प्रमाणपद्धतिः

(४) प्रमाणपद्धतिः

यथा गोः सास्नादिमत्त्वम् । तद्धि गोषु सर्वत्रास्ति नास्ति चागोषु । अन्यथाभूतं त्वलक्षणम् ।

जयतीर्थविजय

लक्षणं ृङ्गग्राहकतयोदाहृत्य दर्शयति ।। यथेति ।। सास्नादिमत्त्वमिति । गलकम्बलादिमत्त्वमित्यर्थः । आदिशब्देन लाङ्गूलककुत्खुरविषाणादीनां ग्रहणम् । यथा गोः सास्नादिमत्त्वं लक्षणं स्पष्टं भवति तथोच्यत इति शेषः । तदेव दर्शयति ।। तद्धीति । नन्वत्र लक्षणलक्ष्यादिशब्दास्समभिव्याहृतगवादितत्तल्लक्ष्यादिपराः । न तु यत्किञ्चिल्लक्ष्यादिमात्रपराः । अन्यथा गोलक्षणस्य सास्नादीमत्त्वस्य प्रमाणलक्षणकथनदशायां लक्ष्ये चक्षुरादावभावेनालक्षणत्वापत्तेः । एवं च सास्नादिमत्त्वस्य गोलक्षणत्वं नाम गवेतरावृत्तित्वे सति सकलगोवृत्तित्वम् । एवं च यथार्थत्वस्य प्रमाणलक्षणत्वं नाम प्रमाणेतरावृत्तित्वे सति सर्वप्रमाणवृत्तित्वम् । एवमेव लक्ष्येतरावृत्तित्त्वे सति सकललक्ष्यवृत्तित्वस्य लक्षणलक्षणत्वं नाम यावदलक्षणावृत्तित्त्वे सति सर्वलक्षणवृत्तित्वमिति पर्यवसितम् । तत्र किं नामालक्षणमिति जिमासायामाह ।। अन्यथाभूतमिति । पूर्वोक्तलक्षणलक्षणरहितमित्यर्थः । लक्षणलक्षणराहित्यं चासम्भविनि लक्ष्यवृत्तित्वरूपविशेषणाभावात् । अव्यापके सर्वलक्ष्यवृत्तिस्वरूपविशेषणाभावात् अतिव्यापकेऽलक्ष्यावृत्तित्वरूपविशेषणाभावात् । यथा पुरुषमात्रसत्त्वेऽपि दण्डाभावेन दण्डविशिष्टपुरुषाभाव इति द्रष्टव्यम् । तुशब्दो विशेषार्थः ।

भावदीपः

।। यथेति । यथा स्पष्टं भवति तथैतदुदाहरणनिष्ठतया प्रदर्श्यत इत्यर्थः । एवमग्रेऽपि । सास्नादिमत्त्वं लक्षणमित्यनुषङ्गः ।। तद्धीति । हिर्हेतौ । यस्मादेवं तस्मादेतल्लक्षणमिति प्रसिद्धौ वा । लक्ष्ये वर्तत इति व्याप्त्येत्यन्यत्र न वर्तत इति विशेषणत्रयस्यासम्भव्यव्यापकातिव्यापकरूपालक्षणत्रयं व्यावर्त्यमिति भावेन तत्त्रयस्वरूपं सामान्योक्तिविभागविशेषोद्देशपूर्वकमाह ।। अन्यथाभूतं त्विति । लक्ष्ये व्याप्त्येत्याद्युक्तादन्यथा प्रकारान्तरेण । सर्वथाऽवर्तमानत्वं कार्त्स्न्येनावर्तमानत्वम् । अन्यत्र वर्तमानत्वं च भूतं प्राप्तम् । भूप्राप्तावित्युक्तेः तदलक्षणमित्यर्थः ।

श्रीविजयीन्द्रतीर्थ

सामान्यं विना विशेषापर्यवसानाल्लक्षणसामान्यलक्षणं क्वचिद्विशेषे योजयति ।। यथेति ।। तद्धीति । यद्यपि सास्नात्वं नैकं तथाऽपि सास्नात्वनिष्ठसादृश्यप्रतियोगिधर्मवत्तया वा सास्नानिष्ठसादृश्यप्रतियोगित्वेन वा सास्नानामनुगममभिप्रेत्य तथोक्तमिति ध्येयम् ।। अन्यथाभूतं त्विति । लक्ष्येतरावृत्तित्वविशिष्टसकललक्ष्यवृत्तित्वाभाववान्धर्मो अलक्षणम् । लक्ष्यतावच्छेदकाभिव्यङ्ग्यसादृश्यप्रतियोगीतरवृत्तिवृत्तिसादृश्यानेकरूपकत्वविशिष्टलक्ष्यतावच्छेकाभिव्यङ्ग्यसादृश्यप्रतियोगियावद्वृत्तिवृत्तिसादृश्यप्रतियोगित्वाभाववान्धर्मोऽलक्षणमित यावत् । एतेन परोद्भाव्यप्रतियोग्यप्रसिद्धिर्यथाश्रुते स्यादित्यादिदूषणं परास्तम् । विशेषणाद्यभावप्रयुक्तो विशिष्टाभावः सर्वत्रालक्षणेऽनुगत इति ।

श्रीवेदेशभिक्षु

उक्तलक्षणं ृङ्गिग्राहकतया दर्शयति ।। यथेति । तत्रोक्तं लक्षणमुपपादयति ।। तद्धीति । अत्रापि नैकं सास्नादिमत्त्वं सर्वगोवृत्ति किन्तु प्रातिस्विकमेव । तच्च सामान्यरूपेण तत्र तत्र गवि वर्तत इत्यर्थः । न च सास्नादिमत्त्वस्य प्रातिस्विकस्य तत्तव्द्यक्तिरूपस्य कथं सामान्यरूपत्वमिति वाच्यम् । प्रातिस्विकस्यापि तस्य विशेषबलेन सामान्यरूपतोपपत्तेः । उक्तं हि भगवत्पादैः ।

अतो विशेषसामान्यरूपं सर्वमपीष्यते ।

व्यावृत्तं यच्च सामान्यं तदेव स्यद्विशेषत ।। इति ।

अन्यथा परमतेऽपि समान्यादिकं सदिति सामान्येनोक्तिर्न स्यात् । तत्रापि सत्त्वस्य प्रातिस्विकतया तत्तत्स्वरूपत्वाङ्गीकारादिति द्रष्टव्यम् । एवं च प्रातिस्विकस्यापि सास्नादिमत्त्वस्य गोलक्षणत्वे तत्समनियतद्रव्यत्वादेरपि गोलक्षणत्वं स्यात् । सास्नादिमत्त्वस्य च द्रव्यत्वसमनियतस्य द्रव्यलक्षणत्वं स्यादिति कस्यचिद्दूषणमलग्नकं वेदितव्यम् । यदि हि सास्नादिमत्त्वादिकं प्रातिस्विकरूपेण लक्षणं स्यादित्युक्तदोषशङ्कावकाशः । न चैवम् । किन्तु प्रातिस्विकमपि तदुक्तरीत्या सामान्यरूपेणैव लक्षणम् । न च द्रव्यत्वसास्नादिमत्त्वयोः सामान्येन परस्परं समनियमोऽस्तीति ।। अन्यथाभूतमिति । लक्ष्ये व्याप्त्या वर्तमानत्वविशिष्टान्यत्रावर्तमानत्वाभाववान्धर्म इत्यर्थः । तेन विशिष्टाभावः सर्वत्रालक्षणेऽनुगत इति नाननुगमशङ्केति ध्येयम् ।

अभिनवामृतम्

किं लक्षणं कथं तदुक्तलक्षणोपेतमिति पृच्छति ।। यथेति । आद्यस्योत्तरमाह ।। गोः सास्नादिमत्त्वमिति । अनेनोदाहरणप्रदर्शनस्य सास्नादिमत्त्वमित्यनेनैव पूर्णत्वाद्गोरिति व्यर्थमिति परास्तम् । अनेनैवासिद्धबोधनाय सिद्धस्यैव दृष्टान्तीकर्तव्यत्वात्सास्नादिमत्त्वलक्षणभावस्याद्याप्यसिद्धत्वाद्यथा गोःसास्नादिमत्त्वमिति दृष्टान्तीकरणमयुक्तमिति परास्तम् । यथेत्यनेन कस्य किं लक्षणमिति प्रश्ने कृते तदुत्तरतया गोःसास्नादिमत्त्वमित्यस्य प्रवृत्तिरित्यङ्गीकारात् । द्वितीयप्रश्नस्योत्तरमाह ।। तद्धीति । अस्तीत्यनन्तरमित्युपचर्यत इति शेषः । तत्सास्नादिमत्त्वं गोषु सर्वत्र सर्वेषु गोष्वस्तीति सम्बन्धः । एतेन सास्नादिमत्त्वस्य गोप्रदेशवृत्तित्वेन सर्वावयवृत्तित्वाभावाद्गोषु सर्वत्रास्तीत्यनुपपन्नमिति परास्तम् ।। अन्यथाभूतमिति । उक्तविशेषणद्वयमध्ये यदेकेनापि विशेषणेन हीनं तदलक्षणमित्यर्थः । त्रिविधमित्यतःपरमसम्भव्यव्यापाकमतिव्यापकं चेति ग्राह्यम् ।

वाक्यार्थमञ्जरी

।। तद्धीति । तज्जातीयमित्यर्थः ।। गोषु सर्वत्रेति । सर्वगोपिण्डेष्वित्यर्थः ।

श्रीविट्टलभट्ट

।। अन्यथाभूतं त्विति । लक्ष्येतरावृत्तित्वे सति लक्ष्ये व्याप्त्या वर्तमानत्वरूपलक्षणरहितमित्यर्थः । एतदभावश्च लक्षणे एकशफत्वादौ लक्ष्यवृत्तित्वाद्यभावप्रयुक्त इत्यनुसन्धेयम् । तुशब्दस्यालक्षणं त्वित्यन्वयः ।