत्त्वात् पर्वतोऽग्निमानिष्यत इत्यनुवादेन पर्वतोऽग्निमान्धूमवत्त्वान्महानसवदिति वाद्यनुमानं सूचितम् । ह्रदसाधर्म्यादित्युत्तरवाक्येन पर्वतोऽग्निमान्द्रव्यत्वाद् धूमवदिति प्रतिवाद्यनुमानं सूचितमिति न किञ्चिदनुपपन्नम् । एवमुत्तरत्रापि द्रष्टव्यम् । एतेन धूमाग्न्योर्व्याप्तेरनङ्गीकृतत्वेन महानससाधर्म्येण वह्नेः साधनादन्यथाऽनुवादः परानभिप्रेतस्य साधर्म्यमात्रेण वह्निसाधने तात्पर्यस्य कल्पनाच्छलत्वप्रसङ्गश्चेत्यपि परास्तम् । अनयोर्जात्योर्युक्ताङ्गहीनप्रतिप्रमाणोपन्यासे पाक्षिकजयबुद्धिरुत्थानबीजम् । एतेन सम्भावितसमानविद्ययोरेव कथाधि कारेण जातिवादिनः कथाप्रवेशायोगाज्जातिनिरूपणमप्रयोजकमिति परास्तम् । समानविद्यस्यापि निश्चितपराभवाद्वरः पाक्षिकपराभव इति मन्यमानस्य जातिवादित्वोपपत्तेः । सत्प्रतिपक्षत्वमारोप्यम् । वादिनः सत्प्रतिपक्षत्वभ्रमोत्पादः फलमित्यूह्यम् । प्रमाणलक्षणटीकायां त्वेकदेशीयमतानुसारेणोत्थान बीजाद्यनुवादः कृत इति बोध्यम् ।

आदर्शः

अन्तर्भावमाह ।। प्रतिषेध इति ।

वाक्यार्थमञ्जरी

।। साधर्म्येणेति । समानो धर्मो येषां ते सधर्माणस्तेषां भावः साधर्म्यम् । तेन समानधर्मेणेत्यर्थः ।। वैधर्म्येणेति । विरुद्धो धर्मो येषां ते विधर्माणस्तेषां भावो वैधर्म्यं तेन विरुद्धधर्मेणेत्यर्थः ।। प्रत्यवस्थानमिति । वादिसाधननिराकरणं प्रतिपक्षोद्भावनमिति यावत् ।। प्रतिषेध इति । जातिरित्यर्थः ।। तर्हि ह्रदसाधर्म्यादिति । तथा च पर्वतो निरग्निको निरग्निकसाधनधर्मवत्त्वादिति सत्प्रतिपक्षं धूमवत्त्वादिति भावः ।

श्रीविट्टलभट्ट

।। तत्रेति । चतुर्विधायां तस्यां व्याप्तिहीनेनानुमानेन व्याप्तिरूपयुक्ताङ्गहीनेनानुमानाभासेन यत्प्रतिरोधोद्भावनं तद् द्विविधमित्यर्थः । द्वे विधे दर्शयति ।। साधर्म्येण वैधर्म्येण चेति । साधर्म्येण प्रतिपक्षोद्भावनं वैधर्म्येण प्रतिपक्षोद्भावनं चेति द्विविधमिति पूर्वेणान्वयः । साधर्म्यवैधर्म्य समजातिभेदेन द्विविधमिति हृदयम् । तयोर्लक्षणमाह ।। तत्रेति । साधर्म्येण समाना धर्मा यस्य समानधर्मा तस्य भावः साधर्म्यं तेनेत्यर्थः । अनभ्युपेतयुक्ताङ्गेनेत्यपि वक्तव्यम् । प्रत्यवस्थानं प्रतिपक्षचोदनमित्यर्थः । साधर्म्यसमः प्रतिषेधः । साधर्म्यसमाख्या स्वपक्षं प्रतिषेधति निराकरोति प्रतिषेधो जातिरित्यर्थः । वैधर्म्यसमव्यावृत्त्यर्थं साधर्म्येणेति विशेषणम् । प्रकरणसमजातिव्यवच्छेदाय सत्प्रतिपक्षचोदनविशेषणम् । सदुत्तरप्रकरणनिरासार्थमनभ्युपेतयुक्ताङ्गेति विशेषणम् ।