प्रमाणपद्धतिः

(२३) प्रमाणपद्धतिः

स्ववचन एव व्याहतिर्जातिः । सा त्रिविधा । एककर्तृके वाक्ये पदयोरवान्तरवाक्ययोर्वा मिथो व्याघातः स्वक्रियाविरोधः स्वन्यायविरोधश्चेति । हेतुविरोधोऽपि द्विविधः । असिद्धिरव्याप्तिश्चेति । समुचितस्थले लिङ्गस्याप्रमितिरसिद्धिः । अव्याप्तिस्त्रिविधा । लिङ्गस्य साध्येन तदभावेन च सम्बन्धः साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्ध उभयसम्बन्धाभावश्चेति । दृष्टान्तविरोधोऽपि द्विविधः । साध्यवैकल्यं साधनवैकल्यं चेति । हेत्वादौ स्ववचनविरोधोऽसिद्ध्यादिनैव सङ्गृहीत इति नोक्तः । एवमसङ्गतिन्यूनाधिक्यान्यपि प्रतिज्ञाहेतुदृष्टान्तसम्बन्धभेदेन प्रत्येकं त्रिविधानि । एतेषामुदाहरणानि कथारूपसाधारणान्विरोधादींश्च परोदीरितनिग्रहस्थानानामेतेष्वेवान्तर्भावं वदन्तो दर्शयिष्यामः । न केवलमुपपत्तिदोषाणां विरोधादिभिः सङ्ग्रहः । किं नाम । नैय्यायिकनिरूपिताशेषनिग्रहस्थानानां वक्तृदोषाभ्यां संवादानुक्तिभ्यां युतेष्वेवान्तर्भावः । ततश्च विरोधासङ्गती न्यूनाधिके संवादानुक्ती इति षडेव निग्रहस्थानानि । विप्रतिपन्नप्रमेयाङ्गीकारः संवादः । परबोधनार्थस्यावश्यं वक्तव्यस्यावचनमनुक्तिः । कथायामखण्डिताहङ्कारेण परेण परस्याहङ्कारखण्डनं पराजयो निग्रह इति चोच्यते । तन्निमित्तं निग्रहस्थानम् । अहङ्कारखण्डनं च स्वपक्षसाधनपरपक्षदूषणसङ्कल्पभ्रंशः । अत एव कथाबाह्यानि कथायामप्यपस्मारोन्मादादि दशापन्नानि खटिति संवरणेन तिरोहितोद्भावनावसराणि पुरस्स्फूर्तिकानधिकृतोद्भावितानि च व्यवच्छिन्नानि । परोक्तस्ववक्तव्ययोरज्ञानं विपरीतज्ञानं वा निग्रहः । तल्लिङ्गं निग्रहस्थानमिति वा ।

जयतीर्थविजय

।। स्ववचन एवेति । स्वोच्चारितस्वाभ्युपगतवचन एवेत्यर्थः । इदमपसिद्धान्तव्यावर्तनाय । नन्वसिद्धिर्यदि हेतुदोषस्तदाऽधोदेशे नदीपूरस्योर्ध्वदेशे पक्षेऽसिद्धतया साध्यसाधकत्वं न स्यादित्यत आह ।। समुचितेति । यत्र स्थले लिङ्गस्य सत्त्वप्रमितिरनुमिति हेतुस्तत्समुचितस्थलमित्यर्थः । एवं च नदीपूरस्योर्ध्वदेशरूपपक्षेऽसिद्धत्वेऽपि नासिद्धिः । समुचितस्थलेऽधोदेशे विद्यमानत्वादिति भावः ।। उभयेति । पक्षातिरिक्ते साध्यतदभावसम्बन्धाभाव इत्यर्थः । अत्र शङ्कासमाघाने अयमुभयसम्बन्धाभावादव्याप्तावन्तर्भूत इत्येतद्य्वाख्यानावसरे प्रपञ्चयिष्यामः । तत्प्रपञ्चनानुसारेणैव द्वितीयतृतीयाव्याप्त्योर्भेदोऽपि धीमद्भिर्ज्ञेयः ।। साध्यवैकल्यमिति । उभयवैकल्यं तु पृथक् दोषः । एकैकवैकल्येनैव दृष्टान्तस्य दुष्टत्वसिद्धावुभयवैकल्यस्य व्यर्थत्वात् । सम्भवमात्रेण पृथग्वचनेऽनेकान्तिककालातीतत्वमसिद्धकालातीतत्वमित्याद्यपि हेत्वाभासान्तरं स्यात् । या तु साध्यस्य साधनस्य वाऽननुगमो दृष्टान्तविरोध इति प्रमाणलक्षणव्याख्यावसरे टीकाकारीयोभयोर्वेति ग्राह्यमित्युक्तिः सा यथा मनोऽनित्यं मूर्तत्वात्परमाणुवत्कर्मवदित्यत्र क्रमेण साध्यवैकल्यं दोषस्तथा गगनवदित्यादावुभयवैकल्याख्यो दोषोऽस्तीत्यभिप्रेत्यैव । न तूभयवैकल्यत्वरूपेणैकदोषत्वमित्यभिप्रेत्य । अन्यथैकैकवैकल्येनैव दृष्टान्तस्य दुष्टत्वे समुदितकल्पनावैय्यर्थ्यादिति सुधाविरोधप्रसङ्गात् । अत एवोत्तरत्र वक्ष्यत्यन्यतरवैकल्येन दृष्टान्तस्य दुष्टत्वादुभयवैकल्यं पृथङ् न गणनीयमितीति दिक् । ननु यथा प्रतिज्ञाविरोधः प्रमाणविरोधवचनविरोधभेदेन द्विविधस्तथा हेतूदाहरणविरोधोऽपि किमिति न विभज्यत इत्यत आह ।। हेत्वादाविति ।। एवमिति । विरोधवदित्यर्थः ।। एतेष्वेवेति । विरोधासङ्गत्यादिष्वित्यर्थः । प्रसङ्गादाह ।। न केवलमिति । ननु पुरुषदोषयोः प्रतिज्ञाहानिनिरर्थकयोर्विरोधादिचतुष्टयेऽन्तर्भावयितुमशक्यत्वात्कथमेतेष्वेवेत्युक्तमित्यत आह ।। संवादानुक्तिभ्यामिति । तथा च प्रतिज्ञाहानिनिरर्थकयोः संवादानुक्त्योरन्तर्भावो भविष्यतीति भावः । परेति ।। अवक्तव्यावचनस्य सदनुमानवाक्येऽपि सत्त्वाद्वक्तव्यस्येत्युक्तम् । स्वकीयबोधार्थं स्वकीयवचनस्यावक्तव्यतयाऽसम्भववारणाय परबोधनार्थस्येति । ननु कानि तानि निग्रहस्थानानि येषामशेषाणामेतेष्वन्तर्भाव इत्युक्तमित्यतो निग्रहस्थानलक्षणं निरूपयितुं तद्घटकं निरूपयति ।। कथायामिति । परेण वादिना । परस्य प्रतिवादिनः । पराजयहेतुर्निग्रहस्थानमिति नैयायिकग्रन्थान्तरविरोधपरिहारायाह ।। पराजयो निग्रह इति चेति । तथा च पराजयनिग्रहपदयोः पर्यायत्वान्न विरोध इति भावः । एतदेवोक्तं वरदराजेन ।

अखण्डिताहङ्कृतिना पराहङ्कारखण्डनम् ।

निग्रहस्तन्निमित्तस्य निग्रहस्थानतोच्यत ।। इति ।

सङ्कल्पभ्रंश इति । परपक्षं दूषयिष्यामीति वा स्वपक्षं साधयिष्यामीति वोभयं साधयिष्यामीति वा यः सङ्कल्पस्तस्य भ्रंशोऽपारगमनमित्यर्थः । कथायामित्यस्य व्यावर्त्यमाह ।। अत एवेति । कथापदोपदानादेवेत्यर्थः । अखण्डिताहङ्कारेणेत्यस्य व्यावर्त्यमाह ।। अपस्मारेत्यादिना तिरोहितोद्भावनावसराणीत्यन्तेन । कथायामपीत्याधिक्योक्त्याऽपस्मारादिदशापन्नानां कथापदेन न व्यवच्छेद इति सूचयति । अपस्मारो व्याधिविशेषः । संवरणेनाभ्रपटलादिवच्चित्ताच्छादनविशेषेण । परेणेत्यस्य व्यावर्त्यमाह ।। पुरःस्फूर्तिकेति । स्फूर्तिमान्योऽनधिकृतो वादिप्रतिवादिभावेन प्राश्निकैरनियुक्तस्तदुद्भावितानीत्यर्थः । एवं निग्रहस्थानपदप्रवृत्तिनिमित्तानुसारेण लक्षणमभिधायाप्रतिपत्तिर्विप्रतिपत्तिश्च निग्रहस्थानमिति न्यायसूत्रानुसारेण निग्रहस्थानस्य लक्षणान्तरमाह ।। परोक्तेति । अत्र यद्यप्यज्ञानविपरीतज्ञानोभयलिङ्गत्वस्य लक्षणत्वे सर्वत्र तदभावादव्याप्तिः । क्वचिदज्ञानलिङ्गत्वं क्वचिद्विपरीतज्ञानलिङ्गत्वमिति व्यवस्थाश्रयणेऽपि परस्परमव्याप्तिरेव । तथाऽपि तत्त्वाप्रतिपत्तिलिङ्गत्वमनुगतं लक्षणं द्रष्टव्यम् । ततश्च तत्त्वाप्रतिपत्तिलिङ्गं निग्रहस्थानमित्युक्तं भवति ।

भावदीपः

।। स्ववचन एवेति । स्वकर्तृकवचन एव व्याहतिर्जातिरित्यर्थः । एवं प्रतिज्ञाविरोधं विभज्य क्रमप्राप्तं हेतुविरोधं विभजति ।। हेतुविरोध इति । हेतुपदेन तदर्थपरिग्रहः । अव्याप्तिर्व्याप्त्यभावः ।। उभयसम्बन्धाभावश्चेति । साध्यवति सपक्षे साध्याभाववति विपक्षे चावर्तमानम् । पक्षमात्रवर्तमानमिति यावत् । हेतुदृष्टान्तविरोधयोः प्रतिज्ञाविरोध इव स्ववचनविरोधः कुतो न गणित इत्यत आह ।। हेत्वादाविति । धूमवत्त्वे सति निर्धूमत्वादित्यसिद्ध्युक्त्या स्ववचनस्य तस्मिन्नेव हेतौ महानसवदित्युक्तौ साधनवैकल्येन स्ववचनविरोधः सङ्गृहीतः तस्मिन्नेव हेतौ व्याप्त्यभावेनाव्याप्त्युक्त्या स्ववचनविरोधो लब्ध इति नोक्त इत्यर्थः ।। एवं सङ्गतीत्यादि । गिरिरग्निमानित्युक्ते तरुशिलाद्यपि तत्रास्तीति प्रत्युक्तिरसङ्गतिः । हेतुरित्युक्ते हिनोतेस्तुन्प्रत्यये हेतुरिति रूपमिति प्रत्युक्तिरसङ्गतिरित्येवं ध्येयम् । न्यूनाधिक्ये तु व्यक्ते । एवमनुमाननिष्ठा दोषा उक्ताः । कथारूपसाधारणाश्चेति प्रतिज्ञातं कुतो न प्रदर्शितमित्यत आह ।। कथारूपसाधारणानिति । पुरुषदोषाणां निग्रहस्थानानां कथं विरोधादिष्वन्तर्भाव इत्यत आह ।। संवादेति । संवादानुक्त्योः स्वरूपमाह ।। विप्रतिपन्नेति । निग्रहस्थानानीत्युक्तनिग्रहस्थानशब्दार्थमाह ।। कथायामिति । विचारगोचरानेककर्तृकवाक्यप्रबन्धः कथा तस्यामित्यर्थः ।। सङ्कल्पेति । स्वपक्षसाधनपरपक्षदूषणयोर्यः सङ्कल्पस्तद्भ्रंश इत्यर्थः ।। अत एवेति । कथायामित्युक्तत्वादेव कथाबाह्यानि व्यवच्छिन्नानीत्यन्वयः । अत एवाखण्डिताहङ्कारेणेति विशेषणस्याखण्डितसाधनादिसङ्कल्पभ्रंशेनेत्यर्थकत्वादेव । कथायां प्रविष्टस्यापि वादिनोऽपस्मारोन्मादसभाकम्पादिदशायां प्रतिवादिनोक्तान्यननुभाषणादीनि व्यवच्छिन्नानि । तथा दूषणास्फूर्त्या क्षणं तूष्णीं स्थित्वा पुनर्दूषणस्फूर्तौ शीघ्रमप्रतिभातिरोहितस्य पुनः स्फूर्त्युद्भावनावसरे प्रतिवाद्युदितानि व्यवच्छिन्नानि । कथाऽनधिकृतः कथायामप्रविष्टो यस्तटस्थः प्रतिवादिनो दूषणोक्तेः पूर्वमेव दूषणस्फूर्तिमांस्तेनोद्भावितान्यपि न पराजयकारणानि । परेण प्रतिवादिनाऽहङ्कारखण्डनमित्युक्तत्वादेवेत्यर्थः । तत्त्वाप्रतिपत्तिलिङ्गं वा निग्रहस्थानमिति परोक्तलक्षणं तदपि व्यक्तमाह । परोक्तेति । तल्लिङ्गं तज्ज्ञापकमित्यर्थः ।

श्रीविजयीन्द्रतीर्थ

।। स्ववचन इति । स्ववक्तृक एव वचन इत्यर्थः । व्याहतिः स्वकर्तृकव्यापारविरोधः । पूर्वादिव्यावृत्तमसिद्धपदार्थमाह ।। समुचितेति । यद्वृत्तितया ज्ञानमनुमित्यनुकूलं तत्रेत्यर्थः । एवं दोषभेदमुक्त्वा परोक्तदोषान्तर्भावं वक्तुमाह ।। न केवलमिति । प्रतिज्ञाहान्यादेरविज्ञातार्थादेश्च विरोधाद्यन्तर्भावासम्भवादाह ।। संवादेति । प्रतिज्ञाहान्यादीनां तत्तदन्तर्भावस्तत्तत्प्रकरणे वक्ष्यते । संवादादिपदार्थमाह ।। विप्रतिपन्नेति । युद्धादावतिप्रसङ्गवारणाय कथायामित्युक्तम् । अखण्डिताहङ्कारेणेति वस्तुस्वरूपकथनम् । ननु पराजयेऽप्यहन्त्वानपायादसम्भविलक्षणमित्यत आह ।। अहङ्कारेति । एवं चान्येषामपि व्यावृत्तिरित्याह ।। अत एवेति । आप्तेन प्रमादेन पर्वतोऽग्निमानिति वक्तव्ये ह्रदो वह्निमानित्युक्ते बाधे चोद्भाविते पर्वत इत्युक्ते प्रतिज्ञाहान्यादिना निग्रहः । कथाया एवाभावात् । अपस्मारादिना कथामध्य एवाप्रतिभादावपि न निग्रहस्थानता । स्वस्थस्यैवाप्रतिभादिनाऽहङ्कारखण्डनेन प्रतिवाद्यपेक्षाऽशक्तिज्ञानसम्भवात् । एवं हेतुसाध्यादिप्रयोगोपक्रमे व्यभिचारादिप्रतिसन्धाने प्रतिवादिदोषोक्तेः प्रागेव विशेषे खटिति स्वदोषगोपनेनोद्भावनावसरस्य तिरोधानेन व्यभिचारादिदोषोऽहङ्कारखण्डनाभावात् । दोषोक्तेः प्रागेव समाधानात् । एवं पराभिप्रायस्य ज्ञानात्पूर्वमेवोद्भावितानि पुरःस्फूर्तिकोद्भावितानि न निग्रहस्थानानि । अभिप्रायानवधारणेनानिग्राहकत्वात् । एवमनधिकृतोद्भावितानि यन्निग्रहो योऽधिकृतस्तद्य्वतिरेकेणोद्भावितानि । यथा पर्यनुयोज्योपेक्षणे मध्यस्थोऽधिकारी वादी स्वनिग्रह स्थानप्रकाशभियोद्भावयितुमशक्तेस्तत्र मध्यस्थभिन्नेन नोद्भावनीयं तत् । तद्य्वतिरिक्तं च वादिप्रतिवादिभ्यामुद्भावनीयम् । तदन्येनोद्भावितं न निग्रहस्थानम् । तावताऽपि परस्पराहङ्काराखण्डनादिति भावः । निग्रहस्थानलक्षणान्तरमाह ।। परेति । कथायामिति शेषः । उभयान्यतरलिङ्गमित्यर्थः ।

श्रीवेदेशभिक्षु

।। पदयोरवान्तरवाक्ययोर्वेति । स्ववाक्यविरोध इत्याद्या जातिः सा पुनर्द्विधा पदयोरवान्तरवाक्ययोर्वा विरोधभेदेनेत्युक्तं भवति । व्याघातो विरोधः । व्याप्तिविशिष्टस्य लिङ्गस्य समुचितस्थले प्रतीत्यभावो हेतुविरोध इति तल्लक्षणं स्फुटतयोपेक्ष्य तद्विभागमाह ।। हेतुविरोध इति । पक्षधर्मताया अवश्यकत्वादाह ।। समुचितस्थल इति । अप्रमितिपदमज्ञानसिद्धिसङ्ग्रहाय । व्याप्तिसंवेदनस्थानत्वानुपपत्ति दृष्टान्तविरोध इति तल्लक्षणं शिष्यैरेवोह्यतामित्यभिप्रेत्य तद्विभागमाह ।। दृष्टान्तविरोध इति । ननु स्ववचनविरोधस्य प्रतिज्ञायामिव हेत्वादावपि सम्भवाद्धेत्वादि विरोधप्रभेदत्वमपि कुतो न तस्येत्यत आह ।। हेत्वादाविति । आदिपदेन दृष्टान्तवचनं गृह्यते । द्वितीयादिपदेन च साध्यवैकल्यादिसङ्ग्रहः । मूकत्वे सति वक्तृत्वादित्यादिरूपहेतावसिद्धिः । यथा डित्थोऽयं मूकत्वे सति वक्तेत्यादिरूपदृष्टान्तवचने च साधनादिवैकल्यं स्पष्टमेव प्रतीयत इति भावः । एवं विरोधस्यानुमाननिष्ठत्वं निरूप्येदानीमसङ्गत्यादीनामपि तदाह ।। एवमिति । एतेषामनुमाननिष्ठानां विरोधादीनाम् । नन्वननुभाषणमतानुज्ञादीनां पुरुषदोषाणां कथमेतेष्वन्तर्भाव इत्यत उक्तं वक्तुर्दोषेत्यादि । अविज्ञातार्थस्यान्तर्भावसिद्ध्यर्थं परबोधनार्थस्येत्युक्तम् । अशेषनिग्रहस्थानानां विरोधादिष्वन्तर्भाव इत्युक्तम् । तत्कथमित्यपेक्षायां परोक्तनिग्रहस्थानस्वरूपं सपरिकरमनुवदन्यथायोग्यमुक्तान्तर्भावं दर्शयति ।। कथायामित्यादिना । पराजयनिमित्तं निग्रहस्थानमिति परलक्षण अभिप्रायानुसारेण पराजय इत्युक्त इति केचित् । वस्तुतस्तु पराहङ्कारखण्डनरूपनिग्रहहेतूनामपि प्रतिज्ञाहान्यादीनां कथं पराजयहेतुतेत्याशङ्कायां निग्रहहेतुत्वोक्त्यैव पराजयहेतुता लभ्यते । निग्रहपराजयशब्दयोः पर्यायत्वादित्यभिप्रेत्याह ।। पराजय इति । ननु पराजयेऽप्यहन्त्वानपायादसम्भवीदं लक्षणमित्यत आह ।। अहङ्कारेति । कथायामित्यखण्डिताहङ्कारेणेति च पदद्वयकृत्यमाह ।। अत एवेत्यादिना । अत्र कथायामिति विशेषणादेव कथाबाह्यानि व्यवच्छिन्नानीति सम्बन्धः । अखण्डिताहङ्कारेणेति च विशेषणात्कथायामप्यपस्मारोन्मादादिदशापन्नानि व्यवच्छिन्नानि । तेषां तात्कालिकातत्त्वज्ञानलिङ्गत्वेऽपि प्रतियोग्यपेक्षया तदभावात् । न चैवं प्रतियोगिनेत्येवास्तु किमखण्डिताहङ्कारेणेत्युक्तेति वाच्यम् । स्वस्याप्यहङ्कारखण्डने साम्यापत्त्या परपराजयासम्भवेन तथैव वक्तव्यत्वात् ।। खटिति संवरणेति । खटिति शीघ्रं संवरणं समीचीनाङ्गीकरणमित्यर्थः इत्याहुः । संवरणं स्वदोषाच्छादनमित्यप्याहुः ।। तिरोहितेति । तिरोहितो नाशित उद्भावनावसरो येषां तानीत्यर्थः । अयं भावः ।

उक्तग्राह्याः केचिदन्येऽनुक्तग्राह्यास्तथा परे ।

उच्यमानदशा ग्राह्या इति कालस्त्रिधा मत ।।

इति परेण निग्रहस्थानोद्भावनकाल स्त्रिविध उक्तः । तत्रोच्यमानकालोद्भावनीयमपशब्दादिकं प्रमादादुक्त्वा वादी खटिति संवरणं न कुर्यात्तदा प्रतिवादिना तस्मिन्काले तन्निग्रहस्थानं न वाच्यम् । वादिकृतखटितिसंवरणेन तदुद्भावनावसरस्य नाशितत्वात् । दोषोक्तेः प्रागेव समाधानादिति । एवमुदयनोक्तं निग्रहस्थानशब्दप्रवृत्तिनिमित्तं लक्षणमुक्त्वाऽप्रतिपत्तिर्विप्रतिपत्तिर्वा निग्रहस्थानमिति गौतमसूत्रानुसारेण लक्षणान्तरमाह ।। परोक्तेति । अत्र तत्त्वाप्रतिपत्तिलिङ्गं निग्रहस्थानम् । तत्त्वाप्रतिपत्तिश्च द्विविधा । अज्ञानरूपाऽप्रतिपत्तिर्विपरीतज्ञानरूपा विप्रतिपत्तिश्चेत्यर्थो विवक्षितः । अन्यथाऽनुगताकारालाभात् । उभयानुगतत्वाप्रतिपत्तिस्ताभ्यां लक्ष्यत इति परोक्तेर्भवतीति लिङ्गामित्येतत्कथं सूत्रलब्धमिति चेत् । सा च परबुद्धेरप्रत्यक्षत्वात्स्वरूपतो न निग्रहस्थानं भवतीति स्वज्ञापकं भवतीति परैर्व्याकृतत्वात् । एवं सति प्रमाणलक्षणटीकाऽप्यनुकूलिता भवतीति द्रष्टव्यम् ।

अभिनवामृतम्

।। सा त्रिविधेति । यद्यपि स्वक्रियामात्रस्य न स्ववचनैकदेशत्वम् । धूमो न वह्निजन्य इत्युक्त्वा धूमार्थवह्न्युपादानाय प्रवृत्तस्य प्रवृत्तिलक्षणक्रियायाः स्ववचनत्वाभावात् । तथाऽप्यवचनात्मकक्रियाविरोधस्याजातित्वात् । जातेश्चाहं मूक इत्यादेः स्ववचनविरोधरूपत्वात्सा त्रिविधेत्युक्तम् । यद्यपि स्वन्यायेन स्ववचनं तथाऽपि स्वन्यायस्ववचनमूलत्वात्स्ववचनविरोध इत्युक्तम् । हेतुविरोधोऽपि द्विविध इति । हेतुत्वेन प्रयोगयोग्यताविरहरूपहेतुविरोधाद्द्विविध इत्यर्थः ।। लिङ्गस्य साध्येनेति । पर्वतोऽग्निमान्प्रमेयत्वादित्यत्रोभयसम्बन्धः शब्दोऽनित्यः कृतकत्वादित्यत्र साध्याभावेनैव सम्बन्धः । सर्वमभिधेयं प्रमेयत्वादित्यत्र सपक्षविपक्षयोरभावे उभयसम्बन्धग्रहणासम्भवादुभयसम्बन्धाभाव इति ज्ञेयम् ।। हेत्वादौ स्ववचनविरोध इति । यद्यपि पर्वतोऽग्निमान्धूमत्वे सति निर्धूमत्वाद्यथा महानस इत्यादौ हेतौ दृष्टान्ते च स्ववचनविरोधोऽस्ति । तथाऽपि तस्य हेतावसिद्ध्युन्नायकत्वाद् दृष्टान्ते च साधनवैकल्योन्नायकत्वादसिद्ध्यादिग्रहणेनैव सङ्गृहीतप्राय इति नोक्त इति भावः । निग्रहस्थानहेतुमुपपादयितुं निग्रहस्य लक्षणमाह ।। कथायामिति । परेण परस्याहङ्कारखण्डनमित्येव निग्रहलक्षणं परेणेत्युक्तपरत्वनिर्वचनाय कथायामितीत्यखण्डिताहङ्कारेणेति चोक्तम् । कथाप्रविष्टोऽखण्डिताहङ्कारः पर इति भावः । इदमेव निर्वचनं परस्येत्युक्तपरत्वस्यापि द्रष्टव्यम् ।। अत एवेति । कथा समाप्त्यनन्तरमुद्भावितानां प्रतिज्ञाहान्यादीनां कथायामप्यपस्मारोन्मादादिदशाप्राप्तानां प्रतिमाहान्यादीनां खटिति संवरणेनातिरोहितोद्भावनासंवरणानां परःस्फूर्तिमता कथानधिकृतेन पुरुषेणोद्भावितानां सङ्कल्पभ्रंशरूपाहङ्कारखण्डनहेतुत्वेऽपि विवक्षितपुरुषेण विवक्षितपुरुषस्याहङ्कारखण्डने हेतुत्वाभावादेतानि निग्रहस्थानाद्बहिष्कृतानीत्यर्थः ।

आदर्शः

एवं यथा प्रकृतकार्यानुकूलशक्त्यभावज्ञापकस्य दोषत्वं तथाऽपकर्षप्रयोजकस्यापि दोषपदार्थत्वेन प्रबलप्रमाणविरोधादीनामपकर्षतारतम्यज्ञापकशक्तिविशेषाद्यनुमापकत्वमस्तीति ज्ञापनाय  तेन तेन रूपेण विभागः कृत इति हेतुविरोधं विभजते ।। हेत्विति । प्रकृतसाध्यगमकतौपयिकरूपत्वं हेतुत्वम् । तच्च रूपं व्याप्तिः समुचितदेशे प्रतीतिरिति द्वयं तदभाव एव तद्योग्यताविरह इत्याशयेनाह । अव्याप्तिः समुचितदेशे प्रमित्यभावश्चेति । देशस्य समुचितत्वं च व्याप्तिघटकसाध्यसम्बन्धरूपाधेयतानिरूपकत्वमेव । उद्भावनीयता च व्याप्त्यभावत्वेनैव सम्भवति । यद्रूपविशिष्टस्य गमकतोपयुक्तत्वं ज्ञातं तद्रूपविशिष्टाभावज्ञानस्यैवासाधकतासाधकत्वात् । व्याप्त्यभावप्रयोजकसाध्यसम्बन्धाभावादिज्ञानानां व्याप्त्यभावधीद्वारैव गमकत्वाभावप्रयोजकत्वम् । अखण्डाभावरूपत्वात्तस्यैवासाधकत्वरूपप्रयोजकत्वान्न पदकृत्यचिन्ता कर्तव्या । एवमुक्तप्रमित्यभावस्याप्यसाधकता हेतुत्वं युज्यत एव । अत्र साध्यसम्बन्धविशिष्टत्वे सति साध्याभाव सम्बन्धाभावो व्याप्तिः । तदभावश्चेति विशिष्टाभावः । विशेषणवति विशिष्टाभावो विशेष्याभावरूपो व्यभिचार इत्युच्यते । विशेष्यवति विशिष्टाभावो विशेषणाभावरूपः । स च विरोध इत्युच्यते । उभयसम्बन्धाभावप्रयुक्तस्तूभयाभावरूपः । स च पक्षमात्रवृत्तिरसाधारण इत्युच्यते । अनध्यवसित इति चोच्यते । मतभेदेन वस्तुत उभयाभावस्त्वप्रसिद्ध इति चेत् । परमते सम्बन्धविशेषघटितोभयाभावस्य तत्सम्बन्धेनावृत्तौ प्रसिद्धिसम्भवात् । वस्तुतो निश्चयविवक्षयोभयसम्बन्धाभावः सम्भवत्येव । यत्त्वसाधकतायां विशिष्टाभावत्वेन हेतुत्वाङ्गीकारे व्याप्यत्वासिद्धिः साध्याभावसम्बन्धमात्रस्यैव हेतुत्वसम्भवेनान्यपदवैयर्थ्याद्य्वभिचारावारकत्वादिति । तन्मन्दम् । व्याप्तिग्रहानुपयुक्तविशेषणघटितत्व एव व्याप्यत्वासिद्धेरवसरात् । व्यभिचारवारकस्यापि व्याप्तिग्रहोपयुक्तत्वेनैव सार्थकत्वात् । प्रकृते व्याप्तिग्रहौपयिकत्वस्योक्तत्वेन वैय्यर्थ्यशङ्काया अनवकाशात् । अन्यथाऽप्रयोजकशङ्कानिरासोपायाभावेन तस्याः प्रसरादिति शुद्धव्यभिचारत्वादिना हेतुत्वेऽप्युक्ताभावाभिन्नत्वानुसन्धानेनैवाप्रयोजकताशङ्का निराकर्तव्या । केचित्तु साध्याभावसम्बन्धत्वेनैवासाधकतायां हेतुता न तु साध्यसम्बन्धस्यापि हेतौ निवेशो वैय्यर्थ्यात् । न चाप्रयोजकता प्रकृतहेतौ व्याप्त्यभावप्रयोजकत्वेन साध्याभावसम्बन्धाङ्गीकारे साध्यव्याप्त्यभाव प्रसङ्गेना कारणकार्योत्पत्तिप्रसङ्ग इत्यनुकूलतर्कसम्भवात् । एवं साध्यसम्बन्धाभावस्यापि हेतुतेति वदन्ति । दृष्टान्तविरोधभेदमाह ।। दृष्टान्त इति । ननु दृष्टान्ते साध्यसाधनवैकल्ययोः कथं हेतुदोषत्वम् । पर्वतो वह्निमान्धूमात् ह्रदवदित्यत्र दृष्टान्ते साध्यसाधनवैकल्यसत्त्वेऽपि हेतोरसाधकत्वादृष्टेः । साधकतोपयुक्त व्याप्त्याद्यघटकत्वेनासाधकतायामप्रयोजकत्वाच्च । न च माऽस्तु हेतुदोषत्वं निग्रहस्थानत्वं तु सङ्गच्छते । तादृशदृष्टान्तं वक्तुर्विपर्ययानुमापकत्वादिति वाच्यम् । अनुमाननिष्ठा विरोधादयो निरूप्यन्त इति प्रतिज्ञोक्तत्वेन तद्विरोधादिति चेन्न । अनयोरपि हेतुदोषत्वसम्भवात् । तथा हि । न ह्ययं दृष्टान्तो व्यसनितयोच्यते किन्तु हेतौ गमकतयौपयिकव्याप्त्याद्याकाङ्क्षायां तत्प्रदर्शनाय साध्यसाधनयोः सम्बन्धप्रदर्शनाय । तथा च साध्यसाधनयोर्दृष्टान्तावृत्तित्वे तयोः सम्बन्धज्ञानासम्भवेन साध्यसम्बन्धित्वेन ज्ञातत्वेन हेतोर्व्याप्तिमत्त्वेन ज्ञानाभावेन साधकत्वासम्भवात् । दृष्टान्ते साध्यसाधनवैकल्यं नाम साध्यत्वेन निश्चिते साधनाभावः । साधनत्वेन निश्चिते साध्याभावः । तयोः सत्त्वे तज्ज्ञानकाले साध्यसम्बन्धधीर्न जायते । तथा च प्रयोगः । अयं हेतुरिदानीमसाधको व्याप्यत्वेनाज्ञातत्वात् सम्मतवत् । अयं हेतुर्व्याप्यत्वेनाज्ञातो व्याप्तिधीप्रयोजकसाध्यसम्बन्ध प्रकारकज्ञानाविषयत्वात् सम्मतवत् । अयं हेतुरिदानीं साध्यसम्बन्धप्रयोजकज्ञानाविषयस्तादृशज्ञान प्रयोजकत्वेनाभिमते दृष्टान्ते साध्यवैकल्यात्साधनवैकल्याद्वेति । तथा च व्याप्तिधीप्रयोजकसाध्यसम्बन्धाभावज्ञानस्य तात्कालिकस्य प्रयोजकज्ञानविषयत्वेन हेतुदोषत्वोपपत्तिरिति ध्येयम् । दृष्टान्ते साध्यसाधनवैकल्यसामान्यदोषत्वासम्भवेऽपि क्वचिद्धेतुदोषत्वसम्भवेन विभागो युक्त एवेति ।। हेत्वादाविति । असिद्धिर्ह्रदो वह्निमान् धूमादित्यत्र प्रमाणविरोधः । द्रव्यं गुणातिरिक्तमव्यतिरिक्तत्वादित्यत्र स्ववचनविरोधः । समुचितदेशे हेतोरप्रमितिरूपविरोधस्य तत्प्रयोज्यत्वात् । एवमव्याप्तिरपि । पर्वतो वह्निमांस्तदव्याप्यघटादित्यत्र स्ववचनप्रयोज्या धूमवान्वह्नेरित्यादौ प्रमाणप्रयोज्या भवतीति ज्ञेयम् ।। एवमसङ्गतिन्यूनाधिक्यान्यपीति । प्रतिज्ञासम्बन्धिन्यसङ्गतिः । चन्दनप्रभववह्नौ विप्रतिपत्तिदशायां पर्वतो वह्निमानिति प्रतिज्ञोक्तौ तत्र शुद्धवह्नेरजिज्ञासितत्वादसङ्गतिः । जिज्ञासितार्थप्रमानुकूलव्याप्तिप्रमित्यप्रयोजकत्वात् । अजिज्ञासितार्थप्रमित्यनुकूलव्याप्तिज्ञानहेतुत्वाच्च । हेतुदोषतायां च हेतुर्न जिज्ञासितसाध्यसाधकः । साध्यत्वेन निर्दिष्टस्याजिज्ञासितत्वादिति प्रयोगसम्भवात् । तज्जन्यानुमितिविषयत्वस्य जिज्ञासाविषयतानवच्छेदकावच्छिन्ने सम्भवादिति वा प्रयोगसम्भवात् । विशिष्टस्यातिरिक्तत्वेनोक्तस्य जिज्ञासाविषयत्वाभावात् । प्रतिज्ञासम्बन्धिन्यूनता च वह्निमानित्येवोक्ते तत्र पक्षानुपस्थित्या हेतोरज्ञानासिद्धिसम्पादकत्वात् । एवं सिद्धसाधनताऽप्यसङ्गतिरूपैव हेतुदोषता चोक्तरीत्या ध्येयम् । अर्थान्तरताऽन्यथासिद्धिरिति चेयमसङ्गतिरुच्यते । न च विप्रतिपत्त्या पक्षसाध्योपस्थितिर्नियतैवेति वाच्यम् । व्यवहितत्वेन प्रतिज्ञाकाले तन्नियमाभावात् । विप्रतिपत्तेरसार्वत्रिकत्वाच्च । विप्रतिपत्तेः कथाङ्गस्याकरे खण्डितत्वाद्वादिवाक्यजन्योपस्थितेरेवापेक्षितत्वाच्च । हेतुसम्बन्धिन्यूनता च हेतोरज्ञानासिद्धिसम्पादकतया दोषः । दृष्टान्तसम्बन्धिन्यूनता च प्रकृतानुमितिप्रयोजकव्याप्तिग्रहा विषयत्व रूपासाधकताहेतु स्फोरकत्वेन हेतुदोषः । प्रतिज्ञासम्बन्धाधिक्यं वह्निधूमान्यतरस्मिन्विप्रतिपत्तिवेलायां पर्वतो वह्निमानालोकादित्युक्त्वा पर्वतो धूमवानिति प्रतिज्ञायां सत्यां तत्रैव धूमसंयोगादिति हेतूक्तौ हेत्वाधिक्यं दृष्टान्तोक्तौ दृष्टान्ताधिक्यम् । यद्यपि हेतुदृष्टान्तोक्त्योर्धूमानुमितिमात्रप्रयोजकं हेतुतद्य्वाप्तिग्रहप्रयोजनकत्वेन तयोश्चान्येनाकृतत्वान्नाधिक्यमिति प्रतिभाति । तथाऽपि तत्र द्वितीया अनुमानस्य तदुपयुक्तस्य सर्वस्यापि वैय्यर्थ्यस्य सर्वसिद्धत्वादाधिक्यं युक्तमेव । कथं तर्ह्याधिक्यलक्षणं तत्रेति चेत् । प्रकृतहेत्वादिकार्यस्य प्रकृतहेत्वन्येनाकृतत्वेऽपि प्रकृतविप्रतिपत्तिप्रयोजक संशयेच्छयोर्निवृत्तिरूपकार्यस्य प्रकृतविचारमुख्यप्रयोजनत्वेन तस्य प्रयोजनस्यान्येन वह्न्यनुमित्यादिना कृतत्वादाधिक्यलक्षणसम्भवात् । धूमानुमापकहेतूक्त्यादेरपि परम्परया तादृशसंशयादिनिवृत्तेरेव फलत्वात् । धूमादालोकाच्चेति हेतुद्वयोक्तिस्थलेऽपि हेत्वाधिक्यं बोध्यम् । अस्य हेतुदोषतात्वयं हेतुः सफलानुमितिसाधको न भवति फलत्वेनाभिमतस्यान्येन जातत्वात् । यज्जन्यज्ञानस्य फलत्वेनाभिमतं यदन्यजातं तत्तत्फलोपधायकसिद्धिजनकं न भवति यथा सम्प्रतिपन्नमिति सामान्यव्याप्तिमूलकानुमानेनासाधकत्वसिद्धेः सम्भवात् । दृष्टान्ताधिक्यं तु सादृशानुमितिप्रयोजकज्ञानविषयत्वरूप हेतूपस्थापनद्वारा तादृश इति हेतुदोष इति ध्येयम् । हेत्वाधिक्याधिकं सर्वमपि हेतुदोष इत्यनुक्तत्वान्न कश्चित्क्षुद्रोपद्रवः ।। षडेव निग्रहस्थानानीति । ननु संवादस्यानुक्तावन्तर्भावः सम्भवति । अवश्यं वक्तव्यस्य वाद्युक्तेर्दूषणस्य मध्यस्थादीनामाकाङ्क्षितस्याकथनरूपत्वात् । अथवा जिज्ञासितस्यावचनमसङ्गतिरस्तु । तेनैव संवादानुक्त्योरपि सङ्ग्रहसम्भवादयुक्तं पृथग्ग्रहणमिति चेत् । न चावश्यं वक्तव्यत्वं च कथासमाप्तिसाधनत्वमेव । संवादरूपोक्तिरपि कथासमाप्तिसाधनीभूतेति तत्र कथमनुक्तेरवकाश इति वाच्यम् । तथा सति कचटतपानां जबगडत्वादित्याद्युक्तेरपि कथासमाप्तिसाधनत्वेन तत्राप्यनुक्तेरवकाशाभावापातात् । अवश्यं वक्तव्यमित्युक्तेरुक्तार्थकत्वे मानाभावाच्चेति चेदत्रोच्यते । अवश्यं वक्तव्यमित्येतत्काले मध्यस्थस्य परिषदां च जिज्ञासित इत्येवार्थः प्रकृतोपयुक्तस्यान्यार्थस्यासम्भवात् । तादृशश्च संवादविषयोऽपि भवति । तेषां वादिप्रतिवादिनोः शक्तितदभावान्यतरजिज्ञासासत्त्वेन ज्ञानेच्छायाः फलेच्छात्वेन तस्याः साधनेच्छाप्रयोजकत्वात्तज्ज्ञान प्रयोजकशक्तितदभावान्यतरप्रयोजकयोरपि ज्ञापकयोरपि जिज्ञासाविषयत्वेनावश्यं वक्तव्यत्वसम्भवात् । संवादस्य च शक्त्यभावज्ञापकत्वेन तद्विषयस्यापि जिज्ञासितत्वात् । संवादवचनस्याप्यन्यतरवचनत्वेनाकाङ्क्षितत्वात् । ततश्चावश्यं वक्तव्यावचनाभावान्न तत्रानुक्तेरवकाश इति संवादस्य पृथग्वाच्यतैव । वस्तुतस्तु संवादो नाम विप्रतिपन्नप्रमेयाङ्गीकारः । तेन च दूषणानां परिहारो भवत्येव स्वपक्षस्यैव परित्यक्तत्वादेव । तथा च संवादस्यैव दोषता वाच्या । एतेन जिज्ञासितानुक्तिरसङ्गतिस्तयैवात्रापि निग्रहसम्भवेन न संवादस्य पृथक्स्थानत्वमिति निरस्तम् । जिज्ञासितानुक्तेरभावात् । न चैवं तर्हि वर्णमालोच्चारणस्याप्यन्यतर ज्ञापकोच्चारणत्वेन सामान्यरूपेण जिज्ञासितत्वसम्भवेन तत्स्थलेऽप्यनुक्तेरनवसरप्रसङ्ग इति वाच्यम् । उक्तेरेव जिज्ञासितत्वेन वर्णमालाया अबोधकत्वेनोक्तित्वाभावात् । तदुच्चारणस्याप्यनुक्त्युपस्थितिद्वारैवान्यतर ज्ञापकत्वेनानुक्तेरावश्यकत्वात् । संवादेन तत्पक्षपरित्यागेन तत्पक्षोक्तदोषाणां परिहृतत्वाच्च । तर्हि तद्दूषणेनैव कथापरिसमाप्तिरिति न पृथङ् निग्रहस्थानोक्त्यवकाशः । यदि दूषणपरिहारः कृत इत्यभिमानसत्वान्न कथापरिसमाप्तिरिति चेत् । तर्हि प्रतिज्ञान्तरस्थलेऽपि प्रतिज्ञान्तरकरणेन दूषणपरिहारो भवतीत्यभिमानसत्वान्न कथापरिसमाप्तिः स्यादिति चेन्न । वैषम्यात् । तथा हि । प्रतिज्ञान्तरविषयस्य तत्कथाप्रवृत्तिप्रयोजकविप्रतिपत्तिविषयता तु नास्त्येव किन्तु तत्सिद्धेः संशयान्तरनिवर्तकत्वमेव । अतः पूर्वसंशयस्य तत्पक्षदूषणेनैव निवृत्तत्वात् । प्रतिज्ञान्तरविषयसिद्ध्या पूर्वसंशयस्यानिवृत्तेः कथान्तरत्वं युक्तम् । इयमेव कथासमाप्तिर्नाम या स्वप्रवृत्तिप्रयोजक संशयादिनिवृत्तिः । प्रकृते वाद्युक्तपक्षाङ्गीकारेण न संशयान्तरनिवृत्तिः किन्तु तत्कथाप्रवृत्तिप्रयोजक संशयनिवृत्तिरेव फलमिति । कथापरिसमाप्तेरभावात् । तद्दूषणपरिहारायोद्योगस्य सत्त्वेन तत्र संवादहेतुभूतदूषणस्य तत्काले तत्साध्यसाधनाशक्तेरनुमापकत्वा सम्भवात् । अन्यतरस्य पराजयहेतोरेव निग्रहस्थानत्वम् । पराजयपदार्थश्च तत्साध्यसाधनाशक्तिविषयकानुमितिरेव । अन्यतरस्मिन्नुत्कर्षज्ञानमपि कथाफलं परन्तु निग्रहस्थानेनैकस्मिन्नपकर्षज्ञानेऽन्यस्योत्कर्षधीर्भवत्येव । तथा च फलपर्यन्तमेव कथाया अनुवृत्तेरेकस्य साध्यस्य साधने दूषणे वा कथाफलस्य तत्संशयनिवृत्तेः पराजयस्य च फलस्य च निष्पत्तेर्न प्रतिज्ञान्तरस्थले कथानुवृत्तिः । संवादस्थले तदभावान्न कथायाः समाप्तिः किन्त्वनुवृत्तिरेव । हेत्वन्तरस्थले तु यद्यपि तत्कथाप्रयोजकसाध्यसंशयस्यानुवृत्तिरस्ति । अतो न वादकथायां तन्निग्रहस्थानं तत्फलस्य तत्साध्यनिर्णयस्यानिष्पन्नत्वेन कथाया असमाप्तेः । जल्पवितण्डयोस्त्वन्यतरयोर्जयपराजयजिज्ञासयैव प्रवृत्तिरिति तन्निश्चयोत्तरं न कथानुवृत्तिः । तथा चोक्तहेतुपरित्यागे तद्धेतौ प्रतियोग्युक्तदूषणेनासाधकत्वानुमितेर्जायमानत्वेन तेनासाधके साधकत्वाभिमानरूपविपर्ययानुमापकत्वस्य तद्धेतूकरणस्य सम्भवात् । विपर्ययस्यैव पराजयपदार्थत्वात्तन्निश्चयोत्तरं प्रकृतसाध्यसंशयसत्त्वेऽपि न कथानुवृत्तिः फलस्य निष्पन्नत्वात् । न च प्रतिज्ञाहान्यादिस्थले प्रतियोग्युक्ततत्प्रतिज्ञादूषणस्यैव वादिपराजयहेतुत्वं सम्भवतीत्यतो न संवादस्य निग्रहस्थानत्वं स्वीकार्यमिति वाच्यम् । संवादवाक्यात्पूर्वं तद्दूषणस्य न पराजयज्ञापकत्वम् । तस्य तत्परिहारार्थमुद्योगसत्त्वादनुक्तेरभावात् । किन्तु तद्वाक्यश्रवणानन्तरं तेन वाक्येन परपक्षाङ्गीकारे ज्ञाते सति तेन स्वपक्षपरित्यागोऽनुमातव्यः । परित्यागस्य स्वपक्षसाधनविषयकेच्छाभावरूपत्वेन तस्याप्रत्यक्षत्त्वात्तेन तेन तदनुकूलज्ञानाभावोऽनुमेयः । तेन दूषणपरिहारज्ञानाभावेन दूषणस्य स्थिरज्ञानानन्तरं तेन च तत्र वादिनि विपर्ययः पश्चादनुमातव्यः । अन्यथा दूषणस्य प्रमितत्वरूपस्थिरत्वज्ञानाभावे हेतोरेवाप्रमितत्वेन परपराजयानुमानायोगात् । न च प्रतिवादि वाक्येनैव तन्निश्चयः । प्रतिवादिन्याश्वासायोगात् । उक्तं च प्रमाणलक्षणटीकायाम् । हानिमनुद्भाव्य स्थापयितुमशक्यत्वादिति । तथा च संवादस्य प्रथममुपस्थितत्वादशक्तिज्ञानाभावादिरूपपराजयानुमापकत्वाच्च निग्रहस्थानत्वेन तदनुद्भावने पर्यनुयोज्योपेक्षणेन स्वस्यैव निग्रहः प्रसज्येत । अतः प्रथमोपस्थितपरित्यागे कारणाभावात्संवाद एव कथासमाप्तिहेतुः । प्रतिज्ञान्तरस्य हेत्वन्तरस्य वा न निग्रहस्थानत्वं सम्भवति । प्रकृतसाध्यसिद्ध्युपयुक्तप्रमेयान्तरसिद्धिप्रयोजक प्रतिज्ञान्तरहेत्वन्तर करणेऽपि पराजयादृष्टेर्व्यभिचारान्न प्रतिज्ञान्तरकारणात्पूर्वं प्रतिवाद्युक्तदूषणे स्थिरत्वज्ञानं प्रतिज्ञान्तरश्रवणानन्तरं तत्र तद्दूषणपरिहारकत्वादर्शनेन स्थिरत्वज्ञानं ततस्तेन दूषणेनोक्तविपर्ययरूप पराजयानुमितिर्वक्तव्या । अतः पूर्वदूषणस्यैव कथासमाप्तिहेतुत्वम् । न च प्रतिज्ञान्तरश्रवणानन्तरमसङ्गतेरपि स्फूर्त्या तस्या एव निग्रहस्थानत्वं सम्भवतीति न पूर्वदोषेणैव पूर्वकथासमाप्तिरिति वाच्यम् । असङ्गत्या तदुक्तौ प्रकृतोपयुक्तत्वभ्रम एवानुमीयते । पूर्वदूषणेन तु प्रकृतसाध्यसिद्ध्यनुकूल शक्त्यभावोऽनुमीयते । तत्र च प्रतिवाद्युक्तदूषणज्ञानमस्त्येव । तद्वाक्येन तत्परिहारज्ञानाभावे सति प्रतिज्ञान्तरकरणरूपहेतुना तत्र प्रमात्वानुमितेरेव प्रथमतो जायते । तथा च तेनैव दूषणेन पराजयानुमितिर्युक्ता । असङ्गतिस्तु न प्रथमतो बुद्धावारोहति । प्रतिज्ञान्तरविषयीभूतार्थसिद्ध्या पूर्वदूषणपरिहारासम्भवात् । किन्तु पूर्वदूषणपरिहारज्ञानाभावेन तत्र स्थिरत्वज्ञानोत्तरमेव । तथा च प्रथमत उपस्थितपूर्वदूषणज्ञानेनैव कथापरिसमाप्तिर्युक्ता । एवमसङ्गतिः सर्वत्र भवतीति न नियमः । किञ्च कथाप्रवृत्तिप्रयोजकमुख्यसंशयादिनिवृत्तेरेव मुख्यफलत्वेन तत्साधनीभूतस्यैव प्रथमं बुद्धावारोहस्योचितत्वाच्च । तथा च प्रथमोपस्थिततद्दूषणं विनाऽसङ्गत्यादेरतादृश्यस्य निग्रहस्थानत्वाङ्गीकारो न युक्तः । प्रतिज्ञाहानिस्थले तु संवादस्यैव प्रथमोपस्थितस्य पराजयनिमित्तत्वेन तत्परित्यागानुपपत्तेर्न पूर्वदूषणस्य कथासमाप्तिहेतुत्वम् । तदुपस्थितेर्व्यवहितत्वात् । अत एव न प्रतिज्ञाहानिस्तत्त्वेनोद्भावनीया । प्रथमोपस्थितसंवादपरित्यागे कारणाभावात् । तस्याः प्रतिज्ञातसाधनविषयकेच्छाभावरूपेण तस्याहङ्कारखण्डनपदार्थत्वेन तज्ज्ञापकत्वाच्च संवादस्य निग्रहस्थानत्वमावश्यकमेव । जिज्ञासितानुक्तिर्नासङ्गतिः किन्तु तद्भिन्नानुक्तिरेव । सा तु तत्त्वेनोद्भाव्या । तूष्णींस्थितिकालोऽसङ्गत्युद्भावनस्य कैरप्यनङ्गीकाराज्जिज्ञासितहेतुमुक्त्वा तत्पदनिर्वचनकर्तुरसङ्गत्यभावप्रसङ्गात् । अतोऽजिज्ञासितोक्तिरेवासङ्गतिः । न्यूनता तु स्वाभिप्रायबोधकपदसमुदायाभावः । अनुक्तिस्तु तादृशपदसामान्याभाव इति तयोर्भेदः । न्यूनतास्थलेऽनुक्तिर्नोद्भावयितुं शक्या तदभावात् । अनुक्तिस्थले न्यूनताऽस्ति तथाऽपि नोद्भावनीया । पदसामान्याभावरूपानुक्तेरेव प्रथममुपस्थितत्वात् । तस्या हेतुत्वे समुदायपदवैय्यर्थ्याच्च । न चाखण्डाभावघटकतया सार्थक्यम् । समुदायत्वघटितबहुपदार्थज्ञानाधीनज्ञानत्वेन प्रतिपत्तिगौरवरूपदोषसत्त्वेन वक्तुर्निग्रहसम्पादकत्वेन दोषत्वात् । कथायां हेतुवाक्ये समुदायपदं प्रयुञ्जत आधिक्येन निग्रहप्रसङ्गश्च । तस्माद्विरोधोऽसङ्गतिर्न्यूनताऽऽधिक्यं संवादोऽनुक्तिरिति षडेव निग्रहस्थानानि । अन्येषां पराजयनिमित्तत्वेऽपि सभायामनुद्भावनीयानीत्यर्थः। नैयायिकाभिमतानां निग्रहस्थानानामत्रैवान्तर्भावं वक्तुं तन्मतमनुवदति । तत्रादौ निग्रहस्थानसामान्यलक्षणमाह ।। कथायामिति । उपलक्षणमेतत् । परस्याशक्तिर्विपर्ययाज्ञानादीनि च पराजय इति ज्ञातव्यम् ।। अहङ्कारखण्डनं चेति । सङ्कल्पभ्रंश इच्छाभावः । ननु स्वपक्षसाधनपरपक्षदूषणसङ्कल्पस्येष्टसाधनविषयकेच्छारूपत्वेन तद्विषयकेच्छाऽनुवर्तत एव । परन्तु शक्त्यभावान्न विषयसिद्धिः । तस्या एव तदिच्छानिवर्तकत्वं न तु विषय सिद्ध्यनुकूलशक्त्यभावस्य तावज्ज्ञानस्य वा पूर्वशक्त्यभावज्ञाने विवेकिनामिच्छैव नोदेति । तथा चोक्तसङ्कल्पभ्रंशनिमित्तत्वं निग्रहस्थानानां सम्भवति । न च सङ्कल्पो नेच्छारूपः किन्तु मनोवृत्तिविशेषः । अथवाऽहङ्कारो नाम गुणान्तरं वेति वाच्यम् । गुणानां चतुर्विंशतित्वनियमवादिनां नैयायिकानां मते गुणान्तरस्य वक्तुमशक्यत्वात् । तन्मते मनोवृत्तिरूपाहङ्कारादेरभावाच्चेति चेत् । तादृशशक्तिमत्त्वनिश्चयपूर्वकेच्छैव सङ्कल्पपदार्थो नेच्छामात्रम् । तादृशभ्रमनिवृत्तौ तु तादृशेच्छाया निवृत्तिर्भवत्येवातो न दोषः । तादृशनिश्चय एव वा सङ्कल्पः । तादृशेच्छासाध्यप्रत्यत्नः सङ्कल्प इति केचित् । अप्रतिपत्तिर्विप्रतिपत्तिर्वा निग्रहस्थानमिति गौतमसूत्रानुसारेणाह ।। परोक्तेति । अज्ञानविपर्ययज्ञानद्वारैवा शक्त्यादिज्ञापकत्वमिति भावः ।

वाक्यार्थमञ्जरी

।। स्वक्रियाविरोध इति । ननु स्वक्रियास्वन्यायविरोधयोः कथं स्ववचनव्याहतित्वम् । स्वक्रियास्वरीत्योः स्ववचनत्वासम्भवादिति चेन्न । स्ववचनलक्षणे क्रियाया एव स्वक्रियात्वेन स्ववचनाभिप्रेतन्यायस्यैव स्वन्यायत्वेनोक्ततया तद्विरोधयोः स्ववचनव्याहतित्वसम्भवात् ।। कथायामिति । अनेकविद्वत्कर्तृकविचारगोचरो वाक्यप्रबन्धः कथा सा त्रिविधा । वादजल्पवितण्डाभेदात् । तत्त्वबुभुत्सुकथा वादः । स्वपक्षसाधनोपेतविजिगीषुकथा जल्पः । तद्रहितविजिगीषुकथा वितण्डा । अपस्मारो भूतावेश उन्मादो मद्यपानादिप्रयुक्तोन्मत्तता ।। पुरःस्फूर्तिरिति । पुरतः स्फूर्तिर्यस्यासौ पुरःस्फूर्तिकः । स चासौ कथामनधिकृततदुद्भावितानीत्यर्थः ।

श्रीविट्टलभट्ट

जातिर्नाम केति जिज्ञासायामाह ।। स्ववचन एवेति । स्ववक्तृवचन एव व्याहतिर्मिथो विरोधो जातिरित्यर्थः । पूर्वाचार्यैः स्ववचनयोर्विरोधरूपापसिद्धान्तव्यवच्छेदायैवकारोपादानम् । साधर्म्यवैधर्म्योत्कर्षापकर्षसमादिपरोदीरितजातीनां जातित्रयेऽन्तर्भावज्ञापनाय जातिविभागमाह ।। सा त्रिविधेति । एकवक्तृकवाक्यावान्तरवाक्ययोरन्यतरस्य मिथो व्याघातः परस्परं विरोध इत्यर्थः ।। स्वक्रियाविरोध इति । स्वक्रियायाः स्ववचनविरोध इत्यर्थः । न च विरोधो मानस्वभावाभ्यामिति प्रमाणलक्षणोक्तेः स्ववाक्येन विरोध एव स्ववचनविरोधः । तथा च स्वक्रियाविरोधस्य कथं स्ववचनविरोधभेदत्वं कथं स्ववचनेन स्ववचनव्याहतिरूपाया जातिस्तत्त्वमिति वाच्यम् । स्ववचनक्रियाया विरोधः स्वक्रियाविरोधः । स्ववक्तृकवचने स्ववक्तृवचनप्रतियोगिकविरोधो जातिरिति चाभ्युपगमात्स्ववचनस्य प्रतियोगिकोटौ निवेशेनास्य स्ववचनविरोधप्रभेदत्वजातित्वयोः सम्भवात् । अत एव प्रमाणलक्षणटीकायां द्वितीयजातेरपीदमुदाहरणं जातिरिति । न मेयं मानसापेक्षमिति वदति प्रमाणं चाभिधत्तेऽतो मूकोऽहमिति । स्वक्रियाविरोध इत्यनेन स्ववचनं क्रियया विरोधस्य स्वक्रियाविरोधत्वमुक्तम् ।। स्वन्यायविरोधश्चेति । इति पूर्वेणान्वयः । स्वन्यायेन स्ववचनन्यायेन स्ववचनमस्य विरोधश्चेत्यर्थः । एतेन खन्यायविरोधस्य कथं स्ववचनविरोधत्वं जातित्वं चेति चोद्यं निरस्तम् । स्ववचनस्यापि प्रतियोगिकोटौ निवेशाभ्युपगमात् । यद्वा स्वक्रियाविरोध इत्यस्य स्वक्रियाविरोधः स्ववचनेन विरोध इत्यर्थः । जातिलक्षणवाक्ये स्ववचनपदं स्वक्रियास्वन्याययोरप्युपलक्षणम् । तथा च स्ववचःस्वक्रियास्वन्यायेषु व्याहतिः स्ववचनप्रतियोगिको विरोधो जातिरित्यर्थः । स्वरूपासिद्ध्यादेर्हेतुविरोधान्तर्भावज्ञापनाय हेतुविरोधविभागमाह ।। हेतुविरोधोऽपीति । अत्र हेतुपदं लिङ्गमात्रपरम् । प्रतिज्ञाविरोधवद्धेतुविरोधोऽपि स्वरूपासिद्धिर्व्याप्त्यभावश्चेति द्विविध इत्यर्थः । पक्षधर्मत्वप्रमित्यभावोऽसिद्धिरिति भ्रान्तिवारणायासिद्धिशब्दार्थमाह ।। समुचितस्थल इति । यत्र प्रमितं लिङ्गं विवक्षितस्थले साध्यप्रमाञ्जनयति तदेव लिङ्गस्योचितस्थलं तस्मिन्नित्यर्थः । प्रत्यक्षसिद्धिसङ्ग्रहाय प्रमितिग्रहणं कृतम् । साधारणानैकान्तिकविरुद्धासाधारणानैकान्तिकानध्यवसितानामव्याप्तावन्तर्भावज्ञापनाय हेतुविरोध विभागमाह ।। अव्याप्तिस्त्रिविधेति । तदभावेन च साध्याभावेन च सम्बन्धितदधिकरणवृत्तित्वरूपसाध्याभावसम्बन्ध्यव्याप्त्यभाव इति वाच्यम् । साध्यसमानाधिकरणहेतुनिष्ठनियतसामानाधिकरण्यरूपसम्बन्धपर्यवसन्नाविनाभावव्याप्तिभङ्गप्रतिपादनपरमित्यङ्गीकारेणोक्तचोद्यानवकाशात् ।। उभयसम्बन्धाभावश्चेति । इति त्रिवेधेति पूर्वेणान्वयः । लिङ्गस्येत्यनुवर्तते । साध्यसाध्याभावाभ्यां सहावस्थानरूपसम्बन्धाभाव इत्यर्थः । इदं पक्षातिरिक्तस्थल इत्यवगन्तव्यम् ।। दृष्टान्तविरोधोऽपीति । व्याप्तिग्रहणस्थलं दृष्टान्तस्तद्विरोधोऽपि हेतुविरोधवत्साध्यराहित्यं साधनराहित्यं चेति द्विविध इत्यर्थः । ननु लिङ्गवचने हेतौ स्ववचनविरोधः कुतो नोक्त इत्यत आह ।। हेत्वादाविति । दृष्टान्तवचनमादिशब्दार्थः । असिद्ध्यादिनेत्यत्रादिपदेनाव्याप्तिसाध्यवैकल्यसाधनवैकल्यान्युच्यन्ते । तथा च मूकत्वे सति वक्तृत्वादित्यादौ हेतावसिद्ध्यव्याप्तिभ्यां यथा मातृत्वे सति वन्ध्येति दृष्टान्तवचने साध्यवैकल्यसाधनवैकल्याभ्यां स्ववचनविरोधः सङ्गृहीतः क्रोडीकृत इति हेतोर्नोक्त इत्यर्थः । हेतुदृष्टान्तयोरर्थदोषोक्त्या स्ववचनविरोधस्तत्र सुज्ञान इति नोक्त इति भावः । यद्यपि माता वन्ध्येति प्रतिज्ञायामपि स्ववचनविरोधोऽपि सङ्गृहीत इति न वक्तव्यः । तथाऽपि स्ववचनविरोधः सापसिद्धान्तजातिभेदेन द्वैविध्यज्ञापनार्थं तदभिधानमिति बोध्यम् । अर्थान्तरनिग्रहस्थानमसङ्गत्यादावन्तर्भाव इति ज्ञापनायासङ्गत्यादि विभागमाह ।। एवमसङ्गतीति । यथा विरोध इति ज्ञातेन दृष्टान्तसम्बन्धभेदेन त्रिविधानीत्यर्थः । अर्थवचनरूपानुमानदोषाणां प्रतिज्ञाविरोधादीनामुदाहरणानि कानि के च कथारूपसाधारणविरोधादय इति जिज्ञासायामाह ।। एतेषामिति । विरोधादींश्चासङ्गतिन्यूनाधिक्यान्यादिशब्दार्थः । ननु परोदीरितानामर्थवचनरूपानुमानदोषाणां विरोधासङ्गतिन्यूनाधिकैः सङ्गृहीतत्वादवाच्यत्वे परोदीरितनिग्रहस्थानानामेतेष्वन्तर्भावात्तानिपृथग्वक्तव्यानीत्यत आह ।। न केवलमुपपत्तिदोषाणामिति । दोषाणामिति । नन्वर्थवचनदोषेषु विरोधादिष्वर्थ वचनदोष रूपनिग्रहस्थानानामन्तर्भावसम्भवेऽपि वक्तृदोषात्मकनिग्रहस्थानानां तत्रान्तर्भाव इत्यत आह ।। वक्तृदोषाभ्यामिति । तर्हि प्रधाननिग्रहस्थानानि कियन्तीति जिज्ञासायामाह ।। ततश्चेति । यस्मात्परोदीरितनिग्रहस्थानानि विरोधादिष्वन्तर्भूतानि । ततस्तस्मादेव विरोधादीनि षडेव निग्रहस्थानानि च न न्यूनाधिकानीत्यर्थः । संवादानुक्ति स्वरूपजिज्ञासायां तत्स्वरूपमाह ।। विप्रतिपन्नेति । अत्र विप्रतिपन्नप्रमेयाङ्गीकारस्यादोषत्वात्तद्य्ववच्छेदायेदं विशेषणम् ।। परबोधनार्थस्येति । इदं च विशेषणमबोधकशब्दप्रयोगरूपनिरर्थकादिसङ्ग्रहार्थमुक्तम् । परबोधनोपयुक्तस्याप्यवक्तव्यस्य यद्वचनं प्रकृतानुपयुक्तान्वितोक्तिरर्थान्तरं तत्सङ्गृहार्थं वक्तव्यस्येति विशेषणम् । निग्रहस्थानलक्षणं वक्तुं निग्रहस्वरूपं निरूपयति ।। कथायामिति । विचारगोचरानेकविद्वद्वाक्यविस्तरः कथा । तस्यामखण्डिताहङ्कारेण वादिप्रतिवादिनोरन्यतरस्याहङ्कारखण्डनं पराजयनिग्रहपदाभ्यामुच्यत इत्यर्थः । पराजयनिमित्तं निग्रहस्थानमित्येतन्न लक्षणान्तरमिति ज्ञापनाय पराजयपदोपादानम् ।। तन्निमित्तमिति । पराजयापरनामकनिग्रहहेतुनिग्रहस्थानमित्यर्थः । नन्वहं धनी कुलीन इत्याद्यहङ्कारस्यानेन निवृत्तेः कथं तन्निमित्तं निग्रहस्थानमुच्यत इत्यत आह ।। अहङ्कारखण्डनं चेति । अहङ्कारखण्डनं तु खसिद्धान्तसाधनं परसिद्धान्तदूषणं च करिष्यामीति तयोर्यः सङ्कल्पस्तस्य निवृत्तिरित्यर्थः । नन्वहङ्कारखण्डनरूपपराजय हेतुरूपनिग्रहस्थानमित्येवास्तु किं कथायामित्यादिविशेषणप्रक्षेपेणेत्यतस्तद्य्वावर्त्यानाह ।। अत एवेति । निग्रहस्थानलक्षणे कथायामित्यादिविशेषणोपादानमेवेत्यर्थः । अस्यामवच्छिन्नानीत्यनेनान्वयः । कथायामित्यनेन कथाबहिर्भूतानां सखिसब्रह्मचारिणां विनोदप्रसङ्गे प्राप्तानि प्रतिज्ञादीन्यखण्डिताहङ्कारेणेत्यनेन कथायामपस्मारोन्मादग्रहावेशवृश्चिकवेधाद्यवस्थायां प्राप्तान्यहङ्कारखण्डने निमित्तान्यप्रतिभादीनि । उन्मत्ताद्यभावेऽपि सभादर्शनप्रयुक्तबुद्धिक्षोभादविलम्बेनोत्तरापरिस्फूर्त्या क्षणमात्रं तु तूष्णीमवस्थानेन प्राप्तावकाशवन्त्यपि खटितिसंवरणेन शीघ्रं तदाच्छादनेन प्रसिद्धोद्भावनावसरवन्त्यननुभाषणादीनि पुरःस्फूर्तिकैः प्रतिभाविशेषसम्पन्नैरनधिकृतैः कथाधिकारहितैर्वादिप्रतिवादि प्राश्निकव्यतिरिक्तैरुद्भावितानि प्रतिज्ञाहान्यादीनि च व्यावर्तितानीत्यर्थः । यद्यपि कथातिरिक्तविनोदप्रसङ्गेषु प्राप्तानां प्रतिज्ञाहान्यादीनां कथायामप्यपस्मारादिदशाप्राप्तानाम प्रतिभादीनां कथानधिकृतेन तटस्थेनोद्भावितानां प्रतिज्ञाहान्यादीनां चाहङ्कारखण्डन निमित्तत्वान्यव्यवच्छेद्यता तथाऽप्यखण्डिताहङ्कारेण वादिप्रतिवादिनोरन्यतरेणैकेनापरस्याहङ्कारखण्डनरूपपराजयोद्देशेन कथाप्रवृत्तेः । कथायामखण्डिताहङ्कारेणैकेन परस्याहङ्कारखण्डनात्मा यः पराजयस्तान्निमित्तस्यैव दोषत्वात् । कथाबाह्यस्यान्यतरप्राप्तस्याहङ्कारखण्डनमितित्तस्य दोषत्वमेवेति युक्तमेव तस्य व्यवच्छेद्यत्वमित्यनुसन्धेयम् । तत्त्वाप्रतिपत्तिलिङ्गनिग्रहस्थानमिति लक्षणान्तरमभिप्रेत्याह ।। परोक्तस्ववक्तव्ययोरिति । विपरीतज्ञानमर्थं वैपरीत्येन ज्ञानमयथार्थज्ञानमिति यावत् । विरोधासङ्गती न्यूनाधिके संवादानुक्तीति षडेव निग्नहस्थानानीत्युक्तम् ।